॥ अथ ब्रह्माश्रयाज्ञाननिरासवादः एकोनविंशः ॥19॥
अनन्यचेतसां पुंसामज्ञानमवधून्वते ।
निरस्ताज्ञानगन्धाय नित्यं सर्वविदे नमः ॥
अहङ्काराभिव्यङ्ग्यत्वं दूषयद्भिर्भाष्यकारैरज्ञानाश्रयत्वमपि संविदो निरस्तम् “न च संविदाश्रयत्वमज्ञानस्ये’‘त्यादिना ।
अविद्याश्रयविकल्पे चोक्तम् - “नापि ब्रह्माश्रित्य, तस्य स्वप्रकाशज्ञानरूपत्वेनाविद्याविरोधित्वात् इत्यादिना’’ ।
प्रदेशान्तरेषु च सर्वज्ञत्वनिर्दोषत्वादि श्रुतिशतैर्विरोधो दर्शितः तत्सर्वं सङ्कलस्य व्याकुर्मः ।
यद्यसौ परमात्मा त्वदुक्तप्रकारेण संविन्मात्रस्वरूपः, यदि वा यथाश्रुति सर्वज्ञः, नोभयधाऽपि तस्याज्ञानाश्रयत्वं सम्भवति ।
तथा हि - न तावद्घटादिवत् ज्ञातृत्वात्यन्ताभावलक्षणमज्ञानमिह विवक्षितम्, तस्य त्वदभिमते ब्रह्मण्यपि घटादाविव यावत्स्वरूपभावितया स्वरूपे सति निवर्तयितुमशक्यत्वात् ।
नापि ज्ञान प्रागभावद्वंसौ ।
ब्रह्मणि धर्मभूतज्ञानस्य कदाचिदपि अनभ्युपगमात् ।
नापि ज्ञानान्योन्याभावः, ज्ञानान्तरानभ्युपगमात्; स्वप्रतियोगिकभेदायोगाच्च ।
वृत्तिज्ञानादध्यस्तज्ञानाद्वा भेदस्य स(नि)त्यत्वेन तस्यापि निवर्त्यतयाऽभिमता ज्ञानत्वायोगात् ।
भावरूपाज्ञानत्वाभ्युपगमादेव च नाभावान्तरमपि ।
अतोयत्तदज्ञानं ज्ञाननिवर्त्यमभिमतम्, तज्ज्ञातर्येव भवितुमर्हति; ज्ञानस्य स्वाश्रय एवाज्ञाननिवर्तकत्वव्याप्तेः ।
न हि देवदत्तगतेन ज्ञानेन यज्ञदत्तगतमज्ञानं निर्वतते ।
ननु ईश्वरादिगतेन ज्ञानेन कथं तदनुग्रहविषयजीवगताज्ञाननिवृत्तिस्तवेति चेन्न; तत्र शक्तिविशेषोपबृंहितत्वेन तदुपपत्तेः ।
न हि प्रकाशाकारतामात्रेण तत्र परगताज्ञाननिवर्तकत्वम्, तथा सति नित्यं तन्निवृत्तिप्रसङ्गात् ।
अतो जीवगतेनान्तःकरणगतेन वा तत्त्वज्ञानेन ब्रह्माज्ञाननिवृत्तिरिति प्रत्युक्तम् ।
ततश्च यत् ज्ञाननिवर्त्यमज्ञानम्, न तत् ज्ञातृत्वप्रसक्तिशून्ये ब्रह्मणि भवितुमर्हति ।
तदेतद्भावरूपाज्ञानदूषणे प्रसङ्गाभिप्रायेण प्रायुङ्क्ते -
“विवादाध्यासितमज्ञानं न ज्ञानमात्रब्रह्माश्रयम्, अज्ञानत्वात्;‘‘शुक्तिकाद्यज्ञानवत्; ज्ञात्राश्रयं हि तत् इति ।
“ब्रह्म नाज्ञानास्पदम्, ज्ञातृत्वविरहात्, घटवत्’’ इति च ।
ननु कल्पितं ज्ञातृत्वं ब्रह्मणोऽप्य (स्ति, तेनास्या) स्तीति तस्याज्ञानाश्रयत्वोपपत्तिरिति चेन्न; अहङ्कारोपहितवेषेणैव तस्य ज्ञातृत्वकल्पनाभ्युपगमात्, सुषुप्तिमरणादिष्वहङ्कारप्रलयेऽपि संविदात्मन एवाज्ञानाश्रयत्वाभ्युपगमाच्च ।
ततश्च शुक्तिकाज्ञानवद्ब्रह्माज्ञानमप्यहमर्थनिष्ठमिति वा कल्पय, त्यज वा सर्वत्र ब्रह्माज्ञानम् ।
उभयधाऽपि न त्वामुपद्रवामः ।
यश्च वस्तुतो ज्ञातृत्वं परिग्रह्याज्ञानमपि ब्रह्मणि स्थापयेत्, सोऽपि नित्यसर्वज्ञत्वानुपपत्त्या निरसिष्यते ।
स्वप्रकाशत्वाच्च ।
ब्रह्मप्रकाशबाध्यं हि ब्रह्माज्ञानमभिमतम्, ब्रह्म च नित्यस्वप्रकाशरूपम्, ततस्तेजसीवतिमिरं कथं तत्र तत्स्यात्? तच्चेत्स्वस्मिन्नज्ञानं सहेत, कस्तस्य निवर्तकः? ब्रह्मविषयं वृत्तिज्ञानं निवर्तकमिति चेत् अनुभाव्यत्वे घटादिवदननुभूतित्वप्रसङ्ग इति त्वदुक्तं किं न स्मरसि? प्रस्मर वा ।
तथाऽपि विशेषाभावान्न तस्यापि निवर्तकत्वम् ।
निवर्तकानुपपत्तौ चास्य विस्तरो ग्राह्यः ।
ननु भवतोऽपि जीवस्वरूपं स्वप्रकाशम्, तदेव चाज्ञानाश्रयतयाऽभिमतमिति चेत् सत्यम्, तथाऽपि न तत्र विरोधः ।
नहि स्वप्रकाशांश प्रत्यनीकमप्रका (शां) शं प्रत्यगात्मनो ब्रूमः, अपि तु तस्यैव देहेन्द्रियादिविधर्मिणः स्वप्रकाशत्वनित्यत्वस्वादुतमत्वादिधर्मविशिष्टरूपाज्ञानम् ।
तच्च तदात्मगतेन विशिष्टविषयेण ज्ञानेन निवर्तते ।
यथा च शबरसंवर्धितस्य राजकुमारस्य शबरतयाऽऽत्मानमभिमन्यमानस्य प्रकाशमान एवस्वात्मनि क्षत्रियत्वाज्ञानम्, तच्चोपदेशादिजन्यराजत्वज्ञानेन निवर्तते; तद्वदत्रापीति स्वयमेव परिभावय ।
नित्यमुक्तत्वाभ्युपगमाच्च ।
न ह्यज्ञानाश्रयत्वमनन्तर्भाव्य कश्चिद्बन्धो नाम न च बन्धाभावादन्यामुक्तिः ।
येच मुक्तिदशायां पाषाणादिवदज्ञत्वमिच्छन्ति, न तेऽपि तदानीं संसारबीजभूतमज्ञानमनुमन्यन्ते ।
अस्मन्मते तु यद्यपि सार्वज्ञ्यमात्मनां स्वरूपप्रयुक्तं, तथाऽपि तदुपाधिवशान्निरुद्धमिदानीं न विद्यत इति बन्धमोक्षयोः कालभेदान्न विरोधः ।
अस्माकमप्यविद्यातन्निवृत्त्योः पौर्वापर्यान्न विरोध इति चेत्; तर्हि नित्यमुक्तत्व (व्याघातः) - विरोधः ।
अविद्यायाः स्वकालेऽपि वस्तुतो निवृत्तत्वान्नित्यमुक्तत्वमुपपद्यत इति चेत्; कथं तर्हि पौर्वापर्यम् ।
प्रतिभासभेदाधीनमिति चेन्न; प्रतिभासयोरपि नित्यनिवृत्तस्वरूपतया तत्रापि पौर्वापर्यासिद्धेः ।
एवं च तत्तत्प्रतिभासपारम्पर्यगवेषणेऽपि न निस्तारः ।
न च सत्यस्ते प्रतिभासभेदः, येन निरुपाधिकं तत्र पौर्वापर्यं स्यात् ।
निवृत्त्यनुपपत्तिहेतवश्चात्र सञ्चारणीयाः ।
सर्वज्ञत्वाच्च ।
न हि सर्वं जानाति यत्किञ्चित्सर्वमेव वा न जानातीति सम्भवति ।
माभूत्सार्व ज्ञ््यं ब्रह्मण इति चेत्, न तावदयं शापः ।
नाप्यनभ्युपगममात्रप्रकाशनम्, अकिञ्चित्करत्वात् ।
नापि प्रमाणानुधावनम्, वैपरीत्यात् ।
श्रूयते हि - “यस्सर्वज्ञस्सर्ववित्’’(मुण्ड - 1 - 1 - 5) इत्यादि ।
स्वयं च ब्रवीति - वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ (श्री.भ.गीता 7 - 26) इति ।
स्मरन्ति च - “सर्वज्ञस्सर्ववित्सर्वशक्तिर्ज्ञानबलर्धिमान्’’ ।
(वि.पु) इत्यादि ।
न नित्यं तस्य सार्वज्ञ्यमिति चेत्, अस्य कोऽर्थः? किं कदाचिदपि सार्वज्ञ्यं नास्तीति? उत सदप्यनित्यमिति? नाद्यः, श्रुतिविरोधात्; गुणनिषेधश्रुतीनां श्रुतिविहितगुणव्यतिरिक्तविषयत्वस्थापनात् ।
न द्वितीयः, स्वाभाविकसार्वज्ञ्य श्रुतिविरोधादेव ।
न हि स्वाभाविकसार्वज्ञ्यस्य विनाशस्सम्भवति ।
नापि चोत्पत्तिः,प्रागभावाभावात् ।
विस्तरस्त्वन्यत्र ।
अतो नित्यसर्वज्ञत्वाद्ब्र्रह्मणो न कदाचिदपि तस्याज्ञानाश्रयत्वसम्भवः ।
एतेन समस्तदोषनिषेधकवाक्यशतबाधोऽपि स्थापितः ॥
ननु क एवमाह अज्ञानाश्रयभूतं ब्रह्मेति? यं प्रति तन्निषेधसम्भवः, इति चेत्; हन्त किमस्मदुक्तयुक्त्याप्रयुक्तो भवान् ब्रह्माज्ञानं निषेधति? उत स्वमनीषिकासिद्धवृषलोद्वाहमन्त्रन्यायेन? पूर्वत्र त्यजामस्संरम्भम् ।
उत्तरत्रापि न तावन्निरुपाधिकयोरेकत्र सम्भवः, उपाधिभेदापादितयोरपि न त्वदुक्तयुक्त्या सिद्धिः; न हिदेशकालादिभेदेन तयोर्निर्वाहं पश्यसि, तथा दर्शनेऽपि प्रागुक्तयुक्तयः प्रतिस्पर्धिन्यः ।
प्रातिभासिको विधिः पारमार्थिको निषेध इत्यपि न पालयितुं शक््यम् ।
निषेधस्याप्यन्ततास्त्वदुक्तरीत्याप्रातिभासिकत्वात् ।
नचाविद्यास्वरूपततदाश्रयत्वादेर्दुनिरूपतया तन्निषेधः पारमार्थिक इति युक्तम्, तन्निषेधस्य दुर्निरूपतया तत्स्वरूपादिपारमार्थिकत्वप्रसङ्गेन विपरिवर्तस्य सुशकत्वा (च्च)त् ।
भवतूभयमपि दुर्निरूपत्वादपारमार्थिकम्,. का नः क्षतिरिति चेन्न “परस्परविरोधे हि न प्रकारान्तर स्थिति’’(न्याय.कु.सु.3 - 7) रिति न्यायस्य सुस्थितत्वात् ।
ननु गगनकुसुमवदेतत्स्यात्; तद्धि न सुरभि नाप्युसरभीति चेन्न; तत्र स्वरूपस्यैवाभावेन विधिनिषेधयोरनवकाशात्, अत्र पुनस्स्वरूपसद्भावात् ।
अत्रापि तदभावे माध्यमिकविजय (प्रसङ्गात)स्स्यात् ।
ततश्चान्यतरपरिशेषेप्रामाणिकेनात्मना निषेधस्यैव स्थितौ विधेरसम्भवः ।
प्रमाणविरुद्धस्तु तत्सम्भवस्त्वादृशां भ्रमेणैव
स्यात्।
तथा चादित्येऽन्धतमसमपि कश्चिदल्पजीवितः कल्पयतीति न प्रामाणिकतत्त्वस्थितिविरोधः ।
एवं च क्षणभङ्गादिवादानामपि यथेष्टं परिग्रहः कार्यः, अर्थस्थितिमनादृत्याऽऽकस्मिकपरिग्रहमात्रेण वेदान्तार्थस्थापनस्य तत्र चात्र च विशेषाभावात् ।
युक्तीनां च यथाभिमानं त्रिचतुरकक्ष्यास्थायित्वस्य समानत्वात् ।
अन्यथा कथमेकैकशोऽनन्तस्यात्मवर्गस्य तत्तत्सैद्धान्तिकतर्केन्द्रजालव्यामोहवशंवदत्वमिति ॥
इति श्री कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां ब्रह्माश्रयाज्ञाननिरासवादः एकोनविंशस्समाप्तः ॥
नृसिंहराजीया
अज्ञानानुभवश्च न सम्भवतीति भाष्यतात्पर्यं पूर्वत्रवर्णितम् । तत्रोपस्थितमज्ञानमाश्रयानुपपत्त्या दूषयतिअनन्येति। यद्वा पूर्वत्र अज्ञानाधीनो बाह्य प्रकाश इत्युक्तं(सूचयति निरस्ता ज्ञानगन्धायेति)। इदानीम् अज्ञानमेवश्रयाभावान्न सम्भवतीति वादार्थं सङ्गृह्णातिअनन्येति। अन्यस्मिन् श्चेतो येषां ते अन्यश्चेतसः ““कण्ठेकाला’‘दिवत्समासः वादार्थं सूचयतिनिरस्ता ज्ञानगन्धायेति। गन्धो लेशः वक्ष्यमाण परपक्ष निरासस्य भाष्यकृत्सम्मतत्वमाहअहङ्कारेत्यादिना - त्वदुक्तेति। सर्वगोचरत्व हि ब्रह्मणस्सर्वज्ञत्वमिति त्वदुक्तप्रकारः । ननु संविन्मात्ररूपत्वे कथमज्ञानाश्रयत्वासम्भवः अज्ञानंहि ज्ञान विरोधि अतस्संविदनाश्रयत्वं तद्विरोध्यज्ञानाश्रयत्वोपपादकमेवेत्यत्राहतथाहीति। अत्र किमज्ञानशब्देन ज्ञानात्यन्ताभावः यद्वा ज्ञानप्रागभावप्रध्वंसौ उतान्योन्याभावः । यद्वा उत्पाद विनाश शाली ततश्च नाषरोभावः । आहोस्वित् भावरूपमिति विकल्पमभिप्रेत्य आद्ये दोषमाह नतावदिति। ज्ञानात्यन्ताभावलक्षणमित्यर्थः । त्वदभिमते ब्रह्मणि संविदनाश्रय इत्यर्थः ।यावत्स्वरूपभावितयेति। व्यावहारिकतदभावाङ्गीकारेऽपि तस्य न साक्षात् ज्ञाननिवर्त्यत्वमिति भावः । द्वितीयं दूषयतिनापीति। विवक्षिताविति शेषः ।कस्यचिदिति। निवर्त्यवदनित्यस्य अभ्युपगमात् प्रागभावप्रध्वंसायोः प्रतियोगिसदेशतानियमात् प्रतियोग्यनाश्रये ब्रह्मणि न सम्भवत इत्यर्थः । तृतीयं दूषयतिनापीति। (विवक्षिताविति शेषः)वृत्तिज्ञानादिति।यद्यपिवृत्तिज्ञानमप्यध्यस्त ज्ञानमेव तथापि व्यावहारिकं हि वृत्ति ज्ञानमिति विवक्षत (+++) प्राति भासिकस्याध्यस्त पदेन विवक्षितमिति विवेकः । चतुर्थं पक्ष दूषयतिभावरूपेति। पञ्चममनुवदति ।अत इति। यत एवाभावरूपमज्ञानं विवक्षितमतो भावरूपमेवाज्ञानं विवक्षार्हं पर्यवस्यतीत्यर्थः ।यदिति। यत्तद्भावरूपतया ज्ञाननिवर्त्यत्वेन वाभिमतं विवक्षार्हं तद्ज्ञानमेवेत्यर्थः ।यथा सिद्धान्ते ईश्वरयोगिगतेनानुग्रहरूपेण ज्ञानेन तदनुग्राह्यजीवगताज्ञानं त्वदभिमतं निवर्तते तद्वन्ममापि जीवगतेन वान्तःकरणगतेन वा ज्ञानेन ब्रह्मगताज्ञानं मदभिमतं निवर्ततामिति शङ्कतेनन्विति ।नेति। शक्तिविशेषसङ्कल्परूपताप्रकाशाकारतामात्रेणेति समान विषयकज्ञानत्वेनेत्यर्थःतथा सतीति ।ईश्वरस्य नित्यस्य सर्वज्ञत्वादित्यर्थः । व्यधिकरणज्ञानस्य अज्ञान अनिवर्तकत्व अपादितुम्मुपसंहरतिअतइति। एतेन विवादाध्यासितमित्यादिना भाष्योक्तस्तर्कोऽपि समर्थित इत्याहतदेतदिति।प्रसङ्गाभिप्राणेमेति ।अज्ञानत्वंहि ज्ञानत्वेन ज्ञाननिवर्त्यत्वं पराभिमतम् । तच्चासिद्धमिति नानुमानत्वमिति भावः । पराभिमतं भावरूपाज्ञानं ज्ञानमात्रब्रह्म स्वरूपञ्चाभ्युपगम्य तर्कः प्रयुज्यते ।विवादाध्यासितमिति। ब्रह्माश्रयं न वेति विवादविषय इत्यर्थः । यदज्ञानं न तद्ब्रह्माश्रयमिति शुक्तिकाद्यज्ञानादौ व्याप्तेर्दर्शनात् ब्रह्मविषयाज्ञानन्न ब्रह्माश्रयम् । तथात्वे जीवज्ञानव्यधिकरणस्य तस्य ज्ञानत्वेन ज्ञाननिवर्त्यत्वरूपाज्ञानस्यैवासिद्धिप्रसङ्गात् ।न च व्याप्त्यपि अज्ञानस्य ज्ञानमात्राश्रयत्वव्याप्तेः । शुक्तिकाद्यज्ञानमपि ज्ञात्राश्रयमेव एतदभिप्रायेणोक्तम् ।ज्ञानमात्रेति। ज्ञात्राश्रयं हि तदिति । न च ज्ञात्राश्रयत्वनियमोप्यसिद्ध इति वाच्यम् । देवदत्तज्ञानेनयज्ञदत्ताज्ञाननिवृत्तिप्रसङ्गेन ज्ञानसामानाधिकरण्यं निवर्त्यस्याज्ञानस्येति ज्ञात्राश्रयत्वनियमसिद्धिरिति ।ब्रह्मज्ञानेनेति। ब्रह्मायद्यज्ञानाश्रयस्यात् ज्ञातृस्यादिति तर्कोभिप्रेतः ।अहङ्कारेति। अन्तः करणावच्छिन्न एव ज्ञातृत्वाध्यासत् । न चिन्मात्राश्रयमज्ञानमित्यर्थः ननु मास्तु शुद्धं ज्ञानमाश्रयं ज्ञातृत्वाद्याश्रये अहङ्कारोपहित वाज्ञानं मस्त्वित्यत्राहसुषुप्तीति। ततश्च शुद्धस्यैव ज्ञातृत्वमभ्युपेयं ततश्च ज्ञातृत्वं कल्पितं न स्यादिति भावः ।उपसंहरति । तत इति। सर्वत्र जीवे ब्रह्मणि च यथा जीवे त्यजसि तथा ब्रह्म - व्यपि त्यजेत्यर्थः । ननु ब्रह्मणो वस्तुतो ज्ञातृत्वमङ्गीक्रियते तस्यैवेश्वरत्वात् । तथा च ना ज्ञानाश्रयत्वानुपपत्तिरिति ब्रह्मदत्तमतं निराकरोतियश्चेत्यादिना । ““स्वाभाविकी ज्ञानबलक्रिया च’’ (श्वेता - 6 - 8)इति श्रुत्यादिविरोध इति भावः । आधारविरोधाधेयं न सम्भवतीत्याहस्वप्रकाशत्वाच्चेति । तेजसि वेति। यथा ग्रहादौ तमोविरोधिनि तेजसि सति तमो न सम्भवति तथा स्वप्रकाशतया स्वेनैव भासमाने ब्रह्मण्यज्ञानं न स्यादित्यर्थः । ननुस्वरूपज्ञानस्य अधिष्ठानज्ञानतया ज्ञानाध्यासहेतुत्वान्न तस्य तद्विरोधित्वमित्याह ।तच्चेदिति । कस्तस्वेति ।ज्ञानान्तरानङ्गीकारादिति भावः । निवृत्तिरेवनिवर्तकेति शङ्कतेब्रह्मेति।अनुभाव्यत्व इति। घटादेरनुभाव्यत्वं हि वृत्ति विषयत्वं वा वृत्तिप्रतिबिम्बितचैतन्य प्रकाश्यत्वं वा स्यात् ब्रह्मण्यपि तत्सत्वे घटादिवदननुभूतित्वं दुर्वारमित्यर्थः ।प्रस्मरचेति। प्रस्मरणंस्मृतिः । संस्कृत्य वा स्वातिरिक्तानुभवप्रकाश्यत्वमेव अनुभाव्यत्वमिति कल्पयेत्यर्थः ।विशेषाभावादिति। प्रकाश्यवैलक्षण्यस्या परोक्षवैलक्षण्यस्य वा विशेषाभावाद्ब्रह्मस्वरूपज्ञानवद्वृत्तेरप्यज्ञाननिवर्तकत्वं न स्यादिति भावः ।निवर्तकानु पपत्ताविति। स्वेन वक्ष्यमाणायामिति शेषः ।अज्ञानाश्रयतयेति। ज्ञानविरोध्याश्रयतयेत्यर्थः ।न हीति। स्वरूपमात्रस्यैव स्वप्रकाशत्वाङ्गीकाराच्चेति भावः ।ननु तर्हि किमंशे ज्ञानमित्यत्राहअपित्विति। ननु कथं स्वरूपेभासमाने विशिष्टविषयं ज्ञानम् । कथं वा विशिष्टज्ञानेन निवृत्तिरित्यत्राहयथा शबरेति। नित्यमुक्ते वा ज्ञानमयुक्तमित्याहनित्यमुक्तत्वानभ्युपगमाच्चेति। ननु ब्रह्मणो ज्ञानाश्रयत्वेपि न नित्यमुक्तत्वविरोधः। तत्कार्यसंस्काररूप बन्धस्य जीवनिष्ठत्वादित्यत्राहनहीति। ज्ञानं हि स्वाश्रय एव भ्रान्त्यादिहेतुर्दृष्टः । ततश्च तस्यापि तत्प्रतिहेतुत्वात्सोऽपि बन्धशब्दार्थ एवेति ब्रह्मणो ज्ञानाश्रयत्वे तेन तत्कार्य भ्रान्त्यादिना नित्य मुक्तत्वं विरुद्धमित्यर्थः । तत्कार्यबन्धेनाश्रयत्वेपि मुक्तत्वं विरुद्धमित्यर्थः । तत्कार्य बन्धानाश्रयत्वेपि मुक्तत्वायोगान्नित्यमुक्तत्वं विरुद्धमित्याहन बन्धाभावादिति। ननु पाषाणकल्पमुक्तवादि गौतममते यथात्मत्व मुक्तेः स्समानकालत्वेपि न विरोधः तथा नित्यमुक्तौ इत्याशङ्क्याहयद्यपीति। यद्यपि ज्ञानाभावलक्षणमज्ञानं तेन तदानीमिच्छन्ति तथापि संसारबीजभूततया अन्याभ्युपगतं मिथ्याज्ञान लक्षणं नेच्छन्ति त्वन्मते चाज्ञानस्यैव बन्धबीजत्वात् तदाश्रयत्वे सति कथं तत्कार्यभ्रान्त्याद्यभावः । तत्सद्भावे च कथं नित्यमुक्तत्वमित्यर्थः । ननु सिद्धान्ते जीवसार्वज्ञस्य स्वाभाविकत्वमिष्यते तस्य संसाराभावस्य व्यापकत्वं च तथा च तस्य कथं संसारबन्ध इत्यत्राहअस्मन्मते त्विति। सार्वयोग्यता स्वाभाविकीति न तया बन्धविरोधः अपितु सर्वज्ञेन तच्चबन्धनिवृत्यान्तरमेवेति नविरोध इत्यर्थः । न च वयं जीवब्रह्मविभागेनबन्धमोक्षौ व्यवस्थापयामः । किन्तु राजसूनोः स्मृतिप्राप्तौ व्याधभावो निवर्तते यथैआत्मनोज्ञस्यतत्वमस्यादिवाक्यतः इति ब्रह्मण एव स्वाविद्यया संसारः स्वविद्यया मोक्ष इति मतमाशङ्कतेअस्माकमपीति।नित्यमुक्तत्वं च नेष्यत इति भावः ।किं तर्हीति। ब्रह्मणो नित्यमुक्तत्वप्रतिपादकश्रुतिविरोध इत्यर्थः । ननु न वयं बन्धमोक्षयोः कालभेदेन व्यवस्थां ब्रूमः । किं तु तयोस्सत्यत्व मिथ्यात्वाभ्याम् इति शङ्कते ।अविद्यया इति। एवं तर्हि स्वाभ्युपगतं बन्धमोक्षयोः पौर्वापर्यं भज्येतेत्याहकथं तर्हीति। स्वरूपतः पौर्वापर्याभावेपि ज्ञानोपाधितः पौर्वापर्यंस्यादिति शङ्कते ।प्रतिभासेति। प्रतिभासयोरपि किं मिथ्यात्वम् उत सत्यत्वमिति विकल्पे प्रथम पक्षं दूषयति ।प्रतिभासयोरपीति। परत्वं हि तन्निवृत्तिकालीनोत्पत्तिप्रागभावकत्वं संसार प्रतिभास्यस्य निवृत्तिः ब्रह्मस्वरूपमेव मोक्षकाले तदतिरिक्तनिवृत्यङ्गीकारे अपसिद्धान्तादतः उभयनिवृत्तिसमानकालीनत्वम् उभयोरिति कथं पौर्वापर्यव्यवस्थेति भावः । ननु तदुत्तरत्वं तदधिकरणकालवृत्तिप्रागभावप्रतियोगित्वम् । पूर्वत्वं च तत्प्रागभावानधिकरणकालावृत्तित्वम् । तथा च नित्य निवृत्तत्वेपि इदं पौर्वापर्यं न सम्भवत्येवेति चेत् तत्राहएवं चेति। मोक्षप्रतिभासस्य मोक्षकालीनस्य स्वरूपातिरिक्तस्यासम्भवात् स्वरूपस्य चानादेः प्रागभावप्रतियोगित्वात् तत्राप्यौपधिकमेव पौर्वापर्यमिति वक्तुं शक्यमनवस्थादिति भावः । द्वितीय्ये आहनच सत्तेति। यद्यपि निरूपाधिकपौर्वापर्यं युज्यते प्रतिभासयोस्सत्ययोः तन्निवृत्तेरपि सत्यायाः वाच्यत्वात् । न तु त्वया तथा वक्तुं शक्य इत्यर्थः । ननु यदि सम्बन्धस्य मिथ्यात्वात् तदभावरूपनिवृत्तेर्नित्यत्वेप्यखण्डापरोक्षसाध्य सबन्धनिवृत्तिमादाय बन्धमोक्षयोः पौर्वापर्यं युज्यते इत्याशङ्क्याहनिवृत्तीति। यादृशः कल्पितोप्यर्थरूपो ज्ञानेनोच्छत्तव्यो बन्धः तदभावस्यैव श्रुत्यर्थत्वेन कल्पितेनापि संसारेणास्पृष्टचैतन्याभावे नित्यमुक्तश्रुतेर्निर्विषयत्वापातः तात्विक सबन्धाभावस्य जीवब्रह्मसाधारणत्वात् अपरोक्षज्ञानसाध्याबन्धनिवृत्तिः सत्यासत्या वा । सत्यत्वे अद्वैत हानिः । मिथ्यात्वे तदध्यासात् मुक्त्यनुपपत्तिरित्यादिहेतव इत्यर्थः । किं च ब्रह्मणस्सर्वज्ञत्वात् स्वात्मानं जानतः कथं स्वात्मगोचराज्ञानाश्रयत्वमित्याहसर्वज्ञत्वाच्चेति।किं ब्रह्मणो यत्किञ्चिद्गोचरं ज्ञानम् उत सर्वगोचरम् उभयथा विरोधान्नसम्भवतीत्याहनहि सर्वमिति।अकिञ्चित्करत्वादिति । अन्यथा नकिञ्चिदपि सिध्यतीति भावः । विपरीतप्रमाणमेव दर्शयति । श्रूयतइति ।वेदाहमिति ।भूतभविष्यद्वर्तमानातिरिक्ताभावात् तद् ज्ञानेसार्वज्ञमिति भावः ।स्मरन्तिचेति। प्रत्यक्षसङ्कल्पादि भेदेन सर्वज्ञादिव्यपदेशः ॥ किं नित्यत्वमभावविशेषणम् उत प्रतियोगिविशेषणमित्यभिप्रायेण पृच्छति ।अस्यकोऽर्थ इति । ““स्वभाविकी ज्ञान बलक्रिया चेति’’ (श्वेता - 6 - 8)श्रुति विवक्षिता कादाचित्कत्वं हि विनाद्योत्पत्तिमत्वाद्वा नाद्य इत्याहनहि स्वाभाविकेति ।द्वितीय्ये आहनापिचोत्पत्तिरिति। ननु जीवस्यापि सार्वज्ञमात्मस्वरूपप्रयुक्तत्वात् स्वाभाविकम् । तथा अपहतपाप्मत्वादिगुणाष्टकं च"“सम्पद्याविर्भावःस्वेनशब्दात्’’ (ब्र.सू.4 - 4 - 2)इत्यादौ उच्यते । तथापि ते कादाचित्कत्वं तत्रेष्टं तद्वन्ममापि स्यादित्यत्राहविस्तरत्विति। युक्तं जीवस्य कर्मणाति रोहितत्वात् सार्वज्ञादिकं कादाचित्कं तद्योग्यतामादाय स्वाभाविकत्वोक्तिः । तव तु न तथा । ब्रह्मणो निर्दुष्टतया कर्माभावात् ““सर्वज्ञस्सदा भवानि’‘त्यादिवचनाच्च न प्रतिबन्दिरिति भावः । अत्र सार्वज्ञश्रुतेस्सर्व विषयज्ञानरूपत्वाङ्गीकारेपि सर्वस्यापि ब्रह्मप्रतिभासमानत्वात् न तस्य त(द)दज्ञानाश्रयत्वं सम्भवतीत्यभिप्रायेण उपसंहरतिअत इति॥एतेनेति। ब्रह्मणः संसारबीजभूताज्ञानानुपपत्त्या"“निष्क्रियं निष्कलं शान्तं’’ निरवद्य निरञ्जनं’’ (श्वेता 6 - 21)इत्यादि दोषनिषेधक श्रुतीनां बाध इत्यर्थः । ननु ब्रह्मनाज्ञानाश्रयः अतो निरवद्यत्वश्रुति विरोधो नास्तीति शङ्कते ।नन्विति।प्रयुक्तइतिप्रेरित इत्यर्थः।स्वमनीषिकेति। अज्ञानाश्रयत्वं नास्तीति स्वेच्छया वदसीत्यर्थः ।वृषलानाम्मुद्वाह मन्त्रः। तन्यायस्तत्ता दृश्यम् । ““कुरु - माकार्षीः’’ ““भुङ्क्ष्व’’, ““माभोक्षिष्ठाःगच्छ’’ ““मागच्छ’’ इत्यादिव्याहतार्थ प्रतिपादकं भाषा वाक्यं वृषलोद्वाहमन्त्रः । तथाच किं ब्रह्मव्यतिरिक्तस्यैव अज्ञानाश्रयत्वात् ब्रह्म नाज्ञानाश्रय इत्युच्यते उत अज्ञानाश्रयभूत ब्रह्मैव नाज्ञानाश्रय इत्यस्मदुक्तयुक्त्या इत्यादि फक्किकार्थः ।निरूपाधिकयोरिति ।उपाध्यवच्छिन्नवृत्तेरित्यर्थः ।उपाधीति। बिम्बप्रतिबिम्बोच्छेदे भावोपाधिभेदेनापिनाज्ञानतदभावयोर्व्यवस्था सम्भवति । अव्यवहितयोरुपाध्यो र्व्यवस्थापकत्वायोगात्तयोर्व्यवस्थानुपपत्तेः ।तस्याप्युपाध्यन्तराङ्गीकारे अनवस्थप्रसङ्गादिति भावः । तर्हि संयोगतदभावादीनां घटतदभावादीनां च व्यवस्थास्यादित्यत्राहनहीति। देशकालादिभेदात्संयोगादिस्थले व्यवस्था सम्भवतीति भावः । तथादर्शनेऽपीति । भेदाभावेपि कालभेदेन व्यवस्थाङ्गीकारेऽपीत्यर्थः ।प्रागुक्तयुक्तयःनित्यमुक्तत्वविरोधादयः ।प्रातिभासिकविधिरिति। अज्ञानसम्बन्धोमिथ्येत्यर्थः ।पारिमार्थिकेति। अज्ञानाभावः । पारमार्थिक इत्यर्थः ।त्वदुक्तरीत्येति। प्रतिपन्नोपाधौ निषेधप्रतियोगित्वलक्षणयोगेनेत्यर्थः । नन्विद्या स्वरूप तदाश्रयत्व तद्विषयत्वादेदुर्निरूपत्वात् अविद्यायाः मिथ्यात्वात् तत्समानसत्ताक तदभावस्याविद्याश्रये ब्रह्मण्यसम्भवात्तन्निषेधः पारमार्थिक एवेति शङ्कामनूद्यप्रतिवक्तिनचेति । दुर्निरूपतयेति। अज्ञानस्येवाभावस्याश्रय प्रतियोग्यादिसापेक्षत्वात्तस्यच दुर्निरूपत्वादित्यर्थः ।सुसिद्धत्वादिति।समानसत्ताकयोर्विरोधस्य त्वयाप्यङ्गीकारादिति भावः ।स्वरूपसद्भावादिति ।ब्रह्मस्वरूपसद्भावादित्यर्थः ।माध्यमिकेति। निरधिष्ठानभ्रमसिद्धेरिति भावः । एवं च विपरिवर्तप्रसङ्गेन सत्यत्वमिथ्यात्वाभ्याम् अविरोधो न सम्भवतीति स्थितम् । इदानीं"“परस्परविरोधेही’‘त्यादि न्यायमुपजीव्य युक्त्यन्तरमाहततश्चेति।““परस्पर विरोध’‘इत्यादिन्यायेनान्यतर परिशेषेऽवश्यके सति निरवद्यत्वादिश्रुतिबलादज्ञाना भावाङ्गीकारे तद्विरुद्ध मज्ञनं ब्रह्मणि न सम्भवतीत्यर्थः । ननु तात्विकनिषेधं प्रतिपादयता प्रमाणेनाविरुद्धं व्यावहारिकमज्ञानसत्वं स्यादित्यत्राहप्रमाणविरुद्धस्त्विति। नहि तादृग्भ्रममात्रादर्थकत्वं स्यादिति भावः । एवं भ्रमस्थले अर्थस्याभावादतेती धतमसकल्पनेऽपि तत्सिध्यभावादित्याहतथा चेति।कल्पयती इति। आसन्नमरणानामादित्यमण्डलमध्ये षण्मासातत्प्राकृतमोदनं भवतीति शास्त्रं सिद्धमिति भावः ।भ्रममात्रादर्थसिद्धौ दोषान्तरमाहएवं चेति। बाह्यानां तथा भ्रमादिति भावः । नित्यत्वश्रुतिबलान्नतत्परिग्रहः।अध्यस्तमिति। यथात्मनो ज्ञानाश्रयत्वश्रुतेर्भ्रान्तिसिद्धार्थपरत्वेन प्रामाण्यं वदसि तथा क्षणभङ्गवादेपि स्थिरत्वश्रुते भ्रमसिद्धस्थैर्यविषयत्वेन प्रमाण्यसम्भवादित्यर्थः । नन्वात्मस्थायित्वसाधकयुक्तीनाम् । त्रिचतुरकक्ष्यासहत्वादङ्गीक्रियते क्षणभङ्गसाधक युक्तीनां तदभावात् तन्नाङ्गीक्रियत इत्यत्राहयुक्तीनां चेति। स्थायित्वं - सहिष्णुत्वं त्रिचतुरकक्ष्यास्थायित्वाभावे बाधकमाहअन्यथेति॥ एकस्यैवानेकेषाम्मप्यात्मनां क्षणभङ्गभ्रमः । तद्युक्तीनां त्रिचतुरकक्ष्या स्थायित्वमावेदयतीति भावः ॥ ॥वत्सकुलजलधिकौस्तुभनृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणी टीकायाम् एकोनविंशस्समाप्तः ॥