॥अथ निर्विशेषत्वानुमानभङ्गवादः चतुर्विंशः ॥24॥
विभूतिगुणवर्गेण विशिष्टं यमधीमहे ।
अप्रतर्क्यविशेषाय तस्मै भगवते नमः ॥
यदाहुः - अनुभूतिर्निर्विशेषा, अनुभूतित्वात्, यत्सविशेषं न तदनुभूतिः, यथा घटः, अनुभूतेस्सविशेषत्वे घटवदननुभूतित्वप्रसङ्ग इति ।
अत्र तावत्प्रतिज्ञायां निर्विशेषपदमनुभूतिपदप्रतिपन्नादधिकार्थबोधकम्? न वा? पूर्वत्र तेनैवानुभूतिरितिवदनधिकार्थत्वेन पुनरुक्तिनिग्रहापत्तिः ।
समस्तविशेषाभाव एव तेन प्रतिपाद्यत इति चेन्न; उक्तोत्तरत्वात् ।
तथा हि ।
स किमनुभूतिस्वरूपमेव? ततोऽतिरिक्तं वा किञ्चित्? पूर्वत्र पुनरुक्तिः, सिद्धसाधनता च ।
नहि संवित्पर्यायशतपाठेऽपि नः काचित्क्षतिः ।
उत्तरत्र विशेषवत्त्वमवर्जनीयम् ।
समस्तविशेषाभावो न ब्रह्मणो रूपादिवद्धर्म इति चेत्, रूपादिवद्धर्मत्वं नास्तीति वदता किं गुणत्वादिरूपेण धर्मत्वं प्रतिक्षितम्? उत यथाकथञ्चिद्विशेषणत्वमपि? आद्ये गुणत्वादिरूपेण विशेषकत्वाभावेऽपि प्रकारान्तरेण विशेषेकत्वात्सविशेषत्वं तावदवर्जनीयम् ।
तथा च सति गुणादिरूपे विशेष कःप्रद्वेषः? द्वितीये पक्षीकृताया एवानुभूतेसा(ध्यधर्मा) ध्यानन्वयस्य त्वैयवोक्तत्वादनुमानवृत्तान्तानभिज्ञत्वमनन्वितानिग्रहस्थानं च ।
प्रमाणबलादयमेको विशेषः स्वीक्रियत इति चेत्, प्रमाणबलादिति किमिदमेवानुमानं प्रमाणम्? उतान्यच्छ्रुत्यादिकम्? न पूर्वः, असिद्धेः ।
कथं तस्यैव प्रमाणत्वे विमन्यमानं प्रति तदेव प्रमाणमुपस्थापयसि? नोत्तरः, श्रुत्यादेर्निर्विशेषप्रतिपादकत्वस्य दूषयिष्यमाणत्वात् ।
यदि चाभावरूपमेकं विशेषमभ्युपगच्छसि, तदाभावरूपेष्वन्येषु विशेषेषु किं भावरूपत्वादेवामर्षः? उत प्रमाणाभावात्? नाद्यः, अभावरूपे विशेषे कस्यचिदमर्षप्रसङ्गात् ।
न द्वितीयः, नित्यत्वस्वयम्प्रकाशत्वादेस्त्वयैव प्रमाणैरुपपाद्यमानत्वात् ।
व्यावहारिकप्रमाणोपस्थापितत्वान्नित्यत्वादीनां मिथ्यात्वमिति चेन्न; निर्विशेषत्वस्यापि व्यावहारिकप्रमाणोपस्थापितत्वेन
मिथ्यात्वप्रसङ्गात् ।
अस्त्वेवं किन्नश्छिन्नमिति चेत्, नित्यत्वनिर्विशेषत्वादेर्मिथ्यात्वेन सौगतवैशेषिकाद्यभिमता
नित्यत्वसविशेषत्वादेरवर्जनीयत्वात् ।
ननु निर्विशेषमिति प्रतिज्ञायां विशेषान्तरं निर्विशेषत्वं च विशेषत्वलक्षणसामान्योपाधिना युगपदेव प्रतिक्षिप्यते, ततःपरं च न किञ्चिद्वक्तव्यमस्तीति चेत्, तत्तत्साध्यधर्मानन्वयलक्षणो दोषःप्रागेवोक्तः ।
किञ्च विशेषान्तरशब्देन किं सामान्यतः सविशेषत्वमेव विवक्षितम्? उत रूपरसादयः कतिचन विशेषाः? पूर्वत्र निर्विशेषत्वमपि नास्ति सविशेषत्वमपि नास्तीति व्याहतवर्णना; “परस्परविरोधे हि न प्रकारान्तरस्थिति’’ ति (न्यायकुसु 3 - 8) रिति न्यायात् ।
उत्तरत्र रूपरसादिविशेषं निर्विशेषत्वादिकं चापोह्य शास्त्रसिद्धैः सर्वज्ञत्वादिभिः सविशेषत्वप्रसङ्गः ।
किञ्चेयं प्रतिज्ञा त्वदभिमतहेतुरूपधर्मप्रतिक्षेपिका? न वा? आद्ये हेत्वभावे साध्याभावः, प्रतिज्ञाहेतुविरोधश्च ।
द्वितीये तेनैव विशेषणतयाऽभ्युपगतेन सविशेषत्वम् ।
हेत्वादिधर्मान्वयस्य प्रमाणसिद्धत्वाभ्युपगमेन तन्निषेधे कालात्ययापदेशप्रसङ्गश्च ।
यदिच व्यावहारिकहेतुधर्मान्वयेन साध्यसिद्धिरिति मन्यसे, तदा बाष्पधूमभ्रमानुमितदहनवत् स्वप्नलब्धद्रविणनिर्मितभूषणवच्च साध्यव्यापिव्यावहारिकत्वस्य त्वयैवानुमन्तव्यत्वान्न किञ्चिदस्माकं दूषणीयमस्ति ।
यादृच्छिकसंवादिलिङ्गविभ्रमवदभिमतसिद्धिरिति चेत्, किमियं सिद्धिर्निर्णयात्मिका? उत सन्देहात्मिका? न पूर्वः, यादृच्छिकसंवादीत्यनेनैव विसंवादशिरसोऽपि सम्भावितत्वेन निर्णयासिद्धेः ।
नोत्तरः, सन्दिग्धनिर्णयार्थं न्यायं प्रवर्तयितुमिच्छतः पुनरपि तेनैव न्यायेन सन्देहस्यैव स्थिरीकरणात् ।
असत्यात्सत्यसिद्धिभागस्तु स्वस्थाने द्रष्टव्यः ।
अतो न कथञ्चिदपि सर्वविशेषशून्यत्वं प्रतिज्ञातुं शक्यते ।
घटस्य च परमार्थतः सविशेषत्वानभ्युप गमाद्दृष्टान्तस्साध्याव्यावृत्तः ।
अथ मिथ्याभूतविशेषयोगात्तत्र सविशेषत्वमिच्छसि; तदाऽनुभूतेरपि तथाविधविशेषाभ्युपगमान्न तत्प्रतिक्षेपः शक्यः ।
परमार्थविशेषशून्येति साध्यार्थे तु व्यतिरेकदृष्टान्तासिद्धिरुक्ता ।
यस्त्वनुभूतिर्दृश्यधर्मरहितेति साध्यं प्रयुङ्क्ते, तस्य साध्यविशेषणवैयर्थ्याच्च निग्रहः ।
अदृश्यधर्मानभ्युपगमात् ।
एवं प्रत्यक्त्वाजडत्वप्रकाशत्वादिहेतवोऽपि निरस्ता वेदितव्याः ।
ये च धर्मपक्षीकारेण प्रयोगाः - भेदादयो नानुभूतिधर्माः, दृश्यत्वात्, धर्मत्वात्, रूपादिवत्,इत्यादयः; तत्र तावत् स्वाभ्युपगतनित्यत्वादीनामपि पक्षीकारेऽपसिद्धान्तः ।
तद्बहिष्कारे तैरेवानैकान्त्यम् ।
तेषां मिथ्यात्वेनाभ्युपगमान्नापसिद्धान्तानैकान्ताविति चेन्न; तथा सति तत्प्रतिक्षेपकान् प्रति तत्समर्थनप्रयासनैरर्थक्यात् ।
तेषामनुभूतिस्वरूपमात्रत्वे च तत्स्वरूपमभ्युपगच्छद्भिस्सौगतादिभिस्सह न विमन्तव्यम् ।
अनित्यत्वादिकल्पनातैर्विवादस्तत्प्रतिक्षेपश्च क्रियत इति चेन्न; अनित्यत्वादिनिषेधस्यापि स्वरूपत्वे स्वरूपातिरिक्तस्य सत्यत्वे मिथ्यात्वे च सिद्धसाधनत्वव्याघातादिभिर्दत्तोत्तरत्वात् ।
किञ्चानुभूतिशब्देन लोकसिद्धसंविद्विवक्षायां विषयाश्रयस्वगतविशेषाणामनन्तानां प्रत्यक्षादिसिद्धत्वस्थापनात्कालात्ययापदेशः ।
श्रुतिसिद्धब्रह्मस्वरूपपक्षीकारे तु श्रुत्यैव तद्गतानन्तविशेषविषयया बाधश्चापरिहार्य इति ।
तदेतत्सर्वमपि सङ्गृहीतं भाष्ये - “यदपि नास्या दृशेर्दृशि(स्व)रूपाया दृश्यः कश्चिदपि धर्मोऽस्ति, दृश्यत्वादेव तेषां न दृशिधर्मत्वमिति च, तदपिस्वाभ्युपगतैः प्रमाणसिद्धैः नित्यत्वस्वयम्प्रकाशत्वादिधर्मैरुभयमनैकान्तिक’’(श्री भाष्यं जिज्ञा)मित्यादिना।
तत्र स्वाभ्युपगतैरित्यपसिद्धान्तादेस्सङ्ग्रहः ।
प्रमाणसिद्धैरिति तु बाधादेः ।
अनैकान्तिकशब्दः स्वसाध्यसम्बन्धनियमनिषेधार्थः ।
तेन यथासम्भवं बाधादेरपि सङ्ग्रह इति ।
प्रतिप्रयोगश्च - अनुभूतिः सविशेषा, भासमानत्वात्, घटादिवत्; नित्यत्वादयोऽनुभूतिधर्माः अभ्युपगतानुभूतिस्वरूपं प्रति तद्धर्मतया प्रमाणतस्साध्यमानत्वात्; यत्र यत्प्रमाणतः साध्यते स तद्धर्मः यथा सम्प्रतिपन्नः, इत्यादयः ।
नचात्र विपक्षे बाधकाभावः शङ्क्यः, प्रागुक्तनिर्विशेषप्रतिज्ञानुपपत्त्यादेरेव बाधकत्वात् ।
अन्ततो निर्विशेषानुमानस्यैव विपक्षे बाधकरहितत्वाच्च ।
न च दृष्टान्तासिद्धिः, त्वयैव घाटदेर्व्यतिरेकदृष्टान्ततयोदाहरणात् ।
बाधादेरपि प्रसङ्गाभावेन प्राबल्यमस्मदुक्तानामिति ॥
॥इति श्री कवितार्कि सिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां निर्विशेषत्वानुमानभङ्गवादः चतुर्विंशः ॥24॥
नृसिंहराजीया
अनुभूतिविषयचिन्ता सामान्यादियमपि चिन्तासङ्गतेति वादार्थं सूचयन्मङ्गलमाचरति ।विभूतीति। ब्रह्मण एव अनुभूतित्वेन तैरभ्युपगमात् तस्य च सविशेषत्वेनैव प्रतिपन्नत्वान्नतस्य निर्विशेषत्वसाधनं सम्भवतीति वादार्थस्सूचितः । निषेधश्रुतेस्तात्पर्यमाह ।अप्रतर्क्येतिनिर्विशेषत्वे षाड्गुण्य प्रवृत्तिनिमित्तक भगवच्छब्दविरोधाेपीत्यभिप्रायेण भगवते नम इति अधिकोर्थो निर्विशेषरूपोधर्मः पुनरुक्तिनिग्रहा पत्तिरिति शब्दार्थयोः पुनरुक्तम् । अन्यत्रानुवादादिति गौतमीयं सूत्रम्मिति भावः । ननु विशेषाभावोनुभूति स्वरूपातिरिक्त एव अतो न पौनरुक्त्यम् । विशेषमात्रस्यैव निषेध्यत्वेन विशेषा भाव रूपविशेषस्यापि निषेधात् न सविशेषत्वदोष इत्यभिप्रायेण शङ्कते ।समस्तेति। ननु कथम् उक्तोत्तरत्वं विशेषा भावोऽतिरिक्तः तस्यापि निषेधे न मिथ्यात्वादित्यत आह ।तथा हीति। तत्र विशेषाभावस्याप्य भावः स्वयमेव न भवति प्रतियोगित्वतदभावयोरेकत्रविरोधात्। तथा चातिरिक्तएवस्वोऽस्याभाव इति वक्तव्यम् । तत्र स्वानुभूति स्वरूपकतान्य पूर्वत्र पौनरुक्त्याद्यवर्जनीयम् उत्तरत्र सविशेषत्वप्रसङ्ग इति दूषयति ।स किमित्यादिना। ननु समस्तविशेषाभाव स्वरूपतातिरिक्त एव परन्तु रूपादिकम् । यथा घटादेर्धर्मो न तथा ब्रह्मणस्सधर्मता नपौनरुक्त्यं नापि सविशेषत्वमिति शङ्कते ।समस्तविशेषाभाव इति। किं विशेषाणां गुणत्वमेव प्रतिक्षेप्यते।न तु यथा कथञ्चित्सम्बन्धमात्रमपीति । आद्ये सविशेषत्वस्य न प्रतिक्षेपः विशेषाणां गुणत्वाभावेपि तत्सम्बन्धमात्रात् सविशेषत्वोपपत्तेः । द्वितीय्ये पक्षसम्बन्धाप्रसिद्धेरनुमा साध्य न फला सिद्धिरित्याह । न रूपेत्यादिना ॥ अनुमानवृत्तान्तः पक्षेसाध्यसम्बन्धसाधकत्वानन्वितनिग्रहस्थानमित्यर्थः । अप्रतिबन्धार्थत्वादपार्थकनिग्रहस्थानमित्यर्थः ।प्रमाणबलादिति। अयं विशेषाभाव एकोङ्गीक्रियते न पुन रेतदतिरिक्तोअभावरूपोअभावाविशेषः स्वीक्रियत इत्यर्थः ।असिद्धेरिति। प्रमाणत्वासिद्धेरित्यर्थः ॥ असिद्धिमेवोपपादयतिकथमिति। विशेषाभावस्यापि विशेषत्वादनुभूतिर्निर्विशेषेति प्रतिज्ञायास्सामान्यतो विशेषमात्रनिषेधे विशेषत्वावच्छिन्नप्रतियोगिकाभावस्यापि निषेधेन व्यघाताद्भावाभावमात्र प्रतियोगिकाभावस्याप्रसिद्धया च न तद्व्यतिरिक्तत्वावच्छिन्नप्रतियोगिकाभावस्य साधनसम्भव इति प्रमाणत्वे विमतिरित्यर्थः । पूर्वोक्त साध्याभ्युपगम एव बाधकमाहयदि चेति।अभावरूप इति। यदि प्रमाणसत्वेपि तत्क्रोधमात्रादेव भावरूपविशेषासिद्धस्तदान्यस्यक्रोधादभावरूपविशेषोऽपि न सिध्येदित्यर्थः ।नित्यत्वेति। नित्यत्वादीनां ब्रह्मस्वरूपभिन्नत्वे नित्यादिपदानामभिन्नार्थत्वप्रसङ्गेनधर्मत्वमेव वाच्यमित्यर्थः । अस्तु नित्यत्वादीनां सिद्धिः तथापि मिथ्यात्वान्नदोष इति शङ्कते ।व्यावहारिकेति।तर्हि निर्विशेषत्वमपि न सिध्येदित्याहनिर्विशेषत्वस्येति। अस्तु निर्विशेषस्यापि मिथ्यात्वं न तावतापि मिथ्यात्वं न तावता सविशेषत्वप्रसङ्गः । विशेषाणामपि मिथ्यात्वादिति शङ्कते ।किन्नच्चिन्नमिति। छिन्नं न भवति त्वदभिमतं सर्वं छिन्नमित्याह ।किन्नश्छिन्नमिति। तदेवोपपादयति ।नित्यत्वेति। तथाच सौगतादिमतप्रसङ्ग इति भावः । ननु निर्विशेषत्वस्य मिथ्यात्वेऽपि न विशेषान्तरस्य सत्यत्वसिद्धिः । निर्विशेषमिति प्रतिज्ञायां विशेषत्वेन रूपेण निर्विशेषत्वस्य युगपदेव निषेधात् । ततश्च तमेवोभयनिषेधमादाय सविशेषत्वशङ्कायामपि न किञ्चिद्वक्तव्यमवशिष्यते । तस्यापि विशेषत्वरूपेण निषेध्यान्तर्भावेनमिथ्यात्वेन परिहृतत्वादित्याशङ्कते ।ननु निर्विशेषमिति। तथा सति विशेषान्तराभाव पक्षे प्रतिक्षेपात्साध्य धर्मानन्वयः पक्षे साध्यासिद्धिरूपो दोषस्यादित्यर्थः ।पूर्वत्रेति। निर्विशेषत्वस्य निषेधेन विशेषत्वस्य विधिस्यात् सर्विशेषत्वनिषेधेर्विशेषत्वस्य विधिस्यात् । तथा च समानसत्ताकयोर्भावा भावयोर्युगपदेकत्र निषेदाद्व्याघातस्यादित्यर्थः ।परस्परेति। परस्पराभावाव्यापकत्वं विरोधइत्यर्थः ।उत्तरत्रेति। यदि कतिपयविशेषाणां निषेध इति ब्रूषे तर्हि घटादि धर्मत्वेन प्रसिद्धानां रूपादीनां प्रमाणविधुराणां पदाभिमत निर्विशेषत्वाविद्याश्रयत्वादीनां निषेधस्यात्ततश्च शास्त्रगम्यसार्वज्ञादेरप्रत्यूहादिति भावःप्रतिज्ञाहेतोर्विरोधश्चेति। हेतुसिद्धौ साध्यासिद्धेः साध्यसिद्धौहेत्वसिद्धिः । प्रतिज्ञाहेतुवचनयोः परस्परव्याघात इत्यर्थः । साध्यानुमितेः पूर्वं पक्षे हेतु निर्णयस्य आवश्यकत्वाद्धेतोश्च विशेषत्वात्परामशेर् नानुमानस्य बाधश्चेत्याह ।हेतुत्वादिति। आदिपदेन पक्षतावच्छेदकादिग्रहः । नन्वस्तु हेतोः प्रतिक्षेपः नचैवमसाधकत्वप्रसङ्गः । व्यवहारिकत्वेन साधकत्वसम्भवाल्लाघवेन सत्वमात्रस्यप्रयोजकत्वादित्याशङ्कामनुवदति ।यदि च व्यवहारिकेति।सत्वमात्रस्य प्रयोजकत्वेऽति प्रसङ्गमाह ।तदेति।हेतु समानसत्ताकत्वेनेति शेषः । तथा च निर्विशेषस्यापि मिथ्यात्वं स्यादिति तत्साधने सिद्धसाधनमित्यर्थः।स्वप्नलब्धेति।यथा कार्यस्य कारणसमानसत्ताकत्वं नियत तथा ज्ञाप्यस्यापि ज्ञापक समान सत्ताकत्वं नियतमित्यर्थः ।लिङ्गभ्रमवदिति। लिङ्गभ्रमस्थले इवेत्यर्थः ।किमियमिति। किं निर्विशेषत्वानुमिति निर्विशेषत्वं परमार्थः । उतापरमार्थ इति संशयविरोधि न वेति विकल्पार्थः । न पूर्व इत्यादि लिङ्गपरामर्शस्य भ्रमत्वनिश्चयात् यादृच्छिक संवादस्यादर्शनात् तत्सम्भावनामात्रस्य विसंवादिसाधारण्यात् अनुमितौ अप्रामाण्यसन्देहादित्यर्थः ।सन्दिग्ध इति। सन्देहनिवर्तनार्थम् अनुमान प्रवृत्तिः । ततश्च तदर्थ प्रवृत्तिनाप्यनुमानेनाप्रामाण्यसन्देहास्कन्दितेनार्थसंशयस्यैवाधानात्तस्य चाहितस्य तदाधायकसहस्रेणापि निवृत्तिर्नस्यादित्यर्थः ।नच व्यावहारिकमेव साधनमस्तु । न च व्यावहारिकसाधने व्यावहारिकमेव साध्यमिति नियमः । असत्यादपि सत्यसिद्धेर्यथा मिथ्याभूतसर्पादितो भयादित्यत आह ।असत्यादिति। सर्पादिज्ञानमेव तत्र भयादिहेतुः नत्वसत्यरज्जुसर्पादित्यसिध्यात्सत्यसिद्धिभङ्गे द्रष्टव्य इत्यर्थः । प्रतिज्ञादूषणमुपसंहरतिअत इति। किं परमार्थो विशेषाभावस्साध्यः उतापरमार्थः नाद्य इत्याह ॥घटस्येति। परमार्थस्य विशेषाभावस्य घटादौ सत्वाद्धेतोरसाधारण्यमित्यर्थः । ननु घटादौ पारमार्थिकविशेषाभावोऽपि नास्ति प्रतियोगिमात्रस्याभावसत्व विरोधित्वादित्याशङ्कते ।अथेति। तथा सति बाध एवेत्याह ।तदेति। ननु परमत्वावच्छिन्नविशेषाभावस्साध्यः स च घटे न बाधितः । प्रतियोगितावच्छेदकावच्छिन्न प्रतियोगिसत्वस्यैव विरोधित्वादित्याशङ्क्य परिहरति ।परमार्थेति । उक्तेति॥ संविदो निर्विकारत्व भङ्गवादे तथापि व्यतिरेकासिद्धिरित्याद्युक्त न्यायोनोक्तप्रायेत्यर्थः ।वैयर्थ्यादिति। साध्यविशेषणवैयर्थ्यस्य प्रतिज्ञाहान्यन्तर्भावादिति भावः । च कारः पूर्वोक्तदोष समुच्चयार्थः । अनुभूतिर्निविशेषा प्रत्यक्त्वात् अजडत्वात् प्रकाशत्वात् अपरिच्छिन्नत्वात् व्यतिरेकेण निघटवदित्याद्यनुमानान्यप्युक्तदूषणा निरस्तानित्याह ।यस्त्विति। किमनुभूतिधर्मत्वमात्रं निषिध्यते पारमार्थिकानुभूति धर्मत्वमिति विकल्पमभिप्रेत्याद्यं द्वेधा विकल्प्य दूषयति ।तत्र तावदिति। द्वितीयं कल्पमुत्थापयति ।तेषां मिथ्यात्वेनेति। पारमार्थिकानुभूति धर्मत्वाभाव एव साध्यः । नित्यत्वादयश्च व्यावहारिक एव । अतस्तेषां पक्षत्वे बहिर्भावे वा नोक्तदोषादित्यर्थः ।तथा सतीति। ब्रह्मणि नित्यत्वादिकमनिच्छद्भिरपि नित्यत्वादिकं मिथ्येत्येवाभिधीयते इत्यर्थः । ननु नित्यत्वादिकं ब्रह्मणस्स्वरूपमेव अतस्तस्य पक्षत्वेपि धर्मत्वाभावान्न बाधः । पक्षबहिर्भावेपि हेत्वभावान्न व्यभिचार इति शङ्कामनूद्य परिहरति ।तेषामिति । अनित्यत्वादिकल्पनादिति। कल्पिता अनित्यत्वादि निरासार्थं यत्नसार्थक्यमित्यर्थः ।नित्यत्वादिनिषेधस्येति। स्वरूपत्वे सिद्धसाधनं स्वरूपातिरिक्तत्वे नित्यत्वेचानुभूतिमात्रोपक्रमव्याघातः । अद्वितीयत्वव्याघातश्च मिथ्यात्वेप्युपक्रम व्याघातः तत्प्रतिक्षेपा सम्भवश्चेति भावः अनुभूति पक्षकानुमाने दूषणान्तरञ्चाह ।किञ्चेति । यदपीति। अस्याः दृशेरित्यादिना दृशिपक्षकानुमानमुक्तं दृश्यत्वादेवेत्यादिना धर्मपक्षकमुक्तं तदुभयमपीत्यन्वयः । अपसिद्धान्तादेरित्यादि शब्देन नित्यत्वादिप्रतिक्षेपकान्प्रति तत्समर्थनप्रयासकैरर्थ वयादेर्ग्रहः ।बाधादेरित्यादिशब्देन अनैकान्तिकादि सङ्ग्रहः नन्वनुभूतित्वस्य कथमनैकान्त्यं परपक्षे तदसम्भवादित्यत्राह ।अनैकान्तिकशब्द इति । यथा सम्भवमिति। अनुभूतिलिङ्गे बाधः दृश्यत्वलिङ्गेऽनैकान्त्यमित्यर्थः । सविशेषेति। स्वसमानसत्ताकविशेषेत्यर्थः ।भासमानत्वादिति। प्रकाशमात्रत्वं विवक्षितम् । तच्चानुभूतेश्चेतन्याविषयत्वपि परेणाङ्गीकृतमिति नासिद्धिः ।अनुभूतिधर्मा इति। अधिकरण समानसत्ताकानुभूति धर्मेत्यर्थः । पक्षासिद्धिपरिहारार्थमाह ।अभ्युपगतेति। तद्धर्मतयाप्रमाणतस्साध्यमानत्वादित्येव हेतुः । उभयाभ्युपगतप्रमाणभावे न अनुभूतिधर्मतया प्रतीयमानत्वादित्यर्थः ।उभयाभ्युपगतप्रमाणभावाश्रुतिः तयानुभूतेर्नित्यत्वादि प्रतिपत्तेः । तथा च प्रमाणत्वेसिद्धे साध्यसिद्धिः । साध्यसिद्धौ प्रमाणत्वसिद्धिरित्यन्योन्याश्रयो नेति भावः । तद्धर्मतया स्वरसिकबाधरहितप्रतीति विषयत्वादित्यर्थःइत्यपरे । तेन प्रमाणभावप्रतिपन्नक्षणिकत्वादौ व्यभिचार इति ध्येयम् ।प्रागुक्तेति। अनुभूतिपक्षके निर्विशेषत्वानुपपत्तिर्विपक्षे बाधिका । नित्यत्वादि पक्षकेतु नित्यत्वादीनामनुभूतिसमानसत्ताकतधर्मत्वाभावे मिथ्यात्वात्तत्प्रतिक्षेपकान् प्रति तत्समर्थन प्रयासनैरर्थक्यादिर्विपक्षे बाधिका ।अयमेवेति। प्रतिज्ञानुपपत्तयादेरित्यादिशब्दार्थः ।अन्तत इति। प्रत्युतेत्यर्थः । ननु व्याप्यत्वासिद्धिरसाध्याप्रसिद्धेरित्यत्राह ।नचेति। त्वयैवनिर्विशेषत्वानुमाने व्यतिरेकव्यवृत्यर्थं घटादेस्सविशेषत्वाङ्गीकारादित्यर्थः । नन्वेवमपि सविशेषत्वमसिद्धमेव त्वदनुमानस्य मदुक्तेन प्रतिरोधात् इत्यत आहबाधादेरपीति। त्वदुक्तानुमाने तु बाधोप्यस्तीति न तुल्यतेति भावः ॥ ॥ वत्सकुलतिलकनृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणी टीकायां चतुर्विंशः समाप्तः ॥