॥अथ संविन्निर्विकारत्वानुमानभङ्गवादः द्वाविंशः ॥22॥
परिणमयति विश्वं यस्स्वयं निर्विकारः परिणमति च योऽसौ तत्तदर्थान्तरात्मा ।
विषमविषयतृष्णाधन्वकान्तारजातं व्यपनयतु भयं मे विश्वजिष्णुस्स विष्णुः ॥
यदुच्यते - अनुभूतिर्निर्विकारा, अनुत्पन्नत्वात्, यदुक्तसाध्यं न भवति तदुक्तसाधनमपि न भवति, यथा घटादिरिति ।
तत्र संविदुत्पत्त्यादिसमर्थनादसिद्धिबाधौ सुगमौ ।
किञ्च किमिदं निर्विकारत्वं नाम? किमुत्तारवधिराहित्यम्? उत
घटादिवन्नामान्तरव्यपदेशार्हावस्थाविशेषराहित्यम्? उतावस्थामात्रराहित्य मिति ।
नाद्यः, अनुत्पन्नेन प्रागभावेनोत्तरावधिमता
व्यभिचारात् ।
भावरूपाज्ञानेन न भवत्पक्षे ।
भावान्तराभाववादिनस्तेऽनुत्पन्नः प्रागभावो नास्तीति चेन्न; त्वदभिमतेनाप्यन्यतरानैकान्त्यनिर्वाहात् ।
भावत्वे सतीति विशेषयिष्याम इति चेन्न; कथायामविशेषितस्य हेतोर्विशेषणे
हेत्वन्तरापातात् ।
अस्मान्प्रति व्यर्थविशेषणत्वाच्च ।
ततश्च पुनस्त्यागे प्रतिज्ञाहानिः ।
भावरूपाज्ञाने व्यभिचारस्तदवस्थः ।
इदं सर्वं हृदि निधायाह - भावेष्विति विशेषणे तर्ककुशलताऽऽविष्कृता भवतीति ।
(श्री भाष्यं जिज्ञा) विशेषितोऽप्ययं हेतुर्भवदभिमतयाऽनाद्यविद्यया तत्त्वज्ञानोदयादन्तवत्याऽनैकान्तः ।
मिथ्याभूतायास्तस्याः प्रघ्वंसोऽपि मिथ्याभूत इति नानैकान्त इति चेन्न; घटादिप्रध्वंसस्यापि मिथ्यात्वेन यदुत्तरावधिमदिति व्यतिरेक व्याप्तेर्दुर्ग्रहत्वापातात् ।
व्यवहारिकं घटादेरुत्तरावधिमत्त्वमुपजीव्य व्याप्तिग्रह इति चेन्न; अविद्याया अपि तथाविधोत्तरावधिमत्त्वाभ्युपगमेनानैकान्त्यस्यानिस्तारात् ।
अथ पुनः परमार्थोत्तरावधिराहित्यमेव साध्यार्थ इत्यातिष्ठसे, तथाऽपि व्यतिरेकासिद्धिः; यत्परमार्थविकारवत्तदुत्पन्नं यथा घट इति भवता उच्चैर्भाषितुमशक्यत्वात् ।
माभूद्धातिरेकः; अविद्याऽपिसपक्ष एवास्तु, हेतुश्च सपक्षैकदेशवर्तिकेवलान्वयी भविष्यतीति चेन्न; तथाऽप्यप्रसिद्धविशेषणत्वापातात् ।
न ह्यप्रमितप्रतियोगिकं व्यतिरेकमभ्युपगच्छामः ।
न च परमार्थविकारं प्रमितमिच्छसि ।
न चाप्रमितस्य परमार्थता सम्भवति ।
क्वचिच्च परमार्थविकाराभ्युपगमेऽपसिद्धान्तः ।
ततश्च भवद्दृशा विकारश्चेदपरमार्थ इति व्याप्तौ सिद्धायां व्यवच्छेद्याभावाद्वार्थं विशेषणमिति ।
तदेतदखिलमभिसन्धायाह - “किं भवतः परमार्थभूतोऽप्यस्ति विकारः? येनैतद्विशेषणमर्थवद्भ (विष्य) वती’‘ति (श्री भाष्यं जिज्ञा) ।
ननु माभूद्धवच्छेद्यम्, तथाऽप्यनैकान्त्यपरिहारक्षमतयाऽपि सार्थं विशेषणमिति चेत्, हन्तैवं शशविषाणरूपविकारहितेति किं न साध्यते? तावताऽपि ह्यनैकान्त्यं सुपरिहरम् ।
अप्रसिद्धविशेषणत्वापातादिति चेत्, तुल्यम् ।
अस्तु तर्हि सिद्घसाधनत्वपरिहारार्थं परमार्थेति विशेषणम्, प्रसङ्गतस्त्वनैकान्त्यमपिपरिहरिष्यति; विकारराहित्यमात्रे हि साध्यमाने मिथ्याभूतविकारराहित्यमात्रेण यदि भवान् सिद्धसाधनतां ब्रूयात्तदाऽस्माभिर्विशेषितव्यमिति चेन्न; अतिप्रसङ्गात् ।
पर्वतोऽग्निमानित्यादिषु सर्वेष्वपि प्रयोगेषु परमार्थाग्निमानित्यादिप्रयोगप्रसङ्गात् ।
स्वयम्प्रकाशानुमानेषु च भवताऽनुभूतिः परमार्थतः स्वयम्प्रकांशेत्यादिप्रयोगो वाच्यः, अन्यथा हि मिथ्याभूतस्वयम्प्रकाशत्वाभ्युपगमेन परः सिद्ध साधनतामुद्धाटयेत् ।
नच वयमप्यपरमार्थान् कांश्चन विकारानिच्छामः, येन संविदस्तद्योगात्सिद्धसाधनतां प्रब्रूम इति बिभेषि ।
अतः सुष्ठूक्तं भाष्ये विशेषणवैयर्थ्यम् ।
उत्तरयोरपिकल्पयोरनैकान्त्यमदर्शयत् - “भवदभिमताऽविद्याऽनुत्पन्नैव विविधविकारास्पद’‘मि (श्री भाष्यं जिज्ञाति) ।
तत्र न तावद्वितीयः, अविद्याया एव महदादिनामान्तरव्यपदेशार्हसमस्तविकारयोगित्वस्य भवद्भिरेव स्वीकारात् ।
घटकपाललोष्टाद्यवस्था विशेषोऽपि ह्यन्ततोऽविद्याया एव ।
अनुभूतिस्मृत्यादि नामान्तरव्यपदेशार्हावस्थाभेदाश्च संविद एव प्रत्यक्षमीक्ष्यन्त इति कथं तदभावसाधनम्? अनुभूतित्वादयः संविदवस्थाविशेषा मिथ्याभूता इति चेन्न; दत्तोत्तरत्वात् ।
नहि सत्यः कश्चिदवस्थाविशेषस्ते समस्ति ।
अत एव न तृतीयोऽपि ।
अपसिद्धान्तप्रसङ्गस्त्वधिकः,मिथ्याभूतानामवस्थाविशेषाणां संविदो भवतैव स्वीकारात् ।
अन्यथा जगद्भ्रमतन्निवृत्त्यपेक्षातदुपायगवेषणतदनुष्ठानतदर्थशास्त्रारम्भादेरभावप्रसङ्गात् ।
इष्टप्रसङ्गोऽयमिति चेन्न; व्यावहारिकव्यवस्थाप्रतिष्ठितानां तेषां त्वयैव स्वीकारात् ।
अन्यथा तिष्ठ सत्यपक्षे, त्यज वाशास्त्रारम्भादिकमिति ।
संविद्विकाराणां मिथ्यात्वेवात्र साध्यत इति चेन्न; अत्रापि व्यतिरेकभङ्गप्रसङ्गात् ।
नहि यद्विकारवत्तदुत्पन्नं यथा घट इत्यत्र सत्यविकारयोगित्वमुत्पत्तिव्याप्तं दृष्टम्, येन तन्निवृत्त्या तन्निवृत्तिस्स्यात् ।
लोकदृष्ट्या तथा दर्शनमस्तीति चेन्न; तस्याः संविद्विकारेषु घटादिविकारेषु च पक्षपाताभावेन त्वदुक्तव्याप्तेर्दुर्ग्रहत्वात् ।
त्वद्दृष्टेस्तूभयविद्वेषशीलतयाऽपि तथाविधनियमग्रहासिद्धेः ।
केवलान्वयित्वशङ्काऽपि पूर्ववद्दूष्या ।
ननु भवतोऽपि ब्रह्मानुत्पन्नं निर्विकारं च, ततस्तदेव समर्थयमानेष्वस्मासु कस्ते कोप इति चेन्न; अस्मत्सिद्धान्तापरिज्ञानात् ।
नहि वयं लोकसिद्धामुदयास्तमयादिविकारशतशालिनीमहमर्थधर्मभूतां संविदं परं ब्रह्मेति परिभाषामहे; नच तामेव सकलविषयाश्रयशून्यावस्थाम्; अपितु समस्तचिदचिद्विशिष्टतया स्वविशेषणभूतचिदचित्प्रतिष्ठितक्लेशादिजन्मादिविकारजातं स्वरूपतोऽस्पृष्टविकारक्लेशं सङ्कोचविकासवैदेशिकसार्वज्ञ्यमनन्तमङ्गलगुणमीश्वरतत्त्वम् ।
यदि तस्य निर्विकारत्वं साधयसि, कामं साध्यताम् ।
तत्र प्रमाणमिदमन्यद्वेति निपुणं विभावय ।
न चेश्वररूपस्यापि समस्तावस्थाशून्यत्वं साधयितुं शक्यम्, कादाचित्कतत्तन्मूर्तद्रव्यसंयोगविभागाद्यवस्थाविशेषाणां वियदादिष्विव विश्वव्यापिनीश्वरेऽपि दुर्वारत्वात् नित्यासङ्कुचितप्रकाशात्मनि तज्ज्ञानेऽपि तत्सङ्कल्पाद्यवस्थाविशेषणामनन्तानामाम्नातत्वात् ।
अकर्मनिबन्धनतया च तेषामपुरुषार्थत्वप्रसङ्गा भावात् ।
बीजाङ्कुरवदवस्थाप्रवाहाना दित्वेनाहेतुकत्वादिचोद्यानवतारात् ।
आगमिके चास्मिन्नर्थे हैतुकसङ्क्षोभस्याशक्यत्वादिति ॥
॥ इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां संविन्निर्विकारत्वानुमानभङ्गवादः द्वाविंशः ॥22॥
नृसिंहराजीया
पूर्ववादे अनुभूतेरवस्थान्तरापत्तिरेव न सम्भवति अजत्वादित्युक्तम् । अनुमानं विस्तरेण दूषयन्वादार्थं सङ्गृह्णाति ।परिणमयतीति। ननु"“बहस्यां प्रजायेये’’ ( तै.आनं.6 - अनु, छां - 6 - 2 - 3) तिसविकारताश्रवणान्निर्विकारताकमित्यत्राह ।तत्तदर्थान्तरेति। साक्षाद्विकाराभावान्नविरोध इति भावः । घन्वामरूभूमिः। विश्वं परिणमयति तृह्नाति - परिणमयतीति । ननु ““बहुस्यां प्रजायेयेति’’ सविकारता श्रवणात् निर्विकारताक इत्यत्राह - तत्तदर्थान्तरात्मतेति । साक्षाद्विकाराभावान्न विरोध इति भावः । सामान्येन भयंव्यपन्यत्विति विशेषेण वादार्थस्सूचितः॥ विश्वमध्ये अनुभूतेरप्यन्तर्भावाद्भयस्य ज्ञानविकारत्वादिति भावः । तत्र संविदिति। आदिपदेन सविकारत्वं गृह्यते । उत्पत्तिमत्वादसिद्धिः विकारत्वाच्च बाधः इत्यर्थः ।उत्तरावधिर्विनाशः उत घटादिवदिति नामान्तरव्यपदेशार्हावस्था परिणामः तद्राहित्यमित्यर्थःअवस्थामात्रराहित्यमिति। कार्यमात्रराहित्यमित्यर्थः । अभावांरतवादिमतेनाहअनुत्पन्नेति।भवत्पक्षइति।व्यभिचारादित्यनुषङ्गः ।त्वदिति।त्वया स्वप्रागभाव व्यतिरिक्तेति। विद्यानुमाने विशेषणदानादिति भावःहेत्वन्तरापातादिति। हेत्वन्तरं नामनिग्रहस्थानं प्रसज्येत"“विशेषत्वोक्तेर्हेतौ प्रतिषिद्धे विशेषणमिच्छतो हेत्वन्तरमिति’’ गौतमवचनादित्यर्थः ।अस्मान्प्रतीति। अस्मन्मते भावस्यैवाभवत्वात् व्यर्थविशेषणतया व्याप्यत्वासिद्धिरिति भावः ।ततश्चेति। ननु हेतुहानिरेव स्यात् न प्रतिज्ञाहानिरितिचेन्न । हेतु विशेषत्यागेपि प्रतिज्ञाहानिरेव प्रतिज्ञाहानिशब्दस्योक्तहान्यर्थत्वात् तदुक्तंवरदराजीये ““अत्र प्रतिज्ञाग्रहणं मुक्तमात्रोपलक्षणं सत्यमन्वर्थ सञ्ज्ञेयमुपलक्षण नामैव प्रतिज्ञाहानि’‘रिति । अविशेष हेतावेव पूर्वोक्तं व्यवहारं च स्मारयति ।भावरूपेति।आहेति। भाष्यकारइति शेषः । ननु पारमार्थिक विनाशाभावस्साध्यः । भावरूपाज्ञानस्य मिथ्यात्वेन विनाशित्वमप्यपरमार्थिकमिति तदभावस्य पारमार्थिकस्य साध्यस्य सत्वान्नव्यभिचार इति शङ्कते ।मिथ्याभूताया इति।व्याप्तिग्रहासम्भवेन दूषयति । नेति । किम्प्रतिभासिकविनाशित्वं व्याप्तिनिरूपकम् उत व्यावहारिकम् उत पारमार्थिकमिति विकल्पमभिप्रेत्याद्यं दूषयति ।घटादीति। घटादेर्व्यावहारिक विनाशित्वादिति भावः । द्वितीयमाशङ्कते ।व्यावहारिकमिति।अविद्याऽया अपीति। घटादितुल्यत्वादिति भावः । तृतीयमाशङ्कते ।अथ पुनरिति।उच्चैर्भाषितमिति। परमार्थस्य विकारस्याभ्युपगमे अपसिद्धान्ता पातादिति भावः । ननु पारमार्थिकोत्तरावधिमत्वस्य व्यतिरेक एव साध्यः । न च व्यतिरेकासम्भवः हेतोरन्वयित्वादिति शङ्कते ।अथ पुनरिति माभूदिति। अप्रसिद्धविशेषणत्वं साध्याप्रसिद्धिरित्यर्थः । तदेवोपपादयतिनहीति। अस्तु परमार्थ विकारस्यापि क्वचित्प्रमितिरित्यत्राह ।नच परमार्थेति। माभूद्विकारस्य प्रमितिः तथापि सः बाधात्परमार्थोस्त्वित्यत्राह ।नचेति। प्रमाणंविनापि प्रमेयाङ्गीकारेऽतिप्रसङ्गादिति भावः । अप्रतीस्यापि परमार्थत्वे अद्वैतभङ्गश्चेत्याह ।क्वचिच्चेति । ततश्चेति। विकारा भावं साध्यता त्वया विकारमात्रस्य पारमार्थिकत्वाङ्गीकारात्पारमार्थिकविकारस्याप्रसिद्ध्या तदभावस्याप्यप्रसिद्धेः तद्बाधनासम्भवादपारमार्थिविकाराभाव एव साधनीयः । तथा च विशेषणमनुपादेयेत्यर्थः । नन्वपरमार्थविकारः भाव एव साध्यः । परमार्थविशेषणं वात्विद्यायां व्यभिचारवारकतया सार्थकं चेति । शङ्कते ।ननुमाभूदिति।हन्तैवमिति। शशविषाणविशेषितविकारराहित्य तुल्यमिति भावः ।तुल्यमिति।परमार्थविकारस्य प्रतियोगिनोऽप्रसिद्धत्वादिति भावः । ननु विकारराहित्यमात्रे साध्ये सिद्धसाधनात् किञ्चिद्विशेषण विशिष्टं साध्यं वाच्यम् । शशविशाणरूपविकारराहित्यसाध्यन्तु न सिद्धसाधनपरिहारार्थम् । तस्यापि सिद्धत्वात् । अत एव तत्परित्यागः । नत्वप्रसिद्धविशेषणत्वात् परमार्थविकारराहित्य साधने तु सिद्धसाधनमिति न तुल्यत्वमिति शङ्कते ।अस्तुतर्हीति। ननु विकारराहित्यमात्रे साध्ये कथंसिद्धसाधनमित्यत्राह ।विकारराहित्यमात्रेहीति। पारमार्थिकापारमार्थिकविकारानुगतस्यैवविकारत्वस्यैकस्याभावात् तदवच्छिन्नसामान्याभावस्य साधयितुमशक्यत्वात् । विकारराहित्यमात्रे साधिते मिथ्याभूतविकाराभावप्रतीतेस्सिद्ध साधनम् । तद्व्यावृत्यर्थं परमार्थविशेषणं साध्यमित्यर्थः । अति प्रसङ्गमुपपादयतिपर्वतोग्निमानिति। ननु परमार्थाग्निमानित्यादिरूपेणैव साधनं तत्रेष्टमिति चेत्तथापि मिथ्याभूतपरमार्थत्वा मादायसिद्धसाधनोद्भावनशङ्कया परमार्थत्वेऽपिपरमार्थविशेषणमेव तत्र तत्रपीत्यनवस्थायां तात्पर्यात् ।न च वयमपीति। स्वाधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वं विवक्षितं ततश्चमिथ्याभूतविकाराभावस्यसिद्धत्वात् सिद्धसाधनमित्याहुः । अन्येतु विकारसामान्याभावः साध्यः । तथाच मिथ्याभूतविकाराङ्गीकारत्सिद्धसाधनं बाध इत्याहुः ।अदर्शयदिति। भाष्यकार इति शेषः । तत्परं भाष्यं दर्शयतिभवदभिमतेति। भाष्यं विवृणोतिन तावदिति। द्वितीयः परिणामित्वा भाव कल्पः । अविद्यायाः प्रत्यक्षामवस्थामप्याह ।घटकपालेति। प्रत्यक्ष बाधमप्याह ।अनुभूतीति। नन्वन्तः करणविकाराः । एतेन संविद्विकाराइति चेन्न घटादिविकाराणाम् अनृतत्वेनेव स्मृत्यादिविकाराणां ज्ञानत्वेनानुभवादिति भावः ।दत्तरोत्तरत्वादिति। परमार्थत्वविशेषणे प्रसिद्धविशेषणत्वापातादित्यादिनेतिभावः ।अत एवेति। अविद्यायां व्यभिचारबाध सिद्धसाधनादत एव विकारमात्रनिषेधपक्षोऽसङ्गत इत्यर्थः ।अपसिद्धान्तमेवोपपादयतिमिथ्याभूतानामिति। ब्रह्मण एव संवित्वादिति भावः ।अन्यथेति। मिथ्याभूत, विकाराणामप्यभावे शास्त्रं किमर्थमिति भावः । अन्येतु विकारमात्रस्यैवाभावात् जगद् भ्रमतन्निवर्तकशास्त्रादिदर्शनविरोध इति भावः इत्याहुः ।गजोपि मिथ्या पलायनमपि मिथ्येतिन्यायेन शास्त्रारम्भादिकमपि नास्तीति शङ्कते ।इष्टेति । व्यवहारिकेति। प्रतीतिसिद्धानामपि रुचेर्ब्रह्मणोऽप्यपहारप्रसङ्गेन, शून्यवादिशिष्यता प्रसज्येत ।तद्व्यावृत्यर्थं व्यावहारिकव्यवस्था स्वीकार्येत्यर्थः । शून्यवादबहिर्भावमिच्छते यदि व्यावहारिक व्यवस्था न विरोचते नवा सत्यपक्षमेव शरणमित्याहअन्यथा तिष्ठेति। ननु परमार्थ विकारशून्यत्वमेव साध्यते । विकारवतश्चतत्साधने विशेष्यवति विशिष्टनिषेधस्य विशेषणनिषेध पर्यवसानात् मिथ्याविकारत्वं सिध्यतीति नोक्तविरोध इति शङ्कते ।संविद्विकाराणामिति । नहि सद्विकारवदिति। सत्यविकारवदित्यर्थः । त्वन्मते विकाराणामसत्यत्वादित्यर्थः । ननु लौकिकप्रतीत्यनुसारेण अनुमानं प्रवर्तते । लौकिकानां घटादिविकारेदुम्पारमार्थस्यैव प्रतीते घटादौ परमार्थविकारोत्पत्योः व्याप्तिग्रहस्सम्भवत्येवेति शङ्कते ।लोकदृष्टयेति।लौकिकैस्संविद्विकाराणामपि पारमार्थ्येन ग्रहात् तत्त्त्रैव व्यभिचारग्रहात् सत्यविकार योगित्वोत्पन्नत्वयोर्न व्याप्तिग्रह इत्याह ।नेति । तस्या इति। लोकदृष्टेरित्यर्थः । नन्वस्मद्दृष्ट्यनुसारेणानुमान प्रवृत्तौ व्यभिचारो नास्त्येव अनुभूतेः परमार्थ विकाराभावात् घटादिविकाराणा संविद्विकाराणामुभयेषां परमार्थत्वाभावात् व्यतिरेकासिद्धिरिति भावः । ननु परमार्थ विकाराभाव एव साध्यः । न च व्यतिरेकासम्भवः अन्वयित्वादिति शङ्कां निरस्यति ।केवलान्वयित्वेति। अप्रसिद्धविशेषणत्वापातादित्यादिना दूष्येत्यर्थः । सिद्धान्तिनापसिद्धान्त दोषमाशङ्कते । नन्विति। निरनुयोज्यनुयोगमुद्भावयति ।नास्मदिति। नन्वीश्वरसंविदो विकाराङ्गीकारेऽपसिद्धान्त इत्यत आह ।न च तामेव चेति। तृतीयकल्पे, दोषमाह । न च तामेवेतीत्यप्याहुः ।कामं साध्यतामिति। वक्ष्यमाणं प्रतिहेतुस्वरूपदृष्टविकारक्लेशमिति विकारमात्राभावो ब्रह्मस्वरूपेपि साधयितुं शक्यो न भवतीत्याह ।नचेश्वररूपस्यापि इति । संयोगेति। असङ्गत्वश्रुतिश्चन स्थानतोपि परस्योभयलिङ्गं सर्वत्रहीत्यधिकरण प्रतिपादित दोषाभावपरेति भावः ।तदैक्ष बहस्यां प्रजायेयेत्यादि श्रुतिशत सिद्धसङ्कल्प लीलारसाधनन्त विकाराश्रवणाच्च नेश्वरधर्मभूतज्ञानेप्यवस्थामात्रशून्यत्वसाधन सम्भव इत्यत आह ।नित्येति। तद्ज्ञानेपि ईश्वरज्ञानेपि । नन्वीश्वर ज्ञानस्य विकाराङ्गीकारे दुःखाद्यपुरुषार्थानामपि प्रसङ्ग इत्यत्राह ॥अकर्मेतिईश्वरस्यकर्माभावात् कर्ममूलत्वात् दुःखादेरिति भावः । ननु विकारस्य कर्ममूलत्वाभावे निर्हेतुकवादप्रसङ्ग इत्यत्राह ।बीजाङ्कुरवदिति। न चलोके कर्मेवकारणमिति भावः । ननु कर्ममूलत्वाभावे सुखाद्यवस्थापि नस्यादित्याह ।आगमिकेचेति।(तै उ.आन 8 अनु) ““सएको ब्रह्मण आनन्दः’’ (ब्र.सू.2 - 1 - 33) लोकवत्तुलीलाकैवल्यं’’ इत्यादिश्रुतिसूत्रादिभिर्निर्णीयर्थेशुष्कतर्कस्यानवतारात् सुखमात्रे न कर्ममूलत्वमिति भावः ॥ ॥ वत्सजलधिकौस्तुभ नृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणी टीकायां द्वाविंशस्समाप्तः ॥