॥अथ बाह्यप्रकाशानुपपत्तिवादः अष्टादशः॥18॥
अज्ञानसन्तमसमाश्रयणोन्मुखानां संवित्प्रदीपमहसा सहसा निरुन्धन् ।
विद्यास्वयंवरपतिर्व्यपहन्त्वविद्यां सर्वानुभूस्स भगवान्पुरुषोत्तमो नः ॥
यत्तद्भावरूपाज्ञानदूषणसमये “नित्यमुक्तस्वप्रकाशचैतन्यैकस्वरूपस्य ब्रह्मणोऽज्ञानानुभवश्च न सम्भवतीत्या’‘दिभाष्यम्, तत्र बाह्यप्रकाश एव सर्वः परपक्षे न सम्भवतीत्यभिप्रेतम् ।
तद्धाकुर्मः ।
यदुच्यते - “नित्यमुक्तं ब्रह्मैव स्वगतानाद्यविद्यामनुभवती’‘ति,कथमिदमुपपद्यते? बन्ध (न) स्यानाद्यविद्यातत्कार्यानुभवात्मकत्वान्मोक्षस्य च तन्निवृत्तिरूपत्वात् ।
- “नित्यमुक्तस्य बन्धश्चेन्नित्यमुक्तिर्न सम्भवेत् ।
बन्धस्यापि च नित्यत्वाद्बन्धाभावे त्वमुक्तता’’ ।
ननु भवन्मतेऽप्य ज्ञानमस्त्येव, तच्च सर्वज्ञेनानुभूयते, स च नित्यमुक्त इति को विशेष इति चेन्न; पराज्ञानादिदर्शनस्य बन्धरूपत्वानभ्युपगमात् ।
ब्रह्माज्ञानमेव परगतं ब्रह्मणाऽनुभूयत इति चेन्न; तथाऽपि परगतत्वादेव तस्य बन्धरूपत्वप्रसङ्गाभावात् ।
तर्ह्यस्माकमप्यहङ्कारापरपर्यायान्तः करणगतमज्ञानं भवतु, तच्च संविदधीनसिद्धित्वात्तदात्मकब्रह्मणाऽनुभूयत इति को दोष इति चेन्न; सुषुप्तिमरणमूर्च्छाद्यहङ्कारविलय दशायामज्ञानानुभवभङ्गप्रसङ्गात् ।
न हि तदानीं निराश्रयाज्ञानस्थितिसम्भवः, निरधिष्ठानभ्रमानुज्ञान प्रसङ्गात्; ब्रह्माश्रयत्वे तु स्वगताज्ञानानुभवावश्यम्भावः ।
भवत्वज्ञानानुभवः, स तु मिथ्याभूतानुभव इति न नित्यमुक्तत्वविरोध इति चेन्न; मिथ्याभूतस्यैव तस्य बन्धतयोपपादनात् ।
अन्यथा तन्निवृत्त्यर्थं शास्त्रारम्भानुपपत्तिप्रसङ्गात् ।
ततश्च तथाविधनिवृत्तिरूपे मोक्षे नित्ये कथं तत्प्रतियोगिनस्तस्य सम्भवः? ततश्च नित्यं ब्रह्मण्यविद्याविमुखे स्वयमेव विलीयमाना सा कथमहङ्कारादीन्यपत्यानि प्रसूताम्? कथं वा तेषु ब्रह्मणो दृष्टिपात इति न बाह्यानुभवसम्भवः ।
स एष प्रथमो हेतुर्ब्रह्माश्रयाज्ञानानुपपत्तिकथनेन व्याख्यातप्रायः; तृतीयश्च साक्षित्वशोधने प्रदर्शित एवेति कृत्वा मध्यमं हेतु विवब्रे - “स्वानुभवस्वरूपत्वादित्यादिना’’ ॥
अनुभूतिस्वरूपमपि ब्रह्म स्वानुभवैकतानमिति ह्यभ्युपगम्यते ।
तस्य स्वरूपातिरिक्ताविद्यानुभवः किं स्वतः? उतान्यतः? नाद्यः; स्वानुभवैकतानत्वव्याघातात्; अनिर्मोक्षप्रसङ्गाच्च ।
मोक्षे वा स्वाभाविकरूपव्याघातप्रसङ्गात् ।
किञ्च यत्र शुक्तिरजतादौ विषयमिथ्यात्वम्, तत्र विषयिणोऽपि मिथ्यात्वावश्यम्भावात् निवर्तकज्ञानेन सविषयवृत्तिस्वरूपबाध इति हि त्वन्मतम् ।
ततश्च यदि मिथ्याभूताविद्यानुभव (स्वभावता) स्स्वभावतो ब्रह्मणस्तदा तस्यापि मिथ्यात्वेन बाधकज्ञानेन निवृत्तिरेव स्यात् ।
नापि द्वितीयः, अविद्याब्रह्मातिरिक्तस्यान्यस्यानभ्युपगमात् ।
अभ्युपगमे वा तत्सत्यत्यमिथ्यात्वविकल्पेन सद्वितीयत्वानवस्थयोरन्यतरप्रसङ्गात् ।
माभूदविद्या ब्रह्मस्वरूपातिरिक्तमन्यत्, अविद्यैव तु ब्रह्मस्वरूपं तिरोधत्ते, तन्निबन्धनोऽयमविद्यानुभव इति चेन्न; प्रकाशमात्रस्य ब्रह्मणस्तिरोधाने तत्स्वरूपनाशप्रसङ्गादेरन्यत्र प्रपञ्चनात् ।
किञ्च तिरोहिते ब्रह्मणि तस्याविद्यानुभवः, अनुभूतायां चाविद्यायां लब्धस्वरूपया तया तिरोधानमित्यन्योन्याश्रयणम् ।
अनुभवनिरपेक्षं तिरोधानमिति चेत्; तथा सति तदज्ञानं काचादिवत्स्वसत्तया ब्रह्म तिरस्करोतीति संविदधीनसत्ताकत्वाभावेन स्वतस्सिद्धतया संविद्रूपज्ञानबाध्यत्वं न स्यात् ।
तेन च तदुपात्तः प्रपञ्चोऽपि तथाविध एवेति सत्यस्स्यात् ।
आहुश्च - “काचादिवत्तिरस्कारे दोषो वाचामगोचरः ।
ज्ञानबाध्यत्वहानिस्स्यात्स्यात्प्रपञ्चस्य सत्यता’’ ।
इति ।
अस्तुतर्ह्यविद्यानुभवाधीनं तिरोधानम्, अनुभवस्तु निरपेक्ष इति नान्योन्याश्रयणमिति चेन्न; अनिर्मोक्षप्रसङ्गादेरुक्तत्वात् ।
किञ्च अतिरोहितस्वरूपस्यैव लाघवेनाभ्युपगन्तुमुचितत्वात् ।
ननु भवतामपि ब्रह्मस्वरूपं स्वानुभवैकतानम्, तदेव च सर्वज्ञमित्यभ्युपगतमिति को विशेष इति चेन्न; अस्माकम्ब्रह्मस्वरूपस्य स्वानुभवैकतानत्वेऽपि गुणभूतेन ज्ञानेन सविषयत्वस्वभावेन स्वतेरसमस्तविषयीकरणात्।
एतेन मुक्तोऽपि व्याख्यातः।
बद्धस्य तु सर्वविषयीकरणस्वभावमपि ज्ञानमौपाधिकान् सङ्कोचविकासान्भजतीति न विरोधः ।
उपाधयश्च प्रवाहानादिरूपेणोपस्थिताः कर्मादय इति नानवस्थादयो दोषाः ।
अतो यदि बाह्यानुभवमिच्छसि तदा स्वरूपमात्र प्रकाशस्वभावादात्म स्वरूपादतिरिक्तं तद्धर्मभूतं ज्ञानमभ्युपगच्छकत्यजवा बाह्यानुभवव्यसनमिति ।
त्यजामस्तर्हि बाह्यानुभवम्, न ह्यत्र वस्तु बाह्यं किञ्चिदनुभूयत इति चेन्न; विकल्पासहत्वात् ।
किमत्र बाह्यतया प्रतीयमानानामनुभूति स्वरूपत्वमभिमतम्? उत स्वरूपातिरिक्तानामवस्तुत्वम्? अथ वस्तूनामवस्तूनां वा बाह्यानामनुल्लेखः? उत बाह्यानुभवस्यैवा वस्तुत्वमिति ।
नाद्यः, आत्मख्यातिवादस्य त्वयैव दूषणात्, तदभ्युपगमस्य चान्यत्र दत्तोत्तरत्वात् ।
न द्वितीयः, प्रपञ्चापह्नवनिर्मूलनात् ।
अवस्तुत्वेऽपि तदुल्लेखस्य दुरपह्नवतया
बाह्यप्रकाशावश्यम्भावात् ।
न तृतीयः, सर्वलौकिकपरीक्षकहृदयविसंवादात्, सर्वसंरम्भविलयप्रसङ्गाच्च ।
न चतुर्थः, माध्यमिक वादावतारात् ।
अस्तु बाह्यानुभवस्यैवावस्तुत्वमिति चेन्न; तस्यैव विशोधितस्य त्वया ब्रह्मत्वाभ्युपगमात् तदतिरिक्तस्य तु त्वदभिमतस्य कुतश्चिदप्यसिद्धेः ।
सिद्धावपि तस्यैव बाह्यानुभवाभावे तद्व्यतिरिक्तानामपि बाह्यानुभवभेदानामसम्भवे पुनरनुल्लेखपक्षपरिशेषात् ।
अतो बाह्योल्लेखस्ते हातुमुपादातुं वा न शक्य (त इति) मिति दुरन्तमिति ।
इति श्री कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां बाह्यप्रकाशानुपपत्तिवादः अष्टादशस्समाप्तः ॥
नृसिंहराजीया
सत्यत्वपक्षे दृग्दृश्यसम्बन्धस्सम्भवतीत्युक्तुम् इदानीं मिथ्यावादिमत एव दृग्दृश्यसम्बन्धो न सम्भवतीति सङ्गत्या वादार्थ सङ्गृह्णातिअज्ञानजसन्तमसमिति।““अहमज्ञानजं तमः’’, ““नाशयाम्यात्मभावस्थोज्ञान दीपेन भास्वते’’(श्री.भग.गी.10 - 11)त्येतन्मनसिकृत्वाहसंवित्प्रदीपमिति। विद्याया स्वयंवरेणपतिरित्यनेन स्वरसतः सकल विद्यावेद्यत्वं भगवतएवेत्युक्तम् ।सर्वमनुभवतीति। सर्वानुभवःयस्सर्वज्ञस्सर्ववित् (मुण्ड 1 - 1 - 3) इत्यादिश्रुतेः । एवं च ब्रह्मणो बाह्यार्थप्रकाशकत्वमेव वक्तव्यं तत्परमते न सम्भवतीति वादार्थस्सूचितः। तत्र हेतुमाहस भगवानितिज्ञानादिमत्वं तस्यार्थः । ब्रह्मणोऽज्ञानानुभव इति। ““राहोश्शिर’’ इतिवदभिप्रेतमिति अविशेषादिति भावः । अनुभवति - विषयीकरोति ।वृत्तिरूपत्वादिति। ततश्च ब्रह्मणः विनाशप्रसङ्ग इति भावः । नित्यमुक्तेत्यादि भाष्यानूदितविशेषविरोधं क्रमेण वक्ष्यन् प्रथमविशेषणविरोधमाहनित्यमुक्तेति। किं ब्रह्मणो ज्ञानानुभवरूपसबन्धोस्ति न वा । आद्योपि कादाचित्को वा नित्यो वा आद्ये आहबन्धश्चेदिति। तथा च मुक्तेर्नित्यत्वं न स्यादित्यर्थः । द्वितीये आहबन्धास्यापि चेति। तथा सति विशेषमेव न स्यादिति भावः । आद्ये द्वितीये आहबन्धाभाव इति। तथाचात्यन्ताभाव एव बन्धनिवृत्तिरूपमुक्तिरिति भावः । नन्विति"“अहमज्ञानजं तमः’’ (श्री भग.गी.10 - 11)इत्यादि प्रतिपाद्यमस्त्येव । अज्ञानानुभवस्तु स्वयं वा भवतु अन्यो क बन्धस्स इति तात्पर्यम् ।परेति। स्वगताज्ञानु भवोहि बन्धः । न चास्मिन् मते ब्रह्मण्यज्ञानमिति भावः । सत्यम् अद्यानुभवो बन्धः । स च ब्रह्मस्वरूपमेव तथाप्यज्ञानस्य परगतत्वात् तदाश्रयस्यैवायमज्ञानानुभवो बन्धः न ब्रह्मण इति शङ्कतेब्रह्माज्ञानमेवेति। ब्रह्मविषयकमज्ञानं ब्रह्माज्ञानमित्यर्थः । ब्रह्मणोऽन्यस्य जडत्वात् जडे आवरणकृत्यभावात्तद्गतत्वेन ज्ञानस्य बन्धक्रत्वं नोपपद्यतइति परिहरतितथापीति। नन्वस्त्वन्तः करणगतमज्ञानम् । नचान्तःकरणस्यापि जडत्वात् बन्धाभावप्रसङ्गः ।अहमित्येकन्तः करणो भिन्नेन ब्रह्मणो स्वगतत्वेनाज्ञानानु भवात् ततः तदन्तःकरणावच्छिन्ने बन्धः । तदनवच्छिन्नेतु नित्यमुक्तेति शङ्कते ।तर्ह्य स्माकमिति। तत्र हेतुःनहीति। अज्ञानस्याभावादिति भावः । ननु निराश्रयमज्ञानमस्तीत्यत्राहनिरधिष्ठानेति। अध्यासाधिष्ठानतया ब्रह्मसिद्धिर्न स्यादिति भावः । ननु निरधिष्ठानभ्रम प्रसङ्गः । ब्रह्मण एवाधिष्ठानत्व सम्भवात् इत्यत्राहब्रह्माश्रयत्वेति। तथा च स्वगताज्ञानानुभवात् ब्रह्मण एव बन्धो दुर्वार इति भावः अज्ञानानुभवमात्रं न बन्धः अपितु तात्विकस्या ज्ञानस्यानुभवः । अज्ञानं चातात्विकमिति नित्यमुक्तत्वमिति शङ्कतेभवत्विति।मिथ्याभूत इति।मिथ्याविषयक इत्यर्थः ।मिथ्याभूतस्यैवेति ।सत्यस्याज्ञानस्याभावाज्जीवस्यापि बन्धो न स्यादिति भावः ।अन्यथेति। मिथ्याभूतस्य बन्धस्याभावे बन्धस्याभावात् बन्धनिवृत्यर्थं शास्त्रं व्यर्थं स्यादिति भावः । ब्रह्मणो नित्यमुक्त्वे चाज्ञानप्रकाशो वान्यप्रकाशश्चायुक्तम्मित्याहततश्च तथाविधेति। मिथ्याभूताज्ञानानुभवात्मक बन्धनिवृत्तिः किंरूपेत्यर्थः। यद्यप्यविद्यानुभवो ब्रह्मरूपत्वान्नित्यः तथाप्यविद्यानिवृत्त्या विशिष्टरूपेण निवृत्तिरिति भावः । अविद्यामुखे अविद्याया अध्यासाभावे साधकमित्यविद्यामूलत्वादहङ्काराद्यध्यासस्य तस्याभावादिति भावः । दृष्टिपातः - अनुभवः ।स एष इति। ““नित्यमुक्त स्वप्रकाशचैतन्यैकस्वरूपस्ये’‘ति भाष्ये नित्यमुक्तपदेनविवक्षित इति भावः ।तृतीयश्चेति। चैतन्यैकस्वरूपपदेन विवक्षितः ।मध्यम इति। स्वप्रकाशपदविवक्षितःविवब्रे भाष्यकृदितिशेषः । ““स्वानुभवस्वरूपत्वा’‘दिति भाष्यं विवृणोति। अनुभूतिरूपमपीति । स्वानुभवेति। स्वानुभवैकतानत्वं हि स्वमात्रानुभवस्वरूपत्वम् । तदतिरिक्तप्रकाशे व्याघात इत्यर्थः ।अनिर्मोक्षेतिअध्यस्तानामध्यासे सति निवृत्त्यभावादविद्याध्यासरूपब्रह्मणि सति अध्यस्ताविद्यानिवृत्तिः न सम्भवतीत्यर्थः ।मोक्षेवेति। अध्यासे वर्तमानेऽध्यस्त निवृत्तौ मोक्षेऽध्यासरूपास्वाभाविकाकारसत्वप्रसङ्गेन स्वाभाविके चैतन्यमात्रत्वव्याघात इत्यर्थः ।वृत्तिस्वरूपबाधः - वृत्तिस्वरूपनिवृत्तिःत्वन्मतमिति। ज्ञानार्थ(धीन)स्वरूपस्य ज्ञानवत्वे निवृत्त्ययोगादितिभावः ।निवृत्तिरेव स्यादिति। निवृत्तौमिथ्यत्वसत्वमेव प्रयोजकम् । न निवृत्तित्वमिति भावः ।अनवस्थयोरिति।अविद्यानुभवोपाधेरपि मिथ्यात्वेन अनुभवाधीनसत्ताकत्वे सत्यनुभवान्तरनभ्युपगमेन ब्रह्मण एव तदनुभवत्वात्तदनुभवेप्युपाध्यन्तराङ्गीकारे तत्राप्येवं प्रसङ्गादनवस्थेत्यर्थः ।तिरोधत्त इति। ततश्चस्वयम्प्रकाशेप्यध्यास उपपद्यत इति ।अन्यत्रेति। तिरोधानं नहि प्रकाशनिवृत्तिरिति तिरोधानानुपपत्तौ प्रपञ्च्यत इत्यर्थः । अनुभव नैरपेक्ष्यमेवाविद्याया ब्रह्म तिरोधानमिति नान्योन्याश्रय इत्याशङ्कतेअनुभव इति।ज्ञानबाध्यत्वं न स्यादिति। सत्यत्वंस्यादित्यर्थः । तथाविधःज्ञानाबाध्यः ।वाचामगोचर इति ।दोषाः बहवइत्यर्थः । स्थालीपुलाकनीत्या प्रधानदोषोदाहरणं दर्शयतिज्ञानेति। अनुभव इति। अविद्यानुभवइत्यर्थः ।अनिर्मोक्ष इति। अविद्यानुभवस्य नैरपेक्ष्यं किमनादित्वात्आदिमत्वेपि निर्हेतुकत्वात् सहेतुकत्वेपि तिरोधाननैरपेक्ष्याद्वा । आद्येपि ब्रह्मस्वरूपमेवानुभवः उत तदन्यः ।पूर्वत्र नित्यत्वात् तन्निवृत्तिरूपमोक्षासिद्धिः । उत्तरत्रादि सत्यो असत्योवा । सत्यत्वे अद्वैत हानिः अनिर्मोक्षश्च । मिथ्यात्वे तदध्यासो न स्यात् दोषान्न्तराच्च । तस्य सत्यतादिप्रसङ्गेन अनिर्मोक्षः । नापि प्रथम द्वितीयः निर्हेतुकत्वानभ्युपगमात् । अभ्युपगमे मोक्षेपि प्रसङ्गेनानिर्मोक्षः । नापि तृतीयः ॥ अविद्यातिरिक्तदोषसत्यतादिप्रसङ्गेनानिर्मोक्ष इत्युक्तप्रायत्वादित्यर्थः ।किं चाविद्यानुभवस्यतिरोधाननिरपेक्षत्वेतीतितिरोधानमेव न कल्प्यं व्यर्थत्वादित्याहकिं चेतिसिद्धान्तेऽपि ब्रह्मणः सर्वज्ञत्वम् ।सर्वानुभवरूपत्वमेवेति मत्वा शङ्कते ।ननु भवतामिति । स्वस्वेतर वस्त्विति। स्वयं च स्वेतरवच्चेति द्वन्दः ॥मुक्तोऽपीति। ब्रह्मज्ञानवन्मुक्तज्ञानमपि सर्वविषयकमित्यर्थः । ननु सम्बन्धज्ञानस्यापि स्वभावतःसर्वंविषयत्वे संसार एव नस्यादित्यत आहबन्धेति॥ सर्वविषयीकरणयोग्यतायास्सत्वेपि न सर्वविषयत्वं तद्ज्ञानस्येत्यर्थः । कर्मान्देरित्यादि शब्देन अविद्यादयोगृह्यन्ते ।नानवस्थादय इति। अविद्यया कर्म ततो वासना - ततो रुचिःततः प्रकृतिसम्बन्धः । ततश्चाविद्येति आत्माश्रयान्योन्याश्रय चक्रकाश्रयाः । यद्यविद्या प्रकृति सम्बन्धान्तरमूलं तदानवस्थादिदोषा न भवन्ति प्रवाहानादित्वाङ्गीकारादिति भावः ।त्यजवेति ।धर्मभूतज्ञानं विना स्वरूपेणानुभवायोगादिति भावः । बाह्यवस्त्वनुभव भावरूपविशिष्टाभावो बाह्यत्ववस्तुत्व तद्विषयत्वरूपविशेषणाभावेनुभवरूप विशेष्याभावेन च भवतीति क्रमेण तान्विकल्पयतिकिमत्रेति।त्वयैवदूषणादिति। तथाचापसिद्धान्त इति भावः । आत्मख्यातिवादोऽभ्युपगम्यत इत्यत्राहअभ्युपगमस्येति।तस्य सूत्रकृद्विशिष्टत्वादित्यर्थः ।प्रपञ्चापह्नवेति। प्रपञ्चमिथ्यात्वस्य दूषितत्वादित्यर्थः ।अवस्तुत्वेऽपीति। सत्यत्वाभावेपि मिथ्यात्वमेव त्वयाभ्युपगतं न तुच्छत्वम् । तथाच तत्प्रकाश आवश्यक इति भावः ।विसंवादादिति। सर्वस्याप्यनुभवस्य सविषयतयैवानुभवादित्यर्थः ।सर्वसंरम्भेति। स्वपरसिद्धान्ताद्यस्फुरणातत्स्थापनदूषणादिप्रवृत्तिर्न स्यात् । किं बहुना प्रवृत्तिमात्रमपि न स्यात् । तस्यास्तद्विषय स्फुरणसाध्यत्वादित्यर्थः । अवस्तुत्वेपीति - सत्यत्वाभावेपि ।माध्यमिकेति। प्रकाशस्वरूपसत्यत्वं त्वन्मतस्य तन्मताद्विशेषः । तदवस्तुत्वे सोऽपि नस्यादित्यर्थः । ननु प्रकाशमात्रन्नावस्तु । अपि तु बाह्यप्रकाश एव तथा च ब्रह्मस्वरूपप्रकाशस्य सत्यत्वाद्विशेष इति शङ्कते ।अस्त्विति ।तस्यैवेति। परागर्थः ।प्रमेयेष्विति। सूत्रस्थवचनादिति भावः । विषयो परागभेदनिवृत्तिः शोधितत्वम् ।तदतिरिक्तस्यत्विति। बाह्यप्रकाशातिरिक्तप्रकाशो ज्ञात्रात्मक एव प्रमाणसिद्धः । न तु तद्विशिष्टज्ञानमात्र रूप इत्यर्थः ॥सिद्धावपीति ।अ (+++)रिकोपि सत्यः कश्चित्प्रकाशः। तथापि तस्य पूर्वोक्त स्वतस्त्वौपाधिकत्वविकल्पासहत्वाद्बाह्यानु भवायोगः । तदभावे च प्रतिभादीनसत्ताकानां बाह्यानुभव भेदानामभावादनुल्लेखपक्षः परिशिष्यते । स च दूषित इत्यर्थः ।दुरुक्तमिति। व्यसनमिति शेषः ॥ इति वत्सकुलजलधिकौस्तुभेन नृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणी टीकायाम् अष्टादशो वादस्समाप्तः ॥