20 अवेद्यत्वभङ्गवादः

॥अथ अवेद्यत्वभङ्गवादः विंशः ॥ 20 ॥
श्रुतिगणशिरोनिष्णातानां स्वसत्त्वमभीप्सतां श्रवणमननध्यानैरध्यक्षतश्च चकास्ति यत् ।

अमतमिति यद्भूम्ना मन्तव्यतामवगाहते भवभयतमःप्रत्यासेधं भजेमहि तन्महः ॥
यदाहुः - अनुभूतिस्स्वयम्प्रकाशा, अनुभूतित्वात्, “अनुभूतेरनुभाव्यत्वे घटादिवदननु भूतित्वप्रसङ्ग’’ - तत्र तावदनुभूतिशब्दस्यार्थावगतिहेतुत्वे व्याघातःअहेतुत्वेऽपि पुनर्व्याधात इत्याबालगोपालमुपलभ्यम् ।
स्वयं प्रकाशे इत्यनेन किं स्वव्यवहारे स्वाश्रयस्य कदाचित्स्वगोचरानु भूत्यन्तरनैरपेक्ष्यमात्रं साध्यते? उत सर्वदा सर्वस्य स्वगोचरानुभूतिविरहः? नाद्यः, सिद्धसाधनात् ।
वयमपि संविदो विषयप्रकाशनवेलायां स्वाश्रयं प्रति संविदतन्तरकर्मतामन्तरेण प्रकाशमङ्गीकुर्मः ।
तदिदं सिद्धसाधनत्वमभिप्रेत्याह - “यत्त्वनुभूतेस्स्वयम्प्रकाशत्वमुक्तम्, तद्विषयप्रकाशनवेलायां ज्ञातुरात्मनस्तथैवे’‘ति ।
अत एव ये नाम स्वयम्प्रकाशत्वनिवृत्तावनवस्थादिप्रसङ्गास्ते भवन्तु सम्यञ्चो न वेति तत्रास्माभिरिहोदासि ।
नापि द्वितीयः, प्रत्यक्षविरोधात् ।
तदाह - “परानुभवस्य हानोपादानादि लिङ्गकानुमानज्ञानविषयत्वात्, स्वानुभवस्याप्यतीतस्याज्ञासिषमिति ज्ञानविषयत्वदर्शनाच्चेति ।
स्ववचनविरोधमभिप्रेत्याह - “अतोऽनुभूतिश्चेत्स्वतस्सिद्धेति वक्तुं न शक्यते’’ इति ।

तथा हि ।
अनुभूतिस्स्वयम्प्रकाशेत्यत्रानुभूतिशब्दः कस्यचिद्बोधको न वा? बोधकत्वेऽप्यनुभूतिरूप ब्रह्मस्वरूपबोधकस्तदन्यबोधको वा? ब्रह्मस्वरूपबोधकत्वे सिद्धं तस्य तज्जन्यसंवित्कर्मतया प्रकाशमानत्वं प्रकाशमानं स्वरूपम् अनेनानूद्यत इति चेन्न ।
तथाऽपि अनुवादात्मक संवित्कर्मतया प्रकाशमानत्वस्यदुरपह्नवत्वात् ।
अन्यथा तदनुवादत्वस्यासिद्धिप्रसङ्गात् ।
ततश्च प्रतिज्ञापदयोः फलप्रतिपादनाभ्यां व्याघातः ।
तदन्यबोधकत्वे तु तस्यैव स्वयम्प्रकाशत्वं प्रतिज्ञातं स्यात् ।
ततश्च सिषाधयिषितासिद्धिरर्थान्तराख्यं निग्रहस्थानमपसिद्धान्तश्च प्रसज्येरन् ।
कस्यचिदप्यबोधक इति पक्षे त्ववाचकप्रयोगान्निरर्थकनि ग्रहस्थानप्रसङ्गः ।
हेतोश्चाश्रयासिद्धिः ।

एवं हेतुसाध्यप्रतिपादकशब्दावपि संविदन्वितहेतुसाध्यप्रतिपादकावित्यभ्युपगन्तव्यम् ।
अन्यथा त्वप्रतिपादकत्वे वाऽनन्वितप्रतिपादकत्वे वा निरर्थकापार्थकनिग्रहस्थानापातात् ।
अतस्तदन्वितहेतु साध्यप्रतिपादने तयोरप्यनुभूतिविशेषकत्वात्ताभ्यामपि वेद्यत्वं फलितम् ।
अतस्साध्यहेतुवाचिपदयोः फलप्रतिपादनाभ्यां विरोधः ।
अतोऽनुभूतेरनुभाव्यत्वे घटादिवदननुभूतित्व प्रसङ्ग इति तर्कोऽपि स्ववधायकृत्योत्थापनम् ।
प्रागुक्तप्रत्यक्षेण तत्रत्यानुभूतिशब्देनैव चानुभूतेरनुभाव्यत्वस्थितावननुभूतित्वप्रसङ्गात् ।

एतेनावाच्यत्वमपि ब्रह्मणो निरस्तं मन्तव्यम् ।
किञ्च यदनुभाव्यं (तदननुभूति) न तदनुभूतिरूपम्, यथा घट इति व्यतिरेकदृष्टान्तेऽपि त्वदुक्तन्यायेनानुभाव्यत्वप्रतिक्षेपस्य शक्यत्वात्साध्याव्यावृत्तो दृष्टान्तस्स्यात् ।
घटस्स्वयम्प्रकाशो घटत्वात्, घटस्यानुभाव्यत्वे पटवदघटत्वप्रसङ्ग इति वियातजल्पस्य दुर्वारत्वात् ।
एवं च क्रमेण सर्वस्यापि स्वयम्प्रकाशत्वमायातमिति तदनुविधायिसत्यत्वादिप्रसङ्गश्च दुस्तरः ।
घटोऽनुभूयते पटोऽनुभूयत इत्यनुभाव्यतयैव घटादिः प्रकाशत इति चेत् अनुभूतिरपि परगता स्वगता चातीतानागतकालयोरनुमानशब्दसंस्कारादिजन्यसंविदन्तरकर्मतयैव भातीति तुल्यम् ।
अनुभूतेरनुभाव्यत्वप्रतीतिर्भ्रान्तिरिति चेत्, किं घटादेरनुभाव्यत्वप्रतीतिर्भ्रान्तिर्न देवानाम्प्रियस्य? ततश्च परमार्थानुभाव्यत्वप्रतिक्षेपे घटादेरपि परमार्थानुभाव्यत्वरहितत्वाद्धतिरेकदृष्टान्तासिद्धिः ।
निषेध्यस्य क्वचिदप्यप्रसिद्धेर्निषेधासिद्धिश्च ।
अपरमार्थानुभाव्यत्वप्रतिक्षेपे सिद्धसाधनत्वं स्वपक्षविरोधश्च ।
अन्यथा तद्विषयशास्त्रानुमानाद्यनारम्भ प्रसङ्गात् ।
तत एवानुभाव्यत्वमात्रनिषेधोऽप्यशक्यः ।

किञ्च यदि परगतानुभूतिर्नानुभूयते, कथं शब्दार्थसम्बन्धग्रहः? परबुद्धिविशेषानुमानेनैव हि सर्वत्र सिद्धे कार्ये वा व्युत्पत्तिः ।
एवं च व्युत्पत्तेरशक्यत्वाच्चेष्टाशब्दयोः प्रमाणकोटिनिक्षेप एव न स्यात्; परस्पराभिप्रायानभिज्ञतया वादिनोश्शुष्ककलह एव
स्यात्; परस्पराशयपरिज्ञानादेव च सर्वो लौकिको व्यवहारः, त्वत्समानानां न पशुमृगादीनां भयाद्युत्पत्तिश्च ।
तदेतत्सर्वमभिप्रेत्योक्तम् - “परानुभवानु मानानभ्युपगमे च शब्दार्थसम्बन्धग्रहाभावेन समस्तशब्दव्यवहारोच्छेदप्रसङ्गः’’ इति ।
आचार्यस्य ज्ञानवत्तामनुमाय तदुपसत्त्यादि च क्रियते “इति भाष्यं, शिष्यस्य च व्यवहारविशेषादिभिरन्यथा ज्ञानादिकमनुमाय तस्मै तत्त्वमुपदिश्यत इत्यस्योपलक्षणम् ।
तदेवमनुभूतेरन्यस्य वा वेद्यत्वं नास्तीति प्रतिज्ञानं स्वव्याघातकत्वान्न साधनाङ्गमिति ।

ननु वेद्यत्वं वेद्यं न वा? आद्ये वेद्यत्वस्य वेद्यत्वान्तराश्रयत्वेनानवस्था ।
अन्यथा वेद्यत्वाभावे वेद्यमेव न स्यात् ।

उत्तरत्रावेद्यत्वं क्वचित्त्वयाऽपि प्रतिज्ञातं स्यात् -इति चेत् हन्त किं (तर्हि) वेद्यत्वस्य वेद्यत्वान्तरप्रतिक्षेपेणावेद्यत्वसमर्थनार्थमयं प्रयासः? उत वेद्यत्वमेव किमपि नास्तीति तत्स्वरूपप्रतिक्षे ेपार्थम् ? अथान्यार्थम्? अनर्थको वेति ।
आद्ये त्वदुक्तानुमानस्य सपक्षे सति तत्रावर्तमानत्वात्सर्वानुमता साधारणाख्याभासत्वप्रसङ्गः ।
तत्र साध्यवृत्तिर्मिथ्याभूतेति परिहार इति चेत् तर्हि तस्य वेद्यत्वमेवायातमिति निरर्थकास्सन्नाहाः ।
अनुभूतावपि च भवतामवेद्यत्वलक्षणसाध्यवृत्तिर्मिथ्याभूतैव, निर्धर्मकत्वाभ्युप गमात्; तस्य स्वरूपत्वाभ्युपगमे च विवाद एव नस्यात् -इत्यादिकमन्यत्र ग्राह्यम् ।
नापि द्वितीयः, वेद्यत्वस्वरूपापह्नवेन सर्वस्यापि वेद्यत्वप्रतिक्षेपे पुनरप्यसाधारणत्वप्रसङ्गात् ।
भ्रान्तिसिद्धं वेद्यत्वं तत्र विद्यत इति चेत्, तदनुभूतावपि समानमेव ।
तत्प्रतिक्षेपे ह्यपसिद्धान्तप्रतीतिविरोधादयः ।
न तृतीयः, अन्यस्य कस्यचिदनुपलम्भात् ।
चतुर्थस्तु परिशिष्टोऽस्मदिष्ट इति ।
एतेन वाच्यत्वं वाच्यमवाच्यं वेत्यादिप्रलापोऽपि प्रत्युक्तः ।

यच्चाप्रसिद्धविशेणत्वपरिहारार्थं वेद्यत्वं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगि, धर्मत्वात् घटत्ववदिति सामान्यतः साध्यप्रसिद्धिसाधकत्वेनोक्तमनुमानम्, तदपि प्रत्युक्तं किञ्चिच्छब्देन तत्रैव तस्य वेद्यत्वापादनात्, किञ्चित्त्वधर्मेणानैकान्त्यप्रसङ्गाच्च ।
न हि किञ्चिच्छब्दवाच्यस्य किञ्चित्त्वं नास्तीति वक्तुं शक्यम्, वेद्यत्वादेरपि तथाऽपह्नवप्रसङ्गेनाश्रयासिद्ध्यादि प्रसङ्गात् ।
किञ्चित्त्वाभावे च न किञ्चिदेव भवेदिति तुच्छत्वमेव प्रसज्येत ।
तथा च तन्निष्ठान्ताभावप्रतियोगित्वसाधने भवतो न विवक्षितविशेषसिद्धिः ।
किञ्च सामान्यतः कस्यचिद्वेद्यत्वं नास्तीत्येतावति साधितेऽपि किञ्चिच्छब्दार्थोऽनुभूतिरिति कुतोऽवसीयते? पूर्वोक्ताविगीतहेतुवैभवादिति चेत् तर्हि घटस्स्वयम्प्रकाशो घटत्वादित्यादिहेतुनाऽपि घटादिविशेषपरिग्रहो दुर्वारः ।
अनुभाव्यत्वप्रतीतिसदसद्भावाभ्यां वैषम्यं तु परिहृतम् ।
तर्कानुग्रहसद सद्भावाभ्यां वैषम्यमिति चेत्, कोऽसौ तर्कः? अनुभूतेरनुभाव्यत्वे घटादिवदननुभूतित्वप्रसङ्ग इत्युक्तरूप इति चेन्न; घटादावपि तथाविधतर्कस्योदाहृतत्वात् ।
किञ्च यदि घटादिवदनुभूतेरनुभूतिलक्षण विरहस्स्यात्तदाऽननुभूतित्वं युक्तम्, न पुनरनुभाव्यत्वमात्रेण तत्सिद्धिः; तस्य तदप्रयोजकत्वात् ।
न चानुभाव्यत्वेऽनुभूतिलक्षणविरहस्स्यादिति वक्तुं शक्यम्, अनुभवान्तरानुभाव्येऽपि परानुभवादौ स्वसत्तयैव स्वविषयभासकत्वरूपस्य स्वसत्तयैव स्वाश्रयं प्रति प्रकाशमानत्वरूपस्य वा कस्यचिदनुभूतिलक्षणस्य स्वानुभवसिद्धस्यानपगमात् ।
तदवस्थाने चानुभूतित्वस्यानपायादिति ।
तदिदमुच्यते - “नचान्यविषयत्वेऽननुभूतित्वमि’‘त्यादिना ।

किं च योऽयमनुभाव्यत्वेऽनिष्टप्रसङ्गस्सोऽननुभाव्यत्वेऽपि समान इति प्रतितर्कप्रतिघातः ।
अनुभूतेरननुभाव्यत्वे गगनकुसुमादिवदननुभूतित्वप्रसङ्ग इति ।
तुच्छत्वात्तत्राननुभूतित्वम्, नत्वननुभाव्यत्वादिति चेन्न; साध्यसमव्याप्त्यभावेनोपाधित्वायोगात् ।
न ह्यनुभूतिव्यतिरिक्तेषु तुच्छत्वं त्वयाऽभ्युपगम्यते तत्रत्यमननुभूतित्वं तत्प्रयुक्तमित्येतावन्मात्रं विवक्षितमिति चेत्, तर्हि घटादिगतमप्यननुभूतित्वं तत्तद्वस्तुप्रतिनियतघटत्वादिप्रयुक्तं न त्वनुभाव्यत्वनिबन्धनमिति स्यात् ।
आश्रयाभावो धर्माभावे प्रयोजको भवितुमर्हति, निराश्रयधर्मसिद्ध्ययोगात्; न पुनराश्रयगतधर्ममात्रसद्भाव इति चेत् तर्ह्यनुभाव्यत्वमपि घटत्वादिवन्नाननुभूतित्वप्रयोजकमिति स्यात्, धर्ममात्रत्वाविशेषात् ।
व्याप्त्या विशेष इति चेन्न; सहचारमात्रस्य व्याप्तित्वाभावात् ।
नह्यननुभाव्यत्वानुभूतित्वयोः कश्चिद्विरोधो दृष्टः, येन नियमस्सिध्येत्, साहित्यमेव परगतानुभवादिषु दृष्टम् ।

किञ्च अनुभूतेरेवानुभाव्यत्वेऽवश्यम्भाविन्यननुभूतित्वं प्रति कथमनुभाव्यत्वस्योपाधित्वम्? अनुभाव्यत्वस्याभावेऽपि स्वप्रकाशत्वादेवानुभूतेरसत्त्वं न प्रसज्यत इति युष्माभिरभ्युपेतव्यमिति चेन्न; तथाऽपि स्वप्रकाशसिद्धेयमनुभूतिरित्येवंरूपानुभूतिविषयतामन्तरेण तत्सत्त्वस्य व्यवस्थापयितुम शक्यत्वात् ।

इदमखिलमभिसन्धायोक्तम् - “घटादेरप्यज्ञानाविरोधित्वमेवाननुभूतित्वनिबन्धनम्; नानुभाव्यत्व मित्यास्थीयताम्’’ -इति ।

नचास्य साधनव्यापकत्वम्, अनुभाव्यतयाऽभ्युपगन्तव्ये परानुभवस्वरूपे तदभावदर्शनात् ।
नच साध्यसमव्याप्तिहानि;, अनुभूतिव्यतिरिक्तेषु सर्वेष्वपि साक्षादज्ञानविरोधित्वाभावात् ।
अनुभाव्यत्वेऽनुभूतेरज्ञानाविरोधित्वमपि प्रसज्यत इति चेत्, अननुभाव्यत्वेऽपि गगनकुसुमादिवत्तत्प्रसङ्गस्तदवस्थः ।
असत्त्वप्रयुक्तं तत्राज्ञानाविरोधित्वमिति तु दत्तोत्तरप्रायमेव ।
एवं “अनुभूतिरनन्याधीनस्वधर्मव्यवहारा, स्वसम्बन्धादर्थान्तरे तद्धर्मव्यवहारहेतुत्वात्’’ -इत्याद्यनुमानेष्व प्यवेद्यत्वविवक्षायां पूर्ववद्दोषो भाव्यः, आगमबाधश्च ।

यदि ह्यनुभूतिरूपं ब्रह्म न वेद्यम्, कस्तर्हि तत्त्वावेदकशास्त्रस्य विषयः? प्रपञ्चमिथ्यात्वमात्रमिति चेन्न; “अथातो
ब्रह्मजिज्ञासा’’
(ब्र.सू.1 -1 -1), “आत्मत्वाद्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’’ (बृ -उ -4 -4 -5) “ब्रह्मविदाप्नोति परम्’’ (तै.आ.6 -1) “अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुः’’ (तै.आ.6 -3) इत्यादीनां समुद्रघोषत्वप्रसङ्गात् ।
ब्रह्माध्यस्तोपरागतमात्रनिवर्तनार्थं ब्रह्मानुवादोऽयमिति चेत्, तथाऽपि तैस्तैश्शब्दैरनुवादरूपैरप्यनुभाव्यत्वमवर्जनीयमेव ।
मिथ्याभूतमिदमनुभाव्यत्वमिति चेत्, घटादेरपि समानमित्युक्तमेव ।
उपहितं ब्रह्म शास्त्रवेद्यमिति चेन्न; अतत्त्वावेदकत्वप्रसङ्गात् ।
तस्याप्युपाधेर्विलयान्न दोष इति चेन्न; तत्प्रतिक्षेपकेणापि केनचिदुपहितरूपेणानुपहिताकारेण वा ब्रह्मस्वरूपस्पर्शनस्यावर्जनीयत्वात् ।
अत उपहितरूपं वेद्यमनुपहितरूपं तु व्यवहर्तुं शक्यमिति तस्य वेद्यत्वप्रतिक्षेपोऽपि दुश्शकः ।

ननु अवेद्यत्वेऽपि स्वप्रकाशत्वेनैवावस्थाय तत्त्वमस्यादिवाक्यजन्यस्य स्वेतरनिषेधवाक्यजन्यस्य “द्रष्टव्य’’ इत्यादिविहितज्ञानस्य चावच्छेदकं ब्रह्म भवेदिति चेन्न; अवच्छेदकमिति बुद्ध्यैवात्रापि विषयीकारात् ।
अन्यथा (स्वयम्प्रकाशानुवादादि) स्वप्रकाशानुमानादिनैरर्थक्यप्रसङ्गाच्च ।
तस्मादवच्छेदकत्वावेद्यत्वप्रतिपादकमपि वाक्यमन्ततो वेद्यत्वमेवोपस्थापयति ।

ननु - “यस्यामतं तस्य मतं मतं यस्य न वेद सः’’ ।
“अविज्ञातं विजानतां विज्ञातमविजानताम्’’, (केन -2.3) “विज्ञातारमरे केन विजानीयात्,’’ (बृह -4 -14) " येनेदं सर्वं विजानाति तं केन विजानीयात्’’, (बृह.4 -4 -14) यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह,(तै -भृगु) “न शब्दगोचरो यस्य योगिध्येयं परं पदम्’’ (स्मृतिः) इत्यादिकं कथं निर्वहणीयमिति चेत्, भवतो वा कथम्? स्वरसप्रतीतमवेद्यत्वमङ्गीकुर्वता मया किं नाम दुर्निर्वहमिति चेन्न; मतत्वविज्ञातत्वादेरपि तत्रैव स्वरसप्रतीतत्वात्, अमतविज्ञातादिशब्दैरपि तत्रैव तत्स्वरूपप्रतिपादनात् ।
अन्यथा प्रागुक्तनयेन परस्परविरोधेन चानन्वयादिप्रसङ्गात् ।
अमतत्वोपहितरूपेण मतत्वमङ्गीकुर्म इति चेत्, किमतः? तावताऽपि ज्ञानविषयत्वस्य दुस्त्यजत्वात् ।
अमतत्वं सामान्यतस्स्वानुविद्धं मतत्वमपि प्रतिक्षिपतीति चेत्; तथा सत्यमतत्वमप्रतिपन्नमेव भवेत् ।
तथाऽप्यमतत्वे वाक्यतात्पर्यम्, मतत्वव्यपदेशस्तु गलोपरिगर्जितमिति चेन्न; विपरिवर्तस्य दुर्वारत्वात् ।
कस्यामतत्वे वाक्यतात्पर्यं वर्ण्यते? ब्रह्मण इति चेत्, हन्त ब्रह्मणो वेद्यत्वभयम्परित्यज्य किमेवमुच्चारयसि? यदि चाकारभेदेन मतत्वामतत्वयोर्व्यवस्था, तदाऽस्मत्पक्षेऽपि न काचित्क्षतिः ।
तत्तद्वाक्यप्रतिपन्नगुणविभूत्याकारितवेषेण मतत्वम्, वस्त्वन्तरस्वभावविरहेण तत्तत्प्रमाणगोचर तयाऽनवच्छिन्नविषयत्वादिना चामतत्वमिति ।
एतेन “अविज्ञातं विजानता’’ (केन -2.3) मित्यादिकमपि निर्व्यूढम् ।
विज्ञातारमेर केन विजानीयात् (बृह.4 -4 -14) इत्यत्र कृच्छ्रेण ज्ञातव्यत्वे तात्पर्यम्, बाह्यार्थप्रकाशनक्षमचक्षुराद्यगोचरत्वे वा ।
एवम्, येनेदं सर्वं विजानाति तं केन विजानीयात् (बृह -4 -4 -14) इत्यादिकमपि भाव्यम् ।
यद्वा, मत्तस्स्मृतिर्ज्ञानमपोहनं च (श्री.भ.गी.15 -15) इत्याद्युक्तप्रकारेण यत्प्रसादेनेदं सर्वं विजानाति, तं परमात्मानं तत्प्रसादमन्तरेण केन विजानीयादिति ।
यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह (तै.भृगु) इत्यत्रापि ब्रह्मानन्दस्य वाङ्मनसापरिच्छेद्यत्वे तात्पर्यं प्रकरणादौ व्यक्तम् ।
अन्यथा यच्छब्दादिभिस्तत्प्रतिपादनासम्भवात्; “आनन्दं ब्रह्मणो विद्वान्’’ इति तद्विषयविहितवेदनासम्भवाच्च ।
एतेन, न शब्दगोचरो यस्येत्यादिकमपि निर्व्यूढम्; निष्कृष्टस्वरूपस्य देवादिशब्दागोचरत्वे वा तात्पर्यम् ।
एवमन्यान्यपि वेद्यत्वादिप्रतिक्षेपकाणि वाक्यानि प्रमाणान्तरश्रुत्यन्तरवाक्यशेषवाक्यस्थपदान्तराविरोधेन नेतव्यानि ।
“अनुभाव्यत्वेऽननुभूतित्व मित्युपहास्यम्’’ इति तर्कदूषणमुपसंहृत्योपहास्यतां प्रतिपादयता आगमबाधादिकं सुस्पष्टमिति सूचितं मन्तव्यमिति ॥
॥ इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्याम् अवेद्यत्वभङ्गवादः विंशोवादस्समाप्तः ॥

नृसिंहराजीया

पूर्ववादे सर्वज्ञत्वमुक्तमित्यनुभूतेरप्यननुभवविषयत्वं प्रसक्तमिति तन्निरूपयितुं वादार्थं सङ्गृह्णाति ।श्रुतीति। सत्वगुणाष्टकाविर्भावः। वादार्थं सूचयतिश्रवणेति। चकास्तीत्यनुभाव्यत्वप्रतीतेः"“अमतं मत’’(केन 1.3) मित्यदेरसिद्धं सूचयतिअमतं मतमिति। भूम्ना अमतं परिच्छिन्नं न भवतीत्यमन्तव्यत्वमवगत इत्यर्थः । प्रत्यासेधविवर्तकं व्याघातम् इत्यवेद्यत्वमेव"“स्वयम्प्रकाशत्वमिति’’। तैरभिधानादनुभूतिपदस्य बोधकत्वे सिसाधयिषिता वेद्यविपरीतसिध्या प्रतिज्ञाया व्याघात इत्यर्थः ।अहेतुत्वेऽपीति। अबोधकत्वेन अनेन वाक्येनानु भूतेरवेद्यत्वाबोधनादिष्टासिद्धिरूप व्याघातस्य स्फुटत्वादित्यर्थः । शब्दार्थाभिप्रायेण विकल्पयतिस्वयं प्रकाशेति। यत्वनुभूतेरित्यादिसिद्धसाधनपरं भाष्यमनुपपन्नमिव प्रकाशान्तरविषयत्व सामान्याभावस्य सिद्धेर्विषयप्रकाशनवेलायामपि यज्ञदत्तीयज्ञानस्य देवदत्तादि ज्ञानान्तरविषयतया सामान्या भावादित्याशङ्कायामुक्तप्रकारेण विकल्प्य दूषणपरं यत्वित्यादिभाष्यम् इत्याहतदिदमिति। नन्वनुभूतेरनुभूत्यन्तर वेद्यत्वेन तदवेद्यत्वे तस्या एवाभावात्तदा मिथ्यादिदोषास्युरित्यत्राहअत एवेति। यत एव ज्ञानान्तर वेद्यत्वनियमो नास्ति विषयप्रकाशनवेलायां स्वेनैव स्वसिद्धेरतो न ते दोषास्सत्यं चेत्यर्थः ।प्रत्यक्षविरोधादिति। परज्ञानस्य परज्ञानमनुमिनोमिति स्वकीय्यादितद्ज्ञानस्यानिष्टमिति ज्ञानविषयत्वस्य च प्रत्यक्षविषयत्वात्प्रत्यक्षविरोध इत्यर्थः । तत्र भाष्योदाहरणव्याजेन प्रत्यक्ष विरोधमुपपादयेति। तदाहेतिउपसंहारभाष्ये वक्तुं न शक्यत इत्युक्तेस्तात्पर्यमाहस्ववचनेति। अत्र स्वतस्सिद्धिरनुभवान्तराविषयत्वम् । स्ववचनविरोधमुपपादयतितदाहेति। तथाचानुभूतिशब्दस्यअर्थावगतिहेतुत्वमसति न वेति पूर्वत्रापि विकल्प्य दूषणोक्त्यानुशङ्कनीयम् ।प्रकाशमानमिति। स्वत इति शेषः ।अनुवादजन्यं च ज्ञानं वृत्तिरूपं न संविदिति तद्विषयत्वेपि न विरोध इति भावः ।तथापीति। अनुवादात्मकपदम् अनुवादजन्यपरम् । तस्य संवित्वस्य प्रत्यक्षसिद्धत्वान्न तस्य संविदन्यत्वमिति तद्विषयत्वे स्वप्रकाशत्वभङ्ग एवेति भावः। अन्यथेति। अनुवादजन्यतद्गोचर संविदभावेऽनुवादत्वमेव न स्यात् प्रकाशित्नार्थ प्रकाशस्यैव तत्वादिति भावः ।प्रतिज्ञापदयोरिति। अनुभूतिस्वप्रकाशेति पदयोर्व्याघातो विरोध इत्यर्थः । तत्र हेतुः ।फलप्रतिपादनाभ्यामिति। फलं साध्यमवेद्यत्वम् । अनुभूतिपदेन अनुभूतिविषयक संविज्जननेनाभाव्यत्वस्याधानात् स्वप्रकाशशब्देन तन्निषेधादित्यर्थः । यद्यपि विरुद्धार्थप्रतिपादकत्वं तथापि फलस्वरूपस्य तज्जन्यज्ञानरूपेण विरोध लक्षणो व्याघात इति ध्येयम् । अत एव प्रतिपाद्य प्रतिपादनयोरेव विरोध इति द्योतनाय फलप्रतिपादनाभ्यामित्युक्तंसिसाधयिषितेति। ब्रह्मणः स्वयं प्रकाशत्वं सिसाधयिषितमिति भावः । ब्रह्मणोरन्यस्य स्वयं प्रकाशत्वप्रतिज्ञानस्य प्रकृतानुपयुक्तत्वादिति भावः । तदुक्तं गौतमेन"“प्रकृतादर्थादप्रतिबन्धार्थमर्थान्तरमिति अपसिद्धान्त इति । (न्याय - द 5 - 2 - 7)ब्रह्मणोन्यस्य जडत्वसिद्धान्तादिति भावः । अत्राप्यक्षपादसूत्रं"“सिद्धान्तमभ्युप्येत्यानियमात्कथा प्रसङ्गोपसिद्धान्त’’ इति (न्यायद - 5 - 2 - 23) निरर्थकेतिवर्णक्रमनिर्देशवत् निरर्थकमित्यक्षपाद सूत्रमिति भावः ।हेतोश्चेति। प्रतिज्ञावाक्येन पक्षाप्रतीतेरज्ञानासिद्धिरित्यर्थः । अन्यथेतिअन्वितप्रतिपादनादित्यत्र विशेषणाभावे विशेष्याभावेत्यर्थः । अबोधकत्वे निरर्थकत्वम् ।अन्वितर्थबोधकत्वे अपार्थकत्वं पौर्वापर्यादप्रति बन्धार्थमपार्थकमित्यक्षपादसूत्रादिति भावः । ननु संविदन्वितहेतुसाध्यप्रतिपादनेऽपि विशिष्टस्यार्थान्तरत्वेन संविदः प्रतिपादनाभावान्नदोष इत्यत्राहतयोरपीति। साध्यहेत्वोरित्यर्थः । विशेषकमितरव्यावृत्ततया संविद्गोचरबुद्धिजनकं तथा च न विशिष्टं पदार्थान्तरमिति वेद्यत्वं दुर्निवारम् । अन्यथा संविदो न प्रकाशत्वसिद्धिरिति भावः ।अतइति। स्वपदं हेतु परं हेतुसहकारत्वाभिमततर्केणानुभूतित्वहेतोरेवोत्सादः प्रसज्यतेत्यर्थः । तदेवाहप्रागुक्तेति। तस्योक्तव्याप्तिमत्वादिति भावः । एतेनेति। आश्रयाद्युपस्थापकपदे पक्षज्ञतानुभूतिप्रतिपादनेत्यर्थः । व्याप्यत्वासिद्धिमाहकिं चेति।ननु कुड्यादिकं दृष्टान्तं स्यादित्यत्राहएवं क्रमेणेति। नन्वस्तु सर्वव्यापि स्वयं प्रकाशत्वं किन्नश्छिन्नमनुभूतेस्स्वयं प्रकाशत्वाक्षतेरित्यत्राहतदनुविधायीति। तथा सति दृश्यत्वा भावेन मिथ्यात्वं सिध्येदित्यर्थः । ननु घटादौ स्वप्रकाशत्वं साधयितुं न शक्यते प्रत्यक्षादि बाधादिति वैशम्यं शङ्कतेघटोनुभूयत इति। न वैषम्यमित्याह - अनुभूतिरपीति। देवानां प्रियस्य - मूर्खस्येत्यर्थः देवशब्दो मूर्खवाचि मूर्खाणां प्रियो मूर्ख एव भवतीति कैय्यटोक्तेः। अत्र किं पारमार्थिकस्यानुभाव्यत्वस्य निषेधस्साध्यः उतापारमार्थिकस्य । साध्यघटादावपि पारमार्थिकानुभाव्यत्वस्यापि भावात् ब्रह्मणस्तदभावसाधने दृष्टान्तासिद्धिरिति मत्वा द्वितीय पक्षं दूषयतिततश्चेति। अनुभाव्यत्वस्य सम्प्रतिपन्नत्वादिति भावः ।अनुभूतेरेकत्वेपि भाव्यत्वं घटादाविवनुभूतावप्यभ्युपगतमिति स्वाभ्युपगतमविरोधश्चेत्याह ।स्वपक्षेति ।अन्यथेति। ब्रह्मणोभाव्यत्वाभाव इत्यर्थः । न च वृत्यर्थतया शास्त्रसार्थक्यम् । तथापि वृत्तेरेवाज्ञाननिवर्तकत्वे तु तस्यैव ज्ञानत्वादिति भावः । सामान्यतोऽनुभाव्यत्वमात्रनिषेधे साध्ये घटादौ व्यतिरेकव्याप्तिग्रह सम्भवेप्युक्ताबाधान्नतत्साधनसम्भव इत्याहतत एवेति। व्युत्पत्तेरिति। व्युत्पत्तिः ज्ञानसम्बन्धः । शब्दस्य तज्जनकत्वं तत्सम्बन्धः । चेष्टायास्तज्जन्यत्वं तस््याः प्रमाणत्वं लिङ्गतया बोध्यम् ।अभिप्रायोज्ञानम् आश्रयः ज्ञानं भयाद्युत्पत्तिश्चेत्यनन्तरं न स्यातामिति शेषः । अत्र भाष्यमुदाहरतितदेतदिति। वेद्यं न वेति॥ वेद्यत्वाधीनसत्ताकं वेद्यत्वं न स्यात् । तदभावे वेदनमपि न स्यादिति जगदान्ध्यं स्यादिति भावः ।उत्तरत्रेति। ततश्चानुभाव्यत्वस्य क्वचित्त्वयाप्यङ्गीकारात् ब्रह्मणो मया तत्साधने कः प्रद्वेष इत्यर्थः ।सर्वानुमतेति। असाधारणाख्यास्याभासत्वस्य सर्वानुमतत्वकथनाउद्व्यतिरेक्यनुमानस्य स्वानभ्युपगमत्वं गम्यते । ततश्चच साधकं तु न सम्प्रतिपन्नं प्रत्युत बाधकमेवावगतमिति भावः ।तर्हीति ।वेद्यत्वेऽवेद्यत्वस्य मिथ्यात्वे तस्यवेद्यत्वमिति वेद्यत्वस्यावेद्यत्वसमर्थनार्थप्रयासो व्यर्थ इत्यर्थः ।अनुभूतावदि चेति। तादृश स्याध्यासवेद्यत्वेऽपि सत्वादसाधारण्यं स्थितमेवेति भावः ।तस्येति। स्वरूपस्यो भयसम्प्रतिपन्नत्वादित्याद्यविद्यानिवृत्ति दूषणस्थले द्रष्टव्यमित्यर्थः ।पुनरपीति। वेद्यत्वस्यावेद्यत्वपक्ष इति वेत्यर्थः । प्रतीतिः - परज्ञानं जानामीति प्रतीतिः। आदिशब्देन शिष्याणामाचार्यप्रार्थनापि गृह्यते ।प्रयोजनस्येति। शेषः ।अस्मदिष्ट इति। अस्माकमनिष्टं न किं चिदित्यर्थः ।एतेनेति। वेद्यत्वमवेद्यत्वं वेति दूषणनिस्तारेणेत्यर्थः । अप्रसिद्धविशेषणत्वं साध्याप्रतिसिद्धिरित्यर्थः । तत्रैवेति। वेद्यत्वङ्किञ्चिन्निष्ठात्यन्ताभावप्रतियोगीति प्रयोग एव तस्यैव किञ्च्छिब्दार्थस्यैववेद्यत्वपर्यवसानाद्बाध इति भावः । किञ्चाकिञ्चित्वं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगि न वा । न द्वितीय इत्याह ।किञ्चित्वधर्मेणेति। आद्येपि यन्निष्ठाभावप्रतियोगि तत्किञ्चिच्छब्द वाच्यं न वा नाद्य इत्याहन हीति। तथा च तत्र पुनरपि व्यभिचार इति भावः ।वेद्यत्वादेरपीति। वेद्य शब्दवाच्येषु धर्मशब्दवाच्येष्वपि वेद्यत्वाभावाद्धर्मत्वा भावाच्चाश्रयासिद्धिरूपासिद्धि प्रसङ्ग इति भावः ॥ द्वितीये आह ।किञ्चित्वाभावइति । तन्निष्ठेति। तुच्छनिष्ठात्यन्ताभाव प्रतियोगित्वेऽपि किञ्चिन्निष्ठत्यन्ताभाव प्रति योगित्वरूपसाध्यप्रसिद्धि रित्यर्थः । तथापि व्यभिचार इति भावः । किं च अनेनानुमानेन कस्यचिदवेद्यस्य सिद्धावप्यसाधारण्यन्दुष्परिहरमित्याहकिं चेति। सामान्यतोप्यवेद्यत्वमनुभूतेरेवेति नासाधारण्यमित्याशङ्कतेहेतुवैभवादिति।वैभवोहीतरत्र बाधसाहित्यमिति भावः ।(घट) स्वयं प्रकाशइति। तथाचासाधारण्यं दुर्वारमिति भावः । तर्कस्या भासमान योगक्षेमत्वेनाप्रयोजकत्वमुक्त्वा सोपाधिकतयाप्यप्रयोजकत्वमाह किं चेति । अननुभूतित्वेनानु भूति लक्षणविरहोपाधिरित्यर्थः ।तदतिप्रसङ्गवाचकत्वादिति ॥ (तदप्रयोजकत्वादिति)तन्निरूपितव्याप्ति शून्यत्वादित्यर्थः । ननु साधनव्यापकत्वान्नासावुपाधिरिति शङ्कामनूद्य परिहरतिनचानुभाव्यत्व इति । तदवस्थानेचेति।लक्षणमव्याप्तिर्लक्ष्यतावच्छेदकस्येतिभावः । अत्रापि भाष्यं संवादयति ।तदिदमुच्यत इति। व्याप्तिस्तर्काप्रतिहतिरित्यादि तर्काङ्गपञ्चकमध्ये प्रथमागंवैकल्यमुक्तवा द्वितीयाङ्गवैकल्यमाहकिञ्चेत्यादिना। उक्ततर्कमूव्याप्तौ तुच्छत्वमुपाधिरिति शङ्कते ।तुच्छत्वात्तत्रेति । साध्यसमेति। वस्तुतस्साध्यव्याप्तिरेव नास्ति कुतः समव्याप्तिः घटादौव्यभिचारादिति भावः । खपुष्पत्वाद्यवच्छिन्नाननुभूतित्वे व्यापकं तुच्छत्वमुपाधिरिति शङ्कतेतत्रत्यमिति। तस्यानुभाव्यत्वेऽननुभूतित्वं स्यादित्यत्राप्यवच्छिन्न साध्य व्यापकं घटत्वादिकमुपाधिस्यादित्याहतर्हीति। ननु तुच्छत्वं ह्याश्रयाभावः । तस्यावच्छिन्न साध्यव्यापकस्याप्युद्भूतरूपत्वप्रयोजकत्वं व्याप्तिमत्वाद्युक्तं नतु घटत्वादेरित्याशङ्कते ।आश्रयाभाव इति । व्याप्त्येति। यत्रानुभाव्यत्वं तत्राननुभूतित्वमिति शुद्धसाध्य व्याप्तिः विशेष इत्यर्थः ।सहचारमात्रस्येति। व्याप्तिः किं सहचारमात्रात् यद्वा तर्कसहकृतात् । नाद्य इत्याहसहद्वारमात्रस्येति। व्यभिचारिसाधारण्येनव्याप्तिप्रयोजकत्वाभावादित्यर्थः । द्वितीये आहनहीति। प्रत्युत व्यभिचार एव स्फुट इत्याहसाहित्यमेवेति। अनुमानस्य बाधमप्याहकिञ्चेति। त्वयानुभाव्यत्वेन सिसाधयिषिताया एव अनुभाव्यत्वमवश्यं भाव्यम् । अन्यथानुभूतेस्तुच्छत्वेन सर्वशून्यत्वप्रसङ्गात्तथा व्यभिचारादनुभाव्यत्वस्योपाधित्व मननुभूतित्व व्याप्यत्वं नास्तीत्यर्थः । शङ्कतेअनुभाव्यत्वस्येति।तथापीति। स्वप्रकाशायास्तस्याः एवं रूपत्वाभावात्संविदन्तरं विषयत्वमावश्यकमिति भावः । उक्तार्थे भाष्यं संवादयतिइदमखिलमिति । अनुभूतित्वनिबन्धनमिति। अनुभूतित्वे उपाधिरित्यर्थः ।अस्येति।अज्ञानविरोधित्वस्येत्यर्थः । नचेति। साधनमननुभूतित्वप्रसञ्जकतयाभ्युपेतम् । अनुभाव्यत्वमित्यर्थः । नन्वालोकादवज्ञानविरोधिनि साध्यव्यापकतेत्यत्राहसाक्षादिति। आलोकादेर्ज्ञानद्वारैवाज्ञान विरोधित्व मिति भावः ।अनुभाव्यत्व इति। तथा च साधनव्यापकत्वादज्ञानविरोधित्वं नोपाधिरिति भावः एवमपि साध्यव्यापकत्वसन्देहात्सन्दिग्धोपाधित्वं दुर्वारम् । तथाप्यनुभूतिरनुभाव्या भवितुमर्हतिअज्ञान विरोधित्वादिति। प्रतिरोधमाह ।अनुभाव्यत्वेपीति। ननु प्रतिरोधो न सम्भवति असत्वेनसोपाधिकत्वादित्याशङ्कते तत्रत्यमननुभूतित्वं तत्प्रयुक्तमित्यादेर्दूषणेनोक्तप्रायमित्याहअसत्वप्रयुक्तमिति ।एवमिति। अत्रानुमानद्वयमभिप्रेतम् । ““अनुभूतिरनन्याधीनस्वधर्मा’’ - ““अनन्याधीनस्वव्यवहारा’’ वा ““स्व सम्बन्धादर्थान्तरे तद्धर्महेतुत्वात् ’’ ““स्वसम्बन्धादर्थान्तरे तद्वयवहार हेतुत्वात्’’ रूपवदिति । तत्रायं निष्कर्षः ““तद्धर्मजनकतावच्छेदकनिरूपितस्वजातीयानपेक्षपरगतस्वोत्पाद्यधर्मजन्यतावच्छेदकनिरूपित धर्मसजातीयस्वगतयावद्धर्मा’’ ““परत्र तद्वयवहारजनकतावच्छेदकधर्मनिरूपितसजातीयानपेक्षतद् व्यवहारजन्यतावच्छेदक धर्मनिरूपित सजातीय यावत्स्वव्यवहारेति वाद्रव्यसाक्षात्कारहेतुरूपवदिति। विस्तरस्तु श्रुतप्रकाशिकायां द्रष्टव्यः । एवं चानुमानद्वयमप्यनुभूतिनिष्ठज्ञाततामात्रस्य च तद्वयवहारमात्रस्य च ज्ञानान्तरानपेक्षत्वेन अनुभाव्यत्व एव पर्यवसानादित्यभिप्रायेण दोषमाहअवेद्यत्वविवक्षायामिति। पूर्वदोषास्तुच्छत्वादय अवेद्यत्वे बाधकत्वमाहआगमेति। आगमस्य बाधः वैयर्थ्यम्मित्यर्थः । तदुपपादयति ।यदिहीति। तत्वावेदकशास्त्रं - वेदान्तशास्त्रम् । नेति । शास्त्रं - शास्त्रयोनित्वात् (ब्र.सू.1.1.3) )तत्वोपनिषदमित्यादिनाब्रह्मणः प्रमाणान्तरवेद्यत्वनिषेधाद्वेदान्तवेद्यत्वमेव वक्तव्यम् । तद्वेद्यत्वाद्यभावे तेषामर्थान्तरबोधने सामर्थ्या भावाद्ब्रह्मबोधने नैरर्थक्यमापद्येरन्निति भावः । ननु ब्रह्मणः स्वयं प्रकाशत्वेपि तस्याज्ञानाविरोधित्वादध्यसनिवर्तकत्वाभावेन तन्निवर्तकापरोक्ष्यवृत्तेर्वेदान्त साध्यतया वेदान्तानांसार्थक्यम् । वेदान्तजन्यवृत्यधीना ज्ञानानिवर्तकत्वमेव जिज्ञासासूत्रादेर्विषय इत्याशङ्कते ।ब्रह्मण्यध्यस्तेति।स्वप्रकाशतया सर्वदा भासमान ब्रह्मविषयत्वादनुवाद्यत्वोक्तिः । वृत्तेरप्रकाशात्मकत्वात्तदवच्छिन्न चैतन्यविषयत्वस्य व्यावहारिकभेद एवेति ब्रह्मण्यावश्यकत्वा वेद्यत्वमवर्जनीयमेवेत्याहतथापीति । तस्यापीति। विलयो - निषेधः । तत्प्रतिपादकत्वेन तत्वावेदकत्वमिति भावः । किं च किमुपहितस्य वेद्यत्वनिषेधः उतानुपहितस्य । नाद्यः उपहितस्येदानीं वेद्यत्वाङ्गीकारेण तन्निषेधेव्याघातात् । नद्वितीयः । अनुपहितस्य व्यवहारानर्हतया तत्रावेद्यत्वप्रतिज्ञादेरप्यसम्भवादित्याहअत इति।ननु ब्रह्मणो वेदान्तजन्यज्ञानविषयत्वाभावेपि तद्ज्ञानाभासे जीव ब्रह्म भेदे ब्रह्मव्यतिरिक्त मिथ्यात्वे च स्वेनैव भासमानं ब्रह्म तटस्थतयावच्छेदकं स्यात् । इदमेवावच्छेदकत्वं ““द्रष्टव्य ( ) इत्यत्रोच्यते । ननु ज्ञानविषयत्वंशङ्कतेनन्विति। अवच्छेदकत्वं व्यावृत्तिबुद्धिजनकत्वम् । नन्वच्छेदकमिति बुध्यापि ब्रह्म न विषयीक्रियते।किं तु अवच्छेदकत्वमेव तद्ज्ञानाविषयीभूतमपि ब्रह्म स्वेनैवभासमानतटस्थं सदवच्छेदकत्वं व्यावर्तयतीत्यत्राहअन्यथेति। तथा च स्वप्रकाशपदेन अवच्छेदकपदेन च ब्रह्मणो प्रतिपादनात् तत्पदद्वयं व्यर्थमित्यर्थः। किञ्च स्वप्रकाशादिपदानां ब्रह्मबोधकत्वस्योक्तत्वात् तन्नयायेनान्यत्व प्रतिपादकवेदान्तवाक्यस्थपदानामपि ब्रह्मबोधकत्वात् तदपि वाक्यं स्वांशेवैयर्थ्यमवेद्यत्वमेव ेसाधयतीत्याह ।तस्मादिति। नन्वननुभाव्यत्वपदेपि श्रुतिबोधोस्तीति शङ्कतेनन्विति।न शब्दगोचर इत।ि अत्र यद्यपि शब्दप्रतिपाद्यत्वमेव निषिध्यते । तथापि प्रमाणान्तरावेद्यतवाच्छब्दवेद्यत्वस्यापि निषेधादवेद्यत्वपर्यव सानमिति भावः । अवेद्यत्वपक्ष एव ताःश्रुतयो बाधिता स्यादित्याहभवतो वेति। बाधमेवशङ्कापूर्वमुपपादयतिस्वरसप्रतीतमिति। यद्बलमादाय अवेद्यत्वं ब्रूषे तद्बलादेव वेद्यत्वं सिध्यतीत्याहअमतेति।अज्ञातादि शब्दैः ब्रह्म स्वरूपाप्रतिपादन इत्यर्थः ।प्रागुक्तेति। अन्यथा स्वप्रकाशानुवादनैरर्थ्य प्रसङ्ग इत्युक्तप्रकारेणेत्यर्थः । अवेद्यत्वस्य स्वरसतः प्रतीतिवत् वेद्यत्वस्यापि स्वरसतः प्रतीतेःपरस्परविरोधादनन्वयः ।“अमत’मित्यादिना स्वरूपाप्रतिपादने"मत’मित्यादिकृत्स्नानर्थक्यमित्यर्थः ।नन्वमतस्योपक्रमे प्रतिपादितत्वादमतत्वेन मतत्वमेवमतमित्यनेन प्रतिपाद्यते । अमतम् इत्यत्रापि नत्वाकारान्तरेण मतत्वं निषिध्यते । अतोऽनान्वयो न वैयर्थ्यमितिशङ्कते ।अमतत्वेति। नमतत्वाङ्गीकारेपि स्वरूपे मतत्वस्य सिद्धत्वादमतत्वस्य बाधितत्वादमतत्वेन मतत्वमेव न सम्भवतीत्यन्वयः । अमतत्वाङ्गीकारे वैयर्थ्यं च प्रतीत्य भावात् तदवस्थमिति परिहरति ।किमत इति। सामान्यतो मतत्व निषेधकशब्दः स्वाधीनमतत्वमपि निषेधतीति न मतत्वापादनमिति शङ्कते ।अमतत्वमिति । तथा सतीति। ब्रह्मणोमतत्व विशिष्टतया बोधना भावात् ब्रह्मण्यमतत्वं प्रतिपन्नमेव स्यादित्यर्थः । अस्त्वमतत्वेन ब्रह्मणः प्रतिपादनम् । तथापि मतत्वस्याप्रतिपादनात् नानन्वय इति शङ्कतेतथापीति। नन्वमतशब्देन न मतत्वमपि प्रतिपाद्यते इति चेत् तत्राहमतत्व व्यपदेश इति। अहृदयमित्यर्थः ।हन्तेति।ब्रह्मतात्पर्यविषयेति। इति प्रतीतिविषयत्वस्यस्फुटत्वादिति भावः ।अस्मत्पक्ष इति। वेद्यत्वपक्ष इत्यर्थः।आकारितम्आकारविशिष्टम् ।वस्त्वन्तरेति। चाक्षुषत्वादिप्रयोजकरूपादिविरहेण प्रत्यक्षाद्यगोचरतयेत्यर्थः ।अपरिच्छिन्नेति। गुणविभूत्यादिभिः परिच्छिन्नो न भवतीत्यपरिच्छिन्नः सचासौ विषयवेद्यं ब्रह्म अपरिच्छिन्नत्वात्परिच्छिन्नतया मतं न भवतीत्यर्थः । तत्प्रसादं विना । अमृतत्वमादिशब्दार्थःनिर्व्यूढमिति। विजानतामपि परिच्छिन्नतया न ज्ञातमित्यर्थः ।विज्ञातारमिति।ज्ञातव्यत्वमात्रनिषेधकेनेति। हेतापायोगात् भगवत्प्रसादसहकृतन्यायोप ब्रृंहितवेदान्तैरेव ज्ञातव्यत्वं विवक्षितमिति भावः ।एवमिति। सापिश्रुतिः प्रमाणान्तराग्राह्यविषयेत्यर्थः । येन ब्रह्म इदं सर्वं विजानाति मुक्तो भवति तं प्रत्यक्षादिषु मध्ये केन विजानीयात् भगवत्प्रसादरहितेन न केनापि गृह्णीयादेवेत्यर्थः ।प्रकरणादौ व्यक्तमिति । ““सैषानन्दस्यमीमांसा भवतीति’’(तै.भृगु - 4) उपक्रमादिति भावः ।अन्यथेति। अवेद्यत्व परत्व इत्यर्थः ।यच्छब्दाभिरिति।““यतो वाचोनिवर्तन्ते’‘त्यत्र यच्छब्दानन्दशब्दादिभिरित्यर्थः ।विद्वानिति। अप्राप्तत्वाद्वेदनं विधीयत इति भावः । धर्मपदयोजनामाहनिकृष्टेति। देवादिशब्दानां शरीरजीवविशिष्टगोचरत्वादिति भावः ।एवमन्यानपीति।(श्री.भ.गी.7 - 26)यद्वाचानभ्युदितम् । अगृह्यो न गृह्यते (केन 1 - 4)न ग्राहयःकेनचित्क्वचित् ““मां तु वेद न कश्चने’‘त्यादीतिविवक्षितानि प्रमाणान्तराणि प्रकाश्यत्वादिलिङ्गकानुमानानि । श्रुत्यन्तरम् ।ब्रह्मविदाप्नोति (तै.आ.1)इत्यादि ।यद्वाचानभ्युदितं ( केन 1.4)इत्यत्रतदेव ब्रह्म त्वंविद्धि (केन.1 - 4 )इति वाक्यशेषः ।अगृह्यो न गृह्यतेत्यत्र स एव वेतिवेति इत्यात्मा ग्राह्य इति वाक्यशेषः ।वावयस्थ पदान्तराणि तदुपस्थापकानि पदानि ।आगमबाधादिकं किमिति भाष्ये नोक्तमित्यत्राहअनुभाव्यत्व इत्यादिना। ब्रह्मज्ञानाय वेदान्तशास्त्रं व्याकुर्वन् स्वक्रियाव्याघातं कथं न जानीयादित्यर्थः ॥ ॥ वत्सजलधिकौस्तुभनृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणीटीकायां विंशोवादस्समाप्तः ॥