॥अथ संविदनुत्पत्तिदूषणवादः एकविंशः ॥ 21॥
विविधविषयाकृष्टैर्वागादिभिस्सुलभागसां स्वयमुपनतं स्वान्तर्घ्वान्तं चिरस्य निरस्य नः ।
भगवति हरौ प्रत्यक्तत्वान्तरात्मनि निर्भरप्रसृमरसुधाधाराकारा प्रसीदतु शेमुषी ॥
ये तु स्ववचनविरोधजालमप्यवधीरयन्तः सर्वसाक्षिकामपि संविदुत्पत्तिं प्रतिक्षिपन्ति, तान्प्रति ब्रूमः ।
किं
घटादिविषयप्रकाशात्मिकाया एव संविद उत्पत्तिः प्रतिक्षिप्यते? उत सकलविषयविरक्तायाः कस्याश्चिदन्यस्याः? नाद्यः, घटादीनामप्यनुत्पत्तिमत्त्वप्रसङ्गात् ।
नहि तदुत्पत्तेः प्रागेव तद्विषया प्रत्यक्षसंविदस्मदादीनां सम्भवति ।
अन्यथाऽस्मदादीनामपि सर्वदा सर्वज्ञत्वप्रसङ्गात् ।
ननु पूर्वं स्वरूपेणावतिष्ठते, पश्चात्तु सामग्री वैचित्र्यात्तत्तद्घटादिविषया भविष्यतीति चेन्न; सत्यां संविदि सामग्र्या एवानपेक्षणात् ।
तत्तद्घटादिविषयीकरणलक्षणसम्बन्धार्थं तदपेक्षेति चेन्न; सामग्रीविशेष प्रतिनियतसंवित्स्वरूपातिरिक्तसम्बन्धकल्पने प्रमाणाभावात् ।
संवित्स्वरूपनित्यत्वे श्रुतिसिद्धे सामग्री वैयर्थ्यपरिहाराय तत्कल्पनमिति चेत्, स किं संविदि साध्य आकारः? उतानादिसिद्धं संवित्स्वरूपमेव? तत्र सधर्मकत्वसविकारत्वादिभीरुणा भवता प्रथमः पक्षो न कक्षीकार्यः . आरोपितधर्मविकारान्वयाददोष इति चेन्न; आरोपस्यैव विषयीकरणात्मकस्य निरूप्यमाणत्वात् ।
यदि हि विषयीकरणमप्यारोपितम्, तर्हि तद्विषयविषयीकरणान्तरापेक्षयाऽनवस्था ।
क्वचिद्वा विषयीकरणस्य सत्यत्वेन प्रागुक्तो दोषः ।
न च विषयीकरणमारोपितमप्यविषय इति वाच्यम्; व्याघातात् ।
नापि विषयीकरणान्तरमन्तरेण स्वरूपेणैव तत्प्रकाशत इति वाच्यम्, तत्रैव सामग्रीनैरपेक्ष्यप्रसङ्गेन सर्वदा संविदस्तद्विषयत्वे तत्सम्बन्धि घटादेरपि सर्वदा प्रकाशप्रसङ्गात् ।
किञ्च विश्वव्याप्तायामनादौ संविदि तत्तदधिष्ठानतया भासमानायां सम्बन्धार्थं सामग्रीगवेषणमिति भवतो न युज्यते; न ह्यसंविदध्यस्तो घटादिलक्षणः कश्चित्समस्ति भवताम्; न च घटादिः सामग्रयऽधीनसम्बन्धलक्षणमात्रसिद्धसत्ताकः ।
अतो यावदुत्पत्तिविनाशं घटादिप्रकाशो दुर्वारः ।
प्रकाशत एव कस्मैचिदिति चेन्न; सर्वस्मैप्रसङ्गात् ।
एकस्यामेव हि संविदि विश्वारोपो भवताम् ।
अनन्तसंविदध्यासात्प्रकाशाप्रकाशोपपत्तिरिति चेन्न; घटादिविषयसंविदामध्यस्तत्वे संविदन्तरानुपलम्भे च शून्यवादप्रसङ्गात् ।
सत्यां संविदि नानात्वमात्रमध्यस्तमिति चेत्, तथा सति सर्वत्र सर्वविषयप्रकाशो दुर्वारः, सर्वेषु प्रतिमाचन्द्रेषु कलङ्कप्रकाशवत् ।
यस्तु दृग्दृश्ययोस्सम्बन्धानुपपत्त्या विश्वमपह्नोतुमीहते,स कथं तत्सम्बन्धार्थं प्रयतते? अतः संविदनुत्पत्तिवादिनामप्रकाशो वा यावत्सत्तं तत्प्रकाशो वा दुष्परिहरः ।
प्रागभावरहितायास्संविदः कथमुत्पत्तिरिति चेन्न; उक्तानुपपत्त्यैव तद्वत्त्वात् ।
ननु न तावत्संविदा स्वप्रागभावग्रहः, स्वप्रागभावस्थितौ संविदनुत्पत्त्या ग्राहकाभावात् ।
तदपक्रमे तु विषयाभावादेव तद्ग्रहणायोगात् ।
नापि संविदन्तरेण तद्ग्रहः, निष्प्रतियोगिकाभावग्रहणायोगात् ।
प्रतियोगिन्याश्च संविदस्स्वतस्सिद्धायास्संविदन्तरविषयत्वायोगादिति ।
नैवम्, स्वतः परतश्च तद्ग्रहोपपत्तेः ।
स्वतस्तावत् एतावन्तं कालं न किञ्चिदहमज्ञासिषमिति योऽयं प्रत्ययः, स हि सामान्यतः पूर्वकालवर्तिनं स्वात्माभावमपि गृह्णाति ।
न चातीतस्य प्रागभावस्य कथं विषयीकार इति वाच्यम्, अस्मदादिप्रत्यक्षज्ञान व्यतिरिक्तज्ञानेषु त्रिकालवर्तिनामपि ग्रहणात् ।
न चातीतस्यासतो ग्रहणादप्रमाणत्वम्, अतीतस्यापि स्वकाले सत्त्वात्, अन्यथा वर्तमानस्य पूर्वोत्तरकालासत्त्वेन तद्ग्राहिणोऽप्यसद्ग्राहित्वेना प्रमाणत्वप्रसङ्गात् ।
गृह्यमाणवैपरीत्याभाव एव हि प्रामाण्यम्, न पुनर्ग्राह्यस्यग्रहणसमकालत्वम् ।
अन्यथा भवन्मतेनार्निवचनीयरजतसमकालवर्तिन्या रजतभ्रान्तेः प्रामाण्यप्रसङ्गात् ।
संवित्प्रागभावग्राहकं किमिदं प्रमाणमिति चेत् यद्धवद्यभावग्राहकं तदेव ।
प्रत्यक्षानु प्रविष्टतया वा पृथक्प्रमाणात्मिकया वा योग्यानुपलब्ध्या घटाद्यभावग्रह इति चेत् ।
इहापि तथैव ।
अतिक्रान्तैवानुपलब्धिकाले कथमुपकुर्यादिति चेन्न; स्मृत्यभावकल्पितया प्राचीनयैव तया तत्सिद्धेः, प्रातर्गजाभावादिविज्ञानवत् ।
तद्वदत्रापि प्रमाणसञ्ज्ञाविशेषो यथारुचि प्रक्षिप्यताम् ।
न च संस्कारविलयात् स्मृत्यभावः; प्रबलतरसुखदुःखकालदैर्ध्यादिसंस्कारतिरस्कारकाभावे तदयोगात् ।
न च सुषुप्त्यादय एव संस्कारोच्छेदकाः, तथा सति पूर्वदिनाद्यनुभूतस्यास्मरणप्रसङ्गात् ।
तथा च सुप्तोत्थितः शत्रुमपि मित्रतया प्रतिपद्येत, पु(त्र)त्रीमपि, कलत्रतया, श्रोत्रमपि नेत्रतयेति विश्वविप्लवः ।
न च विषयप्रकाश विरहादहम्भाव विगमाद्वा संस्कारानुत्पत्त्या तदस्मृतिः, अर्थान्तरा प्रकाशासद्भावयोः प्रकाशमानसंस्कारोत्पत्ति प्रतिबन्धकत्वेऽतिप्रसङ्गात् ।
न चाविशदप्रकाशरूपत्वादस्मृतिः, सर्वदा संविदंशस्यास्मरणप्रसङ्ङ्गात् ।
न हि संविदंशे वैशद्यं तवास्ति, नित्यमेव निर्धर्मकत्वात्
।
विषयाश्रयोल्लेखाद्वैशद्ये तत्समृतिरिति चेत्, तदपि न; वैशद्यमन्तरेणाप्यन्धकाराद्यनुभूतवस्तुमात्रादिषु स्मृतिदर्शनात् ।
तदेवं स्वतस्तत्प्रागभावग्रह उपपादितः ।
परतोऽपि तत्प्रागभावग्रहः संविदो वेद्यत्वसमर्थनादेव सिद्धः ।
अन्यथा त्वद्वाक्यजन्यापि संवित्तत्प्रागभावस्य दुर्ग्रहत्वं न साधयेत्, संवित्प्रागभावदुर्ग्रहत्वग्रहणे संविद्ग्रहणावश्यम्भावात् ।
स्वप्रकाशस्वरूपमेव प्रतियोगित्वेनोपजीव्य तत्प्रागभावदुर्ग्रहत्वं साध्यत इति चेत्, एवं तर्हि तत्प्रागभावग्रहेऽपि
तदेवोपजीव्यताम् ।
किञ्च, प्रतिवादिनः शिष्याणां च त्वत्सिद्धान्तार्थज्ञानमनुत्पन्नं मत्वैव त्वया वाक्यं प्रयुज्यते, स्वयमपि कदाचिद्गुरूपदिष्टं प्रतिवादिनिर्दिष्टंवाऽर्थमजानानो न जानामीत्येव भाषसे, जिज्ञाससे चः; एवं मूर्खपण्डितविभागोऽपि लोके बहुलमुपलभ्यते ।
तदेतदखिलं ज्ञानप्रागभावग्रहाभावे कथं घटेत? ज्ञानादिविधिशास्त्रं च कथं जीवेत्? तदेवं स्वस्मिन्वर्तमानस्य भविष्यत्संवित्प्रागभावस्य ग्रहणं योग्यानुपलब्ध्या जायते, अतीतस्य तु स्मरणानुमानादिना ।
परगतस्याप्यनुमानादिनैव ।
अतः स्वतः परतोऽपि सिद्धः संविदः प्रागभावः ।
ननु भवद्भिरपि धर्मभूतज्ञानस्यापि स्वरूपनित्यत्वमभ्युपेतम्, ततश्च तत्प्रागभावतदुत्पत्तयादि समर्थनेऽपसिद्धान्त इति चेन्न; अस्माकं धर्मभूतज्ञानस्य सधर्मकत्वादवस्थाविशेषवत्त्वात्तत्तदर्थं सामग्रीसमागमोपपत्तेः ।
तत्तत्प्रकाशात्मकावस्थाविशेषेषु च प्रागभावोत्पत्त्यादिबुद्धेरुपलम्भ विरोधाद्यभावात्, अपसिद्धान्ततानवताराच्च ।
अनुभूतेरवस्थान्तरापत्तिरेव न सम्भवति, अजत्वादेवेति चेन्न; स्वरूपानुत्पत्तिमात्रस्य भवदभिमताविद्यया अस्मदभिमतप्रकृत्यादिभिश्च व्यभिचारात् ।
समस्तव्यतिरिक्तत्वे सतीति तर्ककौशलम्, अन्ततोऽप्रयोजकत्वं च ।
अवस्थान्तरापत्तिराहित्यस्य हेतुत्वेसाध्याविशेषात्, मिथ्याभूतावस्थान्तरनिषेधेऽपसिद्धान्तात्, सत्यावस्थानिषेधे च व्यतिरेकव्याप्तेर्भग्नत्वात् ।
यत्सत्यावस्थाविशिष्टं तज्जायते, यथाघट इति हि सा ।
न च घटादेः सत्यावस्थाविशिष्टत्वं त्वयाऽभ्युपगम्यते ।
एतेनानुभूतेर्विनाशनिषेधोऽपि प्रत्युक्तः, प्रागुक्तप्रकारेण प्रत्यक्षादिबाधाच्च ।
यदि घटाद्यनुभूतिर्न विनश्येत्, तर्हि सुषुप्त्याद्यनुपपत्तिः, भवत्पक्षे मोक्षानुपपत्तिश्च ।
विद्यामानायां तस्यां विषयोल्लेखविलक्षणावस्था विशेषस्य प्राग्वदेव दुष्प्रतिपादत्वात् ।
प्रध्वंसेऽपि ग्राहकभावचोद्यं प्राग्वदेव परिहर्तव्यम् ।
न च स्वरूपनित्यत्वे प्रघ्वंसानुपपत्तिः, घटादिष्वपि सत्कार्यवादिभिस्तथैव प्रध्वंसस्य निर्वहणीयत्वात् ।
उक्तं च भाष्ये - “तमिममिन्द्रियद्वारकज्ञानप्रसरमपेक्ष्योदयास्तमयव्यपदेश ‘’(श्री भाष्यं, जिज्ञा) इति ।
नापि द्वितीयः,अहमर्थविलक्षणाया निर्विषयायास्संविदोऽनुपलम्भनिरस्तत्वात् ।
मुक्तौ निर्विषयत्वस्यान्यत्र प्रतिक्षेपात् ।
स्वापमदमूर्च्छासु निर्विषयसंविदुपलम्भोऽस्तीति वाङ्मात्ररूपत्वात् ।
अहमर्थस्य तु स्वरूप मात्रप्रकाशात्मकस्य विषयान्तरविरहेऽपि घटादिविषयग्राहिसंविद्विलक्षणतया तदाश्रयतया च प्रतिपन्नस्य भवता संविद्विलक्षणतयाऽहङ्कारग्रन्थित्वाभ्युपगमात्; पक्षान्तरे तु तद्वदेव तद्धर्मभूतसंविदोऽपि सर्वदा निर्विषयत्वसाधनस्योपलम्भनिरस्तत्वात् ।
सुषुप्तौ तु निर्विषयायास्तस्याः प्रकाशादर्शनात् ।
स्वमात्रप्रकाशस्याप्यहमर्थस्वरूपस्यास्माभिःप्रत्यक्त्वानन्दत्वादिविशेषवत्तयैव स्वतः प्रकाशत्वाभ्युपगमेन क्वचिदपि निर्विशेषप्रकाशानभ्युपगमात् ।
यद्यप्यस्मत्पक्षे सुषुप्त्यादिषु धर्मभूता संविन्निर्विषया, तथाऽपि साश्रयत्वादिभिस्तदानीमपि न निर्धर्मकत्वम् ।
विषयरहितायास्तु तस्यास्तदानीं न प्रकाशमिच्छामः, येन प्रतिसन्धानप्रसङ्गचोद्यान्न मुच्येमहि ।
उक्तं हि भाष्ये - यत्त्वनुभूतेस्स्वयम्प्रकाशत्वमुक्तम्, तद्विषयप्रकाशनवेलायां ज्ञातुरात्मनस्तथैवे’’(श्री भाष्यं,जिज्ञा) त्यादि ।
यच्चानुमानम् - “अनुभूतिरनुत्पन्ना, अनुभूतित्वादि’‘त्यादिकम्, तदप्युपपादितप्रत्यक्षादिसमस्तप्रमाणबाधितम्, प्रागुक्तप्रतिकूलर्तकजालप्रतिहन्त च ।
केवलव्यतिरेकिभङ्गश्चान्यत्र कृतः ।
घटादिविषयोल्लेखरहित स्वरूपमात्रपक्षीकारे चाश्रयासिद्धिर्वा सिद्धसाधनं वेत्यादिदूषणमूह्यम् ॥
॥इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां संविदनुत्पत्तिदूषणवादः एकविंशः ॥ 21 ॥
नृसिंहराजीया
पूर्ववादे प्रतिज्ञादिजन्यज्ञानविषयतया चाऽननुभाव्यत्वं निराकृतम् । तदनुपपन्नम् । अनुभूतेरूत्पत्तिविनाशयोर भावेन प्रतिज्ञादीनामनुभवाजनकत्वादित्याक्षेप सङ्गतिमपेक्षयोत्पत्ति विनाशौ निरूपयन् वादार्थं सङ्गृह्णातिविविधेति। विषयाः शब्दादयः । वागदीत्यादिशब्देन चक्षुरादीन्युच्यन्ते । चिरस्य विभर्ति प्रतिरूपकमन्यथा अचिरेणेत्यर्थः । प्रत्यक्त्तत्वं जीवः । तस्यान्तरात्मा - परमात्मा - ““यस्यात्मा’’(बृह - 5 - 7 - 22 ) इति श्रुतेः ।प्रसृमरता - प्रसरणशीलता प्रसरणनिरूपावस्था योगित्वेनोत्पत्त्यवगमात् वादार्थस्सूचितः ॥ ये पुनरिति। प्रतिवादिनश्शिष्याणा चेत्यादिना वक्ष्यमाण स्ववचनविरोधः घटादिविषयप्रकाशात्मिकाया इति।अहमर्थधमर्भूताया इति। विवक्षितं तेन तदभिमतसंविदो घटादिप्रकाशात्मकत्वेपि कोट्यन्तराद्भेदः सकल विषयः ।विरक्ताकारा इति। स्वत इति शेषः अनहमर्थधर्मायाः निर्धर्मकाया निराश्रयाया इत्यर्थः । अनुवृत्तिप्रसङ्गमुपपादयतिन हीति। विषयप्रागभावकाले ईश्वरयोगिव्यतिरिक्तानां सन्निकर्षाभावात् प्रत्यक्षं न सम्भवतीत्यर्थः । ईश्वरप्रतीतिवदस्मदादीप्रतीतेरपिनुत्पन्नविषयतास्त्वित्याशङ्क्य तथा सति कारणापेक्षाविरहात् सर्वदा सर्वेषां सर्वज्ञतास्यात् इत्याहअन्यथेति। ननु पूर्वं घटादिविषयकत्व रहिता संवित् तत्तद्विषयेन्द्रिय सन्निकर्षादिसामग्रीवशात्तत्तद्घटादि विषया भविष्यतीति शङ्कतेनन्विति।किं सामग्री वैचित्र्यं यद्घटादि विषयकं ज्ञानमुत्पद्यते उत विषयीकरणलक्षण सम्बन्धः । नाद्य इत्याहसत्यामिति।द्वितीय्यमाशङ्कतेतत्तदिति। तत्तत्प्रत्यक्षादि सामग्रयनन्तरं साक्षात्करोमीत्यन्वयादिदर्शनात् संविदर्थत्व कल्पनमेव सामग्र्यायत्तम् । न तु सम्बन्धान्तरमपि कल्पयित्वा तदर्थत्वकल्पनमित्याहनेति। ननु नहि"“द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’’ ““न विज्ञातुर्विज्ञाते र्विपरिलोपो विद्यते’’ ““प्रकाश्यन्ते न जन्यन्ते’’ (विष्णुध.104 अ)इत्यादिभिः संविदो नित्यत्वावगमादन्वय व्यतिरेकावपि स्वरूपातिरिक्त सम्बन्धादिकल्पनीयं तावतापि सामग्र्यासार्थक्यमेवेति शङ्कतेसंविदिति।किमिति सम्बन्ध इति।शेषः ।साध्याकारोऽपि श्यामिकेव धर्मोवास्यात् क्षीरस्य दधिभाव इव विकाराे वास्यात् उभयथापि न सम्भवतीत्याहतत्रेति।आदिशब्देनाेत्पत्यादिः ।धर्मविकाराददोष इति। वेदाः प्रमाणमितिवन्निरूप्यमाणत्वात् निरूपणेन विचारेण निरस्यत्वादित्यर्थः । पर्यायेण गच्छति पर्याययतीतिवत्"“प्रातिपदिकात्धात्वर्थ’’ इति णिच्। निरासप्रकारं दर्शयतियदि हीति। आरोपविषयत्वमारोपितत्वम् ।तथा चारोपितस्य विषयीकरणस्य विषयीकरणान्तरमपेक्षितं तन्मिथ्याभूतं सत्यं वा नाद्य इत्याहविषयीकरणमिति।तद्विषयीकरणान्तरापेक्षयेति। आरोपित प्रथम विषयीकरणान्तरापेक्षया इत्यर्थः ।न प्रागुक्तो दोष इति। किन्त्वपसिद्धान्त इति शेषः । यद्वा सत्यत्वेन सत्यतया प्रागुक्तोदोषः सामग्र्य एव नापेक्षणादित्युक्तो दोष इत्यर्थः ।व्याघातादिति। आरोपितत्वं नाम आरोपविषयं तस्या विषयत्वोक्तौत इत्यर्थः । ननु संवित् घटादि प्रकाश एव विषयीकरणमपेक्षते । न तु विषयीकरणेपि स्वरूपस्यैव तत्प्रकाशात्मकत्वादिति शङ्कतेनापीति।तत्रैवेति। विषयीकरणविषये सामग्रीनरैरपेक्ष्यान्नित्यभूतायास्संविदः सर्वदा तद्विषयत्वे विषयीकरणस्य सर्वदाभानात् विषयभानं विना तद्भानायोगात् घटादीनामपि सर्वदा भानप्रसङ्ग इत्यर्थः । किञ्च विश्वव्याप्तायां नित्यायां च सर्व देशकालवर्तिपदार्थाधिष्ठानत्वयोग्यायां संविदि प्रयञ्चाध्यासम् अवोचः । अस्मिन्कल्पे अहमर्थधर्मभूतायां तादृश्यां संविदि अध्यासो वाच्यः । तदतिरिक्तसंविदध्यासे एतत्संविदाभानायोक्तः । ततश्चाधिष्ठान भूतयया तया संविदा घटादीनां भानावश्यम्भावात् कादाचित्कसम्बन्धापेक्षाविरहात् न तदर्थं सामग्र्यपेक्षेत्याहकिं चेति। नन्वधिष्ठान भूतायापि संविदा सामग्रयधीनसम्बन्धदशायामेव घटादिर्भासते नान्यथेत्यत्राहन चेति। मिथ्यार्थस्यभाने नियतसत्ताकत्वात् घटादेसन्निकृष्टदशायामेव त्वं स्यात् नान्यथा । तच्च प्रमाणविरुद्धमित्यर्थः । ननु ““दृष्टिसृष्टि’’ पक्षोऽस्माभिरभ्युपगम्यत इति चेत् तदत्यन्ताभावगतं दृष्टि शब्देन किं चैतन्यं विवक्षितम् उत चक्षुः स्सन्निकर्षादिः । पूर्वत्र सर्वदासत्वप्रसङ्गात् । उत्तरत्र चक्षुरादेरपि सृष्ट्ययोगेन सृष्ट्यनुपपत्तेरित्यादि दोषबाहुलयादिति भावः ।अत इति। यत एव मध्यस्तो घटादिः प्रतीति नियतसत्ताकोधिष्ठानमात्रभावस्य बाध इत्यर्थः ।कस्मैचिदिति। ईश्वरादेवेत्यर्थः ।सर्वस्मै इति। अविशेषादिति भावः । अविशेषमुपपादयतिएकस्यामिति। अहमर्थधर्मभूत संविदि सर्वासामर्थानामेकैवेति भावः । ननूक्तदोषपरिहारायानन्तास्संविदस्स्वी क्रियन्ते ततश्च यस्य यस्यां संविदि योऽर्थोध्यस्यति तस्य तया संविदा अर्थो भासते इतिप्रकाशाप्रकाशोपपत्तिरिति शङ्कते ।अनन्तेति। संवित्स्वाध्यासः संविद ध्यासः । अद्वैतावदिनात्वया संविदानन्तमध्यासेन वाच्यम् अन्यथा अद्वैतभङ्गप्रसङ्गात् । ततश्चात्रैवं विकल्पः किं संविदामेवमध्यासः उत तस्यां नानात्वस्येति आद्यं दूषयति ।घटादीति। घटादिसंविदां पूर्वमभावादधिष्ठानत्वायोगात्तदतिरिक्तसंविदोनुपलम्भनिरस्तत्वात् अधिष्ठानान्तरा भावात् निरधिष्ठानाध्यसे च शून्यवादतापत्तिरित्यर्थः ।द्वितीयं कल्पमाशङ्कते ।सत्यामिति। भेदाध्यासेऽपि घटादिविषयकज्ञानस्य सर्वगतस्य अनपायात् सर्वत्र सर्वविषयप्रकाशो दुर्वार इत्याह ।तथासतीति। ननु चन्द्र भेदाध्यासे सति यथा सव्यदक्षिणव्यवस्था तथा घटविषयत्वतदविषयत्वव्यवस्थाप्युपपद्यत एवेत्याशङ्क्याह ।सर्वेष्विति। प्रतीयमानधर्मविरोधिधर्माध्यासएव तयोर्धर्मयोः परस्परत्यान्ता भावसमानाधिकरणतया परस्परं भिन्नाश्रयन्वेन व्यवस्थया प्रतीतिरूपपद्यते ।नत्वन्यथापि । तथा सति कलङ्कचन्द्रत्वादेरपि व्यवस्था प्रसङ्गात् । घटविषयकत्वपटविषयकत्वादिकञ्च न परस्परं विरोधि समूहालम्बने तदुभययादर्शनात् तथाच प्रतीतिव्यवस्थाया एव दुरूपपादत्वे कुत एकस्मिन्नधिष्ठानेऽध्यस्यमानयोरर्थयोव्यवस्थेति भावः । विषयीकरणलक्षणसम्बन्धस्य सामग्र्यधीनत्वेदृग्दृश्यसम्बन्धानुपपत्त्या विश्वमिथ्यत्वकथनं सङ्गतं स्यादित्याह ।यस्त्विति। अन्यथेत्यारभ्योक्तमुपसंहरति ।अत इति। यत एवं घटादिविषयस्वप्रकाशस्य कादाचित्कत्वमुपपत्त्ययोग्यम् अत इत्यर्थःयावत्सत्तमिति।यावत्संवित्सत्तमित्यर्थः । ज्ञानस्य नित्यस्यापि विषयसत्त्वदशायामेव तत्प्रकाशत्वस्य तैरङ्गीकारादिति भावः ।उक्तानुपपत्त्यैवेति। कादाचित्कविषयप्रकाशान्यथानुपपत्तेत्यर्थः । संविद इति। प्रत्यक्षसंविदइत्यर्थः । शेषे षष्ठी । किं प्रागभावं वर्तमानं गृह्णाति किं वा अवर्तमानम् । नाद्य इत्याहप्रागभावसिद्धाविति। द्वितीयेत्वाह ।तदपक्रम इति। प्रतियोगिग्रहणमप्यस्त्वित्यत्राह ।प्रतियोगिन्याश्चेति। अवेद्यत्वादिति भावः । संवित्प्रागभावस्य प्रतियोगिग्राह््यत्वमुपपादयति ।स्वतस्तावदिति। ज्ञानमात्राभावग्राहकस्य स्वभावग्राहकत्वस्यापि भावादिति भावः ।अस्मादादिति। नचप्रत्यक्षे तथा नियम इति वाच्यम् । अप्रयोजकत्वादिति भावः । किं सर्वकालासत्वमप्रामाण्यप्रयोजकम् उत असत्वमात्रं नाद्य इत्याह ।अतस्तस्यापीति। द्वितीये आह ।अन्यथेति। अन्यथाभाववन्मत इति । इदं रजतमित्यत्र शुक्तौ रजतस्योत्पत्यङ्गीकारादिति भावः । संवित्प्रागभावे संवित्प्रागभावग्राहीदं प्रत्यक्षादिषु किं प्रमाणमित्यर्थः ।इहापि तथैवेति। समस्समाधिरिति भावः । ननु यद्यपि प्रत्यक्षसामग्र्यनुप्रविष्टतया स्वतन्त्रयावानुपलब्ध्योत्पन्ने न संविदन्तरेण नेदानीं घटं साक्षात्करोमीत्याकारे संविदन्तरस्याभावो गृहीतुं शक््यते । तथाप्यतीतकालीनप्रागभावस्य तत्कालीनानुपलब्ध्या कालान्तरग्रहो नोपपद्यत इत्याशङ्कते ।अतिक्रान्तैवेति। यद्यपि स्वकाले ग्रहणमात्रादपि ग्रहणानुपपत्तिनिबन्धनः प्रागभावनिरासः परिहृत एव तथापि कालान्तरे ग्रहणसम्भवमुपपादयन् परिहरतिनेति। संवित्तत्कालीनतया नोपलब्धा तत्कालीनतया अस्मर्यमाणत्वादित्यनुपलब्धौ अनुमितायाम् अहं तदा संविदभाववान् तदानीं तदुपलब्धिमत्वात् इति तल्लिङ्गकानुमानेन संविदभावसिद्धेरित्यर्थः । ननु प्रातर्गजाभावादिस्थले अनुपलब्धि प्रमाणेनैव अस्माकमर्थसिद्धिः । त्वया अर्थापत्यनङ्गीकारात् कथं सविदभावसिद्धिरित्यत्राह ।तद्वदत्रापीति।यथाप्रातर्गजा भावादितिविज्ञानस्थले कार्यानुसारात् करणे आवश्यके तस्मिन् अन्यथारुच्यनुपलब्ध्यादि सञ्ज्ञा प्रक्षिप्यते एवमिहाप्येतार्वन्तङ्कालम् अमुं नाज्ञासिषम् इत्याकारज्ञानलक्षणकार्यानुसारात् क्लृप्ते करणे यथारूचि सञ्ज्ञा प्रक्षिप्यतां प्रमाणस्वरूपदुरपह्नवमेवेत्यर्थः । ननु यत्रानुभूतेपि संस्कारविनाशात् स्मरणं तत्र व्यभिचार इत्याशङ्क्याह ।नच संस्कारेति। व्यभिचारइति शेषः ।तदयोगादिति। संस्कारनाशायोगादित्यर्थः । तथा च तादृशसंस्कारविनाशा भावविशिष्टास्मरणं हेतुरिति न व्यभिचार इति भावः । नन्वेवं पूर्वदिनानुभवानुमानं न स्यात्सुषप्त्यादेस्संस्कारविनाशकस्य सत्वेन संस्कारविनाशकाभावविशिष्टस्मरणस्याभावादित्याशङ्क््य परिहरति (संस्कारानुत्पत्तेः ततश्च तत्र व्यभिचार इत्याशङ्क्य) ।नचेति। ननु सुषुप्तौ तावत् संविदनुभूयते । नच सा तत्कालीनतया पश्चात् समर्थ्यते । तदस्मरणं च अहम्प्रत्ययविगमाद्विषयावच्छेदविगमाच्च संस्कारानुत्पत्तेः। ततश्च तत्र व्यभिचार इत्याशङ्क्य परिहरति ।न च विरहेति।अर्थान्तरेति। यदि सुषुप्तौ संविदन्वभविष्येत तद्विषयसंस्कारो प्रपत्स्येत । न च तत्राहम्प्रत्ययविगमस्य विषयावच्छेदविरहस्य च संस्कारानुत्पत्ति प्रयोजकत्वम् । तथा सति घटाननुभवस्य पटाभावस्य चानुभूतकुड्य संस्कारप्रतिबन्धकत्वप्रसङ्गादतस्तत्र संविदोऽननुभव एवेति न व्यभिचार इति भावः । ननु न तत्र स्मृत्यभावेन संविदननुभवः त्वया साधयितुं शक्यते । सौषुप्तिकसंविदनुभवस्य निर्विकल्पकवदविशदतया संस्कारानुत्पत्तेरेवास्मरणोपपत्तेरितत्याशङ्क्य परिहरति ।नचेति।नहीतिआपरोक्ष्यलक्षण वैशद्यस्य सुषुप्तावपि सत्वात् । तदानीं विद्यमानस्य त्वन्मतेनिर्धर्मकतयेकिमप्यभावादित्यर्थः । ननु विषयाश्रयविशिष्टतया संविदुल्लेखो वैशद्यम् । तच्च सुषुप्तौ नास्त्येव ।नचैवं सति सधर्मकत्वमपीत्याशङ्कते ।विषयाश्रयेति।अन्धकारादिति। विरप्यालोक सहितान्धकारादिषु देवदत्तस्य तद्धर्मभूत दण्डादेरप्य विशदावभासोऽस्ति । ततस्मृतिश्चेति भावः । अन्यथेति। संविद्ग्रहणाभावे प्रागभाव ग्रहणाभावस्य त्वयैवोकत्वादिति भावः । एवमपि संविदःप्रागभावस्सिद्ध एवेति परस्य व्याघातस्सुस्पष्टः । तथाप्यत्यन्ताज्ञाततासूचनाय दूषणान्तरमाह ।एवं तर्हीति।अनुपपन्नं मत्वेति। अन्यथावैयर्थ्यशङ्कया परबोधे प्रवृत्तिर्नस्यादिति भावः । न जानामीति पुनरुपदेशे जानामीत्यपि तस्मात्प्रागभावो गृह्यत इति भावः ।एवं मूर्खेति। तस्यैव शास्त्राध्ययने सति पिण्डतत्वाज्ञानप्रागेव मौर्ख्यमिति भावः ।ज्ञानादिति। ज्ञानस्योत्पत्त्यभावे आज्यावेक्षणादिविधि शास्त्रमुच्छिद्येत ज्ञानार्थश्रवणादितिनेक्षे तोद्यन्तम्मादित्यादिनिषेध शास्त्रं चोच्छिद्येतेत्यर्थः । अस्माकमिति। स्वरूपनित्यत्वं हि सिद्धान्तः । तथा चावस्थारूपविकाराङ्गीकारात्सर्वमुपपद्यते । निर्धर्मवादिनस्तवे तु नकथञ्चिदपीति भावः । नन्ववस्थावत्वेनापि न निर्वहति । अनुभूतिर्निर्विकारा अनुभूतित्वादिति शङ्कते ।अनुभूतेरिति। अत्र किमजऽत्वं स्वरूपानुवृत्तिमात्रं यद्वा अवस्थाराहित्वं नाद्य इत्याह ।स्वरूपानुवृत्तिमात्रस्येति। क्वचित्स्वरूपानुवृत्तिमात्रस्येति । दृश्यते यत्र यत्र व्यभिचारः तत्सर्वव्यतिरिक्तत्वे सतीति विशेषयिष्याम इति चेत्तत्राह ।समस्ततेति। द्वितीये आह ।अवस्थान्तरेति। ननु सत्यमिथ्यावस्थयोरन्य तराभावस्साध्यम् । अन्यतराभावो हेतुरिति न साध्याविशेष इति चेत्तत्र किम्मिथ्याभूतावस्था भावस्साध्यः किं परमार्थावस्थाभाव इति विकल्पमभिप्रेत्य आद्ये आह ।मिथ्याभूतेति।द्वितीयं दूषयतिसत्येति। अन्वयव्याप्तिस्तु प्रतियोग्यप्रसिद्धया साध्याप्रसिद्धया न शङ्कार्हापीति भावः ।एतेनेति। अविद्यादिषु व्यभिचार प्रदर्शनेन अनुभूतिर्विनाशरहिता अजत्वादित्यादि विनाशनिषेधानुमानं निरस्तमित्यर्थः । दूषणान्तरमाहप्रागुक्तेति। अतः स्वतः परतोऽपि सिद्धः संविदः प्रागभाव इत्यत्र प्रत्यक्षादिबाधस्य फलितत्वात् प्रागुक्ततोक्तिः । असाधारणदोषमाह ।तत्पक्षइति। तदुभयमुपपादयति ।विद्यामानायामिति। विषयोल्लेख विलक्षणावस्था विषयोल्लेखराहित्य सुषुप्तिमोक्षोऽपि तादृशः । तथाच संविदोनिर्धर्मकतया विषल्लेखावस्थायामसंवित्स्वरूपत्वागन्तुकत्वाभावात्संवित्सत्वे विषयोल्लेख स्याप्यावश्यकतया तद्विरहलक्षणा सुषुप्त्यादिदुर्भणमित्यर्थः ।न च स्वरूपनित्यत्व इति। सिद्धान्त इति शेषः ॥तदैवेति। उत्पत्तिवेदव विनाशस्याप्यवस्थामादाय भाष्ये निर्वहणादित्यर्थः । अस्य वादस्योपक्रमे किं घटादि विषयप्रकाशात्मिकाया एव संविदः उत्पत्तिः प्रतीक्ष्यते उत सङ्कल्पविषयविरक्तायाः कस्यचिदन्यस्या इति कल्पेद्वितीयकोटिं दूषयति ।नापि द्वितीय इति। किं सा संविदहमर्थविलक्षणो यद्वा अहमर्थ एव । नाद्य इत्याह ।अहमर्थेति। ननु मुक्तौ निर्विषया संविदस्तीत्यत्राह ।मुक्ताविति। अहमर्थातिरिक्तायां संविदि निर्विषयत्वस्य वादान्तरेप्रतिक्षिप्तत्वादित्यर्थः ।वाङ्मात्ररूपत्वादिति। अहमर्थातिरिक्तज्ञानमात्र निषेधस्यैव नकिञ्चिदहमवेदिषमिति प्रतीतेरिति भावः । द्वितीयं दूषयति ।अहमर्थस्यत्विति। परैर्घटादिविषयग्राहित्वा भावात् संविदाश्रयत्वाच्चाहमर्थस्योक्तेरिति भावः । ननु त्वयाहमर्थस्य निर्विषयसंविद्रूपत्वाङ्गीकारात् त्वन्मतानुसारेण तद्दृष्टान्तीकृत्याहमर्थधर्मत्वेनाभ्युपगतायावस्तुतो निराश्रयायास्संविदोनिर्विषयत्वं प्रसाध्य तस्याः उत्पत्तिः प्रतिक्षेप्यते इत्यत्राह ।पक्षान्तरे त्विति।अहमर्थस्यान्तः करणभिन्नत्वपक्ष इत्यर्थः । किं संविदः सर्वदानिर्विषयत्वं प्रसाध्यते उत सुषुप्त्यादौनाद्यइत्याह ।तद्वदेवेति। द्वितीयं दूषयति ।सुषुप्ताविति। त्वन्मते संविदः सर्वदा स्वप्रकाशत्वानभ्युपगमात् सुषुप्तौ निर्विषया संविदस्तीति चेत्तस्यास्तदानीं प्रकाशावश्यकत्वेन तदनुसन्धान प्रसङ्ग इति भावः ।वस्तुतोऽहमर्थस्य निर्विषयत्वं सिद्धमिति दृष्टान्तासिद्धिरित्याह ।स्वमात्रेति। मात्रचा घटादि विषयव्यावृत्तिः ।नन्वस्माभिर्यादृशी संविदिष्यते तया तादृशी सुषुप्त्यादावभ्युपगम्यत एवेत्यत्राह ।यद्यपीति। सुषुप्तौ निर्विषयत्वाङ्गीकारेपि न त्वदभिमत निराश्रयनिर्विषयनिर्धर्मकाहमर्थविलक्षणो संविदसिद्धौ येन तस्या अनादित्वं साध्यतेति भावः । ननु सुषुप्तौ निर्विषया संविदिष्यते तर्हि तस्यास्तदानी प्रकाशमानत्वात्तदुत्तरकालं तदनुसन्धानं तवापि स्यादित्यत्राह ।विषयरहितायास्त्विति।प्रागुक्तेति। अतो यावदुत्पत्ति नाशं घटादेः प्रकाशप्रसङ्गो दुर्वार इत्यादिभिरित्यर्थः ।अन्यत्रेति। न्यायपरिशुद्ध्यादावित्यर्थः । विषयोल्लेख रहितस्य सार्वकालिकत्वे आश्रयासिद्धिः । कादाचित्कत्वे धर्मभूतज्ञानस्य तादृशस्य सुषुप्तौ सिद्धत्वात् सिद्धसाधनमित्याह ।घटादीति। आदिपदेन निश्चित साध्यवतद विद्या दिव्यावृत्तेरसाधारव्यं विवक्षितम् । वत्सजलधिकौस्तुभ नृसिंहगुरु सुतेन सिंहदेवेन कृतायां शतदूषणीटीकायाम् एकविंशः समाप्तः ।