27 ज्ञातृत्वाध्यासभङ्गवादः

॥अथ ज्ञातृत्वाध्यासभङ्गवादः सप्तविंशः ॥27॥
तमाश्रये यस्त्विह चेतनानामेको बहूनां विदधाति कामान् ।

शक्तिः परा यस्य समस्तसूतिः स्वाभाविकी ज्ञानबलक्रिया च ॥
यदाहुः - ज्ञातृत्वादिप्रकाशो भ्रान्तिः, देहात्माभिमानवत एव जायमानप्रकाशत्वात्, स्थूलोऽहमित्यादिप्रतीतिवदिति, तदसत्; हेत्वसिद्धेः ।
न हीश्वरस्य योगिनां मुक्तानां वा देहात्मभ्रमः, न च तेषां ज्ञातृत्वादिकं न प्रकाशते ।
यथा परं ब्रह्मैव सङ्कल्पयति - “हन्ताऽहमिमास्तिस्रो देवता’’ (छां - 6 - 3 - 1) इत्यादि ।
अस्ति च “वेदाहं समतीतानी’’ (गीता - 7 - 26)त्यादिभगवद्गीतावाक्यशतम् ।
तथा “तद्वैतत्पश्यन् ऋुषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च’’ (बृह - 3 - 4 - 10) “सर्वं ह पश्यः पश्यती’’(छां - 7 - 26 - 2)त्यादिभिर्योगिनां मुक्तानां चाहन्त्वज्ञातृत्वादिप्रतिपत्तिः ।
अन्यथा संवित्स्वरूपप्रतिभानस्यापि भ्रान्तित्वप्रसङ्गः ।
देहात्मभ्रमनिवृत्तावपि तत्प्रतिभासोऽस्तीति चेत् कुतः? श्रुतेरिति चेत्, तुल्यम् ।
किञ्च ज्ञातृत्वावभासो निरधिष्ठानस्साधिष्ठानो वा? नाद्यः, अपसिद्धान्तात् ।
न द्वितीयः, संविदधिष्ठानत्वे तत्सामानाधिकरण्येनानुभवितुः ज्ञातृत्वं ज्ञानमिति प्रकाशप्रसङ्गात्; इदं रजतमिति शुक्तिसामानाधिकरण्येनेव रजतस्य ।
अधिष्ठानान्तरस्य तु परमार्थस्यानभ्युपगमात्, अपरमार्थस्याप्यन्ततस्संविदधिष्ठानत्वेनोक्तदोषानपायात् ।
दर्पणादिषु व्यधिकरणतया मुखाद्यध्यासस्तर्हि कथमिति चेन्न; उक्तोत्तरत्वात् ।
तत्र हि परमार्थभूते दर्पणे मुखदेशत्वमध्यस्ते ।
तत्र च सामानाधिकरण्यमस्त्येव ।

किञ्च सत्यस्य दर्पणस्याधिकरणत्वं मुखस्य चारोपितस्याधेयत्वं पश्यामः, अत्र तु सत्यतयाऽभ्युपेतायास्संविद एव मुखवदारोपितत्वाभिमतोऽहमर्थ एवाधिकरणतया प्रतीयते ।
एवं मुखदर्पणसंसर्गाध्यासपक्षेऽप्यधिकरणसत्यत्वादसिद्धिः।
ननु दर्पणे मुखदेशत्वारोपः, मुखे वा दर्पणदेशित्वारोपः, एवमत्रापि संविद्यहमर्थदेशित्वारोप इति कः पक्षपातः? यथा सम्प्रतिपन्नस्य देवदत्तस्य गन्धर्वनगरदेशित्वारोप इति चेन्न; सामग्रीसम्भवासम्भवाभ्यां विशेषात् ।
तत्र हि दर्पणप्रतिहतप्रतिस्रोतः प्रवृत्तनयनालोकेन देशवियुक्तमुखमात्रग्रहणेऽनुकूलस्रोतसा च दर्पणदेशे गृह्यमाणे देशत्वादिसाम्यान्मुख देशभेदाग्रहणाच्च मुख देशत्वारोपसम्भवः; मुखे च यत्किञ्चिद्देशवर्तिनि दर्पणदेशवृत्तिवस्त्वन्तरेण देशित्वादिसाम्यात् अन्यदेशवृत्तित्वाग्रहाच्च दर्पणदेशित्वारोपः, अत्र तु संविदि निर्विशेषायां देश्यन्तरसाम्यासम्भवात्तद्भेदाग्र(हणा)हासम्भवाच्च कथमहमर्थदेशित्वाध्यासः? अहमर्थे तर्हि संविद्देशत्वाध्यास इति चेन्न; तदध्यस्तस्य अहमर्थस्य तत्सामानाधिकरण्यप्रतीतियोग्यस्य रजते शुक्तिदेशत्वाध्यासवत्तदनुपपत्तेः ।
मणिप्रभाविषयसप्रभाकमण्यारोपवत्सर्वमुपपन्नमिति चेन्न; प्रभाश्रयस्य परमार्थमणेस्सम्प्रतिपन्नत्वेन तस्य तत्प्रभायां तत्साम्यादिभिरारोपस्योपपत्तेः ।
अत्रापि यदि ज्ञानाश्रयस्सत्य इष्यते ज्ञानस्य सत्यं साधर्म्यम्, तदा तद्धर्मे ज्ञाने कुतश्चित्तदारोपस्सम्भवतीति शङ्क्येत ।
न च तत्साधर्म्येऽपि तस्य सम्भवः, प्रभावद्धर्मभूतस्य ज्ञानस्य धर्मिणमन्तरेण कदाचिदपि प्रकाशासम्भवात् ।
धर्मधर्मिभावेन तु प्रतीतौ धर्मे धर्म्यारोपासम्भवात् गमने गन्तृत्वारोपवत्तदसम्भवः ।
न हि मणिधर्मतयैव प्रतीतायां प्रभायां मणिबुद्धिसम्भवः ।

स्फटिकरागायः पिण्डौष्व्यादिवत्संविद्यपि तच्छायापत्तितः संसर्गतो वा ज्ञातृत्वमस्त्विति चेन्न; जपाकुसुमवह्न्यादेर्वास्तवरागौष्व्ययोगेन तच्छायापत्तिसंसर्गाभ्यां तद्गुणकत्वेन प्रतीत्युपपत्तेः; अत्र तु संविद्यहङ्कारे च
वास्तवज्ञातृत्वानभ्युपगमात्, अवास्तवज्ञातृत्वच्छायापत्त्यादावन्योन्याश्रयानवस्थादि दोषात् ।
ज्ञप्तिमात्रत्वच्छायापत्त्यादौ ज्ञप्तिमात्रत्प्रतिभासप्रसङ्गाच्च ।
अहङ्कारवृत्तिविशेषेऽनुभवस्य च्छायापत्त्या ज्ञातृत्वप्रकाश इति चेन्न; शब्दगन्धरसादीनां कीदृशी प्रतिबिम्बतेति न्यायेन नीरूपस्य च्छायापत्त्ययोगात् ।
भेदाग्रहमूलभ्रमस्यापि निर्विशेषे दुर्निर्वहत्वस्यान्यत्र प्रपञ्चितत्वात् ।
उभयत्रासिद्धमपि चूर्णहरिद्रासंसर्गजरागवत् ज्ञातृत्वं प्रकाशत इति चेन्न; तथा सति वास्तवज्ञातृत्वप्रसङ्गात् ।
आगन्तुकचैतन्यवादावतारस्त्वधिकः, लोकायतवादावतारो वा ।
ते ह्येवमाहुः - “पृथिव्यप्तेजोवायव एव तत्त्वानि, तेभ्यश्चैतन्यं
किण्वादिभ्यो मदशक्तिवदि’’ (चार्वाकसूत्रं) ति ।
ननु च ज्ञातृत्वोत्पत्त्यभ्युपगमे स्यादिदं चोद्यम्, न पुनरध्यासे ।
तथा हि - क्रियाशक्तिमानहङ्कारो व्यञ्जकस्वभावत्वात् दर्पण इव स्वनिष्ठतया मुखम्, स्वक्रियात्नाऽनुभूतिमभिव्यनक्ति, तत एव जानामीति भ्रम इति ।
तदपि मन्दम्, नित्यप्रकाशस्यानुभवस्याभिव्यक्तिनैरपेक्ष्यात्; अपेक्षायामपि जडस्याहङ्कारस्य संविद इव साक्षाद्धञ्जकत्वाभावात् ।
इन्द्रियादिवद्व्यञ्जकत्वाभ्युपगमेऽपि तज्जन्यज्ञानान्तरानभ्युपगमेन तदसिद्धेः ।
ज्ञानान्तराध्यासस्य त्वद्यापि निरूप्यमाणत्वात् ।
तज्जन्यज्ञानविषयतया घटादेरिव संविदोऽपि त्वदुक्तप्रकारेणाननुभूतित्वमिथ्यात्वादिप्रसङ्गाच्च ।

किञ्च, किमनभिव्यक्तस्यैवाहङ्कारस्यानुभूतिव्यञ्जकत्वम्? उताभिव्यक्तस्य वा? नाद्यः, सत्याकारत्वेनानारोपितत्वप्रसङ्गात् ।
न द्वितीयः, संविदभिव्यक्तिमन्तरेण तदनभिव्यक्तेः ।
अनभिव्यक्तायाश्च संविदो व्यञ्जकत्वे स्वयम्प्रकाशत्वादिपरित्यागप्रसङ्गात् ।
तदभिव्यक्तितः पश्चादभिव्यक्तस्याहङ्कारस्य तदभिव्यक्तिं प्रति करणत्वे विरोधात्, तादधीन्यादिप्रसङ्गाच्च ।
पूर्वाभिव्यक्तस्याप्यनुभवस्य तद्व्यङ्ग्येनैवाहङ्कारेण विशदव्यक्तिस्साध्यते, रविकरव्यङ्ग्येन करतलेन पूर्वव्यक्तरविकरविशदीकरणवदिति चेन्न; निर्द्धर्मके निरंशे स्वप्रकाशे वैशद्यासम्भवस्यान्यत्रोक्तेः ।
रविकरे तु सधर्मके सावयवेस्फुटास्फुटभावाद्युपपत्तेः ।
न च तत्र करतलेन तद्विशदीकरणम्, करतलप्रतिहति वशाद्बहुलीभूतस्यालोकस्य सेतुसंरुद्धस्रोतस इव स्वयमेव बहुलतयोपलम्भात् ।
न च तत्र निरोध एव नास्तीति वक्तुं शक्यम्, तिरोधानवैयर्थ्यादिप्रसङ्गात् ।
न च निरोधेऽपि बाहुल्यं नास्तीति शङ्कनीयम्, प्रतीपस्रोतसा तत्सिद्धेः ।
तच्च दर्पणादिप्रतिफलितरविकिरणैर्गर्भगेहान्धकारनिरसनादिषु सिद्धम् ।
न च तावता करतलादुपरिष्ठादपि बहुलोपलम्भप्रसङ्गः, मूलाग्रयोरालोकानां घनविरलभावस्य सर्वत्र दीपादिष्वप्युपलब्ध्या प्रतिहतालोकस्याप्यग्रवैरल्योपपत्तेः ।
न च मात्रयापि पार्श्वालोकात् करतलोपरितनस्यालोकस्य न वैषम्यं दृश्यत इति वाच्यम्, सूक्ष्मस्य वैषम्यस्य दुर्ग्रहत्वात् ।
अन्यथा माध्यन्दिनमार्ताण्डमण्डलालोकमध्यजाज्वल्यमानप्रदीपालोकसन्निधाने तत्रत्यालोकमण्डलस्य बहुलतरत्वेन ग्रहणप्रसङ्गात् ।
न च करतलप्रतिहतौ मूलेऽपि तत्प्रसङ्गः, उपलम्भव्यवस्थाप्यत्वादुपलब्धि योग्यबाहुल्यस्य ।

किञ्च यत्स्वनिष्ठतयाऽभिव्यक्तेः प्रयोजकं व्यञ्जकत्वम्, तत्किं ज्ञानत्वम्? उत ज्ञानजनकत्वम्? यद्वा इन्द्रियत्वम्? उत तदनुग्राहकत्वम्? उत तत्सम्बनहेतुत्वम्? यद्वा बोद्धृबोध्ययोरन्यतर गतप्रतिबन्धनिराकर्तृत्वम्? अथवा साङ्ख्यादिमते घटादिं प्रति दण्डादेरिव स्वानतिरिक्तस्वाभिमतानुभूतिं प्रति जनकत्वमेवेति ।
नाद्यः; असिद्धेः, विरोधाच्च ।
उत्तरे कल्पास्सर्वेऽपिसंविदो ज्ञानविषयत्वानभ्युपगमेनैव निरस्ताः ।
विशेषतोऽपि ब्रूमः ।
न द्वितीयः, इन्द्रियादिभिरनैकान्त्यात् ।
न तृतीयः, असिद्धेः ।
अहङ्कारजन्मनामेकादशानामेव हीन्द्रियत्वं श्रूयते ।
न चतुर्थः, अदृष्टेश्वरादिभिर्व्यभिचारात् ।
अत एव न पञ्चमः ।
इन्द्रियक्रियादिभिश्च व्यभिचारोऽधिकः ।
न षष्ठः, शमदमादिभिर्दोषादिभिश्चानैकान्त्यात्; दर्पणादिदृष्टान्तस्य च साधनवैकल्यात् ।
न चाहङ्कारापनेयं किञ्चिदनुभूतिविषयज्ञानोत्पत्तिप्रतिबन्धकं सम्भवति, बाह्यस्यान्धकारादेरिवान्तरस्यकिल्बिषादेरप्यहङ्कारनिवर्त्यत्वाभावात् ।
अज्ञानस्यापि भावरूपस्याभावारूपस्य या ज्ञानमात्रनिवर्त्यत्वात् ।
भवदभिमताज्ञानस्य स्वरूपाश्रयविषयादिदुर्निरूपत्वस्यन्यात्र स्थापनात् ।
नच ज्ञानप्रागभावस्तदुत्पत्तिप्रतिबन्धकः, प्रागभावस्य कैश्चित्कारणत्वाभ्युपगमात्, अन्येषामपि कार्यस्य तन्निरसनरूपत्वेन कार्योत्पत्तेः प्रागभावनिरसनापेक्षायामात्माश्रयप्रसङ्गात् ।

किञ्च व्यञ्जकानां स्वनिष्ठतयाऽभिव्यङ्ग्याभिव्यञ्जनस्वभावत्वे सौगतसौहार्दं प्रकाशितं भवति ।
अप्रामाण्यं स्वत इति हि तैरङ्गीक्रियते ।
स्वतः प्रामाण्यभागे चापौरुषेयी श्रुतिरिति न प्रमाणं स्यात् ।
अथ मन्यसे - आत्मा तावन्निर्विकार इति श्रुतिसिद्धम्, तस्य च ज्ञातृत्वाभ्युपगमे विकारित्वप्रसङ्गः,ज्ञातृत्वं हि गन्तृत्ववत्क्रियाविशेषकर्तृत्वरूपत्वाद्विक्रियात्मकम्; अतः कृतिशक्तिमतोऽन्तःकरणस्य सैव कृतिश्चितिशक्ति रूपात्मसन्निधानेन ज्ञानरूपेव भातीति न क्वचिदपि तात्त्विकं ज्ञातृत्वम् ।
प्रयोगश्च - ज्ञातृत्वकर्तृत्वाहन्त्वादिकं नात्मधर्मः, विक्रियात्मकत्वात्, दृश्यत्वात्, दृश्यनिष्ठत्वात्, अहमर्थसमानाधिकरणतया प्रतीयमानत्वात्, सम्प्रतिपन्नवत् ।
अत्रैव विकारिद्रव्यस्थमिति वा साध्यम् ।

विप्रतिपन्नोऽहम्प्रत्ययो नात्मगोचरः, अहम्प्रत्ययत्वात्, देहाहम्प्रत्ययवदिति; यद्वा, आत्मा वा ज्ञातृत्वकर्तृत्वाहन्त्वादिरहितः, निर्विकारत्वात्, अन्तः करणरूपाहङ्कारव्यतिरिक्तत्वात्, अजडत्वात्, प्रत्यक्त्वात्, आत्मत्वादित्यादिभिश्चेति ।
अत्र ब्रूमः यथा निर्विकारत्वमात्मनश्श्रुतिसिद्धं तथा ज्ञातृत्वमपि तत एव सिद्धम् ।
तथाहि “अथ यो वेदेदं जिघ्राणीति स आत्मे’’ (छां 8 - 12 - 7) त्यादि तथा “एष हि द्रष्टा (स्प्रष्टा)श्रोते’’ त्याद्यारभ्य “विज्ञानात्मा पुरुष’’ (प्रश्न 4 - 9) इत्यादिभिरात्मन एव साक्षाज्ज्ञातृत्वं श्रूयते।
निर्विकारश्रुतिविरोधात् भ्रान्तिसिद्धविषया ज्ञातृत्वश्रुतिरिति चेन्न, विपरिवर्तप्रसङ्गात् ।
निर्गुणनिरूपणे
च विषयव्यवस्थाया निर्वहणं द्रष्टव्यम् ।

कथं च ज्ञातृत्वस्य विकारात्मत्वम्? न तावन्मृत्पिण्डादिवत्स्वरूपान्यथाभावेन; तदसिद्धेः ।
नापि धात्वर्थयोगितामात्रेण, अस्तिभवतीत्यादियोगेनानुभूतेरपि विकारित्वप्रसङ्गात् ।
नित्यत्वादस्त्यादेर्वि कारत्वं नास्तीति चेन्न; ज्ञातृत्वेऽपि समानत्वात् ।
ज्ञातृत्वस्य कादाचित्कतयोपलम्भाज्ज्ञानं विकार इति चेन्न; अस्त्यादेरपि कादाचित्कतयोपलम्भात्तस्यापि विकारत्वप्रसङ्गात् ।
ज्ञाननित्यत्वश्रुत्या दिबलादस्त्यादेर्न विक्रियात्मत्वमिति चेत्, तर्हि ज्ञातृत्वमपि श्रुतिसिद्धमेव; यथा - “न विज्ञातुर्विज्ञा
तेर्विपरिलोपो विद्यत’’ (बृह.6 - 3.30) इति ।
एवञ्च सति कर्मोपाधिकतत्तत्करणव्यापार द्वारकनियतविषयज्ञानप्रकाशाप्रकाशावपेक्ष्य उदयास्तमयव्यपदेशः ।
उक्तं च भगवता शौनकेनापि - “यथा न क्रियते ज्योत्स्रा मलप्रक्षालनान्मणेः ।
दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा’’ ॥ (विष्णु धर्म 1.1.55) “यथोदपानकरणात्क्रियते न जलाम्बरम् ।
सदेव नीयते व्यक्तिमसतस्सम्भवः कुतः ॥’’ (विष्णुधर्मः1 - 1 - 76)॥ “तथा हेयगुणध्वंसादवबोधादयो गुणाः ।
प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते’’ ॥ इति ।
(विष्णुधर्म 104 - 189) एतेन ज्ञाननित्यत्वे नित्योपलम्भप्रसङ्ग इति चोद्यमपि परिहृतम्, कर्मोपाधिकसङ्कोचवशात्तदप्रकाशात् ।
ज्ञानसङ्कोचविकासाभ्यामात्मनो विकारित्वमिति चेन्न; साक्षात्तदाश्रयत्वाभावात्,व्यवधानेन तदाश्रयत्ववचनस्य स्वरूपविषयनिर्विकारश्रुत्या सह विरोधगन्धाभावात् ।
एवं च सति प्रत्यक्षकलहशान्तिरपि स्यात् ।
यच्च विक्रियात्मकत्वादित्याद्यनुमान तूलजालम्, तत्रापि बाधानैकान्त्यादिपवनदहनसम्मूर्च्छनम् ।
बाधस्तावन्नित्यज्ञातृत्वप्रतिपादक श्रुत्यादिवशात्सर्वत्र सिद्धः ।

विशेषतश्च ब्रूमः - विक्रियात्मकत्वादिति स्वरूपपरिणामविवक्षायामसिद्धिः ।
क्रियायोगमात्रादि विवक्षायामस्त्याभिरनैकान्त्यम् ।
दृश्यत्वान्नात्मधर्म इत्यस्य दूषणं तु निर्विशेषत्वनिराकरणे ग्राह्यम् ।
दृश्यनिष्ठत्वादित्येतदप्यात्मनो दृश्यत्वसमर्थनेन परिहृतम् ।
यदि पुनर्द्रष्टुनिष्ठत्वनिषेधे तात्पर्यम्, तदा व्याघातः नहि ज्ञातृत्वमेव ज्ञातृनिष्ठं न भवतीति सम्भावयामः ।
यच्चहमर्थसमानाधिकरणतया प्रतीयमानत्वादिति, तदप्यात्मत्वेनानैकान्तिकम् ।
अस्ति ह्यहमात्मेत्यपि सामानाधिकरण्यम् ।
आत्मा तावदस्ति, तस्यात्मत्वं नाम किमपि नास्तीति कुत्रानैकान्त्यमिति चेत्? तर्हि ज्ञाता नाम कश्चिदस्ति ज्ञातृत्वं नाम किञ्चिन्नास्तीति परिभाष्य तत्पक्षीकारणे प्रयोगं परित्यज्य तूष्णीमास्स्व ।
एषु च ज्ञानमात्रात्मधर्मत्वनिषेधे त्वप्रसिद्धविशेषणता ।
ज्ञानधर्मत्वमात्रनिषेधेऽंशतस्सिद्धसाधनता ।
ज्ञातृधर्मत्वनिषेधे स्ववचनविरोदापसिद्धान्तौ ।
विकारिद्रव्यस्थमिति साध्येऽप्यात्मनोऽपि शरीरसम्बन्धादिमात्रविकाराभ्युपगमेन सिद्धसाधनता उत्पत्तिविनाशादि विकारिद्रव्यनिष्ठमिति साध्येऽपि बाधाप्रयोजकत्वादिरपरिहार्यः ।

एवमहम्प्रत्ययो नात्मगोचरः, अहम्प्रत्ययत्वादित्यत्रापि ज्ञानमात्राहमर्थाद्यात्मशब्दार्थविकल्पेन सिद्धसाधनत्वाप्रसिद्धविशेषणत्वविरोधापसिद्धन्तादिर्द्रष्टव्यः ।
न च भ्रान्तिस्थलेऽहम्प्रत्ययस्यानात्म विषयतया अन्यत्रापि तथैव भवितव्यम्, अतिप्रसङ्गात् ।
यश्चात्मा ज्ञातृत्वादिरहित इति साध्ये निर्विकारत्वादिति हेतुः, सच विकारविकल्पेन निरस्तप्रायः ।
यस्त्वन्तः करण रूपाहङ्कारव्यतिरिक्तत्वादिति, सोऽपि तेनैवात्मनो ज्ञानरूपत्वमपि निषेद्धुं शक्यमिति प्रसञ्जकत्वादप्रयोजकत्वाच्च परिहृतः ।
ज्ञातृत्वाभ्युपगमे जडत्वपराक्त्वानात्मत्वादिप्रसङ्ग इति विपक्षे व्याप्तिसिद्धेः प्रयोजकत्वमिति चेन्न; ज्ञातृत्वेऽप्यजडत्वादिकं भवत्विति त्वत्प्रयुक्तप्रसङ्गव्याप्तावपि पर्यनुयोगावतारात् ।
एतेनाजडत्वादित्यनुमानमपि निरस्तं भवतीति ।
यश्चाहङ्कारस्य ज्ञातृत्वमिच्छति, स कथं दृश्यत्वप्रकृतिपरिणामत्वादिभिर्देहस्याचेतनत्वं साधयति ।
यदि पुनर्दृश्यत्वाद्यविशेषेऽपि देहस्याचेतनत्वमन्तःकरणस्य ज्ञातृत्वं च देहत्वादिवव्यवस्थितं मन्येत, तदाऽन्तःकरणस्यैव दृशित्वमपि साधयेत्, पर्यनुयोगपरिहारयोस्तुल्यत्वात् ।
विकारिद्रव्यविशेषस्यैव परिणामविशेषवशाज्ज्ञातृत्वमिच्छन्नूनं भूतचैतन्यवादमेवाभिप्रेत्यात्मापह्नवादिषु
भिक्षुपादप्रसारणन्यायेन प्रव(र्ते)र्तत इत्यायातम् ।
अतस्सिद्धं ज्ञातृत्वमात्मन एव; तच्चानध्यस्तं सत्यमिति ॥
॥इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां ज्ञातृत्वाध्यासभङ्गवादः सप्तविंशः ॥27॥

नृसिंहराजीया

आत्मप्रसङ्गचिन्तान्तरमपिसङ्गत मित्यभिप्रायेण वादार्थ सङ्गृह्णाति ।तमिति ।““नित्योनित्यानां चेतनश्चेतनानाम् एको बहूनां यो विदधाति कामानि’’ (श्वे 6 - 23, कठ 2 - 15.23)ति श्रुति सिद्धार्थ चेतनानामिति पदेन सूचितः । कल्पितत्वं श्रुत्यापराचष्टे ।शक्तिः परेति । ““परास्य शक्तिर्विविधैव श्रूयतेस्वाभाविकी ज्ञानबलक्रियाचे’’ (श्वे.6.8)ति श्रुतेस्स्वाभाविकत्वस्य पारमार्थिकत्वस्य सिद्धेरिति भावः ।तथा च भगवतो ज्ञानात्मकस्य पारमार्थिकज्ञातृत्वादिसिद्धौ तन्नयायेन चेतनानामपि पारमार्थिक ज्ञातृत्वादिकमिति भावः । ज्ञातृत्वेति। नन्वन्तः करणगततया ज्ञातृत्वप्रकाशे बाधः स्थूलोऽहं जानामीति प्रतीतौ च सिद्धसाधनमिति चेन्न । अहं जानामीति व्यवहार हेतुभूतप्रकाशत्वेन पक्षत्वान्नदोष इति भावः । यद्यहं जानामीति व्यवहार हेतु प्रत्ययःकदाचिद्देहविषयस्तदा देहविषयत्वेनापि विशेषणीयम् ।भ्रान्तिरिति। अत्र विशेष्यावृत्तिप्रकारत्वं विवक्षितम् । न मिथ्यात्वम् । कर्तृत्वादेरात्मन्यौपाधिकत्वस्य सिषाधयिषितत्वात् ।देहेति। समानाधिकरणदेहात्मभ्रमप्रागभावकाले जायमानत्वादित्यर्थः । तेनाविद्यानिवर्तक चरमसाक्षात्कारे न व्यभिचार इति बोध्यम् ।तदसदिति। इदानीन्तनघटप्रमायां व्यभिचार इति भावः । ननुसमानाधिकरणदेहात्माभिमानप्रागभावशून्येऽसम्भाव्यमानतज्जातीयत्वविवक्षायां दोषमाहहेत्वसिद्धेरिति।असिद्धिमेवोपपादयतिनहीति।प्रतिपत्तुरभिन्नाहं प्रत्ययत्वादिति। विवक्षितुमीश्वरस्य मुक्तानां च योगिनां च अहङ्कार एव अहन्त्वप्रकारकप्रतीतिरित्यत आह ।यथा परमिति।तद्धैतदिति । योगिनः ““सर्वंः ह पश्यः पश्यतीति’’ (छां 7 - 26 - 2)। मुक्तानां च तादृशाहम्प्रत्ययोसीति तदप्यसिद्धमिति भावः । व्यभिचारोऽपि तत्रेति बोधकत्वंहेतुश्रुत्या ज्ञातृत्वसिद्धेः । तत्समानाधिकरणमहन्त्वमपि सिद्धमेवेति सर्वदर्शनसिद्ध्या तत्सिद्धिरिति भावः ।अन्यथेति। असिध्यभावे सर्वञ्ज्ञानयाथार्थ्यप्रसङ्गादिति भावः । ननु सर्वथा वर्तमानत्व हेतुरित्यभिप्रायेण शङ्कते ।देहात्मेति । श्रुतेरितीति॥ स्वप्रकाशनित्यत्वादिश्रुतेरित्यर्थः ।तुल्यमिति। उक्तश्रुतिभिः"“अहमन्नमि’’(तै.उ.भृ.)त्यादि श्रुतिभिश्चेत्यर्थः ।तत्सामानाधिकरण्येनेति। तच्छब्दोज्ञातृत्वपरः ।अनुभवितुश्चिद्रूपात्मन इत्यर्थः । सामानाधिकरण्यम् अभिन्नता किं ज्ञानत्वेन प्रतीतेर ध्यासः उतस्वरूपेण आद्ये ज्ञातृत्वं ज्ञानमिति प्रतीतिप्रसङ्गात् । द्वितीये ज्ञातृत्वमिति निरधिकरणतया भासेतेति भावः । संविदोन्यदधिष्ठानं चेन्न दोष इत्यत आह ।अधिष्ठानान्तरस्येति । उक्तदोषादिति । सदिदं रजतमिति। रजतस्यसत्तेव अत्रापि स्वाधिष्ठानसंविदा सामानाधिकरण्यात् पूर्ववद् ज्ञातृत्वं ज्ञानमिति प्रकाशप्रसङ्गादित्यर्थः । अध्यासे अधिष्ठानसामानाधिकरण्यप्रतीति नियमो नास्तीत्यत आह ॥दर्पाणादिष्विति।अध्यस्तस्य अधिष्ठान गततया प्रतीतिमात्रेदृष्टान्ततयोक्तिः नतु प्रतिबिम्बत्वे । ततश्च ज्ञातृत्वाहन्तृत्वयोस्संविदध्यासाहं ज्ञातेति समानाश्रयतया प्रतीतिरूपपद्यत इत्यर्थः । किं मुखमध्यस्यते उत मुखसंसर्ग इति विकल्पमभिप्रेत्याद्येदोषमाहसत्यस्येति। ज्ञातृत्वाध्यासोऽहं जानामीति प्रतीतिरेव । तत्र च ज्ञानमेवाधेयतया अहमर्थ एवाधिकरणतया प्रतीयते तच्चायुक्तमित्यर्थः ।द्वितीये दोषमाह ।एवम्मुखदर्पणेति। अथाहमर्थ एव सद्रूपम् । अद्वितीयमिति संविदो मिथ्यात्वं स्यादित्यर्थः ।नन्वन्यतरस्मिन् अन्यतर संसर्गाध्यासमात्रेण न तयोः सत्यत्वमिथ्यात्वनियमो दर्पण मुखयोस्सत्यत्वादिति शङ्कतेनत्विति। तथाप्यधिकरणस्य सत्यत्वं स्यादित्याशङ्क्याधिकरणमिथ्यात्वे दृष्टान्तमाहयथेति ।सामग्रीतिअध्याससामग्रीत्यर्थः । तदेवोपपादयति ।तत्रा हीति । अत्रा त्विति। सादृश्यं हि भेदाग्रहहेतुः । तस्य निर्विशेषे वक्तुमशक्यत्वात्तदभावे न तदाभावादारोपसामग्रय भाव इति भावः । पूर्वदोषे सत्येन दोषान्तरमाह ।तदध्यस्तेति। चैतन्येध्यस्तत्वादहमर्थस्य तस्मिन् चैतन्य संसर्गारोपो न युक्तः । शुक्त््यध्यस्तु रजते शुक्तिदेशत्वाध्यासासम्भवादिति भावः । अहमर्थदेशित्वारोपपक्षेप्ययं दोषस्सम इति बोध्यम् । ननु मणि प्रभायां सप्रभाकमण्यारोपे प्रभाया यथाधिष्ठानत्वप्रतीतिः मणिगतत्व प्रतीतिश्चतद्वत् ज्ञातृत्वविशिष्ठस्य अहमर्थस्य संविदध्यासात् । संविदाभेद प्रतीतिः संविदाश्रयत्व प्रतीतिश्चेतिशङ्कते ।मणिप्रभेति।नेति। मणौ प्रभानारोप्यते स्वतः सप्रभाक मणिः प्रभायामारोप्यते । अहमर्थस्यतु संविदनाश्रयत्वात् संविदारोप्यत इति वाच्यम् । तथाच पूर्वन्यायेन अहमर्थे संविदारोपो न स्यादिति पूर्वदोषस्तदवस्थ इति भावः । सत्यस्य ज्ञानाश्रयस्य सम्भवे चैतन्ये निर्धर्मके सत्यसादृश््याभावान्नारोप इत्याहतेन चेति। ननु सत्य भूतसादृश्याभावेपि समुद्रजलेअध्यस्तनीलरूपसादृश्यान्नीलशिलात्वाध्यासवदारोपित सादृश्यादप्यध्यासस्सम्भवतीत्यतआहन चेति।प्रभाया मणिधर्मतया प्रत्यक्षसिद्धा तथा ज्ञानमप्यहमर्थ धर्मतया प्रत्यक्षसिद्धं तच्च यदि धर्मिणमन्तरेण कदाचित्प्रतीय्येत तदा तथा भासमाने अध्यास इति शङ्क््येत । न च धर्मिणमन्तरेण ज्ञानस्यकदाचित्प्रतीतिरित्यर्थः ।नहीति। यदवच्छेदेन मणि धर्मता प्रतीतिस्तदवच्छेदेन मणित्वप्रतीतिर्नसम्भवति ।किन्तुरक्ततामात्रेण प्रतीत इत्यर्थः । नन्वौपाधिक भ्रमत्वान्न सादृश्यापेक्षा नापि विशेषदर्शनं प्रतिबन्धकमिति शङ्कतेस्फटिकेति। स्फटिकेरागस्य छायापत्तिर्वा अयः पिण्डसंसर्गाद्यौष्णवत्चितिछायापत्या संसर्गतो वा ज्ञातृत्वमित्यर्थः ।अन्योऽन्येति।संविदि ज्ञातृत्वम् अहङ्कारच्छायापत्त्या अहङ्कारे तु तादृशः संवविच्छायापत्त्या अन्योन्याश्रयः । यद्यन्यछायापत्याहङ्कारे ज्ञातृत्वं तदा तस्मिन्नप्यन्यच्छायापत्येति अनवस्थेत्यर्थः । ननु ज्ञातृत्वविशिष्टस्य चैतन्यस्य छायापत्तिः येनान्योन्याश्रयस्यात् । किं तु ज्ञप्तिगतस्य ज्ञाप्तित्वमात्रस्य अहमर्थे छायापत्तिः तथाचाहमर्थस्य ज्ञानत्वे सिद्धे तस्य संविदि छायापत्त्या संविदो ज्ञानाश्रयत्वप्रतीतिसम्भव इत्याशङ्क्यैव मप्यहमर्थे ज्ञातृत्व प्रतीतिर्नस्यात् अहं ज्ञानमित्येवभानं स्यादित्याह ।ज्ञप्तिमात्रत्व इति। आदिशब्देन संविच्छाया पत्तिरूप संशिश लब्धज्ञानता न स्यात् । अहङ्कारस्य संविदिच्छायापत्तिर्विवक्षिता । नन्वन्तः करणवृत्तिविशेषो अभवस्यच्छायापत्तिः तस्तरक्तः स्फटिक इत्यत्र प्रतिबिम्बितरक्तद्रव्यस्य स्फटिके नैवसत्यभेदेन प्रतीतौ अहमर्थस्य ज्ञातृत्वे सति तदभेदाध्यासतादात्मनो ज्ञातृत्वोपपत्तिरिति शङ्कते ।अहङ्कारेति।शब्दादीनां प्रतिबिम्बाभावस्य पूर्वैरूक्ततया तन्यायेन चैतन्यस्यापि प्रतिबिम्बो न सम्भवतीति परिहरतिशब्देति।निरूपितस्याचाक्षुषस्येत्यर्थः । निरूपिताधिक भ्रमासम्भवस्तु पूर्वमेवोक्त इति स्मारयति ।भेदाग्रह मूल भ्रमस्येति । तथा सतीति। अन्तः करणचैतन्यसंसर्गादन्तःकरणे ज्ञातृत्वं रागदृष्टान्ताज्जायत इति गम्यते इति भावः । किमन्तःकरणे ज्ञातृत्वं जन्यते उत चैतन्यान्तःकरणसमुदाये । नाद्य इत्याहआगन्तुकेति। ज्ञातृत्वंहि ज्ञानमेव । तथा चाजन्यज्ञानवादिनो जन्यज्ञानानङ्गीकारात् अपसिद्धान्त इति भावः । द्वितीय्ये आहलोकायतेति। बृहस्पतिसूत्रमुदाहरति ।एवमिति। तेभ्यश्चेतन्यं संसृष्टेभ्यः । तत्समुदायशरीरे चैतन्यमित्यर्थः ।किणुरङ्कुरितव्रीहिः । न तु दृष्टान्तेन सर्वसाधर्म्यं वाच्यम् अतिप्रसङ्गात् । किन्तु समुदितस्यान्यकार्यजनकत्वे दृष्टान्त इत्याशङ्कते। ननु चेति ।क्रियाशक्तिमान् क्रियात्मनाभिव्यञ्जक शक्तिमान् । अभिव्यक्तस्यापि सौरालोकस्य करतलाभिव्यङ्ग्यत्वं दृश्यत इत्याहअपेक्षायामपीति। अत्र व्यञ्जकत्वव्यवहारानुगुण्यरूप प्राकप्यापादकत्वं विवक्षितम् । नन्वत्र व्यजकत्वं तद्व्यवहार हेतु ज्ञानजनकत्वं विवक्षितमित्यत्राहइन्द्रियादिवदिति।अभ्युपगमेति। विवक्षायामपीत्यर्थः ।तज्जन्येति। ब्रह्मचैतन्यस्यैव ज्ञानत्वाभ्युपगमेन तदजन्यस्य जन्यस्याभ्युपगमे अपसिद्धान्तादिति भावः ॥ नन्वाध्यासिकज्ञानहेतुतयोन्द्रियव्यञ्जकत्वमुप पद्यत इत्यत्राहज्ञानान्तरेति। अन्तः करणे ज्ञानाध्यास एवहीदानीं जन्यते । तत्सिध्यर्थं चान्तःकरणस्याभिव्यजकत्वाय ज्ञानान्तराध्यासमुच्यते । अयं चोपपादकाध्यासः उपपाद्याध्यासवदेवा सिद्ध इत्यर्थः ।वा अनारोपितस्य वा ज्ञानान्तरास्याभ्युपगमे दूषणान्तरमाहतज्जन्येति। अनुभूतेरनुभूतिविषयत्वे अननुभूतित्वप्रसङ्ग इति त्वदुक्ततर्केणेत्यर्थः मिथ्यात्वादित्यादि शब्देन जडत्वादिग्रहणम् । सत्तयेति। मिथ्यावस्तुनः प्रतीतिव्याप्तत्वादिति भावः । किमनभिव्यक्ता संवित् अन्तःकरणमभिव्यनक्तिउताभिव्यक्ता । नाद्य इत्याह ।अनभिव्यक्ताया इति।द्वितीये संविदोऽभिव्यक्तेरन्तः करणेनैवेत्यऽन्योन्याश्रय इत्याहतदभिव्यक्तित इति । तादधीन्येति। अन्यानपेक्षत्वरूप स्वप्रकाशत्वहानिप्रसङ्ग इति भावः । ननु स्वप्रकाशत्वेनाभि व्यक्तासंवित् स्वाभिव्यक्तेनैवाहङ्कारेण प्रकाश्यत इति नान्योश्रयः इति शङ्कते ।पूर्वाभिव्यक्तस्येति। किमतिरिक्त धर्मप्रकाशो वैशद्यम् उत अवयवविशेषप्रकाशः । यद्वा स्वरूपप्रकाश इति विकल्पमभिप्रेत्य त्रितयस्याप्यसम्भवं पदत्रयेणाहनिर्धर्मक इत्यादिना। निर्विशेषजिज्ञासाभङ्गादावित्यर्थः।रविकरेत्विति। पीतत्वविशेषस्यावयवविशेषस्य च प्रागभातस्य भानमस्तीति भावः । ननु प्रागनुभूतांशाभावेपि करतलेन विशदीकरणं दृष्टमित्यत आह ।नचेति। तत्र करतलस्य न विशदावभासहेतुत्वम् अपितु प्रहत भावप्रयोजकत्वमिति भावः । ननु तत्र बहुलभावना अस्ति । तद्धेतु निरोधस्यैवा भावादित्यत आहनचात्रेत्यादिना। आतपतिरोधानार्थं नामातपत्रादीनां नैरर्थक्या प्रसङ्गादिति भावः। (+++)वादावदर्शनादित्यत आहन चेत्यादिना। यद्यपि गवादौ नास्ति तथापि प्रवाहादौ तत्सम्भवतीति भावः । ननु स्रोतसि बाहुल्यमस्तु न तेजसीत्यत्राह ।तच्च दर्पणादिष्विति। ननु करतलदर्पणयोः निरोधकत्वसाम्येपि दर्पणनिरुद्धस्य प्रकाशवैशद्याद्यनयो दृश्यत इति चेन्नदर्पण निरुद्धालोकसंसर्गाद्भास्वरतरं तेजोन्तरमपि जायते तेनाधिकतेजोवत्वान्न साम्यम् । न चात्रापि प्रकाशान्तरोत्पत्तेः प्रागेव निरस्तत्वादिति भावः ।न चेति। बहुली भावस्याविशेषादिति भावः । दीपादिष्वित्यादिशब्देन विद्युदादिग्रहः ।अग्रवैरल्येति। करतलाद्युपरिदेश इत्यर्थः । ननु करतलप्रतिहत्या बहुली भावः । तथा सति कर पार्श्व प्रदेशे प्रति हत्यभावाद्बहुली भावभावे न करतलालोकापेततया करपार्श्वालोके वैशम्यप्रतीतिस्यात् । नच दृश्यते तस्माद्विश्वप्रकाश एव भवतीत्याशङ्कतेनापीति। तत्राप्येकपार्श्वेन निरोधात्तिर्यक्प्रतीतिवृत्तिरस्तीति बाहुल्यमस्त्येव । यदि वा वैशम्यमस्तीति तदा सूक्ष्मत्वान्नगृहयत इति परिहरति ।सूक्ष्मस्येति । अन्यथेति। प्रदीपालोकस्य अभिभूतत्वात्तेन बाहुलयेऽप्य ग्रहणमिति तदसंसृष्टालोकान्नवैषम्यग्रह इति चेन्न । प्रतीतिबलादभिभवः कल्प्यते तथा सूक्ष्मत्वात् वैषम्यस्याग्रहःकल्प्यत इति भावः नन्वत्राप्यभिभवः कल्प्यतामित्या शङ्कतेनचेति।उपलम्भेति। ननुबाहुल्ये सत्यपि क्वचित्प्रतीतिः क्वचिदप्रतीतिरिति यदि तदालोकस्य साम्येपि क्वचिद्विशदावभासः क्वचिन्नेत्यस्तु किं बाहुल््यभेदकल्पनयेति चेत्सत्यम् एकेन्द्रियज्ञानस्य विषयप्रयुक्तवैशम्यं वाच्यम् अन्यथाज्ञानाभाव प्रसङ्गात् शुक्तिरजताकार ज्ञानस्यापि सामग्री विशेषाभावेपि सम्भवात् यदि रजताकारस्य शुक्तावभावात् अप्रामाण्यं स्यात् तदा विशदत्वस्यापि स्वरूपाभावात् अप्रामाण्य प्रसङ्गादिति ज्ञानाकारभेदे विषयभेद आवश्यक इति भावः । तदन्यग्राहकत्वमिति। दीपादिवदिन्द्रियानुग्राहकत्वमिति अर्थः ।तत्वसम्बन्धहेतुत्वमिति। दर्पणादिवत्इन्द्रियसम्बन्ध हेतुत्वमित्यर्थः । बोद्धृगत प्रतिबन्धो विपरीतज्ञानादिः बोध्यगतप्रतिबन्धो अन्धकारादिः ।अथवेति।सत्कार्यवादिनः साङ्ख्यस्य घटाद्यभिव्यक्तेरेतदुत्पत्तिः अभिव्यक्तिश्च घटाभिन्न एवेत्यर्थः ।असिद्धेरिति। अन्तःकरणस्य ज्ञानत्वाभावादित्यर्थः ।विरोधश्चेति। घटादिज्ञानस्य स्वनिष्ठतया घटाद्यभिव्यञ्जकत्वदर्शनात् इत्यर्थः ।ज्ञानविषयत्वनभ्युपगमेनेति। जन्यत्वानभ्युपगमेनेत्यपि द्रष्टव्यम् । तेन चरमविकल्प निरासः ।इन्द्रियादिभिरिति। घटादीनामिन्द्रियनिष्ठतया प्रकाशाभावादिति भावः ।असिद्धेरिति। इन्द्रियत्वासिद्धेरित्यर्थः ।तदुपपादयतिअहङ्कारेति।अदृष्टेश्वरादिभिरिति। अनुग्राहकत्वं सहकारित्वम् । तददृष्टादेरप्यस्तीति भावःअत एवेति। अदृष्टेश्वरयोः कार्यमात्रे हेतुत्वादिति भावः ।इन्द्रियक्रियेति। क्रियायास्तत्संयोगहेतुत्वादिति भावः ।शमदमेति। शमदमादि बोध्दृगतकल्मषनिवर्तकः । दीपादिः बोध्यगत तिमिरादि निवर्तकः । असिद्धिमप्याह ।नचाहङ्कारेति।अभावरूपस्येति। प्रतियोग्यतिरिक्तनिवृत्त्यभ्युपगमेनोक्तम् । अस्तु वाहाङ्कारस्य ज्ञाननिवर्तकत्वम् । तथापि भावरूपाज्ञानस्य किं ज्ञानोत्पत्तिप्रतिबन्धकत्वं किमभावरूपस्य । नाद्य इत्याहभवदभिमतेति। प्रमाणानुपपत्त्यादिस्थल इत्यर्थः । द्वितीये आहन चेति।कारणत्वेति। प्रतिबन्धकत्वे कैश्चिदपि कारणत्वं वक्तुं शक्यम् । कारणी भूताभाव प्रतियोगित्वे न तस्य नियतपूर्वसत्वाभावे न कैश्चिदपि कारणत्वस्य वक्तुमशक्यतया कारणत्वशङ्का स्पदस्य प्रतिबन्धकत्वायोगादिति भावः । किञ्च व्यञ्जकस्य ज्ञानस्य स्वनिष्ठतया विषयाभिव्यञ्जकत्वे सति ज्ञानाप्रामाण्यप्रसङ्गेन सौ गतमतप्रवेशप्रसङ्ग इत्याह ।किं चेति। इष्टापत्तिं परिहरतिस्वतः प्रामाण्येति ।अप्रामाण्यस्य स्वतस्त्वे प्रामाण्यं स्वतो न स्यात् तथा च श्रुतौ न स्वतः प्रामाण्यं पौरुषेयत्वेन वक्तुर्गुणादपि नेति प्रामाण्यमेव नस्यादित्यर्थः ।क्रियाविशेषेति। क्रियाविशेषाश्रयत्वरूपत्वादित्यर्थः ।कृतिशक्तिमतः - क्रियाशक्तिमत इत्यर्थः ।न क्वचिदिति। अन्तः कारणे आत्मेति चेत्यर्थः । अहन्त्वादिक मित्यादिशब्देन इच्छात्वादिपरिग्रहः । ज्ञातृत्वकर्तत्व पक्षयोः क्रियात्मकत्वंहेतुः । अन्यत्साधारणम्अहमर्थेति। अहन्त्वातिरिक्त पक्षे अयं हेतुः । अहन्त्वसमानाधिकरणतया प्रतीयमानत्वादित्यर्थः । नन्वनुभूत्यात्मेति प्रतीयमानात्मत्वे व्यभिचारः । अहन्त्वातिरिक्तात्मत्वस्य प्रत्यक्षेण तथा प्रतीत्याभावादिति भावः । ननु तर्हि तन्मात्रस्य हेतुत्वे शेषवैयर्थ्यमिति चेत् प्रत्यक्त्वानुकूलत्व परमप्रेमास्वदत्वाभावव्यभिचारवारकत्वान्न विशिष्टोहेतुः तत्रेति भावः ।सम्प्रतिवन्नवदिति। गन्तृत्व घटत्वदेहत्वानि यथा योग्यं दृष्टान्ताः ।आत्माचेति। अत्र धर्मरहित इत्यपिसाध्यं विवक्षितम् । तदभिप्रायेण द्वितीयहेतुव्यतिरिक्ताव्यतिरेकिणः ज्ञातृत्वराहित्ये साध्ये द्वितीयो हेतुरन्वयि ।तत्राहङ्कारपदं स्वरूपकथनपरम्बोध्यम् । आदिशब्देनात्मत्वं ज्ञातृत्वसमानाधिकरणमन्तः करणवृत्तित्वादिविवक्षितम् । तदभिप्रायेण ज्ञातृत्वाभावे श्रुतिविरोध इति प्रतितर्कबाधितास्तर्काःइति दूषयति ।अत्र ब्रूम इति।ननु श्रुतिरन्तः करणस्य ज्ञातृत्वादिवक्तीत्यत्राह ।विज्ञानात्मापुरुष इत्यादिभिरिति। अत्र विज्ञानात्मा ज्ञानस्वरूप आत्मा द्रष्टेति ज्ञातृत्वमन्तः करणव्यतिरिक्तस्योक्तमित्यर्थः । साक्षात्कर्तृत्वं प्रत्यक्षेणज्ञातृत्वम्मित्यर्थः । ननु ज्ञातृत्वश्रुतेः भ्रान्तिसिद्धविषयतया अन्यथासिद्धवद्ध निर्गुणश्रुत्यनुगृहीतायाः निर्विकार श्रुतेः अन्यथासिद्धिर्वक्तुं न शक्यत इत्याहनिर्गुणनिरूपिते चेति। हिंसानिषेधवाक्यवत्सामान्यतो गुणनिषेधश्रुतेरविषयतया व्यवस्थायाः वक्ष्यमाणत्वादिति भावः। निर्विकारश्रुति विरोधोपि नास्तीत्याहकथञ्चेत्यादिना । तावदिति। मृत्पिण्डस्य घटावस्थायां स्वरूपान्यथा भावात् । यथा घटस्य तद्विकारत्वं तथा ज्ञातृत्वावस्थायां पुरुषस्यान्यथाभावोनेति न तस्य विकारात्मत्व मित्यर्थः ।नापीति। ज्ञातृत्वदशायामात्मनो ज्ञाधात्वर्थयोगितामात्रेणेत्यर्थः । कादाचित्कधात्वर्थयोगित्वं विकारित्वमित्याशयेन शङ्कते ।नित्यत्वादिति। ज्ञातृत्वे ज्ञानस्वरूपाश्रयत्वे ।ज्ञातृत्वस्येति।जानामि अज्ञासिषमिति कादाचित्कतयोपलम्भादित्यर्थः ।ज्ञानमिति। अनुभूतिरासीत् अस्ति भविष्यतीति कादाचित्कतयोपलम्भादित्यर्थः ।भविष्य ज्ञाननित्यत्वेति । कालस्यातीतत्वादिरूपत्वात्तत्कालावच्छिन्नरूपेण सत्वस्याप्यतीतत्वादिव्यवहारात् न सत्वस्यविकारत्वमिति भावः ।श्रुतिसिद्धमिति।नित्यतयेति शेषः ।यथा न विज्ञातुरिति। ननु समानाधिकरणे षष्ठ्या तथाच विज्ञातेर्ज्ञानस्वरूपस्य विज्ञातुरात्मनो नित्यत्वं प्रतिपाद्यते । न तु तद्धर्मभूत ज्ञानस्येति चेन्न तथासति घट्टकुट्टी प्रभातम् । श्रुत्यैवात्मनो ज्ञातृत्वप्रतिपादनात् । किञ्चात्मनो नित्यस्य ज्ञानात्मकत्वस्य पेक्षितस्य वाक्यान्तरसिद्धस्य विधानायोगात् वाक्यवैयर्थ्यम् । वैयधिकरण्ये पुनः ज्ञाननित्यत्व विधिसम्भवेन सप्रयोजकत्वमिति भावः । ननु ज्ञानमुत्पन्नं नष्टमिति व्यवहारविरोधप्रसङ्गात् अनुवादोपि सोढव्य इत्यत्राहएवं च कर्मेति। ज्ञानप्रकाशौ ज्ञानावस्थाविशेषणजनियमभागिनौ न तु ज्ञानस्वरूपमिति भावः । प्रकाश्यन्ते - प्रकाशयोग्यावस्था विशिष्टा भवन्तीत्यर्थः । न जन्यन्ते न स्वरूपेण न जन्यन्ते । एतेनेति। वक्ष्यमाणे नेत्यर्थः ।कर्मोपाधिकेति। तथा च विषय प्रकाशावस्थापन्नस्य उपलम्भ इत्यर्थः ।किञ्च ज्ञानगत सङ्कोचाद्यवस्थाया साक्षादाश्रयत्वाद्विकारत्वम् उत परम्परयाप्याश्रयत्वमात्रेण नाद्य इत्याहसाक्षादिति। द्वितीये आहव्यवधाने नेति। निर्विकारश्रुतिस्साक्षात् विकारं निराचष्ट इत्यर्थः । ननु सम्बन्धसामान्येनैव विकारनिषेधपरत्वं श्रुतेरस्त्वित्यत्राहएवं चेति । जानामीति। ज्ञातृत्वस्य प्रत्यक्षतयाउपलम्भात् उपाधिनिष्ठं ज्ञातृत्वमात्मनि तत्संसर्गात् भासते अयः पिण्डौष्ण्यवदिति त्वयाप्युक्तत्वात् । सामान्ये निषेधोनोपपद्यत इत्यर्थः ।आत्मनो ज्ञातृत्वविकारित्वप्रसङ्ग इति तर्कं दूषयित्वानुमानं दूषयतितच्चेति । न ज्ञातृत्वेति। आैपाधिकव्यावृत्त्यर्थ नित्यपदम् । ““जानात्येव अयमिति’’ शब्दोऽहमिति नित्यज्ञातृत्वप्रतिपादक श्रुतिः ।““कर्ता बोद्धेति’‘कर्तृत्व श्रुतिः ।““आत्मन्येष न दोषाया (विष्णु.पु.2 - 16 - 18) तयोर्द्विजे’‘ति अहन्तेस्मृतिः । नन्वनुमानेन श्रुतेरेव बाधोस्तु । नच नरशिरश्शौचानुमानस्यापि बाधकत्वप्रसङ्गः तत्र श्रुतेः साध्यप्रसिद्धयर्थ उपजीव्यायाअधिक्यबलत्वादितिचेदत्रापि केवलतर्कमात्रादात्मनोऽसिद्धया पक्षसाध्यप्रसिद्धिप्रसङ्गेतत्सिद्धयर्थमात्मसाधक श्रुत्यपेक्षणादुपजीव्यतयो ज्ञातृत्वेन धर्मिग्रहकतया श्रुत्याबाधसम्भवादिति भावः । क्रियेति। क्रियाधात्वर्थः । तत्वादित्यर्थः । आदिशब्दाज्जन्यत्वं विवक्षितं ननु चलनात्मकक्रियायोगो विवक्षितोऽस्त्वितिचेत्तथासति ज्ञातृत्वस्य चलनात्मकत्वाभावादसिद्धिरित्यर्थः ।अस्त्यादिभिरित्यादि शब्देन संयोगादिग्रहः । निर्विशेषत्वनिराकरण इति पूर्वोक्तनिर्विशेषत्व निराकरणवादे द्रष्टव्यमित्यर्थः ।दृश्यत्वसमर्थनेनेति। तथा चाप्रयोजकत्वादात्मादावनेकान्त्वाच्च दूषितमित्यर्थः । प्रत्यक्त्वमात्मत्वमिति पक्षे दोष उक्तः । ज्ञातृत्वमात्मत्व पक्षे दोषमाह ।यदि पुनरिति। व्याघातमुपपादयतिनहीति। द्रष्टुत्वं हि ज्ञातृत्वविशेषः तथाश्रयासिद्धिरिति भावः ।सामानाधिकरण्यं समानाधिकरण्यप्रत्यक्ष प्रतीतिरित्यर्थः । नच तत्र मानाभावः भवतैव ।तथैवाहम्बुद्धेस्संवलित विषयत्वस्याङ्गीकारोद्योग्ययारन्योन्यतादात्म्यज्ञानेतद्धर्मस्सामानाधिकरण्यप्रतीतेरावश्यकत्वादिति भावः ।तर्हीति ।वाङ्मात्रस्या प्रयोजकत्वादिति भावः ।नात्मधर्म इति। साध्ये किं धर्मज्ञानरूपात्मधर्मतत्वं निषिध्यते उत ज्ञानत्वाश्रयधर्मवत्वं यद्वा ज्ञानमात्र धर्मत्वमिति विकल्पे आद्ये आहज्ञानमात्रेति। निर्धर्मस्या प्रसिध्या साध्याप्रसिद्धिरित्यर्थः । द्वितीये आहअंशत इति। यत्किञ्चित्ज्ञानधर्मत्वनिषेधे धर्मभूतज्ञानं प्रति अधर्मत्वात्सिद्धसाधनतेत्यर्थः । अंशो धर्मभूतज्ञानं पक्षैकदेश इति यावत् । तृतीयेआह । ज्ञात सामान्यतो ज्ञानधर्मत्वनिषेधे बोध्ये ““विज्ञानात्मापुरुष’’ इति श्रुतिबाधः । ज्ञातृधर्मत्व निषेधे प्रतिज्ञापसिद्धान्ताभ्यां ग्रह इत्यर्थः ।शरीर सम्बन्ध विकारेति।शरीरसम्बन्धस्य तत्र युक्ते दुःखादि सम्बन्धस्य च विकारत्वादिति भावः । उत्पत्तिज्ञातः कर्मादिकर्तुः फलभोगार्थं नित्यत्वाङ्गीकारादन्यथा कर्मादौ प्रत्यया योगात् न्नित्यत्वादेव स्वरूपान्यथाभावरूपविकारभावस्यापि सम्भवाद्बाध इति भावः आदिशब्देन सत्तायां व्यभिचारोग्राह्यः । एवमहम्प्रत्यय इति। अत्रापि ज्ञानमात्रात्मविवक्षायां प्रसिद्धविशेषणता ज्ञानमात्मेति विवक्षायां पूर्ववदंशतस्सिद्धिसत्वादिकात्मेत्युक्तावपसिद्धान्तः । अहङ्कारस्यतन्मते ज्ञातृत्वादहमर्थत्वमात्मत्वमित्युक्ते प्रतिज्ञाविरोधोऽपीत्यर्थः । अप्रयोजकतामाहनचेति। अनात्मविषयत्वम् आत्मविषयत्वं क्वचित्सहकारमात्र स्यप्रयोजकत्वादिति भावः ।स चेति। धात्वर्थायोगित्वमसिद्धम् । अस्त्यादियोगार्थम् अन्यथा भावराहित्यमप्रयोजकमस्तीतियोगवद् ज्ञातृत्वस्यापि सम्भवादित्यर्थः ।सोऽपीति। ननु धर्मभूतज्ञानस्य व्यभिचारात्कथमात्मनो ज्ञानरूपत्वनिषेधः साधयितुं शक्य इति चेन्न । परमते धर्मभूतज्ञानस्य वृत्तिरूपतया ज्ञानभिन्नस्यान्यदात्मनो दृश्यत्वादिप्रसङ्गादिति भावः । तर्कमूलभूत व्याप्तिरेव नास्ति अप्रयोजकत्वादिति परिहरति ।ज्ञातृत्वइति। तत्प्रयुक्तप्रसङ्गव्याप्तावपिज्ञातृत्वेप्यजडादिकं भवत्विति पर्यनुयोगावतारादित्यर्थः ।एतेनेति - अप्रयोजकत्वेनेत्यर्थः ।स कथमिति। ज्ञातृत्वमेवाचेतनत्वं तथाचाहङ्कारतुल्ययोगक्षेमतया शरीरस्याचेतनत्वं साधयितुमशक्यमित्यर्थः ।अन्तःकरणस्यैवेति। दृश्यत्वस्याप्रयोजकत्वादहमर्थस्य आत्मत्वेन किञ्चिद्बाधकत्वमिति भावः । प्रत्युत ज्ञातृत्वस्य अनात्मनिष्ठत्वे लाघवात्प्रत्यक्षसिद्ध देहस्यैव ज्ञातृत्वसम्भवेन देहातिरिक्तेमानाभावात्क्रमेण चार्वणचार्वाकपक्षपातप्रसङ्ग इत्याह ।विकारिद्रव्येति। भूतचैतन्यवादभूतं भूतसङ्घातात्मकं शरीरम् । तत्र किण्वान्यायेन चैतन्योपत्तिवादः शरीरात्मवाद इति यावत् ।अनध्यस्तं सत्यमिति। अध्यस्तत्वा सम्भवात्प्रतीयमानं सत्यं भवतीत्यर्थः । । वत्सजलधिकौस्तुभनृसिंहगुरुउतेन सिंहदेवेन कृतायां शतदूषणीटीकायां सप्तविंशः समाप्तः ।