॥अथ संविदात्मत्वभङ्गवादःपञ्चविंशः ॥25॥
अन्योन्यव्यतिरिक्तयोरविजहद्धर्मत्वधर्मित्वयोर्व्यापारे गृहमेधिनोरिव ययोः साहित्यमासूत्र्यते ।
सा संवित्सकलार्थसाधकवपुस्तत्सिद्धभोगः प्रभुः, श्रीमानस्तु स मे समस्तदुरितोत्ताराय नारायणः ॥
यदुच्यते - संविदात्मा अजडत्वात्, यदुक्तसाध्यं न भवति तदुक्तसाधनमपि न भवति, यथा घटः, इति; तदसत्; स्वस्मै
भासमानत्वरूपस्याजडत्वस्य हेतोरसिद्धेः ।
अव्यभिचरितप्रकाशसत्ताकत्वस्यसुखादिभिर्व्यभिचारात् ।
तेषामपि संविद्वयतिरेकस्यानात्मत्वस्य च सौगतसुहृदा त्वयाऽप्यपरित्यागात् ।
सजातीयनैरपेक्षयादेरपि दीपादिभिर्घटादिभिरपि वा व्यभिचारत् ।
सर्वथा सजातीयनिरपेक्षप्रकाशत्वस्यपक्षेऽप्यसिद्धेः ।
सा खल्वात्मसम्बन्धसापेक्षप्रकाशा ।
अन्यथा स्वाश्रयव्यतिरिक्तेभ्योऽपि तत्प्रकाशप्रसङ्गात् ।
अत एवात्मनिरपेक्षत्वमप्यसिद्धम्; संविदन्तरनिरपेक्षप्रकाशत्वस्य स्वस्मै परस्मै वेति विकल्पे पूर्वस्यासिद्धेरुत्तरस्य विरुद्धत्वात, अन्यस्मा एव भासमानत्वनियमात्, घटादिवदनात्मत्वसिद्धेश्च ।
अन्यथा घटादरेपि भासमानत्वमात्रेणात्मत्वप्रसङ्गस्यावारणात् ।
अतो ज्ञानत्वमेव हेतुः परिशिष्यते ।
तच्च प्रकाशरूपत्वम् ।
तच्च स्वस्मै परस्मै वेति विकल्पेन दूषितमेव ।
न कस्मैचिदिति पक्षे तु प्रकाशत्वहानिः, तथैव सर्वत्र प्रसिद्धेः ।
किञ्चानेन हेतुना संविद आत्मत्वं साधयन्तः किमिदमात्मत्वमभिसन्धाय साधयन्ति? किं ज्ञातृत्वादिकम्? उत प्रत्येतुः प्रत्येतव्याद्यतिरिक्तत्वम् ? अथवा स्वस्मै भासमानत्वम्?उताव्यभिचरितप्रकाशसत्ताकत्वम्? यद्वा स्वप्रकाशत्वम्? उत स्वानतिरिक्तत्वम्? यद्वाऽन्यदेव किञ्चिदिति ।
नाद्यः, प्रत्यक्षविरोधात् ।
ज्ञातृत्वं हि ज्ञानाश्रयत्वम् ।
तत्र स्वापेक्षया स्वस्यैवाश्रयत्वं व्याहतम्, आश्रयत्वाश्रयित्वलक्षणविरुद्धधर्माध्यासात् ।
अत एव स्वाश्रयतादात्म्येन ज्ञातृत्वमपि प्रतिक्षिप्तम् ।
धर्मधर्मिभेदाभेदपक्षस्तु भवताऽपि नाङ्गीक्रियते ।
नापि ज्ञानान्तराश्रयत्वं वक्तुं शक्यम्, योग्यानुपलम्भनिरस्तत्वात्, इच्छादेरिच्छान्तराश्रयत्वादिवत् ।
किञ्च क्षणिकस्यैव ज्ञानस्य ज्ञातृत्वं साध्यते?उत स्थिरतयाऽभ्युपगतस्य तस्यैव? पूर्वत्र प्रतिसन्धानाद्यनुपपत्तिः।
सौगतादीन्प्रति प्रयुक्ता भवन्तमास्कन्दति ।
उत्तरत्रापि किं निराश्रयस्य ज्ञानस्य ज्ञातृत्वं साध्यते? उत साश्रयस्य? आद्येऽप्यस्मदभिम (तज्ञानात्मका) तात्मनो ज्ञातृत्वसाधने सिद्धसाधनत्वम् ।
निराश्रयज्ञानान्तरपक्षीकारे तु आश्रयासिद्धिः ।
सर्वाभ्युपेतसंविद एव निराश्रयत्वविवक्षायां प्रत्यक्षादिविरोधः ।
द्वितीये ज्ञातृद्वयोपलब्धिप्रसङ्गः ।
उत्तरोत्तरज्ञानानाम्मप्युक्तहेतुसम्बन्धाविशेषण ज्ञातृत्वप्रसङ्गेनानवस्था व्यभिचारो वा ।
किञ्च सत्यज्ञातृत्व साधनेऽपसिद्धान्तः ।
आरोपितज्ञातृत्वसाधने त्वदुक्तवाक्यानुमानादिभिस्तदारोपस्यास्माभिरभ्युप गमात्सिद्धसाध्यता ।
प्रतीयमानज्ञातृत्वस्यारोपितत्व साधनं त्वनन्तरमेव दूषयिष्यामः ।
एवं ज्ञातृत्वकल्पप्रतिक्षेपेणैवद्वितीयः कल्पोऽपि प्रतिक्षिप्तः।
अवेद्यत्वाभिमतानुभूतेर्वेद्यत्वप्रसङ्गस्त्वधिकः ।
नापि तृतीयः, प्रत्यक्षविरोधात् ।
स्वाश्रयायैव हि सा भासमाना दृश्यते ।
स्वस्मा इति प्रकाशफलित्वं हि ज्ञाप्यते ।
प्रकाशफलित्वं च प्रकाशाधीनव्यवहारादिमत्त्वम् ।
नच ज्ञानमात्रस्यैव व्यवहारादिकर्तृत्वं भवताऽप्यभ्युपगम्यते ।
फलित्वारोपसाधने तु प्राग्वदेव परिहारः ।
नापि चतुर्थः, सिद्धसाधनात् ।
तावता चात्मत्वसिद्धौ सुखदुःखादेरपि प्रसङ्गात् ।
पञ्चमषष्ठयोरपि सिद्धसाधनतैव ।
नापि सप्तमः; तत्किं परसम्प्रतिपन्नात्मतादात्म्यविधिपर्यवसितम्? उतानुभूतेर्यथाकथञ्चिदात्मशब्दप्रतिपाद्यतामात्रनिष्ठमिति? आद्ये व्याघातादिदोषस्तदवस्थः ।
द्वितीये तु सिद्धसाधनत्वमेवेति ।
अस्तु तर्ह्यात्मानं पक्षीकृत्यात्मत्वादेव ज्ञानतादात्म्यसाधनम्; ततो नोक्तदोषावकाशः इति चेन्न; धर्मिणोऽपि धर्मतादात्म्यविधेर्व्याहतत्वात् ।
तस्य ज्ञानत्वमात्रसाधने तु त्रय्यन्तविदां सिद्धसाधनात् ।
आत्मशब्दवाच्यस्यैव विषयोल्लेखलक्षणावस्थायोगः कल्पनालाघवाद्विधीयते इति चेन्न; तथाऽपि तथाविधावस्थैव ज्ञानम्, तदाश्रय आत्मेति वैशेषिकादिवत्तस्य ज्ञातृत्वमेव सिध्यति ।
अवस्थामिथ्यात्वाद्वैषम्यमिति चेन्न, बाधाभावादिना तत्सत्यत्वस्य दुरपह्नवत्वात् ।
तथाऽपि भवदभिमतानन्तावस्थनित्यज्ञानातिरिक्त आत्मा न सिध्यतीति चेन्न; ज्ञातुः तद्धर्मभूतज्ञानस्य च तावता दुरपह्नवत्वात् ।
ज्ञानं किमेकमेव सत्सामग्रीवशाद्विपयोल्लेखाद्यवस्थावद्भवति, उत ज्ञातर्येव ज्ञानलक्षणानन्तावस्थेति विशये श्रुतिशरणानां पूर्वःपक्षः, लाघवमात्रशरणानामुत्तर इति स्थिते द्वेधाऽपि भवदभिमतं न सिध्यत्येवेति का पूर्वरूपे वार्ता ।
उत्तररूपे दुस्तरं श्रुत्यदिकमनुसन्धत्स्वेति ।
श्रुतिरेवात्मनो ज्ञानानतिरिक्तत्वं साधयतीति चेन्न; परिहृतप्रायत्वात् ।
तत्र हि - “श्रुतिप्रत्यक्षसंसिद्धे ज्ञातृत्वे ज्ञानताश्रुतिः ।
नेया तद्गुणसारत्वात्स्वप्रकाशतयाऽपि वा ।
’’
वदन्ति हि “विज्ञातारमरे केन विजानीयादि’’ (बृह.4 - 14)त्याद्याःपरश्शताः श्रुतयः साक्षाज्ज्ञातृत्वमेव ।
तदविरोधाय ज्ञानमात्रश्रुतिरपि जडत्वं प्रतिक्षिपति, न तज्ज्ञातृत्वम्, अन्यथा प्रत्यक्षादिभिश्च विरोधात् ।
येनैव शास्त्रेण ज्ञानरूपत्वमात्मनः साध्यते संविदात्मत्वपक्षे तस्य श्रोताऽपि न सिध्येत् ।
न ह्यनात्मानं प्रत्युपदिश्यत इति भवताऽपीष्यते ।
आत्मा तु संविन्मात्ररूपो ज्ञातृत्वाभावान्न श्रोतुमीष्टे ।
अहङ्कारः श्रृणोतीति चेत्, स किं स्वार्थं परार्थं वा श्रृणोति? नाद्यः,
स्वनाशपर्यन्तत्वात्; अहमर्थात्यन्तविलयगर्भो हि भवत्पक्षे मोक्षः ।
न हि कश्चित्स्वनाशाय मोक्षशास्त्रं श्रृणोति ।
अत एव
नद्वितीयः, स्वात्यन्तनाशेन परोपकारस्य कस्याप्यनभिमतत्वात्; अहमर्थस्य चात्मत्वमस्मन्मतेन सिद्धमिति ॥
॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रईमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां संविदात्मत्वभङ्गवादः पञ्चविंशः ॥25॥
नृसिंहराजीया
अनुभूतिविचारप्रकरणेन सङ्गतिमभिप्रेत्यवादार्थं सङ्गृह्णाति ।अन्योन्येति। बहुधास्फुटं भिन्नयोः पारमार्थिकधर्मधर्मिभावादभेदो न युक्त इत्याहअविजहदिति । ““य स्सर्वज्ञः सर्ववित्’’(मुण्ड - 2 - 2 - 7) ““स्वाभाविकी ज्ञानबलक्रिया’’ (श्वेता - 6.8)चेति श्रुतेरिति भावः ।असूत्रयेति । ““अभिद्योपदेशा’’ (ब्र.सू.1 - 4 - 24) दित्यादिसूत्रेष्विति भावः ।सकलार्थसाधकेति। साधकशब्दो व्याप्यपरः । धूमोऽपिवह्निसाधक इतिवदीश्वरज्ञानस्यार्था व्यभिचारात्सर्वविषयप्रमेत्यर्थः ।तत्सिद्धिभोग इति। अपरिच्छिन्न स्वरूपसाक्षात्काराधीनापरिच्छिन्नानन्द इत्यर्थः ॥ अत्र अजडत्वं स्वस्मै भासमानत्वं वा अव्यभिचरित प्रकाशसत्ताकत्वं वा सजातीयनिरपेक्ष प्रकाशत्वं वा आत्मनिरपेक्षत्वं वा संविदन्तरनिरपेक्षत्वं वा ज्ञानत्वमेवेति वा विकल्प्याद्यन्दूषयति ।स्वस्मा इति। स्वकर्तव्यव्यवहाराद्यनुगुणज्ञानप्रकाश्यत्वस्येत्यर्थः । द्वितीये आहअव्यभिचरितेति। व्यभिचारोव्यापकत्वा भावः । अव्यभिचारो व्यापकत्वम् अव्यभिचरित प्रकाशो यस्येति बहुव्रीहिः । प्रकाशव्याप्तसत्ताकत्वमिति यावत् । व्याप्तिश्च कालिकी आदिपदेन दुःखादिर्गृह्यते । सुखादीनामपि संविदभिन्नतया पक्षत्वान्न व्यभिचार इत्याशङ्क्याह ।सजातीयेति। निराकरोति ।तेषामपीति। सुखादीनां संविदभेदे आत्मा भेदे च तयोरस्थैर्य प्रसङ्गस्य सुहृतप्रीत्यर्थम् अङ्गीकर्तुं योग्योऽपि वैदिकान्वञ्चयितुम् आत्मस्थैर्यकं चुकिना त्वया संविदात्माभेदो नाङ्गीकृत इत्यर्थः । अपरित्यागादिति भेदः । तृतीये आह सजातीय निरपेक्ष व्यवहारस्येत्यर्थः । आदि पदेन सजातीय सापेक्ष व्यवहाराभावो गृह्यते । किं सजातीयपदं सजातीयप्रकाशपरम् उत न आद्ये दोषः ।दीपादिभिरिति। संवित्प्रदीपसाधारणनिर्वचनीयाखण्डधर्मरूपस्य प्रकाशत्वस्य परैरभ्युपगमादिति भावः । द्वितीये दोषमाह ।घटादिभिरिति। चतुर्थे आह ।सर्वथेति। प्रकाशपदं व्यवहारपरं केनापि रूपेण यत्सजातीयं तदनपेक्ष विवतारकमित्यर्थः । असिद्धिमुपपादयतिसा खल्विति। प्रकाशमात्रव्यवहारहेतुत्वे नित्यचैतन्येन सर्वदा सर्वेषां व्यवहारप्रसङ्गेन देवदत्तीयत्वादेरपि व्यवहारप्रयोजकतया तैरङ्गीकारादिति भावः ।अन्यथेति। तदीयत्वस्य व्यवहाराप्रयोजकत्वे देवदत्तस्यस्वीय घटसंविद्विषयव्यवहारवदितरेषामपि देवदत्तीय घटसंविद्विषय व्यवहार प्रसङ्गइत्यर्थः । पञ्चमं दूषयति ।अत एवेति। तत्तद्व्यवहारस्य तत्तदात्मसापेक्षत्वाभावे पूर्ववदति प्रसङ्गात् तत्सापेक्षत्वासिद्धिरित्यर्थः । षष्ठमाह ॥संविदन्तरेति। संविदन्तरनिरपेक्ष प्रकाशत्व रूपहेत्वन्तर्गतप्रकाशोवस्तुतः किं स्वस्मा एव परस्मैवेति विकल्पः ।असिद्धेरिति। संविदतिरिक्तात्मन एव संविद्वयवहारकर्तृत्वासिद्धान्ते सिद्धिः परमतेऽन्तकरणस्यैव कर्तृत्वादसिद्धिः ।विरुद्धत्वादिति। परस्मा एव प्रकाशमानत्वस्य घटादावनात्मत्व व्याप्यत्वदर्शनात्तद् व्याप्यस्य संविदन्तर निरपेक्षं परस्मा एव प्रकाशमानत्वस्य सुतरामनात्मत्वव्याप्यत्वादिति भावः । परस्मा एव भासमानत्वहेतुना सत्प्रतिपक्षत्वमाह ।अस्मा इति। परमतेप्याकारस्यैव व्यवहारकर्तृत्वेनतम्प्रत्येव भासमानत्वादिति भावः ।अन्यथेति। यदि वस्तुतः स्वस्मै भासमानत्वस्यात्मत्वव्याप्तत्वा तत्सहचरित्वमात्रेण संविदन्तर निरपेक्षप्रकाशमानस्याप्यात्मत्व व्याप्यत्वमिष्यते तदातत्सहचरित भासमात्रान्यस्वात्मत्वव्याप्तिप्रसङ्गेन तेन तदा घटादावात्मत्वसाधनं स्यादित्यर्थः । सप्तमाहअतो ज्ञानत्वमेवेति। प्रकाशत्वहानिमुपपादयति ।तदैवेति। यः प्रकाशः स किञ्चित्प्रतीति व्याप्तेरित्यर्थः । हेतुं दूषयित्वा साध्यं दूषयति ।किं चेति। ज्ञातृत्वादिकमित्यादिपदेन कर्तत्वभोक्तृत्वे गृह््येते ।प्रत्येतुरिति। पञ्चम्यन्तं प्रत्येतव्यविशेषणम् । ज्ञातृत्वे सति ज्ञेयत्वस्यविशिष्टस्य विवक्षितत्वान्न पूर्वाभेदःस्वानतिरिक्तत्वमिति। साध्यवाच्यात्मशब्दस्य स्वपरत्वाभिप्रायेण विकल्प्य अनुभूतिरात्मेत्यस्यस्वातिरिक्तो न भवतीत्ये तद्विकल्पार्थः ।प्रत्यक्षविरोधादिति। ज्ञानं ज्ञातृ न भवतीति प्रत्यक्षविरोधादित्यर्थः ।दूषणान्तरमाहज्ञातृत्वं हीति। ननु स्वरूपतो ज्ञानरूपस्याश्रयतादात्म्यज्ञातृत्वमतिविरुद्धमित्यत आहअत एवेति। व्याघातादेवेति भावः । ननु धर्मधर्मिभावो नात्यन्तभिन्नयोः घट पटयोस्तदभावात् । अतो धर्म धर्मिभवान्यथानुपपत्त्यैव धर्म धर्मिणो भेदअभेदसिद्धौ तस्यैव तादात्म्यरूपत्वात् ज्ञातृतादात्म्यात् ज्ञातृत्वाश्रयत्वं सिध्यत्वेवेत्यत्राहधर्मधर्मि भेदाभेदेति। भिन्नयोरेव धर्म धर्मिभावसिद्धिः । अतिप्रसङ्गस्तुप्रमाणबलेन परिहार्य इति भावः व्याघात परिहाराय ज्ञानान्तराश्रयत्वं (++++) मिष्ट्याहत इत्याशङ्क्याह ।नापीति।योग्यानुपलम्भेति। घटादिज्ञानेनान्तरानुपलम्भादिति भावः ।इच्छादेरिति। यथा इच्छाप्रयत्नादेरिच्छाद्याश्रयत्वमनुपलम्भनिरस्तं तथेत्यर्थः ।भवन्तमास्कन्दयतीति। आत्मनः क्षणिकत्वादिति भावः ।अस्मदभिमतेति। प्रतिशरीरं भिन्नस्येत्यर्थः । ननु तादृशमीश्वरस्वरूपमस्तीतिचेत् तथा सति सिद्धसाधनमिति भावः । प्रत्यक्षादित्यादिपदेन सविषया संविन्निराश्रया प्रत्यक्षेण धर्मतया प्रतीयमानत्वाद्घटवदित्याद्यनुमान विरोधः ।““द्रष्टुदृष्टे’’ (बृ.4.4.14)““र्विज्ञातारमरे’’ (बृ.4.4.14)““रसयिताघ्राते’’(बृह.5.7.23)त्यादि श्रुतिविरोधश्चगृहीतः ततश्चाश्रयासिद्धिरिति भावः । दूषणान्तरमाह ॥उत्तरोत्तरेति। उत्तरोत्तरज्ञानानां ज्ञातृत्वाभावे व्यभिचारः ज्ञातृत्वाङ्गीकारे अनवस्थेत्यर्थः ।अपसिद्धान्त इति। ज्ञातृत्वस्य परमते मिथ्यात्वादिति भावः । ननु प्रतीय्यमान ज्ञातृत्वस्यमिथ्यात्वसाधने तात्पर्यमित्यत्राहप्रतीय्यमानेति। द्वितीय्यःकल्पः प्रत्येतुः प्रत्येतव्यादव्यतिरेकविकल्प इत्यर्थः ।वेद्यत्वप्रसङ्गस्त्विति। तथाच दृश्यत्वान्मिथ्यात्व प्रसङ्ग इति भावः व्यवहारादिमत्वमित्यादिग्रहणेन सुख दुःखादिर्गृह्यते ।प्राग्वदेवेति। सिद्धसाधनमित्यर्थः ।तावतेति। तस्यैवात्मत्वे सुखादेरप्यात्मत्वप्रसङ्ग इत्यर्थः । सिद्धासाधनतयैवेति। संविदस्संविदनतिरिक्तत्वस्य सिद्धत्वादिति भावः ।व्याघातादिति।परस्परप्रतिपन्नात्मनोज्ञातृत्वात् तदभेदसाधने पूर्वोक्तव्याघातः । प्रत्यक्षविरोधश्चेत्यर्थः ।सिद्धसाधनमेवेति।आत्मशब्दलक्ष्यत्वस्य अनुभूतावपि सम्भवादिति भावः । किं ज्ञानतादात्म्यमित्यत्र धर्मभूतज्ञानतादात्म्यं विवक्षितम् उत ज्ञानत्वमात्रं यद्वा विषयोल्लेखः । नाद्य इत्याहधर्मिणोपीति। द्वितीये आह ।तस्येति। तृतीयं शङ्कते ।आत्मशब्दवाच्यस्यैवेति।तथाविधेति। सिद्धे ज्ञाने कादाचित्कविषयसम्बन्धस्य निरस्तत्वात् विषयोल्लेखो ज्ञानमेव पर्यवस्यतीति भावः ।बधाभावादिति। आदिपदेन अर्थक्रियाकारित्वं विवक्षितम् । ननु भवन्मते ज्ञानस्यैव नित्यस्य घटादिविषयीकरणादनन्तावस्थाङ्गीक्रियते । तथा च तादृशावस्थाया एव ज्ञानतया तदाश्रयस्य ज्ञानस्यैव ज्ञातृत्वमस्तु न ततोऽतिरिक्त आत्मेति शङ्कते ।तथापीति । श्रुतिशरणानामिति । न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यत इति। ज्ञातृसमवेत ज्ञानस्य नित्यत्वश्रुतेर्ज्ञानसाधनविधान श्रुत्या च जन्यत्वसिद्धेश्चेति भावः ।पूर्वरूपेति। आत्मन एव घटादिविषयोल्लेखावस्थावत्वे इत्यर्थः ।तथा सत्यात्मसमवेतानेकज्ञानपक्षोस्त्वित्यत्राह ।उक्तरूप इति। श्रुतिरुदाहृतैव । आदिशब्देन नित्याभावात्मकोभिहित इत्यादिस्मृति ग्रहः ॥ ननु"“विज्ञानं यज्ञं तनुते’’ (तै आनं 5 अनु) ““यो विज्ञानेतिष्ठन्नि’’ (बृ - 5 - 7 - 22)त्यादि श्रुतिरेवात्मनो ज्ञानाभेदं साधयतीति शङ्कते ।श्रुतिरेवेति।परिहृतप्रायत्वादिति। तस्य ज्ञानत्वमात्रसाधने सिद्ध साधनादित्यनेनेत्यर्थः । उक्तं परिहारान्तरं च सङ्गृह्णाति।तत्र हीति। सारशब्दः प्रधानपरः । ज्ञानगुणसारत्वात् ज्ञानशब्देन व्यपदेश इत्यर्थः । ननु तस्य ज्ञानत्वमेवास्तु नतु ज्ञातृत्वमित्याशङ्क्य श्रुतिबलात्ज्ञातृत्वमपरिहार्यम्मित्याह ।वदन्तीति।ननु ज्ञातृत्वमेवाधिकमेव प्रतिपाद्यत इत्यत्राहसाक्षादिति। ज्ञातृत्वस्य अन्तःकरणोपाधिकत्वेपरम्परासम्बन्धाद्विज्ञातारमिति निर्देशोपपन्न एव ततोपाधिगतस्य तत्रारोपः श्रुतेरप्रामाण्यप्रसङ्गादिति भावः ॥नन्वेषोयमात्मा ज्ञानमात्रइति श्रुति विरोध इत्यत्राहतदविरोधायेति। मात्रशब्दः कार्त्स्न्य परः । संविद आत्मत्वे प्रतिपत्तुरभावाच्छास्त्रवैयर्थ्यम् इत्याह ।येनेति। संविदात्मत्वपक्षे येनैव शास्त्रेण ज्ञान रूपत्वमात्मनस्साध्यते तस्य शास्त्रस्य श्रोतापि न सिध्यतीत्यन्वयः ननु संविदेव श्रृणोतीत्यत्राहआत्मा त्विति। ज्ञातृत्वविशेषत्वाच्छेतृत्वस्येति भावः । नन्वहङ्कारस्य श्रोतृत्वान्नशास्त्रवैयर्थ्यमिति शङ्कते ।अहङ्कार इति। स्वनाशपर्यवसितत्वमाह ।अहमर्थात्यन्त विलयेति। ननु भवत्पक्षेप्येष दोषस्सम इत्यत्राहअहमर्थस्येति ।मोक्षकालतत्सत्ताभ्युपगमान्नदोष इति भावः ॥ इति वत्सकुलजलधिकौसुतेननृसिंहगुरुसतेन सिंहदेवेन कृतायांशतदूषणी टीकायां पञ्चविंशस्समाप्तः ।