॥अथ शास्त्रविरोधपरिहारवादः एकोनत्रिंशः ॥29॥
विदितमनुवदन्तो विश्वमेतद्यथावद्विदधति निगमान्ताः केवलं यन्मयत्वम् ।
अविदितबहुभूमा नित्यमन्तर्विधत्तां हयवरवदनोऽसौ सन्निधिस्सन्निधिं नः ॥
यदाहुः - शास्त्रप्रत्यक्षयोर्विरोधे शास्त्रं बलीयः ।
अन्यथाऽद्वैतशास्त्रस्य प्रामाण्योच्छेदप्रसङ्गात्, अपरोक्षदेहात्मभ्रमादेश्च दुर्निरासत्वापातात् ।
न चात्र विरोध एव न सम्भवतीति वाच्यम्, भेदप्रपञ्चगोचरत्वतन्निषेधाभ्यां विरुद्धविषयत्वोपलम्भात् ।
न च देशकालस्वरूपादिभेदेन निषेधः सङ्कोचमर्हति, “नेह नानास्ति किञ्चन’’, (बृह.6 - 4 - 9) “तस्मान्न विज्ञानमृतेऽस्ति किञ्चित्क्वचित्कदाचिद्विज वस्तुजातमि’’ (वि.पु.2 - 12 - 43) त्यादिभिस्सर्वदेशसर्वकालवर्तिनां ब्रह्मव्यतिरिक्तवस्तूनां सर्वप्रकारनिषेधोपलम्भात् ।
“त्रय आवसथास्त्रयः स्वप्ना’’ (?) इति च स्वप्नस्येव जागरसुषुप्त्योरपि मिथ्यात्मेव ह्युच्यते ।
नच जागरादिवत्स्वप्नस्यापि सत्यत्वमुच्यत इति विपरिवर्तः, स्वप्नशब्देनैव तयोरुपचरितत्वात् ।
स्वप्नशब्दस्य च मिथ्यार्थे लोकप्रसिद्धत्वात् ।
अन्यत्र तदभावात् ।
न ह्यावसथशब्दस्सत्ये प्रसिद्धः ।
न च भेदविधायकश्रुतिबलात् भेदनिषेधकश्रुतीनामन्यपरत्वम्, निषेधस्यैव प्रसङ्गसापेक्षत्वेन विध्यपेक्षया परत्वात् अपच्छेदन्यायेन बलीयस्त्वात् ।
नच सिद्धवस्तुविषययोस्समुच्चय - विकल्पादिसम्भव इति निर्गुणवादे निरूपितम् ।
अतोऽत्यन्तविरोधे रज्जवधिकरणसर्पभूविदलन - वत्कम्बुकलधौतवच्चोभयबाधोऽन्यतरबाधो वाऽवश्यम्भावी ।
तत्र नाद्यस्सम्भवति, पारमार्थिकत्वा पारमार्थिकत्वातिरिक्तकोटिदर्शनाभावात् ।
निषेधकतया परस्य चशास्त्रस्यनिषेधकान्तरादर्शनात् ।
न च विधिरेव निषेधस्य निषेध इति वाच्यम्, तस्य स्वरूपतस्स्वार्थावगाहित्वात् ।
निषेधस्य तु प्रतियोगिप्रतिक्षेपात्मकतयैव स्वरूपलाभः ।
विनाशादिषु कथमिति चेन्न; तत्रापि प्रतियोग्यपेक्षत्वात् ।
विनाशादिषु शब्देषु नास्तिशब्दस्य गोचरः ।
नञुपश्लेषवैधुर्यात् केवलं प्रतिपद्यते ॥
अतोऽन्यतरबाधोऽवशिष्यते ।
बाधश्च बलवता दुर्बलस्यैव ।
न च प्रत्यक्षपरोक्षयोः प्रत्यक्षत्व परोक्षत्वाभ्यामेव प्राबल्यदौर्बल्ये, शुक्तिप्रत्यक्षेण शुक्तिरजतप्रत्यक्षबाधस्य दीपशिखादिभेदानुमानेन दीपैक्यप्रत्यभिज्ञानबाधस्य च परित्यागप्रसङ्गात् ।
न चोपजीव्योपजीवकाभावात्प्रत्यक्षशास्त्रयोः प्राबल्यदौर्बल्ये; व्याप्तिग्राहकप्रत्यक्षोपजीविनाऽनुमानेन ज्वालैक्यप्रत्यक्षबाधस्योक्तत्वात् ।
नच पूर्वत्वादुपक्रमवत् प्रत्यक्षप्राबल्यम्, पूर्वत्वमात्रस्यापच्छेदे परस्यैव प्राबल्यनिश्चयेनाप्रयोजकत्वात् ।
न च परत्वस्य बाधप्रयोजकत्वे माध्यमिकमर्यादया त्रय्यन्तानामपि बाध्यत्वमिति वाच्यम्, परत्वमात्रस्य बाधकत्वेनानुपन्यासात् ।
अन्यथा द्विचन्द्रज्ञानादिना प्राक्तनचन्द्रैकत्वज्ञानादिबाधप्रसङ्गात् ।
तस्माद्वयोर्ज्ञानयोर्विरोधे सावकाशत्वादन्यथासिद्धं बाध्यम्, अनवकाशत्वादनन्यथासिद्धं बाधकम् ।
अवकाशश्चाविरुद्धविषयलाभोऽप्रमाणकोटिनिवेशो वा ।
तत्र पूर्वस्येहासम्भवो दर्शितः ।
उत्तरस्तु कारणदोषे पर्यवसितः ।
न च शास्त्रजन्यज्ञानस्य दुष्टकारणप्रसूतत्वम्, कर्त्रभावेनैव भ्रमविप्रलम्भप्रमादाशक्ति मूलत्वशङ्कोच्छेदात्; अविच्छिन्नसम्प्रदायत्वेन शैथिल्यावापोद्वापादिविचारवैदेशिकत्वात्; उपबृंहणब्रह्ममीमांसाद्यनुग्रहेण प्रतिपत्तृदोषाणामपि निर्मूलत्वात् ।
अतश्शब्दप्रमाणदोषतयासम्प्रतिपन्नसमस्तसम्भावनाविरहे शास्त्रजन्यज्ञानस्य निर्दोषकारणप्रसूतत्वेन प्रामाण्यात् प्राबल्यं प्रतिष्ठितम् ।
न च प्रत्यक्षदोषतया सम्प्रतिपन्नकाचकामीलादिदोषविरहात् गगनपवनदहनसलिलवसुधा - दिगोचरप्रत्यक्षस्यापि प्राबल्यं स्थितमिति वाच्यम्, भेदवासनायाः प्रत्यक्षदोषत्वेन वासनामूलभेदभ्रमे दृष्टत्वात्; भेदवासनायाश्च बीजाङ्कुरन्यायेन प्रवाहानादितया तत्तत्प्रत्यक्षमूलत्वोपपत्तेः ।
अतो दुष्टकारणप्रसूतं भेदज्ञानं निर्दोषनिगमान्तजन्मना निर्विशेषाद्वैतज्ञानेन बाध्यत इति ।
अत्रोच्यते ।
यदुक्तम् - शास्त्रबलीयस्त्वाभावे सत्यद्वैतशास्त्रप्रामाण्योच्छेदप्रसङ्ग इति, तदसत्; प्रत्यक्षाविरोधिन्येवाद्वैते द्वैते वा तत्प्रामाण्यस्य निर्वाह्यत्वात् ।
यच्च प्रत्यक्षप्राबल्ये देहात्मभ्रमादौ दुर्निरसत्वमिति, तदयुक्तम्; देहात्मभेदप्रत्यक्षानुसारिणैव शास्त्रेण तन्निरसनात् ।
अन्यथा प्रत्यक्षाच्छास्त्रस्य बलीयस्त्वे यूपादित्यैक्यवाक्येन यूपादित्यभेदग्राहिप्रत्यक्षबाधप्रसङ्गात् ।
यच्चोक्तं निषेधस्य सर्वविषयत्वोपलम्भेन सङ्कोचो न युज्यत इति, तदपि मन्दम्; सर्वविषयत्वे सत्येव हि प्रमाणान्तरविषयात्
सङ्कोचो युज्यते ।
अन्यथा न हिंस्यादित्यस्याग्नीषोमीयवाक्येनापि सङ्कोचो न स्यात् ।
न चात्र प्रत्यक्षविरोधमात्रेण सङ्कोचः, प्रकरणाद्यापन्नविशेषेणापि तत्सिद्धेः ।
तथा हि यत्र परमात्मानं प्रतिअपृथक्सिद्धत्वं विवक्षितम्, तत्र प्रपञ्चस्य स्वातन्त्र्यनिषेधे तात्पर्यम्, न तु ब्रह्मविशेषणभूतसमस्तनिषेधे ।
यथैक एव देवदत्तस्तिष्ठति नान्यत् किञ्चिदित्युक्ते तत्तुल्यपुरुषान्तरनिषेधे
तात्पर्यम्, न पुनस्तदवयवगुणजात्यादिनिषेधे ।
तदुक्तं संवित्सिद्धौ -
“यथा चोलनृपः सम्राडद्वितीयोऽस्ति भूतले ।
इतितत्तुल्यनिवृत्तिनिवारणपरं वचः ॥
न तु तत्पुत्रतद्भृत्य कलत्रादि वारणं’’ ॥ इति
यत्र पुनर्जीवानां स्वाभाविकस्वरूपप्रतिपादने तापर्यं तत्र देहात्मभ्रमप्रतिक्षेपाय देहादेस्तस्मिन्नध्यस्तत्वमात्रमुच्यते ।
न पुनस्स्वरूपेण मिथ्यात्वम् ।
यथा शुक्तौ रजतस्याध्यस्तत्वेन शुक्तिरजतमिथ्यात्वम्, न रजतमात्रमिथ्यात्वं तद्वत् ।
यत्र तु जीवानां परिशुद्धानां परस्परसाम्ये तात्पर्यं तत्र देवादिरूपस्य तत्प्रयुक्तसुखदुःखादिरूपस्य च वैधर्म्यस्यौपाधिकत्वेन
स्वाभाविकत्वनिषेध एव क्रियते ।
यथैकजातीयानां रक्तानामुपरञ्जकद्रव्यान्तरसंसर्गप्रयुक्तवर्णवैषम्यादेरस्वाभाविकत्वमुच्यते ।
निर्गुणवादादेश्च हेयगुणनिषेधे तात्पर्यमित्यन्यत्र स्थितम् ।
सदेवेत्यादि च सद्विद्यानिरूपणसुगमार्थम् ।
एवं सर्वत्रोह्यम् ।
यत्पुनः “त्रयस्स्वप्ना’’ (?) इति जागरसुषुप्त्योरपि स्वप्नसाम्यमुच्यत इति, तत्र जागरसुषुप्त्योस्स्वप्नसाम्ये विवक्षितेऽपि न मिथ्यात्वाकारेण साम्यमिति पश्यामः ।
यथा पैङ्गल्यातिशयविवक्षया कश्चिदग्निर्माणवक इत्युपचरति, कश्चिदूष्मलत्वविवक्षया, कश्चिच्च तपश्चर्यादिप्रयुक्तपरिशुद्धिविवक्षया, एवमत्रापि प्रमाणान्तराविरोधाय स्वप्नसाधर्म्यान्तरे तात्पर्यं ग्राह्यम् ।
तच्च यथा स्वप्नस्य ईश्वरसृष्टत्वेन जीवस्य कर्मानुगुमनियतदेशकालस्वरूपतत्तत्स्वप्नफलभोगादौ न स्वातन्त्र्यं तद्वज्जागरसुषुप्त्योरपि कर्मफलत्वेनेश्वराधीनत्वान्न तत्र जीवस्य स्वातन्त्र्यमित्येवमादिरूपेण प्रमाणाविरोधेन ग्राह्यमिति ।
ततश्च -
“आैपचारिकवाक्येषु योग्यमेवोपचर्यते ।
तत्तत्प्रकरणादिभ्यस्तद्विशेषोऽपि सिध्यति’’ ॥
यत्तु भेदनिषेधकश्रुतीनां भेदविधायकश्रुत्यपेक्षया परत्वेन बलीयस्त्वमिति, तत्रापि नापच्छेदन्यायविषयत्वमिति निर्गुणनिरूपणे ग्राह्यम् ।
यच्चाद्वैतगोचरशास्त्रस्य निषेधकान्तरं न दृश्यतइति; तदपि परमसुहृदं माध्यमिकं विस्मृत्योच्यते ।
स हि शून्यमेव तत्त्वमिति वदन् संविदद्वैतमपि निषेधति ।
न च तद्वाक्यं दोषमूलत्वेनाप्रमाणत्वात्परमप्यकिञ्चित्करमिति वाच्यम्, वेदान्तवाक्यस्यापि अविद्याख्यदोषमूलत्वस्य त्वयैव वर्ण्यत्वात् ।
दोषाणामवान्तरभेदस्तु न बलाबलहेतुः, भ्रमविप्रलम्भादीनामितरेतरभिन्नत्वेऽपि दोषत्वस्याविशेषात् ।
तथाऽपि प्रामाण्यभ्रमो वेदेषु बहुलमुपलभ्यत इति चेत्, किमतः? तत्त्वस्थिनिरूपणेऽनुपकारकत्वात् ।
अत एव शास्त्रप्रत्यक्षयोः प्राबल्यदौर्बल्यहेतुरपि निर्मूलः, अविद्याख्यदोषमूलत्वाविशेषात् ।
न च भेदवासना दोषः, शास्त्रतो निर्विशेषाद्वैते सिद्धे हि तद्विपरीतसंस्कारात्मनो भेदवासनाया दोषत्वकल्पनासिद्धिः, तद्दोषत्वे च सति तन्मूलात्प्रत्यक्षात्प्राबल्येन शास्त्रतो निर्विशेषाद्वैतसिद्धिरित्यन्योन्याश्रयात् ।
“शास्त्रेण निर्विशेषत्वे सिद्धे स्याद्भेदवासना ।
दोषस्तद्दोषभावे च सिद्धे स्यान्निर्विशेषधीः’’ ।
न च क्वचिद्भेदवासना दोष इति लोके सर्वत्र प्रसङ्गः, अभेदवासनायामपि तथा प्रसङ्गात् ।
तस्यापि च भेदवासनाख्यदोषस्य शास्त्रेऽपि दुस्त्यजत्वाच्च ।
अन्यथा प्रकृतिप्रत्ययपदवाक्यतदर्थादि भेदस्याकाङ्क्षासन्निधियोग्यतादिभेदस्य चानुपलम्भे वाक्यार्थविशेष प्रत्ययस्यानुदयप्रसङ्गात् ।
न च भेदवासना प्रत्यक्षस्यैव दोष इति वाच्यम्, विपरीतसंस्कारात्मना दोषत्वे क्वचिद्दोषता क्वचिन्नेति नियामकाभावात् ।
आकारान्तरेण तद्दोषत्वस्य दुष्प्रतिपादत्वात् ।
तद्दोषत्वे सति तन्मूलस्य भ्रान्तत्वम्, तद्भ्रान्तत्वे च सिद्धे तद्दोषत्वमिति च परस्पराश्रयणात् ।
प्रत्यक्षस्य भ्रान्तत्वम्, तद्भ्रान्तत्वे निर्विशेषत्वप्रतिपादनम्, तत्प्रतिपादने भेदवासनाया दोषत्वमिति चक्रकं चात्रानुसन्धेयम् ।
न चाद्वैतवाक्यार्थज्ञाने त्वभेदवासना मूलम्, अत एव ध्यानादिविध्युपयोग इति वाच्यम्; अभेदवासनाया अप्यन्ततो भेदवासनामूलत्वात् ।
न ह्यभेदज्ञानं भेदज्ञानमन्तरेण सम्भवति ।
स्वयमेव प्रतियोग्यादिभेदवासनावहत्वात्, न चाभेदवासना निष्प्रतियोगिकस्वरूपधीहेतुरिति वाच्यम्, नित्यस्फुरितस्य चिन्मात्रस्य निष्प्रतियोगिकत्वेऽपि तस्य वासनामूल त्वतन्मूलप्रत्यक्षादि विषयत्वस्या त्वयैव प्रतिक्षेपात् ।
अतो भेदनिषेधकाद्वैत वाक््यार्थज्ञानस्यापि भेदवासनामूलत्वं तदापादकत्वं च फलितम्, ततश्च तुल्यदोषत्वे किं कस्य बाधकं बाध्यं वा? किञ्चाभेदवासनाया दृष्टरूपेणादृष्टरूपेण वा तत्त्वमस्यादिवाक्याद्वाक्यार्थज्ञानोपकारकत्वम्? नाद्यः, वाक्यार्थवासनामन्तरेणापि वाक्यस्य यथासम्भवं सत्यासत्यस्वरूपस्वार्थबोधकत्वस्य भवद्भिरपि स्वीकर्तव्यत्वात् ।
उक्तं चाभियुक्तैः ।
अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हीति ।
अन्यथा क्वचिदप्यपरिचितविचित्रवाक्यार्थप्रत्ययो न स्यात् ।
तथा च सति गतं कवीनां प्रावीण्येन, भवतां च पूर्वपक्षविज्ञानेन, श्रुतीनां चाप्राप्तार्थसमर्पणसामर्थ्येन ।
नापि द्वितीयः, शक्त्युपबृंहितज्ञाननिवर्त्यत्वाकृष्टप्रपञ्चसत्यत्वभीरुभिर्भवद्भिरनभ्युपगमात् ।
अभ्युपगच्छतामप्याकाङ्क्षादित्रयपरामर्शादिरूपदृष्टसामग्रीघटनमन्तरेणादृष्टस्योपयोगाभावात् ।
अत्र चाद्वैतानुध्यानजन्यवासनामन्तरेण तत्प्रत्ययसामग्रीसिद्धेः ।
अन्यथा तच्छ्रवणस्याप्यनुपपत्त्या वासनाजनकस्य तद्व्यानस्याप्यसिद्धिप्रसङ्गात् ।
न चापरोक्षरूपवाक्यार्थज्ञानजननार्थं दृष्टद्वारेणादृष्टद्वारेण वा तदुपयोग इति वाच्यम्, शब्दजन्यप्रत्यक्षादेर्दूषणात् ।
“न शब्दजन्यं प्रत्यक्षं प्रत्यक्षत्वाद्यथेतरत् ।
व्यवस्थाभञ्जने तु स्यात्सर्वमानेषु सङ्करः ॥
अन्त्यप्रत्यक्षवेद्यं तु ब्रह्म चेदधिकान्वितम् ।
सविशेषत्वमेव स्यान्न चेत्प्राग्वच्च संसृतिः॥ ’’
अत एव शास्त्रप्रत्यक्षजन्यज्ञानयोः परोक्षत्वापरोक्षत्वलक्षणवैषम्यनिषेधोऽपि प्रत्युक्तः ।
यच्चोपजीव्यस्यापि प्रत्यक्षस्य ज्वालाभेदानुमानेन बाधो दृष्ट इति; तदप्यतिस्थवीयः, तत्र उपजीव्यविरोधाभावात् ।
नहि तत्र ज्वालैक्यप्रत्यभिज्ञादिकं भेदानुमानस्योपजीव्यम् ।
न च भेदानुमानं स्वोपजीव्यव्याप्तिग्राहकप्रत्यक्षविशेषं बाधते ।
तथाऽप्युपजीव्यजातीयस्यापि विरोधे तद्वा तादृग्वेति नकश्चिद्विशेष इति चेत्, सामान्यत उपजीव्यजातीयस्यापि ज्वालैक्यज्ञानस्य विशेषतोऽपि दृष्टदोषजातीयत्वात् ।
अचिरनिर्वापितारोपितप्रदीपेऽपि निर्वाणादर्शिनस्तदेवेदमिति दृढप्रत्यभिज्ञानमुदेत्येव ।
तत्रापि हि भेदादर्शनसादृश्यादिकं दोषः ।
सोऽत्रापि सम्भवन् ज्वालैक्यज्ञानस्य निर्दोषत्वनिर्णयं प्रतिरुणद्धि ।
तावति चानुमानमबाधितमुदेतीति न दोषगन्धः ।
इह तु स्वोपजीव्यं तज्जातीयं च कृत्स्नं प्रत्यक्षं बाध्यत्वेन प्रसक्तमिति स्थितः स्वव्याघातः ।
अत उपजीव्यप्रत्यक्षबाधेन शास्त्रं नोदेतुमलम् ।
किञ्च शास्त्रप्रत्यक्षयोर्बलाबलपरीक्षकप्रमाणमपि ब्रह्मव्यतिरिक्तभेदगोचरत्वेन शास्त्रेणैव बाध्यत इति स्वेनैव स्वबलं प्रतिक्षिपत् शास्त्रं कथं प्रत्यक्षात्प्रबलं भविष्यति? असत्यात् सत्यप्रतिपत्त्यादिकं तु दूषयिष्यते ।
अतः प्रत्यक्षादिसिद्धानुपमर्देनैव भेदनिषेधकश्रुतीनां तात्पर्यमुपपादनीयमिति ॥
॥ इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां प्रत्यक्षशास्त्रविरोधपरिहारवादः एकोनत्रिंशः ॥ 29॥
नृसिंहराजीया
ननु प्रत्यक्षादिभिरात्मनस्सविशेषत्वमुक्तम् । तदसङ्गतं निर्विशेषत्व बोधकशास्त्रेणाधिकबलेन प्रत्यक्षस्यबाधादिति पूर्वपक्षं दूषयन् वादार्थं सङ्गृह्णाति ।विदितमिति। एतद्विश्वं प्रत्यक्षादिसिद्धं जगत् यथावत्प्रत्यक्षविदिताकारेण केवलं निषेदपरत्वं विना यन्मयत्वं विदधातीति योजना ।एवं च सत्वे न हि विश्व गृह्णाति प्रत्यक्षं प्रबलमिति निषेधकत्वाभिमत श्रुते स्तच्छरीर एव तात्पर्यमिति वादार्थसङ्ग्रहः । अद्वैतशास्त्रस्य प्रत्यक्षात् प्राबल्यं वक्तुं सामान्यतः शास्त्रस्य प्रत्यक्षात्प्राबल्यमाहशास्त्रेति। द्वैतशास्त्रस्य प्रतियोगिसमर्पकतया कथञ्चित्प्रामाण्यं सम्भवतीति भावः ।अपरोक्षेति। देहातिरिक्तात्मासिद्धिप्रसङ्गेन शास्त्रमात्राप्रामाण्यं प्रसज्येतेति भावः । ननु न शास्त्रप्रत्यक्षयोः विरोधः अधिष्टानत्वेनानुगतसन्मात्रस्यैव प्रत्यक्षविषयत्वेन भेदविषयत्वाभावादित्यत आहन चेति। अयं घटः अयं पटः इति भेदप्रपञ्चगोचरत्वस्यनेहनानास्तीचतितन्निषेधविषयत्वस्य प्रत्यक्षशास्त्रयोरनुभव - सिद्धयोरपलापायोगादित्यर्थः । ननु विधिनिषेधयोर्देशान्तरकालान्तर विषयत्वेन वा विधिनिषेधयोः स्वरूपभेदे न वा सङ्कोचात् न विरोध इत्यत्राह ।न च देशेति। आदिशब्देन ब्रह्मणोन्यत्स्वतन्त्र नास्तीति स्वातन्त्र्यादिप्रकारेण निषेधस्यभिन्न विषयत्वं विवक्षितम् ।नेह नानेति। (बृह.6 - 4 - 9) त्रयस्त्रयस्यावस्थनेहनाना विज्ञानमृतइत्यादिना ब्रह्मव्यतिरिक्त कृत्स्नस्यापि देशकालाद्युपाधिनिरपेक्षं निषेधात्पारतन्त्र्याद्यसिद्धेः प्रकारविशेषनिषेध इति सङ्कोचोऽप्ययुक्त इति भावः । ननुत्रयः स्वप्ना स्त्र्यआवसथा’‘इति स्वप्नोपलक्षितावस्थाप्ना शब्देनावस्थावत्सत्यत्वमेवोच्यत इत्यत्राहन च जागरादिवदिति।स्वप्नशब्देनैवेतिप्रथमश्रुतस्य अवस्थस्यैवोद्देश्यत्वात् स्वप्नशब्देन स्वप्नकल्पत्वमा इति मिथ्यात्वं विधीयत इत्यर्थः । किं च स्वप्नशब्दस्य उद्देश्य समर्पकत्वेप्य आवसथ शब्दस्य विधेयसत्यत्व समर्पकत्वायोगात् न तदुद्देश्शेन तद्विधिरित्याहअन्यत्रेति। स्वप्नशब्दस्योद्देश्यसमर्पकत्व इत्यर्थः ।नह्यवस्था शब्द इति। यद्यप्यौपचारिकार्थत्वेनावस्थया शब्दस्य सत्यपरत्वं वक्तुं शक्यं तथापिस्वप्नशब्दस्य मिथ्यामात्रे शक्तिवदआवसथ शब्दस्य न सत्यमात्रे वृत्तिस्वप्नावसथेऽपि वृत्तिरिति भावः ।ननु तुल्य प्रामाण्येन भेदशास्त्रेणा भेदश्रुतेरन्यपरत्वे सिद्धेर्न प्रत्यक्षस्य शास्त्रविरोध इत्याशङ्क््याहन चेति। भेदश्रुतेरन्यथासिद्धत्वात्तुल्यप्रामाण्याभावान्नाभेद शास्त्रस्यान्यपरत्वमित्याह - निषेधस्येति । नन्वरूणयैकहायनीवव्रीहियववद्वा विकल्प समुच्चयोक्त अस्त्वित्यत्राह न च सिद्धेरिति । निषेधस्येतिअत इति उक्तरीत्या सङ्कोचा भावादित्यर्थः ।अत्यन्तविरोध इति। शास्त्र प्रत्यक्षयोरोत्यर्थः ।पारमार्थिकत्वेति।सर्पभूदलनाभ्यां मुख्यरज्वादेरिव सत्यमिथ्यात्वातिरिक्तकोट््यभावादित्यर्थः । किञ्च यदि निषेधकमुभयोरस्तितदाभयबाधस्यान्नचोत्तरस्य बाधकमस्ति न च प्रत्यक्षमेव तन्निषेधकम् । तथात्वं हि घटादिप्रत्यक्षस्य घटाभावो नास्तीति अद्वैतशास्त्रवेद्यमिथ्यात्वघटकाभावप्रतिक्षेपरूपतया वाच्यम् । तथा च तादृशाभावप्रसङ्गसापेक्षत्वेन शास्त्रात्परत्वं स्यात् । ततश्च शस्त्रप्रत्यक्ष शास्त्रयोरन्योन्याश्रयः । तस्मादुभयोर्निषेधाभावान्नोभयबाध इत्याहनिषेधकतयेति। निषेधप्रापकप्रत्यक्षापेक्षया निषेधकस्य परत्वमिति भावः । ननु प्रतिक्षेपरूपत्वाभावेपि प्रतियोगिनः एवाभावभावत्वेन प्रत्यक्षस्य तन्निषेधकतास्यादित्याशङ्क््याहनचेति। स्वरूपतः न प्रतियोग्यवगाहनमात्रान्निषेधकत्वं बाधकत्वं वा शुक्तिरजतप्रतीत्या तदभावस्य निषेधबाधयोर दर्शनादपितु प्रतिक्षेपरूपत्वादेव । तच्च प्रत्यक्षस्य नास्तीत्यर्थः । ननु घटो नष्ट इत्यादिषु प्रतियोगिनिषेध रूपतादृश्यते । प्रतियोगिप्रतिक्षेपकता तु नास्ति । न गू श्रवणादिति शङ्कतेविनाशादिष्विति तत्रापीति। घटस्य विनाश इति प्रतियोगि प्रतिक्षेपकत्वेनैवप्रतीतिरस्तीत्यर्थः । ननु तर्हि स्वरूपेण प्रतिपद्यत इति लौकिकः कथं व्यवहरन्तीत्यत्राहविनाशादिष्विति।नास्ति शब्दगोचरस्यैव विनाशशब्दगोचरत्वात्प्रतियोगिसापेक्षत्वम् । तत्प्रतिक्षेपरूपेण प्रत्ययत्वञ्चास्त्येव ।किं तु नञ् सम्बन्धाभावात्स्वरूपेण प्रतीयत इति लौकिकानां भ्रान्तिमात्रमित्यर्थः। नन्वथासिद्धस्य बाधकत्वादन्यथासिद्धिं प्रदर्शयितुमाहबाधश्चेति।निषेधत्वेन बाधकत्वं न विवक्षितम् ।किन्तु बलवत्वेन निषेधरूपत्वे बलवत्वं प्रयिकमित्यर्थः । इत्यपि प्रायेण पूर्वोक्तिरिति भावः ।शुक्तीतिबाध्यत्वप्रयोजकाभावेपि बाध्यत्वं दृश्यत इत्यर्थः । अत्र शुक्तिरजत प्रत्यक्षस्येति पाठमिच्छन्ति । तदा बाधस्येत्यध्याहार्यः ।दीपशिखेति। बाधकत्वप्रयोजकाभावेऽपि बाधकत्वं दृश्यत इत्यर्थः । एवं च प्रत्यक्षत्व परोक्षत्वयोर्व्यभिचारान्न बाध्यबाधकभावप्रयोजकतेति भावः ।न चोपजीव्येति। वर्णपदादिप्रत्यक्षस्योपजीव्यत्वादन्यस्य तज्जातीयत्वादिति भावः ।ज्वालैक््येेतितस्योपजीव्यजातीयत्वादिति भावः ।न च पूर्वत्वादिति। वेदोपक्रमाधिकरणन्यायेनेत्यर्थः ।माध्यमिकेतिन सन्नासन्नसदसदसन्नचाप्यनुभवात्मकमिति मिथ्यात्वरूप चतुर्थकोटेरपि तेन निषेधाद्बाधस्स्यादित्यर्थः ।परत्वमात्रस्येति। शास्त्रान्तरापेक्षया शास्त्रस्य परत्वं प्राबल्य प्रयोजकम् । न परत्वमात्रमिति भावः ।ज्ञानयोरितिज्ञानयोरत्रप्रकरणे ज्ञानशब्देन ज्ञानं करणं च यथायोग्यं विवक्षणीयम् । तेन विरुद्धयोरविरुद्धत्वविषयत्वं ज्ञानकरणमादाय वक्ष्यमाणं न विरुद्धमिति भावः ।अन्यथासिद्धमिति। प्रतीयमानार्थे प्रामाण्यं विनापि सम्भावितोदयत्वन्यथासिद्धत्वम्उत्तरस्त्विति। अप्रामाण्यकोटिः निवेशस्य कारणदोषंविना ज्ञानुमशक्यत्वात् कारणे प्रमातरि प्रमाणो प्रमेयो वा दोषेण ह्यप्रमाणकोटि निवेशो भवदिति भावः ।न च शास्त्रेति। अत्र शास्त्रजन्यज्ञानस्य दुष्टकारणप्रसूतत्वाभावोक्त्या शास्त्रं दुष्टं न भवतीत्यवगम्यत इति भावः । कारणदोषाभावमुपपादयतिकर्तुभावेनैवेति।शैथिल्यं पठ्य (त्य) मानस्यावेदकत्वम् आवाह पोधिकवाक्यप्रक्षेपः । आवापः केषाञ्चिद्वाक्यानाम् उच्छेदः (अभेदः) आदिशब्देन वर्णव्यत्या सादिर्विवक्षितः । विचारः सन्देहः । ननु वक्तृदोषाद्यभावेपि श्रोतृदोषाभवत्वित्यत्राबउपब्रृंहणेति । प्रामाण्यादिति। जन्यज्ञानस्य प्रमाणत्वे जनकस्य शास्त्रस्य प्रत्यक्षादितः प्राबल्यं प्रतिष्ठितमित्यर्थः ।वासनामूलेति। द्वाविमौ चन्द्राविति प्रत्यभिज्ञादिष्वित्यर्थः । ननु भेदवासनायाः दोषत्वे वासनातो भेदप्रत्यक्षं भेदप्रत्यक्षाद्वासनेत्यन्योऽन्याश्रयः । वासनान्तर जन्यत्वेतथेत्यनवस्थेत्यत्राहभेदवासनाया चेति। अत इति यतो निर्दुष्ट शास्त्रं प्रत्यक्षं तु भेदवासनादुष्टमत इत्यर्थः । शास्त्रप्रत्यक्षयोर्भेद एव तावदसिद्धेः । कुतो बलाबलविचारम् इत्यभिप्रायेण सिद्धान्तीअत्रोच्यत इति।शास्त्रं च द्विविधम् अद्वैत प्रतिपादकं द्वैत प्रतिपादकं च । तत्राद्यं जगत्कारणाद्वैतप्रतिप्रदकतया प्रत्यक्षविषयाद्भिन्नविषयमपरं तु तदतिरिक्तद्वैतविषयं न विरुद्धमित्याहप्रत्यक्षादिविरोधिन्येवेति । देहात्मभेदेति। मम शरीरमिति प्रत्यक्षं विवक्षितम् । अहं शरीरमिति कदाप्यदर्शनात् । मम शरीरमिति प्रतीतिर्नोपचारिकेति वक्तुं शक्ये भावः । ननु भेदग्रहे स्थूलोहमिति प्रतीतिर्नस्यादिति चेन्न । यथा स्फटिक सन्निहिते जपाकुसुमे इदं कुसुमस्फटिकं नेति स्फटिकत्वेन कुसुमत्वेन भेदग्रहेपि रक्तं न भवतीति रक्तत्वेन पुरोवर्ति स्फटिकत्वेन भेदग्रहाभावाद्रस्फटिका इति ग्रहः तथा शरीरत्वाहन्त्वाभ्यां भेदग्रहेपि स्थूलत्वाहन्त्वाभ्यां भेदग्रहाभावात्तद्भ्रम उपपद्यत इति भावःअन्यथेतिनन्वर्थवादाः न स्वार्थपराणि । स्वार्थपराणामेव प्रत्यक्षाद्बलवत्तयार्थवादानां यूपादित्यवाक््यानां न प्रत्यक्षबाधकत्वमिति चेन्न । तथा सति"“सोमेन यजेतेति’’( ) वाक््यस्य सामानाधिकरण्यतया सोमाभेद प्रतिपादनसमर्थस्य प्रत्यक्षादि विरोधात्सोमवतेति मत्वर्थलक्षणा न स्यात् ।““कृष्णलं श्रपयेदि’‘त्यादौ रूपपरावृत्तिलक्षणपाकस्य प्रत्यक्षबाधादुष्णीकरणे लक्षणा न स्यात् । तदा"“प्रत्यवेक्षत’‘इत्यादौ ज्ञानस्य कर्तव्यत्वं प्रमाण विरुद्धमिति तदबाधायेक्षणानुकूल व्यापारे लक्षणा न स्यात् । तथा च तव जिज्ञासा सूत्रे सन् प्रत्ययार्थेच्छायाःविषय सौन्दर्यलभ्यायाः कर्तव्यत्वं प्रत्यक्षबाधितमिति जिज्ञासाशब्देन विचारलक्षणा स्वीकारो न स्यात् तथा च"तत्व मसी’(छां.6.8.7) त्यत्र विशिष्ट्यैक्यं प्रत्यक्षबाधितमिति निष्कृष्टचैतन्ये लक्षणा न स्यात् । न च चन्द्र प्रादेशिकत्व प्रत्यक्षस्य तत्परिमाणग्रहकागमेन बोधो न स्यादिति वाच्यम् । दूरयोयत्परिमाणवत्तयोपभ्यते स ततोधिकपरिमाण इति व्याप्तिग्राहकप्रत्यक्षादि मूलकत्वाद्दोषमूलत्वादि शङ्काकलङ्कितत्वात्प्रत्यक्षस्य न तेन शास्त्रस्य बाधइत्यादि बोध्यमिति भावः ।सर्वविषयत्वे सत्येवहीति। सर्वविषयत्वेन प्रतीयमानत्वे सत्येवहीत्यर्थः ।अन्यथेति।सर्वविषयत्वेन प्रतिपन्नस्य सङ्कोचाभाव इत्यर्थः ।ननु"“नेह नानास्ति’’(बृह.6.4.9) किञ्चने (बृ - 6.4.9)त्यत्राधिकः किञ्चन शब्दोस्तीति चेन्न । तथा अत्रापि सर्वशब्दोस्ति किं च"“यत्किञ्चित्प्राचीन मग्निष्टोमीयात्तेनोपांशु पठं ती’’ त्युपांशुत्वस्य यत्किञ्चिच्छब्दोनाग्नीषोभीयात्प्राचीत - कृत्स्न विषयत्वोपलम्भेपि"“यावत्यावाचा कामयीत तावत्या दीक्षणीयायामनुब्रूयाममन्द्रविक्षणीयाममन्द्रतरमति - ध्यामि’’(छां - 6.8.7)त्यादौ सङ्कोचदर्शनादिति भावः । प्रसङ्गादाहनचात्रेति।प्रकरणादित्यादिशब्देनस्वातन्त्र्यप्रतिपादकान्तर्यामिब्राह्मणादिकं विवक्षितम् । यत्र परमात्मानं प्रतीति"“यस्मिन् पञ्च पञ्च जानाः आकाशश्च प्रतिष्ठित’’(बृ - 6 - 4 - 17) इति वाक्येना पृथक्सिद्धत्वावगमात् । समभिव्याहृत बृहदारण्यक गत"“नेह नानास्तीति’’(बृ - 6 - 4 - 21) वाक्ये स्वातन्त्रय निषेधे तात्पर्यं ग्रह्यम् ।““यस्मिन् सूर्यम् उदेति यत्रचास्तङ्गच्छन्ति । यत्र देवा अर्पिताः तदु नास्तीति कश्चचने ( )त्यपृथक्सिद्धत्वावगतेः तत्समभिव्याहृते कठवल्लीस्थे"“नेह नाना स्तीति’’(बृ - 6 - 4 - 29)वाक्येपि स्वातन्त्र्यनिषेधऽपि तात्पर्यम्मिति भावः । यथेति(1 - 26) यद्रूपं वस्तु प्रतिपन्नं तत्रेतरनिषेधस्तद्रूपविशिष्टेतरनिषेधपरः नत्वितरस्वरूपस्य सर्वात्मनां निषेधपरोऽन्यथा व्यावहारिकस्वरूपस्याप्यभाव प्रसङ्गादिति भावः । यत्र पुनरिति । ज्ञानस्वरूपमत्यन्तनिर्मलं (वि.पु)इत्यादिषु शुक्तिरजतमिथ्यात्वेपि शुक्तौ रजतत्वस्य तादात्म्य सम्बन्धेन सत्वबाधेऽपीत्यर्थः ।यत्रत्विति । ““तस्यात्मपरदेहेषु सतोप्येकमयं हि (वि.पु.2 - 24 - 22) यद्विज्ञानम्परमार्थो ही’‘त्यादिष्वित्यर्थः । निर्गुणावादादेरिति । ““साक्षी चेता केवलो निर्गुणश्चे’’(श्वेता 6 - 22)तिवत्यादेः पदाहवनीयन्यायादिभिःहेयगुणविषयत्वं स्थापितमित्यर्थः। ““एकमेवाद्वितीय’’(छां.6 - 2 - 2) मित्यादेरूपादानसहकार्यादेरैक्यमुच्यते इति सद्विद्या भाष्ये व्यक्तमित्याहसदेवेत्यादि चेति। यद्यपि स्वप्नसाम्यं न वाचनिकं तथाप्यन्यशब्दस्यान्यत्र प्रयोगनिमित्ततयोन्नेयम् । नन्वेवमपि मिथ्यात्वस्यापि सादृश्यत्वात्तेन रूपेणकिं न स्यादित्यत्राहप्रमाणान्तराविरोधायेति। आदिशब्देनास्थिरत्वाल्पकालत्वादि गृह्यते । नन्विदं रजतमिति वाक्यं प्रमाणविरुद्धमेव । रजतत्वं गृह्यते इत्यत्राहआैपचारिकेति। न तदौपचारिकम् ।किं तु भ्रान्तिमूलमिति भावः । ननु बहूनां योग्यानां सम्भवाद्योग्योपचारपक्षे विशेषसिद्धिर्न स्यादित्यत्राहतत्तत्प्रकरणादिभ्य इति। तत्रापीति अपच्छेदन्यायविषयत्वे भेदवाक्यानां बाधितत्वं वाच्यम् । नित्यनिर्दोषे कथं बाधः कथं वा तदप्रमाण्यम् । अन्यथाऽद्वैतवाक्यानमेव प्रत्यक्षादिबाधादि प्रसङ्गादिति भावः । ननु तर्हिसर्वस्वदक्षिणादक्षिणदिवाक्येप्येषदोष इत्यत आहनिर्गुणेति। तत्र वाक्यस्य सर्वथा न बाधः । किन्तुसङ्कोच इति भावः ।संविदद्वैतमपीतिएवं चाधिष्ठानस्यापि निषेधान्मिथ्यात्वमिति न स्यादिति भावः ।ननुवक्तृणामादि दोषाभावाद्वेदप्राबल्यमित्यत्राहदोषाणामिति। नन्वविद्यारूप दोषः शब्दस्वरूपाध्यास हेतुः ।नन्वप्रामाण्यप्रयोजको भ्रमादि विलक्षणत्वादिति चेत्तत्राहभ्रमविप्रलम्भेति। वातगत्यादि दोषमूल भ्रमसिद्ध वाक्यस्य वक्तृदोष भूतभ्रमाद्यभावेप्यप्रामाण्यादिति भावः । बहुलं प्रामाण्यभ्रमविषयत्वस्य देहेऽहम्बुद्धिविषयत्ववदप्रयोजकत्वमित्याहकिमत इति। प्रत्युत भ्रमबाहुल्यं तद्विषयवैपरीत्यमेव दृढयतीति भावयत एव शास्त्रस्य दोषमूलत्वमतएव प्रत्यक्षसम्भवद्दोषमूलत्वाद्दौर्बल्यं शास्त्रस्य निर्दुष्टत्वात्प्राबल्यमित्यपि निरस्तमित्याहअत एवेति। प्रत्यक्षसहकारितयोक्तः भेदवासनायाः दोषत्वन्निराचष्टेनच भेदवासनेति। ननु निर्विशेष सिध्या भेदवासनायाः दोषत्व सिद्धिरस्त्वित्यत्राहशास्त्रत इति।अत्र शास्त्रतो निर्विशेषाद्वैतेसिद्धे हि तद्विपरीत संस्कारात्मनो भेदवासनायाः दोषत्वकल्पना । तद्दोषत्वे च सति तन्मूलात्प्रत्यक्षात्प्राबल्येन शास्त्रतो निर्विशेषाद्वैतसिद्धिरित्यन्योन्या श्रयादित्यनन्तरं शास्त्रेण निर्विशेषत्वे सिद्धेस्याद्भेदवासनादोषः तद्दोषभावे च सिद्धे स्यान्निर्विशेषसिद्धिरिति पाठक्रमः । दृश्यमानपाठक्रमस्तु लेखकप्रमादकृतः । अन्योन्याश्रय प्रतिपादकत्ववाक्यमध्ये तत्सङ्ग्राहक कारिकापाठ वैघट्यादिति सम्प्रदायः । ननु निर्विशेषसिद्ध्या भेदवासनायाः न दोषत्वं कल्प्यते । किं त्वन्यत्र दोषत्वेन दृष्टत्वादित्यत आहन च क्वचिदिति। इदमुपलक्षणम् । पूर्वं चैत्र्यादिवैलक्षण्यज्ञाने वासनायाः अयोगादित्यपि द्रष्टव्यम्। अभेदवासनायापीति। अभेदभ्रमस्थले दर्शनादिति भावः । ननु प्रत्यक्षस्य दोषजन्यत्वनिश्चयाच्छास्त्रस्य ततः प्राबल्यं न ब्रूमः । किं तु शास्त्रं निर्दोषत्वेन निश्चितम् । प्रत्यक्षं तु न तथा विपरीत वासनायाःदोषत्वसन्देहे न दोषमूलत्वेन सन्दिग्धमिति वैलक्षण्यात्प्राबल्यं ब्रूम इति चेत् तत्राहतस्यापीति । अन्यथेति। भेदवासनामूलत्वाभाव इत्यर्थः ।तदर्थेति। अद्वैतवाक्यस्य लक्षणातात्पर्यनिर्णयार्थं तर्कात्मकवाक्यार्थज्ञानमेकपेक्षितमिति भावः । आदिशब्देनोपक्रमादिः । योग्यतादित्यादिपदेन शक््यतावच्छेदकादि गृह्यते।ेन च भेदवासनेति। प्रत्यक्षस्यैव सहकारि दोष इत्यर्थः ।विपरीतसंस्कारात्म नेति। अभेदज्ञानस्यापि तद्विपरीत प्रतियोग्यादि भेदविषयत्वात्तत्रापि दोषत्वमिति भावः । ननु प्रत्यक्षस्य भ्रमत्वनिश्चयादेव विपीरतवासनायाः आकारान्तरेण प्रत्यक्षमात्र एव दोषत्वं कल्प्यत इत्याहतद्दोषत्व इति। ननु भेद वासनायाः प्रकृत्यादिभेदज्ञानहेतुत्वेपि नाद्वैतज्ञाने हेतुत्वं तद्विरुद्ध अभेदवासनाया एव तद्धेतुत्वादित्याहन चाद्वैतेति । अभेदवासनाया इति। न केवलं प्रकृत्यादिज्ञान एव भेदवासना हेतुः अपित्वभेदज्ञान प्रतियोगिभूत भेदविषयायाम् भेदवासनायामपीत्यर्थः । न केवलं भेदवासनायाःभेदवासनाजन्यत्वमेव । किं तु तद्धेतुत्वमपि । तथा च दोषत्वात्तज्जन्यस्याद्वैतज्ञानस्य भ्रान्तित्व मनिवार्यमित्याहस्वयमेवेति। अभेद वासनायाम्मभेदवासनायाः प्रतियोगि विशिष्टज्ञानजन्या यःतत्समानविषयज्ञानद्वारेण भेदवासनावहत्वमिति भावः । किं निष्प्रतियोगिकस्वरूपधीः स्वप्रकाशस्वरूपमेव किं वा तद्विषयज्ञानान्तरमिति विकल्पमभिप्रेत्याहनित्येति। जीवब्रह्माभेदवाक्यार्थज्ञानस्य विशिष्टविषयत्वोक्त््या भेदप्रपञ्च निषेधवाक्यार्थज्ञानस्यापि प्रतियोग्यादि भेदविषयत्वेन विशिष्टविषयत्वलाभाद्वेदवासनामूलत्वं तदापादकत्वं च फलतयेत्याहअतो भेदेति।अदृष्टरूपेणेति। विहितःनिदिध्यासनजन्याऽदृष्टं भेदवासनैवेत्यर्थः । भेदवासनानिरसनद्वारोप योगस्त्वित्यत्राहउक्तं चेति। अत्यन्तासत्वेन ज्ञानेविपरीतवासना भवति ।तस्यां सत्यामपीत्यर्थः ।अन्यथेतिवाक्यार्थवासनाया हेतुत्व इत्यर्थः । प्रावण्यम्मपूर्वार्थप्रतिपादनसामर्थ्यं पूर्वपक्षार्थः । पूर्वं सिद्धान्तिना ज्ञातार्थः । श्रुतीनां चेति। अपूर्वविधिरेवोच्छिद्येतेति भावः ।शक्तति। नह्यभेदवासनारूपमदृष्टमवधारणे अपरोक्षेवोपयुज्यते प्रमाणस्वभावाद्विषयस्वभावाद्वा तदुपपत्तेः । एककोटिकानवधारणस्य निरासात् । किन्त्वविद्यानिवर्त्यनुकूलशक्तिविशेषे । तथाच शक्तिविशेषविशिष्ट ज्ञाननिवर्त्यत्वे ज्ञानत्वेन ज्ञाननिवर्त्यत्वाभावात्सत्यत्वापत्तिरित्यर्थः । ननु सर्वैरपि कार्यमात्रस्यादृष्ट जन्यताभ्युपगमात् ध्यान जन्यवासनारूपादृष्टस्य वाक्यार्थ ज्ञान एवोपयोगोस्तु । नाविद्यानुकूलशक्तिविशेष इत्यत्राहअभ्यपगच्छतामिति। आकाङ्क्षादिह परामर्शस्यवासनातः प्रागपि सत्वान्नतद्घटनेनोपयोगस्त्वया सुवच इति भावः । अद्वैतज्ञानस्य अद्वैतवासनासापेक्षत्वे अन्योन्याश्रयादित्याहअत्र चेति। ननु शब्दात्प्राक्परोक्षज्ञानमेव जायते । पश्चादद्वैतानुध्यानवासनामहिम्ना प्रत्यक्षं जायते । ततश्च सत्यत्यापत्तिरपीत्या शङ्कयाहन चेति। प्रत्यक्षादित्यादिशब्देन"“द्रष्टव्य’‘इति दर्शनोद्देश्शेन श्रवणादि विधानादि विवक्षितम् । ज्ञानस्याविधेयत्वेहि श्रवणादि फलत्वे नोद्देश्यतास्यात् । ज्ञानस्य विधेयता समर्थनात् मोक्षोद्देशेनैव तद्विधिरिति भावः । न शब्दजन्यमिति। प्रत्यक्षम्ब्रह्मगोचर प्रत्यक्षं शब्दजन्यं न भवतीति साध्यमितवद्घटादिचाक्षुष प्रत्यक्षवदित्यर्थः । न केवलं प्रत्यक्षस्य शब्दजन्यत्वे चक्षुरादिभिरिपि परोक्षं स्यादित्यादि प्रसङ्गः । किं तु तदभ्युपगमे प्रयोजनं च नास्तीत्याहअन्त्येति। आद्ये भ्रमत्वादनिवर्तकत्वम् अन्त्ये स्वरूपप्रकाशवद निवर्तकत्वमिति भावः । अत एवेति। शब्दजन्य ज्ञानस्यापरोक्षत्व भङ्गादित्यर्थः । एवञ्जात्या प्रत्यक्षं बलीय इति भावः । ननु प्राबल्यमागमस्यैव ।जात्या तेषु त्रिषु स्मृतमिति स्मृतिः कथमिति चेन्न । तत्र प्राबल्यं निर्दुष्टत्वं जातिर्वेदत्वं तथा च वेदत्वेन निर्दुष्टत्वमिति द्रष्टव्यम् । उपजीव्यत्वं साक्षादुपजीव्यत्वमेव उत तज्जातीयत्वमेववा नाद्य इत्याहतत्रोपजीव्येति। द्वितीयं शङ्कतेतथाऽपीति। तत्साक्षादुपजीव्यं तादृगुपजीव्यजातीयमित्यर्थः ।सामान्यत इति। तैलनाशस्य दीपनाशहेतुत्वं प्रत्यक्षसिद्धम् । एवं वर्तिनाशस्यापि तथा । दीपस्याप्याश्रय नाशकत्वं तैलनाशत्वं च । एवं चतुर्भिःकारणताग्राहि प्रत्यक्षैरनन्यथा सिद्धेर्विरोधादृष्टदोषज्वाला प्रत्यभिज्ञानान्तरसजातीयत त तयाः प्रत्यभिज्ञान्तरदोषत्वेनावधारित सादृश्यस्येहापि दोषत्वसम्भवाद्दोष मूलत्वेन शङ्किता प्रत्यभिज्ञा भेदानुमानेन बाध्यत इत्यर्थः । प्रत्यभिज्ञान्तरेदोषदर्शनमुपपादयतिअचिरेतिनिर्वाणन्नाशः । सादृश्यादिकमित्यादिशब्देनैकवर्तिकादिगतत्वं विवक्षितम् ।सम्भवन्नितीति। शङ्क्यमान इत्यर्थः ।ननु वर्णपदवाक्यस्वरूपांशमुपजीव्यं न चेद्बाध्यते । सत्यत्वंशस्त्वनुपजीव्यः स बाध्यत इत्यत्राहअत इति ।वर्णपदवाक्यानां स्वरूपमेव सत्यत्वं तस्यैव तदधिकरणे स्वभावविरोधित्वात्तथा च सत्यत्वबाधे निस्वरूपतापत्त्या उपजीव्यविरोध एवेतिभावः ।स्वेनैवेति। शास्त्र प्राबल्यग्राहकस्य बाधश्शास्त्र प्राबल्यस्य बाध एवेति भावः । नन्वस्तु शास्त्रप्राबल्यस्य बाधः तथाप्यसत्यादेव शास्त्रान्निर्विशाषसिध्युपयोगी भविष्यतीत्यत्राह ।असत्यादिति । इति वत्सकुलजलाधि नृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणी टीकायाम् एकोनत्रिंशः वादः समाप्तः ॥