॥अथ अहमर्थात्मत्वसमर्थनवादः षड्विंशः ॥26॥
अहन्त्वेदन्त्वाभ्यां स्वपरविदितांश्चेतनगणानहङ्कारादीनप्यचिदुपधिभेदाननहमः ।
अहन्ता यस्यैका कबलयति वैशिष्ट्यविभवान्ममास्मिन्विश्राम्यत्वहमिति मतिर्विश्ववपुषि ॥
यदुच्यते - अहमर्थो नात्मा, सुषुप्तिमोक्षयोरननुवर्तमानत्वात् ।
मोक्षे न तदनुवृत्तावज्ञत्वादिप्रसङ्गाच्च ।
अतश्चैतन्यमात्रमात्मा ।
तत्रानिदमि चैतन्ये निरुपाधिरहम्भ्रमः।
कर्तृत्वादिस्तु सोपाधिः सर्पलोहित्यवत्क्रमादिति ।
अत्र ब्रूमः-सुषुप्तौ तावदहमर्थाननुवृत्तौ पुनः प्रतिसन्धानानुपपत्तिप्रसङ्गः ।
न ह्यहमर्थान्तरेणानुभूतमर्थमहमर्थान्तरं स्मर्तुमलम्, अतिप्रसङ्गात् ।
सुषुप्तावपि तदनुवृत्तौ तदानीमपि तत्प्रकाशप्रसङ्ग इति चेन्न; विद्यमानस्य प्रकाशनियमानभ्युपगमात् ।
तदानीमप्रकाशेऽपि तदनुवृत्तौ किं प्रमाणमिति चेन्न; पूर्वोत्तरवर्त्यहमर्थप्रतिसन्धानबलादेव मध्येऽपि तत्कल्पनात् ।
पूर्वोत्तरकालावच्छिन्मध्य कालकल्पनेनास्वाप्समितीदानीन्तनकालानुसन्धानवदिदानीमतीतकालावच्छिन्नाहमर्थस्यापि प्रकाशोपपत्तेः ।
मध्ये चाहमर्थाभावे संस्काराधाराभावात्प्रतिसन्धानाभावप्रसङ्गाच्च(ङ्गश्च)।
संवित्स्वरूपमविद्यास्वरूपं वा तदाधारो भवत्विति चेन्न; तयोरपि तदानीमनुवृत्तौ प्रमाणाभावात् ।
न हि ज्ञातारमन्तरेण ज्ञानमज्ञानं वा स्थातुमलम् ।
अन्यथा घटादिष्वपि तदवस्थितिप्रसङ्गात् ।
ज्ञानाभावस्तत्रापि विद्यत इतीष्टप्रसङ्ग इति चेन्न; भवदभिमतभावरूपाज्ञानस्य तत्र प्रसज्यमानत्वात्, तस्य च तन्निष्ठत्वेन त्वयाऽनभ्युपगमात् ।
न च संवित्स्वरूपस्य संस्काराधारत्वम्, निर्विकारत्वनिर्विशेषत्वविरोधात् ।
नाप्यविद्यास्वरूपस्य, तथा सति तस्यैव ज्ञातृत्वप्रसङ्गात् ।
न ह्यन्यगतसंस्कारेणान्यस्य स्मृतिः सम्भवतीत्युक्तम् ।
उपादानोपादेयभावादुपपद्यत इति चेन्न; क्षणभङ्गनयप्रसङ्गात् ।
सत्कार्यवादाभ्युपगमेनाविद्यातद्विवर्तयोरेकत्वादुपादानं संस्कारे उपादेये कार्यकर इति चेन्न; उपादानोपादेययोः काल्पनिकैक्यस्य सौगतमतेऽपि सत्त्वात्; परमार्थैक्यस्य त्वन्मतेऽप्यभावात् ।
किं वा सुषुप्तिकाले संविदविद्ययोः सद्भावे प्रमाणम्? सुप्तोत्थितस्य सुखमहमस्वाप्समिति परामर्श इति चेन्न; तेन सुखस्वापविशिष्टतदानीन्तनाहमर्थस्यैव विषयीकरणात् ।
इदानीन्तनाहमर्थप्रकाशनेन तदुपलक्षणमिति चेन्न; इदानीन्तनसुखसंविद्भ्यां तदानीन्तनस्वापविशिष्टाहमर्थोपलक्षणं किं न स्यात्? तदानीमहमर्थप्रकाशाभावे कथं तत्परामर्श इति चेत् कथं तदानीमज्ञानसुखसाक्षिसंवित्प्रकाशाभावे तत्परामर्शः? तत्परामर्शादेव तदा तत्प्रकाशोऽपि कल्प्यत इति चेत् तथाऽहमर्थप्रकाशोऽपि कल्प्यताम् ।
उपलम्भविरुद्धं तत्कल्पनमिति चेत्, कोऽयमुपलम्भः? एतावन्तं कालं न किञ्चिदहमज्ञासिषमित्येवंरूप इति चेत्, तर्हि तत एवाज्ञानसुखसाक्षिसंवित्प्रकाशकल्पनमपि विरुध्येत ।
उपलम्भस्य बहिर्विषयवेदननिषेधरूपत्वात्तत्कल्पनमुपपद्यत इति चेत्, समःसमाधिः ।
मामप्यहं न ज्ञातवानित्युपलम्भो विरोधीति चेत्, कस्य विरोधी? किमहमर्थस्य? उत तत्संवेदनस्य? उत वेदनमात्रस्य? न प्रथमः, अतद्रूपत्वादुपलम्भस्य ।
न ह्येतावन्तं कालं नाहमभूवमिति कश्चित्प्रतिसन्धत्ते, अपि तु विद्यमानमपि मां न ज्ञातवानिति ।
न द्वितीयः, एतावन्तं कालं न ज्ञातवानित्यनेन संविदमपि न ज्ञातवानिति संवित्संवेदनस्यापि निषेधप्रसङ्गात् ।
स्वप्रकाशेन तदा तत्प्रकाशनम्, निषेधस्तु विषयप्रकाशस्येति व्यवस्थेति चेत्, तुल्यमहमर्थेऽपि ।
अत एव न तृतीयः, स्वपक्षोन्मूलनप्रसङ्गाच्च ।
“नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवती’’ (छां 8-11-2) ति सुषुप्तिविषयश्रुत्या तदानीमहमर्थप्रकाशकल्पनं विरुध्यत इति चेत्, तर्हि “प्राज्ञेनात्मा सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमिति’’ (बृह-6-3-21) तद्विषयश्रुत्यैव संवित्सुखादिप्रकाशकल्पनमपि विरुध्येत्, अविशेषात् ।
तथाऽपि तदानीन्तनमज्ञानमनुभूतमननुभूतं वा? पूर्वत्र संविदोऽपि प्रकाशसिद्धिः, स्वयम्प्रकाशत्वात्; उत्तरत्रज्ञानप्रतिसन्धानानुपपत्तिरिति चेन्न; तदानीन्तनकालस्येव तदानीन्तनाज्ञानस्यापि तदानीमेव कल्प्यमानत्वेन तद्विषयप्रतिसन्धाना(न) भ्युपगमात् ।
तथाऽपि प्रातर्गजाभावादिनयेन तदानीमधिकरणोपलम्भोऽवश्यम्भावीति चेन्न; इदानीमेव कल्प्यमाने मध्यकालवर्तिनि स्वात्मनि योग्यस्मृत्यभावेन ज्ञानाभावस्यापि कल्पनोपपत्तेः ।
तदानीमधिकरणोपलम्भस्यावश्यम्भावेऽपि अहमर्थस्यैव प्रकाशकल्पना
युक्ता ।
अहं न ज्ञातवानिति स एव ह्यज्ञानाश्रयतया प्रतिसन्धीयते ।
अतो न कथश्चिदपि सुषुप्तावहमर्थाभावो वक्तुमपि शक्यः ।
अहमेव पूर्वं सुप्तः, तथाऽप्यहमर्थस्तदानीं नास्तीति स्ववचनविरोधाच्च ।
मुक्तावप्यहमर्थानुवृत्तिः प्रागेव श्रुतिवशाद्दर्शिता ।
न च मोक्षे अहमर्थानुवृत्तावज्ञत्वप्रसङ्गः, तथा सति संविदनुवृत्तावपि
तत्प्रसङ्गात् ।
यथावस्थितस्वरूपप्रकाशो नाज्ञत्वादिहेतुः, अपि तु तद्विरुद्ध एवेति चेत्, तुल्यम् ।
यदि च मोक्षेऽहमर्थो न स्यात् मोक्षशास्त्रस्याधिकार्यभावः स्यात् ।
न हि स्ववधाय स्वयमेव बुद्धिपूर्वकारी प्रवर्तते ।
अहमर्थस्य चात्यन्तविनाशो मोक्षे
भवद्भिरिष्यते ।
संविदात्मनः स्वस्य च विवेकाग्रहात् प्रवर्तते इति चेत्, तर्हि स्वविनाशे संविदो विनाशमभिमन्येत ।
स च स्वविनाश एवेति मन्यमानो न प्रवर्ते तैव ।
स्वात्मावस्थानभ्रमात् प्रवर्तत इति चेन्न; फलस्वरूपमजानतस्तदर्थित्वायोगेनोपायानधिकारात् ।
अहमर्थस्थितिमपेक्षमाणस्य च भवन्मते नित्यसंसारप्रसङ्गात् ।
अहमर्थस्थितिभ्रमेण प्रवृत्तस्याप्यद्वैतज्ञानोदयसामर्थ्यादेवानिच्छतोऽप्यहमर्थविनाश इति चेत्, तथा सति राज्यकामस्य शिरश्छेदवदपवर्गः स्यादिति सम्यक् पुरुषार्थपरत्वं शास्त्रस्य समर्थितं भवति ।
अस्तु तर्ह्याध्यात्मिकादिदुःखत्रयाभिघातवशात्तदविनाभूताहमर्थस्यापि विनाशोऽभिमत इति, तदपि मन्दम्; “तमेवं विद्वानमृत इह भवति’’ (तै-आ.3.पु.सू) “तमेव विदित्वाऽतिमृत्युमेती’’ (श्वे 3-8)त्यादिभिर्मृत्युतरणहेतुतया श्रुतस्य ब्रह्मवेदनस्य साक्षान्मृत्युहेतुत्वप्रसङ्गात् ।
“ब्रह्मैव भवति ’’ (मुण्ड-3-2-3) “सर्वं ह पश्यः पश्यति’’ (छां-7-26-2)इत्यादिभिर्विरोधप्रसङ्गाच्च ।
अस्तु तर्हि ज्ञप्तिरूप एवात्मा मोक्षशास्त्राधिकारीति चेन्न; तस्य ज्ञातृत्वमन्तृत्वाद्यसम्भवेन श्रवणमननाद्ययोगात्, नित्यमुक्तस्वभावतयाऽपवर्गार्थित्वासम्भवाच्च ।
ज्ञातृत्वदुःखित्वाध्यासात्सर्वमुपपद्यत इति चेन्न; तदध्यासप्रलापानामन्यत्रोत्सारितत्वात् ।
एतेनात्मनोमपवर्गार्थमहमर्थरूपो ज्ञाता प्रवर्तत इति च प्रयुक्तम्, दृष्टादृष्टरूपप्रयोजनान्तरमन्तरेण परार्थं स्वानर्थस्य परमकारुणिकैरप्यनभ्युपगमात् ।
तदेतत्प्रियतमोज्जीवनार्थं मुण्डोपहारवदित्यायातम् ।
अपि च यद्यहमर्थो नात्मा कथमनात्मनि देहेऽहम्बुद्धिः देहात्मभ्रम इत्युच्यते? स हि त्वत्पक्षे देहाहङ्कारभ्रम इत्यभिधीयेत ।
आत्माहङ्कारयोरैक्यभ्रमाद्देहाहङ्कारभ्रम एव देहात्मभ्रम इति चेन्न; तद्भ्रमस्याद्याप्यसिद्धेः ।
संविद्रूपस्य चाहं जानामीत्यादिना तद्धर्मभावादिविरुद्धधर्मवत्तया प्रतीयमानस्याहमर्थेन देहेन वा तादृशभ्रमप्रसङ्गाभावात् ।
ततश्च देहात्मवादनिराकरणप्रयासोऽपि निरर्थकः स्यात्, देहश्चैतन्यमिति चार्वाकैरप्यनङ्गीकारात् ।
देहस्याहन्त्वचेतनत्वादिप्रतिक्षेप एव हि तान्प्रति क्रियते ।
अन्यथा तेषां सिद्धसाधनत्वात् ।
यदि चाहमर्थो नात्मा, तस्य प्रत्यक्त्वमपि न स्यात्, अहम्बुद्ध्यैव प्रत्यगर्थस्य परागर्थाद्विवेकात् ।
“युष्मदस्मत्प्रत्ययगोचरयो’’(शाङ्कर भा 1-1-1) रित्यादि हि भवदीयभाष्येऽप्युक्तम् ।
नन्वहमर्थविषयेऽंशद्वयमस्ति, तत्र तत्प्रकाशांशः प्रत्यक्पदार्थः, तदधीन प्रकाशोऽहन्त्वांशः परागर्थः, इदं रजतमिति भ्रमे शुक्तिरजतांशभेदवदिति ।
तदप्याशामोदकमात्रम्, इदं प्रत्ययेऽपि कश्चित्प्रत्यगंशोऽस्तीति निष्कर्षप्रसङ्गात् ।
उपलम्भविरुद्धः स इति चेत्, तुल्यम् ।
अहम्प्रत्ययविषयेऽपि वस्तुन्येवेदमंशः परकीयानुमानाद्दृश्यत इति चेत्; तर्हि तत्रैवेदम्प्रत्ययगोचरे प्रत्यगंशोऽपि सिद्ध इति तद्वदेव घटादिष्वपि तत्कल्पनाप्रसङ्गः ।
नात्र परात्मनीदमंशः प्रतीयते, अपि त्वेकमेव वस्त्वंशभेदमन्तरेणापि प्रतिसम्बन्धिभेदेनाहन्त्वेदन्त्वाभ्यां प्रकाशत इति चेन्न; अहमर्थप्रकाशेऽप्येकस्यैव पुत्रत्वेन पितृत्वेन प्रतीतिवत् इदमंशभानप्रसङ्गात् ।
तत्रापि कदाचिदयमहमस्मीति प्रतिभातीति चेन्न; देवोऽहमित्यादिषु देवादिशब्दवत् विशेषणविवक्षया तत्रेदंशब्दप्रयोगात् ।
तस्य चांशस्यास्माभिरपि परत्वाभ्युपगमात् ।
प्रतिसम्बन्धिनिरूप्योऽहमर्थो न स्वरूपं भवितुमर्हतीति चेन्न; पुत्रादिष्वपि तत्प्रसङ्गात् ।
प्रतिसम्बन्धिनिरपेक्षं मनुष्यत्वाद्याकारान्तरं दृश्यते, अतस्तत्र न दोष इति चेन्न; अत्रापि वस्तुत्वचेतनत्वाद्याकारान्तरसिद्धेः।
नन्वहं शब्दप्रत्यभिज्ञानादहङ्कार एवाहमर्थ इति निश्चीयते, स च क्षेत्रान्तर्भूतो भगवता परिगणितः,“महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च’’ (श्री.गी.13-7) इत्यारभ्य “एतत्क्षेत्रमिति’’ (गी.13-6)वचनात्, “निर्ममो निरहङ्कार’’ इत्यादिषु च हेयतयाऽयमुपदिश्यते, अतो नात्मा भवितुमर्हतीति ।
तदसत्, बुद्धिशब्दप्रत्यभिज्ञानेन भवदभिमतसंविदोऽपि बुद्धिपर्यायवाच्यमहत्तत्वानतिरेकप्रसङ्गात् ।
अध्यवसायाख्यकार्योपकरणत्व मात्रेण तत्र बुद्धिशब्द इति चेत्; तर्हि अनात्मनि देहे अहमभिमानाख्यकार्यकरतयाऽत्राप्यहङ्कारशब्द इति भाव्यम् ।
अहम्भावान्तरहेतुत्वं न शब्दशक्त्या प्रतीयत इति चेन्न; अभूततद्भावार्थच्विप्रत्ययमुत्पाद्य व्युत्पत्त्या तदुपपत्तेः ।
क्षेत्रान्तर्भावपरिगणनं तु बुद्धेरप्यविशिष्टमिति ।
संविदोऽपि
क्षेत्रकुक्षिनिक्षेपे नैरात्म्यवादप्रसङ्गः, समाधिश्च समान एव ।
निरहङ्कार इत्यादिषु गर्वपर्यायोऽहङ्कार उत्कृष्टजनावमानहेतुत्वादनर्थहेतुरिति हेयतयोपदिश्यते; न पुनरहमर्थोऽहङ्कारतत्त्वं वा, तयोरुपाधिमन्तरेणानर्थहेतुत्वाभावात् ।
तथा च सत्युपाधेरेव हेयत्वापत्तेः ।
नचाहम्भावः स्वरूपेण त्यक्तुं शक्यः, त्यागबुद्धावपि तदनुप्रवेशात् ।
सुषुप्तिमूर्छादिषु तत्त्यागाभ्युपगमेऽपि नासौस्वशक्त्या, दैवादापन्नत्वात् ।
अहम्भावस्य चोपादेयत्वमेव श्रुत्या प्रतीयते अथातोऽहङ्कारदेशः
(छां-7-27-1) “अहमेवाधस्तादहमुपरिष्टात्’’ (छां 7-25-1) “त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते तद्योऽहं सोऽसौ योऽसौ सोऽहमि’’ (जाबाला इति शाङ्करे) त्यादिषु
तत्त्वमसिनिरूपणेचैषामबाधितंसामानाधिकरण्यमनुसन्धेयमिति सिद्धमनारोपितज्ञातृत्वविशिष्टोऽहमर्थ एवात्मेति ॥
॥इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्तचार्यस्य कृतिषु शतदूषण्याम् अहमर्थात्मत्वसमर्थनवादः षड्विंशः ॥26॥
नृसिंहराजीया
आत्मनिरूपण प्रसङ्गमभिप्रेत्याहअहन्तेति।स्वयं स्वेनाहमिति। विदितः परेण त्विदमित्यर्थः । अचिदुपाधिभेदान् अचिद्रपोपाधिविशेषानित्यर्थः ॥ अनहमः अहमिति मकारान्तशब्दानुकरणम् अनव्ययं तेनाहमिति शब्दवाच्यं लक्ष्यते । तं न भवतीति नञ् समासः अहमर्थभिन्ननित्यर्थः ॥ तेनाव्ययत्वाद्विभक्तिश्रवणानुपपत्तिर्नास्तीति ध्येयम् । विशेष्यमाहअहङ्कारादीनिति। यस्येश्वरस्साएकाहन्ताकमिलयति"“देवानां वासवोस्म्यह’’( ) मित्यादि विभूत्यध्यायोक्तन्यायेन तत्तच्छब्दवाच्यता समानाधिकरणो भवतीत्यर्थः । तत्र हेतुमाहवैशिष्ट्यविभवादिति। वैशिष्ट्यस्य विभवो अपृक्सिद्धत्वं ममेति अहमिति व्यवहारहेतुभूता मदीयामतिर्वामदेवादेरिव मत्प्रकारतया परमात्मानं विषयीकरोत्वित्यर्थः । अनुवर्तमानत्वादिति। तदानीमविद्यमानस्यानित्यत्वात्मनो नित्यत्वादिति भावः ।मोक्षेचेति। संसार दशायाम् अहमर्थमस्य ज्ञानादिव्याप्तिदर्शनादिति भावः । सुषुप्तावनुवर्तमानत्वे तत्प्रकाशप्रसङ्ग इत्यपि विवक्षितम् । अहमर्थस्यभ्रान्तिसिद्धतयापि नात्मत्वमित्यत्राहतत्रेति। नन्वाज्ञानाधीनत्वाद्भ्रमस्य कथं निरूपाधित्वमिति चेत् अहमिति प्रथमोध्यास इति जीवभावस्याविद्याध्यासवत् अनादित्वान्निरुपाधित्वमिति भावः। केचितु चैतन्यमात्र एव भ्रमः किञ्चिदवच्छिन्नचैतन्य इति निरूपाधिकत्वमित्यत्राहुः ।कर्तृत्वादिभ्रमःसोपाधिरिति। अविद्यामूलोन्तंःकरणावन्नध्यस्तो वेति भावः ।सर्पलौहित्यवदिति । रज्जौ सर्पवदिति। रज्जौ सर्पवत् स्फटिके लौहित्यवदित्यर्थः। सुषुप्ताविति। तथा च हेत्वसिद्धिरिति भावः ।अतिप्रसङ्गादिति। देवदत्तानुभूतस्य तस्य यज्ञदत्तेन स्मरणप्रसङ्गादिति भावः । तत्प्रकाशप्रसङ्गइति भावः । अहमर्थप्रकाशप्रसङ्ग इत्यर्थः ।विद्यामानस्येति। यद्यपि प्रकाश इष्ट एव तथाभ्युप्येत्य इदं बोध्यम् ।तदानीमप्रकाशेऽपीति। सुषुप्तावित्यादेः पूर्वोक्तस्य तर्कोपन्यासपरत्वादिः अहं प्रश्न इति न दोषः ।अहमर्थप्रतिसन्धानमिति। पूर्वेद्युरत्रस्थितोऽहमिदानीमप्यत्र प्रतिष्ठामीति प्रत्यभिज्ञानमित्यर्थः । ननु स्वापदशायां स्वापकालस्य स्फुरणात्तत्प्रतिसन्धानायोगात् कथं तत्कालावच्छेदेन अहमर्थस्य कल्पनमित्याशङ्क्य कल्पितकालविशिष्टस्वापानुसन्धानवत् कल्पितकालविशिष्टाहमर्थकल्पनमुपपद्यत इत्याहपूर्वोत्तरेति। पूर्वोत्तरकालावधित्वं विवक्षितम् । अध्वर्यस्यरात्र्यन्तर्हवत्व व्याप्त्यामध्यकालकल्पनमिति भावः ।तदनीं तनेति। तदनीन्तनकाले अनुसन्धानमिति सप्तमीसमासः । तदानीन्तनकालावच्छिन्नतया स्वापानुसन्धानवदित्यर्थः ॥प्रकाशोपपत्तेरिति। प्रकाशकल्पन सम्भवादित्यर्थः । प्रतिसन्धानादेः स्मरणं प्रत्यभिज्ञा च न स्यातामित्यर्थः ।तयोरिति। त्वदभिमत निराश्रयसंविदज्ञानयोरित्यर्थः । बाधकमप्याह ।नहीति। न च जानामीति ज्ञानसमानाधिकरणतया अनुभूयमानमज्ञानं नाज्ञातरि सम्भवतीति भावः ।अन्यत्रेति। ज्ञानाश्रयेऽपि सम्भवइत्यर्थः ।निर्विशेषत्वेति। न च मिथ्यात्वेन परिहारः तथापि तस्या एव ज्ञातृत्वप्रसङ्गादिति भावः ।इत्युक्तमिति।अहमर्थान्तरङ्गतानुभवेनाहमर्थान्तरङ्गत्वास्मृत्यसम्भवोक्त्यैवाज्ञानगतानुभवो अहमर्थेपि स्मृत्यसम्भव उक्त्यभिप्राय इति भावः ।क्षणभङ्गेति। तत्रापिकार्यकारणभावेन उपादान सम्भवात् क्षणिकत्वदूषणमलग्नकंस्यादित्यर्थः ।सत्कार्येति। क्षणभङ्गे कार्यकारणयोर्भिन्नत्वात्प्रतिसन्धानानुपपत्तिः । अत्र तु न तथेति भावः ।परमार्थेति। न च धर्मिसमसत्ताकमैक्यमस्तीति वाच्यम् । अन्तः करणान्तरस्याप्यविद्योपादानकत्वेनाति प्रसङ्गादिति भावः । संविदवृत्त्यानुवृत्तिप्रमाणाभावं पूर्वोक्तं प्रपञ्चयितुं पृच्छतिकिञ्चेति।सुप्तेति। सुखमहमस्वाप्सम् इत्यस्य सुखमनुभवं न स्वाप्सम् इत्यर्थः । तत्रास्वाप्सम् इत्यविद्यापरामर्शः स्वापस्य सर्वाज्ञानरूपत्वात्सुखमिति । संविद इति भावः । तथा सत्यस्मदिष्टमेव सिध्यतीत्याह ।तेनेति। इदानीमर्थस्यप्रकाशात्तस्य च स्वापसुखाश्रयाश्रयात्मभेदभेदाध्यासात्तथाप्रतीत्युपपत्तिरित्यर्थः ।तदुपलक्षणमिति। अहमर्थोपलक्षणं स्वापात् इदानीतन महमर्थं प्रत्येतत्कालीनस्वापसुखादेर्व्यावर्तकत्वा दुप लक्षणत्वोक्तिरिति भावः ।इदानीं तनेति। इदानीन्तन सुखसंविद्विशिष्टात्मनि तदानीन्तन स्वापविशिष्टाहमर्थस्याध्यासात्तथा प्रतीतिरिति किन्नस्यादित्यर्थः । तथा च नोपलक्ष्यत्वमिति भावः । नन्वस्तु स्वापकाले अहमर्थः । तथावन तस्य परामर्श इत्याशङ्कते ॥तदानीमिति । कथं वेति ।अज्ञानसुखयोस्तत्साक्षिभूतसंविदश्च प्रकाशाभावे कथं तत्परामर्श इत्यर्थः ।परामर्शादेवेति। तथा परामर्शादेवेत्यन्वयः । सुखमहमस्वाप्समिति परामर्शादित्यर्थः ।तथाहमर्थेति। सुखमहमस्वाप्समितिपरामर्शः सुखादेरिव अहमर्थस्यापि भानविशेषादिति भावः । तत्कल्पनमहमथर् प्रकाशकल्पनम् । एतावतं कालं नकिञ्चिदहमज्ञासिषम् इति परमार्शविषय अहमर्थस्योपालं भविरोधे हिअज्ञान सुखसंविदामप्युपालम्भविरोधस्यादिति परिहरति ।तर्हीति। तत्कलपनमुपपद्यत इति चेदिति ।अनादिप्रकाशकल्पनमिति भावः ।सम इति। अहमर्थस्याप्यबाह्यत्वादिति भावः । किमर्थविरोधत्वेनोपलं भविरोधित्वमुत साक्षादेवेति पृच्छति ।कस्येति । अतद्रूपत्वादिति। अहमर्थाभावस्य विरोधिनोनवगाहित्वादिति भावः । तदेवोपपादयति ।नह्येतावन्तमिति। प्रत्युत संविदर्थविरोधि विषयतेति दर्शयति ।अपित्विति।निषेध प्रसङ्गादिति । न ज्ञातवानिति। सामान्यनिषेधस्य यावद्विशेषविषयत्वादिति भावः ।निषेधस्त्विति। प्रत्यग्वस्त्वतिरिक्त विषयशब्दार्थ इति भावः ।तुल्यमिति। ममप्यहं न ज्ञातवानिति निषेधोऽपि देवत्वाद्याकारेणाहमर्थोल्लेख विषय इति भावः ।अत एवेति।विशेषनिषेधरूपत्वेनातद्रूपत्वादेतावन्तङ्कालं न किञ्चिदज्ञासिषमिति परामर्शविरोधाच्चेत्यर्थः ॥स्वपक्षेति।अज्ञानसंविदो प्रकाशस्यापि निषेधप्रसङ्गादित्यर्थः ॥(नाहेति) अयमहमस्मीति सम्प्रत्यात्मानं जानाती (छां 8 - 1 - 22) त्यर्थः अत्र न जानातीति प्रकाशनिषेधः प्रकाश कल्पनाविरोधीति भावः ।तर्हीतिसंवित्सुखादेरप्यान्तरत्वादिति भावः ।तथा चेति। तथाच"“प्राज्ञेनात्मने’’(बृ - 6.3.21)ति श्रुतेर्नकिञ्चिदज्ञासिषमिति परामर्शस्य चाज्ञानसंविद्व्यतिरिक्तविषयतया सङ्कोचः कार्यः ।नाज्ञासिषमितिप्रतीतेरन्यथोपपादयितुं शक््यत्वादिति भावः ।अज्ञानप्रतिसन्धानेति। अननुभूतस्य स्मरणायोगादिति भावः ।तदानीमेवेति। उद्बोधकाल एव अनुमेयत्वात् स्मृतित्वं न सम्भवतीत्यर्थः । ननु चत्वरादेरधिकरणस्य प्रागननुभूतस्य इदानीं स्मरणे न तत्र गवाद्य भावकल्पनमस्तु इहत्वननुभूतस्यअज्ञानाधिकरणस्य स्मरणाभावे कथं तत्राभावकल्पनमित्याज्ञानाश्रयसंविदनुभव आवश्यक इति शङ्कते ।तथापीति। इदानीमिति पूर्वोत्तरजाग्रदवस्थावच्छिन्नयोरैक्यप्रत्यभिज्ञया मध्येपि सत्वस्य कल्पनेन तदानीं ज्ञानवत्वे नियमतस्तद्वत्तया समक्रव्यस्य तथा स्मृत्य भावेन ज्ञानाभावकल्पनमित्यर्थः। नन्विदानीं ज्ञायमानत्वेप्यधिकरणस्यपूर्वकालानुभवाभावेस्मर्तुं योग्यत्वस्यैवाभावेन तद्वत्तयास्मर्तुं योग्यत्वस्य सुतरामभावादज्ञानानुभवः कथमित्यत्राहतदानीमिति । प्रतिसन्धीयत इति। प्रतीतिमात्रं विवक्षितं न च श्रुतिविरोधः। नह्यहमिति न जन्मादिति श्रुतिः किञ्च त्वयमहमस्मीति न जानामीति तत्राहमयमस्मीति मनुष्यत्वादिरूपेण प्रतीतिरेव निषिध्यते इति स्वरसतः प्रतीय्यते । यथा"“कच्छिद्धवाल्लोकात्प्रेत्यात्मानं वेदायमहम्मीती’‘अथ योऽहं चैतमग्निं सावित्रंवेद स एवास्मात्लोकात् प्रेत्य आत्मानं वेद अहमस्मीति ॥ (तै - ब्रा - 3 - 10 - 11)त्यादौ अन्यथा"“न बाह्यं किञ्चन वेद नान्तरं नकिञ्चिदहमवेदिषमिति’’ (बृ - 6 - 3 - 21)श्रुति विरोधात् अज्ञानसंवित्प्रकाशस्यापि लोपप्रसङ्गादिति भावःअहमिति। अहमेव सुप्त इति स्वापाश्रयतया प्रतीयमानस्य स्वापकालीनत्ववचनं विरुद्धमिति भाव । मोक्षेनुवर्तमानत्वमप्यसिद्धमिति दूषयति ।मुक्तावपीति। तथासतीतिसंसारदशायांसंविदोप्यज्ञानव्याप्तेरिति भावः ।यथावस्थितेति। अज्ञानं तज्जन्यत्वाभावात् न तद्व्यप्यमित्यर्थः ।तुल्यमिति।नाहमर्थो तज्जन्यत्वात् तद्वयाप्यः किं तु यथावस्थित विपरीत ज्ञानमिति भावः । अधिकारी मोक्षशास्त्रानुष्ठाता ।तत्र हेतुमाह ।नहि स्ववधायेति। ननु सुषुप्तिदशायामिव प्रलीनोहमर्थस्सूक्ष्मरूपेण वर्ततामित्यत्राह ।अहमर्थस्येति। मुक्तौ निरन्वयविनाश एवाहमर्थस्येष्ट इति भावः ।संविदात्मन इति। स्वाभिन्नतया ज्ञातसंविदो नित्यताज्ञानात्प्रवर्तत इत्यर्थः ।नहीति। नित्याभेदग्रहात्प्रवृत्तिवदनित्याभेदग्रहान्निवृत्तिस्यादित्यर्थः। फलेति। अहमर्थेनसह अविद्याग्रन्थिविलयस्य त्वन्मते मोक्षत्वात्फलस्वरूपज्ञानं नस्वात्मावस्था न सम्भवादिति भावः ।नित्यसंसारेति। अहमर्थस्थितिमपेक्षमाणस्य तद्विनाशहेतुमोक्षसाधने प्रवृत्तिर्नस्यादितिनित्यसंसारप्रसङ्ग इत्यर्थः । ननु मोक्षेप्यहमर्थस्थितिभ्रमेण तत्साधने प्रवृत्तस्य मोक्षः सेत्स्यतीत्याशङ्कते ।अहमर्थेति। स्वस्यैव नाशे स्वसम्बन्धितया काम्यमानस्य पुरुषार्थस्यासिद्धेश्शास्त्रस्य विप्रलम्भकवाक्यवत्पुरुषार्थपरत्वं न स्यादित्याहतथा सतीति। ननु दुःखस्यातिदुःस्सहत्वादात्मनाशेपि लोके प्रवृत्तिर्दृश्यत इति शङ्कते ।अस्तु तर्हीति । तदपीति।संसारोह्यनिष्टत्वात्मृत्युरित्युच्यते । अतः स्वनिवृत्तिरपि सकलसुखोच्छेदकत्वेन अनिष्टत्वान्मृत्युरेवेत्यर्थः ।ब्रह्मैवेति। विनष्टस्य वेदितुरहमर्थस्य ब्रह्मभावसर्वदर्शनयोरसम्भवादिति भावः ।तस्य ज्ञातृत्वेति। ज्ञातृत्वादि स्वरूपयोग्यस्य श्रवणादिकं न सम्भवतीति तद्विधिशास्त्रं व्यर्थस्यादित्यर्थः । बन्धाभावाच्छास्त्रबला भावाधिकार्यभावात् शास्त्रं व्यर्थमित्याह ।नित्यमुक्तेति । सर्वमिति। श्रवणादिकमपवर्गार्थित्वं चेत्यर्थः । अध्यासासम्भवस्य प्रागुक्तत्वादित्याहतदध्यासेति । एतेनेति। वक्ष्यमाणेनेत्यर्थः ।दृष्टादृष्टेति॥ यद्यपि योधृमरणतादौ स्वानर्थे प्रवृत्तिर्दृष्टा तथापि सादृष्टादृष्ट प्रयोजनार्थ परमकारुणिकोऽपि स्वप्रयोजनानपेक्षः परानुग्रहे प्रवर्तते । तथापि स्वानिष्टं न सहत इति भावः ।मुण्डोपहारःदेवतां प्रति कबन्धोपहारः स्वशिरच्छेद इति यावत् । मुष्कोपहारः इति क्वचित्पाठः । मुष्कः मेढ्ं वृषणोच्छेदेप्रियतमोज्जीवनेन न किञ्चित्प्रयोजनमिति भावः ।आत्माहङ्कारयोरिति। आत्माहङ्कारयोरहमित्यभेदाध्यासः ।तदभेदाध्यासो देहे स्थूऽलोहं कृशोऽहम् इति ततो देहाहङ्कारतादात्म्यवदात्मभेदोऽपि प्रतीय्यत इत्यर्थः ।तद्भ्रमस्येति। अहमिति ज्ञानस्याहमर्थातिरिक्तेतरभेदावगाहित्वे मानाभावात्तद्भ्रमाधीन देहात्मभ्रमासिद्धेरिति भावः । तदेवोपपादयति ।संविद्रूपस्येति। परेण संविद एवात्मतयाङ्गीकारत्तस्याश्चाहमर्थधर्मतया प्रतीय्यमनत्वेनाहमर्थाभेदध्यासस्तदधीनो देहाभेदाध्यासश्च सम्भवतीत्यर्थः । यद्यपि अयं शुक्तिरजतभिन्नेति ज्ञान दशायामेव इदं रजतमिति बुद्धिरुत्पद्यते तथापीति ।प्रकृते प्रत्यक्षतो भेदज्ञानेतदभेद भ्रमासम्भव इतिभावः । नैरर्थ्यक्यमेवोपपादयति ।देहश्चैत्यन्यमिति। नन्विदं दूषणं सर्वेषामपि समानमित्यत आहदेहस्येति।तान् प्रति देहस्याहन्त्वचैतन्यादेरेव निराकरणात् न साधारण्यमिति भावः । तत्र हेतुमाह ।अन्यथेति। चार्वाकैश्चैत्यन्यस्य देहधर्मतयाङ्गीकाराद्धेहभेदानङ्गीकारादिति भावः । नन्विति। अहं बुद्धिविषयत्वं पराक्त्वाद्भेदे प्रयोजकं न भवतीति भावः ।तदधीनेति। चैतन्यस्वरूपे स्वप्रकाशतया प्रकाशमाने तत्राध्यस्तस्याहमर्थस्य तदभिन्नतया प्रकाशोऽहमिति प्रकाश इत्यर्थः ।इदं प्रत्ययेऽपीति। अयं घट इत्यादि प्रतीतावपीत्यर्थः । अत्र यद्यपि घटस्सन्निति सद्रूपचैतन्यांशोऽस्त्येव तथापि प्रत्यगंशोऽहमिति प्रतीतिप्रयोजकोऽंशो विवक्षितः अन्यथा अहं प्रतीतिरेतत्प्रत्यग्वस्तुगोचरा इदं प्रत्ययस्तु न तथेति व्यवस्थान स्यादिति भावः ।उपलम्भेति। इदमहं न भवति इदं प्रत्ययविषयात्प्रत्यग्वस्तुनो भेदानुभवविरोधादित्यर्थः ।तुल्यमिति। अहम्प्रत्ययविषयस्यापि इदमर्थापेक्षया अहमिदं न भवामीति भेदानुभवविरोधान्नाहं प्रत्ययविषयः इदमंश इत्यर्थः । नन्वहं प्रत्ययविषयः इदमंशोऽपि इत्यत्रानुभवविरोधोस्ति अहं प्रत्यय विषयेपि इदमंशानुभव एव वर्तत इति शङ्कते ।अहं प्रत्ययेति।परेणानुमानादाविति ।क्वचित्पाठः परस्येत्यर्थः ।तर्हीति। अविशेषादिति भावः । नन्विदमंशो परमात्मप्रतीतौ नास्त्येव अपितु एकस्यैव वस्तुनः उभयथापि प्रतीतिरिति तद्दृष्टान्तेन न घटादौ साधनं युक्तमिति शङ्कतेनात्रेति। अहमर्थे इदन्त्वस्य सत्वादिति भावः ।तत्रापीति। तथा च नानिष्टमिति भावः ।देवोहऽमिति। यद्यपीदन्त्वस्य अहमर्थगतत्वेऽपि नदोषः । नचेदन्त्वस्य पराक्त्व व्याप्तत्वात् प्रत्यक्त्वविरोधः परमात्मन इदन्त्वेन अनुमानात्तद्व्याप्तिभङ्गात् । नच स्वेन भासमाने इदन्त्वं प्रत्यक्त्वविरोधि अयमहमस्मीति भानादेव विरोधाभावात् तथापि तत्र तत्र प्रत्यगपेक्षया भिन्नमेव इदं वस्तु तदात्मनाध्यासात्प्रतीयत इति तव मतम् । तदा प्रत्यग्भूतमहंवस्तु तदपेक्षयाभिन्नमेव । इदं वस्तु देवादिवत् तदात्मनाध्यासात्प्रतीयत इति वक्तुंशक्यमिति भावः । नन्वहमर्थस्य प्रतिसम्बन्धिनिरूप्यस्य पुरुषविशेषनिरूप्यसर्पादिवदेकरूप धर्मविरहात् स्वरूपशून्यत्वान्नात्मत्वमिति शङ्कते ।प्रतिसम्बन्धीति । पुत्रादिष्वपीति। पितापुत्रादेरपि प्रतिसम्बन्धिनिरूप्यत्वात् स्वरूपं न स्यादित्यर्थः । ननु प्रतिसम्बन्धिनिरूप्याकारमात्रमेवचेत् यस्य धर्मः स तस्य निस्स्वरूपत्वं नतु प्रतिसम्बन्धि निरूप्याकारेणेति शङ्कते ।प्रतिसम्बन्धि निरपेक्षमिति। आदिशब्देन प्राणित्वादिर्गृह््यते । तर्ह्यहमर्थस्यापि नातिस्वरूपत्वमिति परिहरति ।अत्रापीति। आदिशब्देन कर्तृत्वादि परिग्रहः । नन्वेवमपि नाहमर्थ आत्मा भवितुमर्हति क्षेत्रत्वात् हेयत्वाच्च देहादिवदिति शङ्कतेनन्विति। अहंशब्देनाहङ्कारशब्दार्थः प्रत्यभिज्ञानसिद्धिरिति परिहरतितदसदिति। किं च बुद्धिशब्दश्च संविच्छब्दपर्याय इति तत्प्रत्यभिज्ञया क्षेत्रान्त र्भावादात्मत्व संविदोऽपि न स्यादित्याहबुद्धिशब्दप्रत्यभिज्ञान इति। ननु तत्र बुद्धिशब्दो न संवित्प्रवृत्ति निमित्तकः । अतो न तत्प्रत्यभिज्ञानमिति शङ्कते ।अध्यवसायेति ।अत्रापीति ।तथा च प्रवृत्तिनिमित्त भेदादपि न प्रत्यभिज्ञेति भावः ।अहम्भावं नेति। अहं शब्दस्याहं भावना परत्वाभावादिति भावः ।अभूतेति। अनहं देहाद्यहं करोतीति विवक्षायां स्वरूपस्य स्वतस्साध्यत्वा भावाज्जापाकुसुमस्य स्फटिके रक्तत्वाहेतुवत्तद्भावनायां पर्यवस्यतीति भावः । क्षेत्रान्तर्भावस्य कःपरिहार इत्याशङ्क्य तदन्तर्भावो नास्तीति उभयं समाधेयमित्याहक्षेत्रान्तर्भावेति। हेयत्वोपदेशोपि नाहमर्थस्येत्याह निरहङ्कार इत्यादिना । नन्वर्थहेतुनाप्यनर्थवद्धेयता प्रयोजकेति तयोरपि तद्धेतुत्वाद्धेयता स्यादित्यत्राह ।तयोरिति। शरीरादिरूपाधिरन्यथा भवन्मतेपि संविदोप्यध्यासहेतुतया त्यागप्रसङ्गादिति भावः । त्यागानुष्ठानासम्भवाच्च निरहङ्कारवाक्यं न तत्त्यागविधिपर इत्याह ।सुषुप्तीति। श्रुतिबलादपि निर्ममादिवाक्यं नाहमर्थत्यागपरमित्याह ।अहं भावस्य चेति।असाधित इति। उपासनार्थमहमर्थ उपदिश्यत इत्यर्थः । तथाहं ग्रहोपासन प्रकारं दर्शयति ।त्वंवेति । तद्योहमिति। तत्तस्मात्कारणात् अहं यः यद्रूपः असौ सः अहमर्थ ईश्वरः स यःईश्वरो यद्रूपः असावपीश्वरः अहमित्यर्थःतत्वमसि इति। तत्रापि त्वम्पदस्याभिमुखावस्थाहमर्थः परत्वादुपादेयत्वमेव न च तत्र सामानाधिकरण्यार्थं चैतन्यमात्रे लक्षणेति वाच्यम् । मुख्यार्थस्य सामानाधिकरण्ये बाधकाभावाद्देवदत्तो गौर इत्यादिषु विशिष्टसामानाधिकरण्योऽपि मुख्यत्वादिति भावः । “अत्मानं’ चेद्विजानीयादहमस्मीतिपूरुषः । किमिच्छन् कस्य कामाय शरीरमनु सञ्चरेत्;’’ इति निष्कृष्टात्मविषयकं ज्ञानम् अहन्त्वप्रकारतया अभिलर्पत्याश्रुतेः । ““आत्मन्येष न दोषाय शब्दोहमिति यो द्विजः । अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्ति लक्षणः ॥’' इति स्मृतेः । बाल्ये योऽहम्पितरमन्वभूवम् इदानीन्नप्तृन् उतुभवामीति प्रत्यभिज्ञाबलाच्च ज्ञातृत्वादिविशिष्टोहमर्थ एवात्मेति सिद्धमित्याह ।इति सिद्धमिति। ॥इति वत्सकुलजलधिकौस्तुभ नृसिंह गुरुसुतेन सिंहदेवेन कृतायां शतदूषणीटीकायां षड्विंशः समाप्तः ॥