॥अथ संविन्नानात्वनिषेधकानुमानभङ्गवादः त्रयोविंशः ॥23॥
प्रतिपुरुषमनेकाः प्रत्यवस्थं विचित्राश्शुभगतिषु धियो यश्चोदयत्यञ्जसा नः ।
अखिलचिदचिदन्तर्यामि तद्विष्णुसञ्ज्ञं सवितुरहमुपासे तस्य देवस्य भर्गः ॥
यदाहुः - अनुभूतिर्न नाना, अजत्वात्; यन्नाना तज्जायते, यथा घटः ।
दृश्यमानस्तु संविद्भेदो विषयाश्रयादिभेदोपाधिकत्वान्न स्वाभाविकः, घटाकाशतरङ्गचन्द्रपराभिमतसमवायादिभेदवत् ।
अन्यथा कल्पनागौरवप्रसङ्गादिति ।
तदसारम्; किमत्र यतःकुतश्चिदपि भेदो निषिध्यते? उतसंविज्जातीयमात्रात्? अथ संवित्स्वरूपात्? उत संविदन्तरात्? अथवा संवित्सजातीयराहित्यं साध्यत इति ।
न प्रथमः, प्रत्यक्षविरोधात्, देहात्मविवेकानुपपत्तिप्रसङ्गात्; अपसिद्धान्ताच्च ।
“युष्मदस्मत्प्रत्यय गोचरयोर्विषयविषयिणोस्तमः प्रकाशवद्विरुद्धस्वभावयोरितरेतरभावानुपपत्ता’‘विति (शाङ्ङ्करभाष्यं) हि वः कूटस्थोपदेशः।
अपरमाथोऽपि भेदस्तत्र निर्दिश्यत इति चेत् साधु तत्त्वोपदेशः समारब्धः ।
परमार्थतस्तयोः(ऐक्य)भेदप्रसङ्गाच्च ।
अत्राप्यपरमार्थभेदनिषेधे स एव दोषः, परमार्थभेदानुमितिप्रसङ्गो वा ।
परमार्थभेदनिषेधे तु व्यतिरेकव्याप्तिभङ्गः, यत्परमार्थभेदवत्तदुत्पन्नम्, यथा घट इति हि सा स्यात् ।
नच घटादौ परमार्थभेदस्त्वयाऽभ्युपगम्यते ।
तदाह - “जन्मप्रतिबद्धःपरमार्थविभागः किङ्क्वचिद्दृष्टस्त्वयेति ।
(श्री भाष्यं जिज्ञा) अविद्यायाश्चानुत्पन्नतयाऽभ्युपेतायास्संविदपेक्षया परमार्थभेदाभ्युपगमे पक्षविपक्षमात्रवृत्तितया विरुद्धो हेतुः।
अपरमार्थभेदाभ्युपगमे तु जडाजडतादात्म्यातिदेशः ।
तदाह - अविद्याया आत्मनः परमार्थतो विभागाभावे वस्तुतोऽविद्यैव स्यादात्मेति (श्री भाष्यं जिज्ञा)
न द्वितीयः, संविदः संविद्विजातीयत्वानभ्युपगमेन सिद्धसाधनात् ।
न हि संविदेव भवति संविज्जातीयमात्राद्भिद्यत इति कश्चिदिच्छति ।
तथेच्छन्तमपि प्रति नासौ हेतुः, अविद्यायां संविद्विजातीयायां तद्वृत्तेः ।
ह्यनुपपन्ना संवित्तत्त्वात् सर्वस्मादेव हि भिन्ना त्वयेष्यते ।
तद्भेदानभ्युपगमे तन्मिथ्यात्वाभ्युपगमे च दत्तमुत्तरम् ।
न तृतीयः, सिद्धसाधनत्वादेव ।
नापि चतुर्थः, संविदन्तरसिद्धौ तदवधिकभेदस्यापि सिद्धेस्तन्निषेधायोगात् ।
तदसिद्धौ कथं तन्निरूपितभेदनिषेधः ।
उपाधिवशात्संविदन्तरत्वेन प्रतीयमानं स्वरूपमेव संविदन्तरशब्देनानूद्य तदवधिकभेदो निषिध्यते,चन्द्रस्तरङ्गचन्द्रान्न भिद्यत इतिवदिति चेत् तथाऽपि हेतोर्विरोधः, संविदन्तराद्भिन्नायामविद्यायां तद्वृत्तेः ।
न हि सा संविदन्तरभेदरहिता, प्रागुक्तदोषात् ।
यश्च प्रवाहानादिमविद्यामिच्छति, तस्यापि प्रागभावे संविदन्तराद्भिन्ने हेतुवृत्तेर्विरोध एव ।
यद्यप्यभावमपि नेच्छेत्, तथाऽपि घटादिषु संविदन्तरभेदाभावात्सपक्षभूतेषु सर्वेषु हेतोरवृत्तेरसाधारणता ।
अपरमार्थस्संविदन्तराद्भेदस्तत्रास्तीति न सपक्षतेति चेत्; तर्हि संविदोऽपि संविदन्तरादपरमार्थभेदयोगान्न तत्र तद्राहित्यं साधयितुं शक्यम् ।
अपारमार्थ्यमेव तस्यात्र साध्यत इति चेत् तथाऽपि घटादिष्वपि संविदन्तरभेदापारमार्थ्यसिद्धेः सपक्षत्वमपरिहार्यम् ।
संविदः संविदन्तराद्भेदमात्रं मिथ्या, घटादेस्तु स्वरूपमपीति विशेष इति चेत्, किमतः? स्वरूपस्य मिथ्यात्वे सत्यत्वेऽपि संविदन्तरप्रतियोगिकमिथ्याभेदयोगित्वस्य साधारणत्वात् ।
एतेन अनुभूतित्वादिति हेतुनाऽप्यस्य साध्यस्य दुस्साधत्वं दर्शितम् ।
तरङ्गचन्द्रदृष्टान्तोऽपि विषमः, तरङ्गचन्द्रस्य मिथ्याभूतस्य सत्यचन्द्रतादात्म्यायोगात् ।
यदि चन्द्रव्यतिरिक्तस्तरङ्गचन्द्रो नास्तीति निर्दिश्येत, तर्ह्यत्रापि संविदन्तरं मिथ्येत्येवोक्तं स्यात् ।
तथा विषयाश्रयभेदभिन्नानन्तसंविदुपलम्भे च कस्यास्सत्यत्वं कासां तु तरङ्गचन्द्रवन्मिथ्यात्वमिति विशेषकाभावादनियमेन सर्वसंविन्मिथ्यात्वं सर्वसंवित्सत्यत्वं वा प्रसजेत् ।
सामान्यतस्संवित्तत्वे कुतश्चित्सिद्धे तद्व्यतिरिक्तास्संविदो निषिध्यन्त इति चेत्, क एवमाह? संवित्तत्त्वव्यतिरिक्तास्संविद इति, अपि तु संविद एव संविदः ।
न च संवित्तत्त्वं सामान्यतः सिध्यदेकमिति सिध्यति, येन तद्व्यतिरिक्तसंविन्मिथ्यात्वं साध्येत ।
एकतया सिद्धौ च किमत्र पुनस्साध्यम्? अत एव न पञ्चमः, एकयाऽनाद्यविद्ययाऽनैकान्त्याच्च ।
प्रवाहाविद्यापक्षेऽपि सजातीयवत्यविद्याप्रागभावे त्वदभिमतेऽनुत्पन्नत्वहेतोर्वृत्तेर्विरोधश्च ।
तस्यापि सजातीयवत्त्वं मिथ्येति चेत्, तर्हि घटादेरपि सज्जातीयवत्त्वं मिथ्येति यन्नाना तदुत्पन्नमिति व्याप्तिप्रदर्शनासिद्धिः ।
व्यावहारिकं घटादेः सजातीयवत्त्वमुपजीव्य व्याप्तिप्रदर्शनमिति चेत्,
प्रागभावस्यापि
व्यावहारिकसजातीयवत्त्वात्तद्वर्तिनो हेतोर्विरोध एव ।
न चाभावस्य जातिर्नास्तीति सजातीयाभावः,
समानोपाध्याक्रान्तत्ववेषेणाविशेषात् ।
अन्यथा संविदोऽपि जातिमनभ्युपगच्छतः सिद्धसाधनत्वप्रसङ्गात् ।
नच घटादिभेदस्य व्यावहारिकत्वमिति स्थितमन्यत्र ।
तदेतत्सर्वमभिप्रेत्याह - “अबाधितप्रतीतिसिद्धदृश्यभेदसमर्थनेन दर्शनभेदोऽपि समर्थित एव, छेद्यभेदाच्छेदनभेदवदि’’(श्री भाष्यं जिज्ञा) ति ।
ननु दृश्यभेदेऽपि दर्शनमेकमेवोपलभ्यते, यथा घटपटाविमाविति; छेद्यभेदेऽपि छेदकव्यापार एक एव दृश्यते, यथा एकप्रहारभेद्येष्वनेकेषु काण्डेषु; अतः कर्मभेदे क्रियाभेद इति न व्याप्तिः; नच दृश्यभेदसमर्थनन्यायेन दर्शनभेदसिद्धिरिति विवक्षा, छेद्यभेदाच्छेदनभेदवदित्युदाहरणस्याना काङ्क्षितत्वप्रसङ्गात्; न च छेद्यभेदसमर्थनन्यायेन छेदनभेदस्समर्थ्यते, यदर्थमप्युदाह्रियेत, अतः किमर्थं भाष्यमिति ।
उच्यते - दृश्यभेद इति न दृश्यानां स्वरूपभेदमात्रं विवक्षितम्, अपि तु कर्मकारकत्वविशेषणभेदः, अनेकेषामप्येकसामग्रीविशेषमध्यपतितानां घटादीनामेकं कर्मत्वम्, एवं कारकान्तरेष्वप्यनेकेषामेकं तत्तत्कारकत्वं दृश्यते, यथा दर्शपूर्णमासयोः करणत्वमेकमेव तथाऽत्राप्यनेकेषामेकं कर्मत्वमिति न विरोधः ।
एवं छेद्यभेदेऽपि द्रष्टव्यः -
ततश्चायमर्थः - यदि सर्वासां संविदामैक्यं स्यादेकस्यां घटादिप्रतिनियतविषयायां संविदि संविदन्तरविषयाणामपि प्रकाशप्रसङ्गः, न च तथोपलभ्यते, दृष्टादृष्टव्यवस्थाप्रदर्शनात्, अतोऽवगम्यते मिथोऽनाघ्रातविषयाः संविदः स्वरूपतो भिन्ना इति ।
तत्रेदं निदर्श्यते - यथा छेदनक्रियाः परस्परास्पृष्टविषयाःपरस्परं विभिद्यन्ते तद्वदिति ।
एतेन दृश्यमानस्य संविद्भेदस्य विषयादिभेदोपाधिकत्वं विषयभेदमिथ्यात्वेन संविद्भेदस्य मिथ्यात्वसमर्थनं च निरस्तम् ।
दृश्यमानत्वादेव च कल्पनागौरवप्रसङ्गोऽपि परिहृतः ।
दर्शनस्य च बाधकाभावादेव (च) प्रमात्वं सिद्धम् ।
ननु प्रत्यगात्मनिष्ठधर्मभूतज्ञानं नित्यमिति य इच्छति तस्य कथं संविद्भेदस्य विषयभेदोपाधिकत्वापह्नवः? उच्यते; नित्याऽपि संवित्तत्तत्कर्मानुरूपं तेषु तेषु विषयेषु सङ्कोचं विकासं च भजते ।
ततश्च कर्मानुरूपतत्तद्विषयीकरणविकारविशेषापेक्षया स्वरूपत एव क्रियाभेदः प्रतिनियतविषयता च युज्यते ।
तव तु न तथा, नित्यनिर्विकारस्वप्रकाशमात्रत्वाभ्युपगमात् संविदः ।
मायातिरोधानतदधीनविचित्र विषयत्वादिकं तु न सम्भवतीत्यन्यत्र द्रष्टव्यमिति ॥
॥इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां संविन्नानात्वनिषेधकानुमानभङ्गवादःत्रयोविंशः ॥23॥
नृसिंहराजीया
पूर्ववादे देवदत्तीयसंविदन्तरवेद्यत्वादिना वेद्यत्वमुक्तम् । तदनुपपन्नं संविदो भेदाभावेन विषयविषयि भेदाभावात् । न च भेदाभावोऽसिद्धः । संविन्नाना न अजत्वात् इत्यनुमानादित्युत्थानात्सङ्गति रित्यभिप्रायेण वादार्थंसङ्गृहणाति ।प्रतिपुरुषमिति। जडत्वहेतुसाम्यमेव सङ्गतिरित्यपरे । संविन्नानात्वे गायत्रीप्रमाणमित्यभिप्रायेणाह ।शुभगतिषुधियो यश्चोदयतीति। शुभगतयः शुभहेतुधर्मादयः इत्यर्थः ।““भर्गाख्यं विष्णुसञ्ज्ञित’‘मिति प्रमाणानुसारेणाह । तद्विष्णुसञ्ज्ञितमिति । नपुंसकतच्छब्देन भर्गशब्दस्यकारान्तो नपुंसक इतिगम्यते । विषयाश्रयादित्यादिपदेन वृत्तिर्गृहयते । अप्रयोजकत्वशङ्कामपाकरोति ।अन्यथेति। विषयाश्रयभेदस्यसिद्धत्वान्नतद्भेदः कल्पनीयः । वृत्तिभेदस्यकल्पनेपि फलमुक्त्वा गौरवं न दोषायेति भावः । अनुभूतिनानत्वेन गौरवम् । भेदप्रतीतेःक्लप्तानुभूति भेदविषयत्वे लाघवात् अक्लप्तोसाध्ययाधीनत्वकल्पन एव गौरवात् । अन्यथा घटादि भेदस्यापह्नवापातादित्यभिप्रायेणाह ।तदसदिति ।प्रत्यक्षविरोधादिति। घटादिभेदस्य प्रत्यक्षसिद्धत्वात् बाध इत्यर्थः ।देहात्मेति। देहात्मविवेकाभावे पारलौकिक वृत्तिर्नस्यादिति भावः । अपसिद्धान्तमेवोपपादयितुं तदिदं भाष्यमुपपादयतियुष्मदिति।इतरेतरभावानुप पत्ताविति। परमार्थत इत्यर्थः ।अपरमार्थत इति ।तथा च नापसिद्धान्त इति भावः ।परमार्थतस्तयोरैक्यप्रसङ्गश्चेति। भेदस्यापरमार्थिकत्वं हि अभेदस्यापारमार्थिर्कत्व एव स्यादिति भावः ।किं चानुमानेनापि किम् अपरमार्थभेदनिषेधस्साध्यते उतापरमार्थ भेदस्य नाद्य इत्याह ।अत्रापीति।स एवेति।सः अपसिद्धान्त एवेत्यर्थः ।परमार्थेति। समानसत्ताकयोरेवात्रासम्भवात् परमार्थभेदवत्यपरमार्थभेदनिषेधे सिद्धसाधनमिति भावः । द्वितीयं दूषयतिपरमार्थेति। व्याप्तिभङ्गमुपपादयतियदिति । न च घटादाविति। अद्वैतभङ्गप्रसङ्गादिति भावः ।तदाहेति। भाष्यकार इति शेषः । परमार्थविभागः । परमार्थ भेदः । जन्मप्रतिबन्धः प्रतिबन्धो व्याप्तः उत्पत्तिव्याप्तइत्यर्थः । परमार्थभेदस्य निषेध इति पक्षे दूषणान्तरमाह ।अविद्याया इति। साध्याभावव्याप्तत्वादिति भावः ।अपरमार्थेति। अविद्यासंविदोरित्यर्थः ।तदाहेति। भाष्यकृदित्यर्थः । नहि संविदेव हीति। समानसत्ताकयोर्भेदाभेदयोर्विरोधादिति भावःनासौ हेतुरिति। व्यभिचारादिति भावः । तमेवोपपादयति ।सा हीति।दत्तमुत्तरमिति।जडयोरैक्य प्रसङ्ग इत्यर्थः ।सिद्धसाधनत्वादेवेति। सर्वासांस्वापेक्षया भेदाभावस्य सिद्धत्वादिति भावः ।संविदन्तरेति। क्लप्तसंविदपेक्षया भिन्नायास्संविद इत्यर्थः ।तदसिद्धाविति। संविदन्तररूपप्रतियोग्यसिद्धया तन्निरूपितभेदस्याप्यसिद्धिरिति भावः । ननु संविदन्तरत्वेनप्रतीयमानप्रतियोगिकभेदनिषेधस्साध्यः । तथा च नाप्रसिद्धिरिति शङ्कते ।उपाधिवशादिति।चन्द्र इति।चन्द्रस्य तरङ्गचन्द्रस्य च भेदानभ्युपगमादिति भावः ।हेतोर्विरोध इति। व्यभिचार इत्यर्थः ।प्रागुक्तेति। जडाजडयोरैक्यप्रसङ्गादित्यर्थः । नन्वविद्यायांहेतुर्नास्त्येव उत्पन्नत्वात् । न चादित्वाभ्युपगमविरोधःप्रवाहानदित्व इति पूर्वपक्षयेकदेशमतमाशङ्क््य तथा सति तत्प्रागभावे व्यभिचार इति परिहरति ।यश्चेति।नन्वभावान्तरमेव नास्तीति क्व व्यभिचार इति शङ्कते ।यद्यपीति। किमत्र पारमार्थिकोभेदो निषिध्यते उतापारमार्थिकः नाद्य इत्याह ।तथापीति। द्वितीयं शङ्कते ।अपरमार्थ इति । साधयितुं शक्यमिति।बाधादिति भावः । गूढाभिसन्धिराशङ्कते ।अपरमार्थ्यमेवेति। भेदे सति तदभावसाधने भेदापारमार्थ्य पर्यवसानादिति भावः । गूढाभिसन्धिं प्रतिवक्ति ।तथापीति। नन्वस्तु पक्षता न चासाधारण्यम् ।अविद्यायां तत्प्रागभावे वा हेतोर्व्यत्यस्तप्रयोगादिति चेन्न । अविद्यायाः प्रवाहानादित्वं प्रागभावोतिरिक्तो नास्ति इति चाभ्युपगम्य प्रवृत्तेरसाधारण्यमिति भावः । नन्वध्यस्तस्याधिष्ठानाभावप्रतियोगित्वमेव नत्वधिकरणनिष्ठाभावप्रतियोगित्वम् । तथा च संविदस्सत्यत्वेन अधिष्ठानत्वात्तत्र भेदाभावस्सम्भवति । घटादेस्तु मिथ्यात्वेनानधिष्ठानत्वात् । न तत्र भेदाभावः । ततो न बाधो नवा साधारण्यमित्यभिसन्धिमुद्घाटयतिसंविदस्संविदन्तरादिति। घटादौ संविदन्तरभेदस्य तन्निष्ठाभावप्रतियोगित्वाभावे सत्यत्वप्रसङ्गेन न तत्र तदत्यन्ताभावस्यावश्यकत्वात् असाधारण्यम् । यदि च तत्र मिथ्यात्वेपि न तदभाव इत्युच्यते तथा संविद्यपि तदभावो नस्यादिति बाध एव स्यादिति परिहाराभिप्रायमुद्घाटयतिकिमत इति । एतेनेति। सत्यमिथ्याभेदविकल्प दुःखेन प्रवृत्तौ साधारण्य व्यभिचारादिनेत्यर्थः ॥विषम इति। साध्यविकल्प इत्यर्थः ॥ ननु संविद्व्यतिरिक्त संविदन्तरं मिथ्येति विवक्षायाम् अयं दृष्टान्त इति शङ्कते ।यदिति। दूषणमाह ।तथा सतीति। विनिगमकमाशङ्कते ।सामान्यत इति। तथा सति सिद्धसाधनार्थ दोषइत्याह ।एकमिति । अपि त्विति। सामान्यतः कुतश्चित्सिद्धसंवित्वा पेक्षया न भिद्यन्त इत्येव ब्रूम इत्यर्थः ।संवित्तत्वस्य एकतयैव सिद्धत्वात् भिन्ना संविदः तदभिन्नाः कथंस्युः । अपितु मिथ्यैवस्युरित्यत्राह नचेति। संवित्तत्वस्य सामान्यसिद्धावपि प्रत्यक्षेण तन्नानात्वोपलम्भात् न तेन प्रमाणेन संविदैक्य सद्धिरित्यर्थः । सामान्यतः संवित्साधक प्रमाणेन संविदैक््यसिद्धौ दूषणान्तरमाहएकतयेति । अत एवेति।प्रत्यक्षसिद्ध भेदवत्तया जातिमत्वेन बाधादित्यर्थः । किञ्च किं स्वभिन्नसंविद्राहीत्यर्थः । यद्वा स्वसजातीया भाववत्वं नाद्य इत्याह ।एकतयेति ।द्वितीये आहप्रवाहेति। विरोधो व्यभिचारः । ननु पारमार्थिक सजातीयराहित्यं विवक्षितमिति नव्यभिचार इति शङ्कतेतस्यापीति। तर्हि व्याप्यत्वासिद्धिरित्याह ॥तर्हीति। ननु व्यावहारिकयोस्साहचर्यादेव पारमार्थिकयोर्व्याप्तिर्लाघवेन सहचारमात्रस्यैव व्याप्तिप्रयोजकत्वादित्याशङ्क््य व्यावहारिकव्यभिचारादेव पारमार्थिकेव्याप्तिविरोध इति दूषयति ।व्यावहारिकमिति । समानोपाध्याक्रान्तत्वेति। सजातीयपदेन समानोपाध्याक्रान्तत्वमेव विवक्षणीयम् । तादृशस्य विशेषणस्य प्रागभावेपि सत्वादित्यर्थः । घटादिभेदः घटादिव्यक्तिः । अन्यत्र मिथ्यात्वभङ्गे अत्र भाष्यमुदाहरति ।तदेतदिति। दूषणान्तरमप्याह ।न च दृश्यभेदसमर्थनेति। भेदसमर्थनन्यायो भेदव्याप्तिः । यत्र यत्र दृश्य भेदः तत्र तत्र दर्शनभेद इति विशेषव्याप्तिविवक्षायां तदुदाहरणवाक्ये छेद्यभेददृष्टान्तस्सङ्गतो भवतीत्यर्थः । ननु छेद्य भेद समर्थनन्यायेन यथा छेदन भेदस्समर्थ्यते एवं दृश्यद्रव्यभेद समर्थनन्यायेन दर्शनभेदोपि समर्थ्यत इति भाष्यार्थः । तथा च नादृष्टान्तासाङ्गत्यमित्याशङ्क्याह ।नचेति । यदर्थमिति। अत्र कर्मभेदात्क्रियाभेद इति व्याप्तिर्विवक्षिता तत्र दृष्टान्तप्रदर्शनार्थं छेद्य भेदाद्युदाहरणमित्यर्थः । ननु स्वरूपभेदः कथं कर्मकारकत्वमित्यत्राहएवमिति । दर्शपूर्णयोरिति।““दर्शपूर्णमासाभ्यामि’‘ति श्रुत्यासह तयोः कारकत्वमिति भावः । ननु कर्मकारकत्वभेदो ज्ञानक्रिया भेदात् तद्भेदश्च कर्मकारकत्व भेदादिति कथं कर्मभेदार्थ ज्ञानभेद समर्थनम् अन्योन्याश्रयादित्यत्राहततश्चायमर्थ इति। यदि सर्वासां संविदाम् ऐक्यं स्यात् तदानीं घटसंवित्वेन प्रतीयमान संवित्कर्मत्वमेव पटे विद्यमानं संवित्वेन प्रतीयमान संवित्कर्मत्वं स्यात् ततश्च घटस्य संवित्कर्मदशायां सर्वेषामपि तत्तत्संवित्कर्मत्वमिति दृष्टादृष्ट व्यवस्थान न स्यात् इत्यर्थः । संविदन्तर मिथः इत्यादिव्यपदेशो लोकव्यवहारसिद्ध इति नात्रान्योन्याश्रय इति भावः ।एतेनेति ।स्वाभाविकभेद समर्थनेनेत्यर्थः । ननु एवं तत्संवित्कल्पने गौरवं स्यादित्यत्राहदृश्यमानत्वादेवेति। प्रत्युत प्रतीयमानस्यभेदस्यौपाधिकत्वकल्पन एव गौरवं स्यादित्यर्थः । ननु दर्शनस्य भ्रान्तित्वात् ततः कथं भेदसिद्धिरित्यत्राह ।दर्शनस्य चेति। ननु सिद्धान्तेपि धर्मभूतज्ञानं विषयभेदाधीनभेदवदेव । प्रत्येकमात्मनां ज्ञानस्यैकत्वात् नित्यत्वाच्च कथमौपाधिकत्वनिषेधो भेदस्येत्याशङ्कते ।नन्विति। तत्रापि सामग्रीभेदेन विषयीकरणलक्षण क्रिया भेद एव जन्यते । नन्वौपाधिक भेद इति भावः । ननु ममापि तथास्त्वित्यत्राह ।तव त्विति। ननु मायया यथा घटापेक्षायां संविदस्तिरोधानं पटापेक्षया न तिरोधानं तथा घटज्ञानं न भवति पट ज्ञानं भवति तत्कृत भेदेन प्रदेशेन भेदव्यवहारो ज्ञातत्वात्। अज्ञानत्वेचेति। ममापि सम्भवतीत्यत्राह ।मायेति। तिरोधानानुपपत्तावित्यर्थः । वत्सकुलजलधिकौस्तुभनृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणीटीकायां त्रयोविंशः समाप्तः ।