28 साक्षित्वभङ्गवादः

॥अथ साक्षित्वभङ्गवादः अष्टाविंशः ॥28॥
चतुर्दशविधस्यापि साक्षिवर्गस्य साक्षिणे ।

स्वतस्सर्वविदे तस्मै नमस्सर्वान्तरात्मने ॥
यत्पुनराहुः - आसंसारमज्ञानसाक्षित्वेन ब्रह्मावतिष्ठते ।
श्रूयते हि - “साक्षी चेता केवलो निर्गुणश्चे’’ (श्वेता - 6 - 11)त्यादि।
न च स्वप्रकाशप्रत्यक्षादैन्द्रियिकप्रत्यक्षाच्चातिरिक्तं साक्षिप्रत्यक्षं नाम न किञ्चिदुपलभ्यत इति वाच्यम्, सुखमहमस्वाप्समेतावन्तं कालं न किञ्चिदहमज्ञासिषमिति सुखाज्ञानयोः साक्षित्वेन सुप्तोत्थितस्य स्वात्मपरामर्शादिति ।
अत्रोच्यते ।
तत्र तावत्स्वरूपसुखप्रकाशः स्वप्रकाशान्तर्गतः, न पुनस्साक्षिप्रकाशगम्यः ।
वैषयिकसुखप्रकाशस्तु सुषुप्तिकाले न सम्भवति ।
अज्ञानमपि तदानीन्तनस्मृत्यभावेनानुमीयते, तत्कालादिवत् ।
न हि सुषुप्तिकालोऽपि तदानीमेव साक्षिणा गृहीत
इतीच्छसि ।
इष्यमाणत्वेऽपि कालोपाधेरपि कस्यचिद्ग्रहीतव्यतया जागरनिर्विशेषत्वप्रसङ्गः ।
तदग्रहणेपुनरेतावन्तं कालमिति कालविशेषणोपादानविरोधस्स्यात् ।
किञ्च किमिदं साक्षित्वमिति निरूपणीयम् ।
किं साक्षात्कर्तृत्वम्, उत साक्षात्कारत्वम्, उताविद्यकप्रकाशं प्रति हेतुत्वम्, उतान्यत्किञ्चित्? इति ।
नाद्यः, ब्रह्मणो वास्तवज्ञातृत्वानभ्युपगमात् ।
लोकेपरमार्थद्रष्टारमेव साक्षीति व्यपदिशन्ति ।
आविद्यकस्यापि ज्ञातृत्वस्याहङ्कारनिष्ठत्वाभ्युपगमेन विलीनाहङ्कारेषु सुषुप्त्यादिकालेषु तदसिद्धेः ।

न द्वितीयः “साक्षाद्द्रष्टरि सञ्ज्ञाया’’ (अष्टाध्यायी - 5 - 2 - 12)मित्यनुशासनविरोधात् ।
आहचाहमर्थात्मत्वसमर्थनमध्ये “साक्षित्वं च साक्षाज्ज्ञातृत्वमेव, न ह्यज्ञातुस्साक्षित्वम्, ज्ञातैव हि लोकवेदयोस्साक्षीति व्यपदिश्यते, न ज्ञानमात्रम्; स्मरति च भगवान् पाणिनिः - साक्षाद्द्रष्टरि सञ्ज्ञायामिति साक्षाज्ज्ञातर्येव साक्षिशब्द’‘मिति ।
आैपचारिकसाक्षित्वाभ्युपगमेऽपि स साक्षात्कारः किं स्वात्मनः उताविद्यायाः? नाद्यः, स्वप्रकाशस्यान्यवैमुख्येन दृगधीनसिद्धेरविद्याया एवासिद्विप्रसङ्गात् ।
न द्वितीयः, मिथ्याभूताविद्यागोचरत्वेन वृत्तिज्ञानवत् ब्रह्मणोऽपि मिथ्यात्वप्रसङ्गात् ।
स्वरूपणेणाबाधितस्यापि वृत्तिज्ञानस्य विषयमिथ्यात्वादेव हि मिथ्यात्वमुपवर्णितं सविषयमिथ्यात्ववादिभिः ।
स्वगोचर एव साक्षात्कारः पुनरविद्यागोचर इव भातीति चेन्न; तथाऽप्यविद्याया असिद्धिप्रसङ्गात् ।
न ह्यन्यगोचरस्य ज्ञानस्य ततोऽन्यगोचरत्वेन भ्रमः, अनुव्यवसायस्य विषयावच्छिन्नग्राहकत्वात् ।
तद्भ्रमेऽपि न तेन ज्ञानेन तत्सिद्धिः ।
किञ्च स्वगोचर एवायं साक्षात्कारोऽविद्यागोचर इव कस्य भाति? न तावद्ब्रह्मणः, अहमविद्यागोचर इति ज्ञातुमसमर्थत्वात् ।
नाप्यविद्यायाः, अहं ब्रह्मणो गोचर इव भातीति तस्या अपिज्ञातुमशक्यत्वात् ।
न चान्यस्य, तदुभयव्यतिरिक्तस्य कस्यचित् सुषुप्त्यादिषु अप्रकाशमानत्वेन तदयोगात्।
न च न कस्यचिदिति वक्तुं शक्यम्, भातीत्यादेः प्रतिसम्बन्धिनमन्तरेण प्रयोगादृष्टेः ।
मिथ्यासाक्षित्वमिति चेन्न; ।

“साक्षित्वं यदि मिथ्या स्यात् साक्ष्यन्तरपरिग्रहः ।
न चेदाधारभावेऽपि मिथ्यात्वमनुवर्ण्यताम्’’ ॥
नन्वासंसारमविद्यायास्स्वात्मनश्च प्रकाशो ब्रह्मणः, अपवर्गे तु स्वात्मन एवेति नियम इति चेत्, किमपवर्गदशायामविद्यायाः प्रकाशो निवृत्तो न वा? निवृत्तश्चेत् स्वात्मैव निवृत्तस्स्यात् ।
अनिवृत्तत्वे त्वविद्याऽपि तदानीमनिवृत्ता स्यात् ।
प्रागपि प्रकाशमात्राधीनसिद्धिर्हि सा ।
यदि च ब्रह्मस्वरूपसाक्षात्कार एवाविद्यामपि प्रकाशयेत्, ब्रह्मणोऽविद्यायाश्च तादात्म्यं प्रसज्येत ।
स्वरूपमेव हि तेन प्रकाशनीयम् ।
अस्वरूपप्रकाशत्वे वृत्तिवन्मिथ्यात्वं प्रागेवोक्तम् ।
विषयापहार एव वा स्वरूपापहारोऽपि वा यद्वा तद्वा मिथ्यात्वमस्तु ।
किञ्चाविद्यासाक्षित्वं ब्रह्मणस्स्वरूपमेव, ततोऽन्यद्वा? पूर्वत्र स्वरूपस्य नित्यत्वान्नित्यमविद्यासाक्षित्वप्रसङ्गः ।
उत्तरत्र तत् किं परमार्थभूतमुतापरमार्थभूतम्? आद्ये ब्रह्मव्यतिरिक्तसत्यत्वानभ्युपगमेनापसिद्धान्तः ।
द्वितीये तत् किमविद्यास्वरूपमुत तदारब्धम्? नाद्यः,विषयस्वरूपमात्रस्यैव साक्षिस्वरूपत्वे घटादेर्यावद्विनाशं व्यवधानादिदशायामप्यविच्छेदेन प्रकाशप्रसङ्गात् ।
न द्वितीयः, साक्षित्वाधीनसिद्धेरविद्यायाः साक्षित्वजनकत्वायोगात् ।
साक्षित्वस्याप्यनादित्वाभ्युप - गमेनापसिद्धान्ताच्च ।
एतेनाविद्याप्रकाशं प्रति हेतुत्वपक्षो निरस्तः, अनादेर्हेत्वनपेक्षणात् ।
नापि चतुर्थः, तस्यापि स्वरूपान्तर्भावबहिर्भावादिविकल्पदुःस्थत्वादिति ।
अतो न कथञ्चिदपि निर्विशेषज्ञानमात्रस्य साक्षित्वं सम्भवतीति साक्षित्वोपदेशसामर्थ्यादेव ज्ञातृत्वादिकमात्मनोऽवश्याभ्युपगन्तव्यमिति ॥
॥इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां साक्षित्वभङ्गवादः अष्टाविंशः ॥28॥

नृसिंहराजीया

आत्मनः स्वाभाविकञ्ज्ञातृत्वं प्रत्यक्षादिना साधितम् । तदा साक्षित्वाच्च ज्ञातृत्वं समर्थयन् वादार्थं सङ्गृह्णाति ।चतुर्दशेति। यथादिक्पालादीनां साक्षित्वं न विषयावभासत्वं तथा भगवतोपीति भावः । किं तर्हि साक्षित्वमित्यपेक्षायां साक्षात्कर्तत्वमेव साक्षित्वमित्याह ।स्वत इति। नन्वद्वैत श्रुतिबलात्स्वरूपातिरिक्तः ज्ञानाभावात् ज्ञातृत्वसम्भवेन विषयावभासत्वमेव वाच्यमित्यत आहसर्वान्तरात्मन इति। विशिष्टाद्वैत एव अद्वैतश्रुतेस्तात्पर्यमिति भावः । सुखमहमिति। सुखाज्ञानयोस्साक्षित्वेनैव"“सुखमहमस्वाप्सं’‘एतावन्तं कालं न किं चिदवेदिषमिति सुप्नोत्थितस्य स्वात्म परामर्शादिति सम्बन्धः । अयं परामर्शः स्वापकाले सुखाज्ञानयोःप्रकाशादेव नान्यथेति भावः ।अत्रोच्यत इति ।अत्र सुखशब्देन स्वरूपसुखमुच्यते उत वैषयिकसुखं नाद्य इत्याह ।तत्र तावदिति। स्वरूपसुखस्य प्रकाशः स्वरूपसुखस्य प्रकाशइत्यर्थः। साक्षिप्रकाशगम्य इतिसाक्षिप्रकाश इति गम्यः । अवगन्तव्य इत्यर्थः । द्वितीय आहवैषयिक इति ।कारणाभावादिति भावः । अज्ञानानुभवदशायां सुषुप्तिकालेप्यनुभूयते नवा । द्वितीय आहतदानीन्तनेति। अननुभूतस्य सुषुप्तिकालस्येतावन्तं कालम् इत्यनुमिति वदज्ञानस्यापि साक्ष्यननुभूतस्यानुमितिरस्तिइत्यर्थः । द्वितीय आहन सुषुप्तीति। ननु ब्रह्मस्वरूपमेव कालस्य ग्रहणमस्त्येवेति मन्यमानं प्रत्याहइष्यमाणत्व इति।सिषाधयिषितं साक्षित्वं किमिति विकल्प्य दूषयति ।किं चेति। मिथ्याभूतं ज्ञातृत्वम् अभ्यपगतमेवेत्यत्राह ।लोक इति। ननु लाघवाददृष्टत्वमात्रं प्रयोजक मित्यत्राहआविद्यस्यापीति। एतेनौपाधिकं साक्षित्वमिति निरस्तम् ।उपाधिविलयादौपाधिकस्यापि असम्भवान्नद्वितीय इति। किं साक्षिशब्द मुख्यार्थत्वमुत गौणार्थत्वं नाद्य इत्याहसाक्षादिति । आह चेति। भाष्यकार इति शेषः । ननु ““साक्षात् ज्ञातृत्वं’’ साक्षित्वमिति पाणिनीयस्मृतौ न दृश्यत इत्याशङ्क्य सूत्रस्थदृष्टशब्द विवरणेन परिहरति ।साक्षित्वं चेतिद्वितीयं दूषयति ।आैपचारिकेति। स्वात्मन इति विषयविषयिभावे षष्ठी ।स्वप्रकाशस्येति। स्वात्मन इत्युक्तौ स्वस्मै प्रकाश इति पर्यवसानादन्यवैमुख्यसिध्याद्यविद्यायाः असिद्धिप्रसङ्ग इत्यर्थः ।स्वरूपेणाबाधितस्यापीति। वृत्तिरूपज्ञानं ज्ञानत्वेन प्रतीयमानं न सामान्येन ज्ञानं नास्तीति बाध्यते बाधरूपस्यापि ज्ञानतया विरोधात् । अपितु रजतं नास्तीति विषयबाधाद्रजतज्ञानं नास्तीति बाध्यतइति विषयबाध एव सविषयज्ञानबाध इति तैरुक्तमित्यर्थः । मिथ्या विषयत्वाभावात् न मिथ्यात्वमिति शङ्कतेस्वगोचर इति ।तथापीतिदोषोस्तीति शेषः । तथापीत्यर्थः । क इत्यपेक्षायामाह ।अविद्याया अपीति। तदुपपादयति ।नहीत्यादिना । अनुव्यवसायस्येति। व्यवसायोपनीतस्यैव अनुव्यवसाय विषयत्वादिति भावः । अङ्गीकृत्यापीत्याह ।तद्भ्रमेऽपीति। अविद्यागोचरत्वाभावे अविद्यागोचरत्व भ्रमविषयेणापि ज्ञानेनाविद्यासिद्धिर्नस्यात्तद्गोचरस्यैव तत्साधकत्वादिति भावः ।अहमिति। अहमर्थस्यैव भ्रान्ति ज्ञानाश्रयत्वात् ब्रह्माविद्ययोरथात्वान्नतयोरुक्त भ्रान्तिरिति भावः ।अहं ब्रह्मण इति।इव शब्द एवार्थः । अहं ब्रह्मणोगोचरएवेतिअभावम् इतिवा ज्ञातुमशक्यत्वादित्यर्थः । दूषयतितदुभयेति।तदयोगादिति। अविद्यायां ब्रह्मविषयत्व भ्रमयोगादित्यर्थः ।भातीत्यादेरिति। यज्ञदत्तस्यभाति देवदत्तस्य भातीति भानस्य प्रतिसम्बन्धितयैव सिद्धत्वादिति भावः । ननुस्यादेवान्यथाख्यति पक्षे तद्विषयत्वाभावादविद्ययासिद्धिः । अस्माकं तु भ्रमे सति मथ्याभूतमविद्याविषयत्वमप्यस्तीति स्यादविद्यासिद्धिरिति किं चेत्यतः प्रागुक्तदोषस्योद्धारं शङ्कतेमिथ्येति ।साक्षित्वमिति। तथा सति मिथ्याभूत साक्षित्वसाधक साक्ष्यन्तरं वाच्यं तत्रापि तथेत्यनवस्थेत्यर्थः । साक्षित्वविषयसाक्ष्यभावेपि साक्षित्वं मिथ्यास्त्वित्यत्राह ।न चेदिति। आधारस्सत्वाधिष्ठानं भावस्सद्रूपं ब्रह्म यथा साक्षित्वस्य अध्यासादभावे मिथ्यात्वं तथा सर्वाधिष्ठानस्य निरधिष्ठानस्यापि ब्रह्मणो मिथ्यत्वमस्त्वविशेषादितिभावः । नन्वज्ञानागोचरस्य तद्गोचरत्वमध्यासितमिति न ब्रूमः । स्वरूपमेवत्वासंसारम्मविद्यागोचरम् अतो नाविद्याया असिद्धिः । नापि मिथ्यात्वं यावत्स्वरूपं सत्यस्वरूपस्यापि विषयत्वेन घटादिज्ञानवत् सत्यत्वादिति शकन्ते ।नन्विति।तस्य तत्वादिति। स्वात्मन एव अविद्याप्रकाशत्वादित्यर्थः । तदानीं मोक्षकाले प्रागपि संसारदशायामपि प्रागेवेति आत्मस्वरूपस्य स्वरूपातिरिक्तस्य मिथ्यात्वात् तद्विषयस्य रजतवृत्तिवत् मिथ्यात्वं स्यादित्यर्थः । न च सत्यस्वरूपविषयत्वासत्यता शुक्तिविषयस्यापि रजतभ्रमस्य मित्यात्वाङ्गीकारादिति भावः ।इतरमते विषयापहार इति । मायिमते स्वरूपापहार इति ।यद्यपि मायिमतेऽपि विषयस्य मिथ्यात्वं न ज्ञानस्वरूपस्य विषयमिथ्यात्वेन प्रवृत्तिमिथ्यात्वस्यैकदेशिमतत्वात्सिद्धान्तेपि सर्पादिज्ञानस्य विषयबाधेपि सत्यत्वमङ्गीकृतं तथाप्यजन्यस्य ज्ञानस्यासत्यविषयत्वे अविद्याया मिथ्यात्वं नस्यान्निवृत्ति भावान्मोक्षेपि न स्यात् किं च यदि मिथ्याविषयवृत्तेः तन्मते स्वरूपापहारः ब्रह्मण्यपि तथास्याद्यदि विषयापहार एव वृत्तावपि तथा स्यात्सर्वदा वृत्तिसाक्षिणोर्नवैषम्यं स्यादिति तात्पर्यम् ।नित्यविद्येति।अविद्यायाः प्रकाशसमानसत्ताकत्वात् नित्यता स्यादित्यर्थः ।विषयस्वरूपेति। अविद्यासाक्षित्वं यद्यविद्यास्वरूपं तर्ह्यविशेषाद्घटादिसाक्षित्वमपि घटादिस्वरूपमेव । ततश्च विषयसत्वे साक्षित्वस्यापि आवश्यकतया सर्वदाभान प्रसङ्ग इत्यर्थः ।साक्षित्वाधीनेति। अन्योन्याश्रय प्रसङ्गादिति भावः ।साक्षित्वाधीनत्वान्नाविद्याया इति। यदि तदा"“षडस्माकमनादय’‘इत्यस्य विरोधस्स्यादित्याह ।साक्षित्वस्यापीति । एतेनेति। वक्ष्यमाणेन तृतीय विकल्पोपीत्यर्थः ।अनादेरिति। अविद्याप्रकाशस्यानादित्वाभ्युपगमादिति भावः ।न चतुर्थ इति। साक्षित्वविकल्पे अन्यत्रेति चतुर्थपक्ष इत्यर्थः ।दुश्यत्वादिति।स्वरूपान्तर्भावे ब्रह्मस्वरूपस्य मिथ्यारूपाविद्यागोचरत्वेन मिथ्यात्वं स्यात् ।अन्तर्भावे सत्यत्वे द्वैतप्रसङ्गः ।मिथ्यत्वे तस्याविद्यास्वरूपत्वे घटादीनां स्वरूपस्यापि साक्षित्वप्रसङ्गेन सर्वदा घटादिप्रकाशप्रसङ्गः । तज्जन्यत्वे तदधीनसिद्धेरविद्याया तज्जनकत्वादपसिद्धान्तश्चेति दोषइत्यर्थः । नन्वस्तु घटादि स्वरूपस्यैव साक्षित्वं तथापि कदाचित्तदीयत्वा भावप्रकाशेर्थान्तरस्याप्रकाशप्रसङ्गादहमर्थतद्धर्मज्ञानानामपि प्रकाशभावाद प्रकाशप्रसङ्गाच्छुद्धचिदाश्रया अविद्यायाः अप्यन्तः करणोपाधिकचैतन्यसम्बन्धाभावाद प्रकाशप्रसङ्गाच्चेति । इति वत्सजलधिकौस्तुभनृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणीटीकायाम् अष्टाविंशः समाप्तः ॥