17 दृश्यसम्बन्धानुपपत्तिपरिहारवादः

॥ अथ दृश्यसम्बन्धानुपपत्तिपरिहारवादः सप्तदशः ॥17॥
बिभ्राणमात्मनि सदा महतीं विभूतिं देहेन तन्मयनिदर्शितभूषणास्त्रम् ।

आलिङ्गितं कमलया मम चित्तवृत्तेरालम्बनं भवतु दैवतमद्वितीयम् ॥
यत्तु - आत्मख्यातिवादिभिरार्जितं ग्राह्यलक्षणायोगाख्यं तर्कं भिक्षित्वा दृग्दृश्ययोस्सम्बन्धानुप पत्तिरिति नामान्तरेण पठन्ति; तदपि सम्बन्धस्याबाधितप्रत्यक्षसिद्धत्वादेव निरस्तम् ।
आहुश्च - “उक्तं तु सौगतैर्ग्राह्यलक्षणाभावलक्षणम् ।
अन्ये दृग्दृश्यसम्बन्धाभावमाहुर्निरासि तत्’’ ।
इति ।

ननु कोऽसौ सम्बन्धः? न तावत्संयोगःदृशेरद्रव्यत्वात् ।
द्रव्यत्वाभ्युपगमेऽपि गुणादिभिस्सह तत्सम्बन्धस्य संयोगत्वायोगात् ।
नापि समवायः, आत्मधर्मस्य ज्ञानस्यार्थे तदयोगात् ।
न चार्थानामेव ज्ञाने समवायः, तेषां बाह्यत्वात्; अतद्धर्मतयैव प्रतीयमानत्वाच्च ।
न च रूपरसयोरिवैकार्थसमवायः, उभयाश्रस्यैकस्यानुपलम्भादिनिरस्तत्वात् ।
नाप्येकान्तः करणसङ्क्रमः, निर्विकारायाश्चित्तेस्सङ्क्रमाख्य परिणामायोगात् ।
विवर्तपक्षे तु दृग्दृश्यसम्बन्धस्य मिथ्यात्वावश्यम्भावात् ।
न त्व(चा)र्थस्याप्यन्तःकरणे सङ्क्रमः, बहिरेवोपलभ्यमानत्वात् ।
अन्तःकरणस्य विषयस(स्व) रूपवृत्तियोगो विषयसङ्क्रान्तिरितिव्यपदिश्यत इति चेन्न; विषयविधर्मिण्या वृत्तेर्विषयसारूप्यस्यानुपलम्भनिरस्तत्वात् ।
गौरिति ज्ञानं गौरित्यर्थ इत्यर्थसारूप्यं प्रत्यक्षसिद्धमिति चेन्न; तयोः पृथगर्थत्वात् ।
गोत्वविशिष्टमर्थं प्रकाशयज्ज्ञानं गौरिति ज्ञानमिति व्यपदिश्यते ।
गोत्वविशिष्टार्थस्तु गौरित्यर्थ इति ।
अन्यथा गौरिति शब्द इत्यत्रापि शब्दस्यार्थसारूप्यप्रसङ्गात् ।
तथा चेदमर्थसारूप्यवादिनो वेतालस्य वैरूप्यायैव जायते ।
विषयोपरागापरनामकसम्भिन्नवृत्तिमदन्तःकरणभेदाग्रहजनितातात्त्विकधर्मयोगाभिमान एवोपलब्धिनामा चितेर्विषयसम्बन्ध इति चेन्न; प्रत्येकं सार्वत्रिकाणां चैतन्यस्वरूपाणामनन्तान्तः करणसन्निधानाभ्युपगमेन पुरुषबहुत्वस्थापकभोगप्रतिनियमादिभङ्गप्रसङ्गात् ।
नच प्रत्यात्म समवेतमदृष्टादिकं नियामकं किमपि तैरिष्यते, अन्तःकरण (गत)स्य तु साधारण्यं दुष्परिहरम्, अनादिसामग्रीस्वभावादेव कश्चिद्भोगप्रवाहः कञ्चित्प्रति भवतीति चेन्न; पूर्वपूर्वसामग्र्या अपि सर्वसम्बन्धित्वेन साधारण्ये तदधीनोत्तरनियमासिद्धेः।

नच तादात्म्यं दृशेर्दृश्यसम्बन्धः, जडत्वाजडत्वादिविरुद्धधर्मप्रतिहतत्वात् ।
एकस्याश्च संविदोऽनेकविषयत्वदर्शनेन परस्परविरुद्धानेकतादात्म्ये तेषामपि मिथस्तादात्म्यप्रसङ्गात् ।
ततश्च विरोध एव जगति न स्यात् ।
इदं सर्वमिति सर्वावलम्बिबुद्धितादात्म्येनान्ततस्सर्वैक्यप्रसङ्गेन विचित्रव्यवहारविलयप्रसङ्गात् ।
तथा च पुनरेकस्याप्यर्थस्य
नर्तकीभ्रूलतादर्शनादिष्विवैकविषयसंविदैक्यप्रसङ्गेनास्मदिष्टापाताच्च ।

न च चित्राद्वैतम्, स्ववचनविरोधात्, नानात्वं चित्रत्वं तत्प्रतिषेधस्त्वद्वैतमिति ।
चित्ररूपं तु नानारब्ध (मितिस्थ) मेकमिति न विरोध इति निर्वहन्ति ।
एवं चित्ररसादिष्वपि ।
नानारूपसमुदाय एव वा ।
नचात्रारम्भस्समुदायो वा, अनभ्युपगमात् ।
नच चित्रत्वं मिथ्या, अस्मन्मतप्रसङ्गात् ।
निराकारमपि ज्ञानं वासनावैचित्र्यादेकाकारमनेकाकारमिव भातीति चेत्; तथाऽपि मिथ्याभूतस्याकारस्य सत्यज्ञानेन तादात्म्यमनुपपन्नमिति ज्ञानाकारस्य बाह्यत्वमेष्टव्यम् ।
तथाऽपि ज्ञान एवायमाकाराध्यास इत्यान्तरत्वमिति चेन्न; एतावदात्मख्यातेरस्माभिरपीष्यमाणत्वात् ।
नच स्वजन्यज्ञाने स्वाकारसमर्पकत्वमेव ग्राह्यत्वम् ।
अन्याकारस्यान्यत्र समर्पयितुमशक्यत्वात् ।
मृगमदवासनासङ्क्रमेऽपि हि द्रव्यसङ्क्रम एव ।
अनेनैव न्यायेन “यस्मिन्नेव हि सन्तान’’ इत्यादिकमपि निरस्तम् ।
कार्पासरक्ततादिषु पाकजगुणान्तरारम्भः ।
कथञ्च विनश्यताऽर्थेनानुत्पन्ने ज्ञाने स्वाकारसमर्पणम्? न चाकारः स्थिरस्त्वयेष्यते, येनाकारिण्यतीतेऽपि परस्मिन्वर्तेत ।
तत्स्वरूपमिथ्याकारयोग एव तत्सङ्क्रम इत्युच्यत इति चेन्न; मिथ्याकारेण सह सत्यस्य सम्बन्धायोगात् ।
एवमालम्बनस्य स्वाकारसमर्पकत्वायोगात्तद्धेतुत्व मात्रेण ग्राह्यत्वेऽधिपतिप्रभृतीनामपि ग्राह्यत्वप्रसङ्गः ।

नच ज्ञानस्वरूपमेवार्थस्य तत्सम्बन्धः ।
सम्बन्धसम्बन्धित्वलक्षणविरुद्धधर्माध्यासप्रसङ्गात्, विषयविशेषनियामकाभावाच्च ।

न हि तत्कञ्चित्प्रत्यज्ञानमस्वरूपं वा ।
न हि नीलं कञ्चित्प्रत्यनीलम् ।
नच हेतुत्वमात्रमेव नियामकम्; इन्द्रियादेरपि विषयत्वप्रसङ्गात्; अतीतादेरविषयत्वप्रसङ्गाच्च ।
अदृष्टादिवशात्कर्मकारकं विषय इति चेन्न; नित्यतया कारकशून्यस्येश्वरज्ञानस्य निर्विषयत्वप्रसङ्गात्, अस्मदादिज्ञानस्याप्यतीतानागतेरसत्त्वादकारकैरसम्बन्धप्रसङ्गात्, भ्रान्तिविषयस्यासत्त्वादकारकत्वेनभ्रान्तेर्नित्यनिर्विषयत्वप्रसङ्गाच्च ।
मुक्तस्य च विधूतपुण्यपापस्याज्ञानमिच्छतोऽदृष्टादेर्नियामकस्यासम्भवात् ।
नचार्थगतप्राकट्यजननमेवार्थसम्बन्ध इति युक्तम्;
ज्ञानातिरिक्तस्यार्थप्रकाशस्यानुपलम्भादिबाधात्, तज्जनने च ज्ञानस्यार्थसम्बन्धान्तरमन्तरेणासामर्थ्यात्, अन्यथाऽन्यत्रापि तदारम्भप्रसङ्गात्, अतीतादिषु निराधारप्राकट्यजननायोगाच्च ।

नच विषयविषयिभावाख्योऽयमपरस्सम्बन्धः, तस्यापि नियामकान्तराभावे सार्वत्रिकत्वप्रसङ्गाच्च ।
तस्यापि द्रव्यादिषट्कान्तर्भावे सामान्यादिभिस्सह तत्संवेदनस्यासम्बन्धप्रसङ्गात् ।
बहिर्भावे त्वभावत्वादिप्रसङ्गात् ।
भूषणकारव्यतिरिक्तानामपसिद्धान्तापाताच्च ।

एव प्रकारन्तरेष्वपि दूषणमविनाभूतम् ।
सर्वथाऽप्यतीतानागतयोर्वर्तमानज्ञानसम्बन्धस्य दुर्निर्वहत्वात् ।
नहि निराधारस्सम्बन्धस्सम्भवति ।
अन्यथा भविष्यद्वृष्ट्यादिभिरिदानीमपि सस्यादिपोषणप्रसङ्गात् ।
यश्चासौ विषयविषयिभावात्मा दृग्दृश्ययोस्सम्बन्ध इष्यते, किं ताभ्यामसम्बद्ध? उत सम्बद्धः? उतोभयात्मा? आहोस्विदनुभयात्मा? अन्यो(न्यात्माकारो)वा? पूर्वत्र तयोस्सम्बन्धो न स्यात् ।
तदसम्बन्धस्यापि तत्सम्बन्धत्वे सर्वस्यापि सम्बन्धस्य सर्वसम्बन्धत्वप्रसङ्गात् ।
उत्तरत्रापि सम्बन्धान्तरेण, न वा? आद्येऽनवस्था ।
द्वितीये त्वसम्बद्धत्वम् ।
न हि सम्बन्धरहितमपि सम्बद्धमिति समस्ति ।
स्वतो मिलितोऽयं सम्बन्ध इति चेन्न; सम्बन्धिनोरेव स्वतो मेलनस्य लघुत्वात् ।
नामान्तरेण च मेलनमेव नास्तीत्युक्तिः स्यात् ।
सम्बन्धिन एव स्वसम्बन्धात्मकत्वे व्याघातस्य पूर्वोक्तत्वाच्च ।
उभयानुभयादि पक्षास्तु व्याघातादिनिरस्ता एव ।
अनुभयपक्षे चास्मदिष्टानिर्वचनी (यतावादः) यापातः स्यात् ।
किञ्च विषयविषयिभावाख्यसम्बन्धो द्विष्ठः, एकनिष्ठो वा? नाद्यः, अन्योन्यस्मिन्नन्योन्यत्वाभावेन द्वयोरपि तस्यासिद्धेः ।
सिद्धौ वा द्वयोरपि विषयत्वविषयित्वयोः प्रसङ्गात् ।
अत एव न द्वितीयः, सम्बन्ध रूपताव्याघाताच्च ।
येनात्मनाऽसौ सम्बन्धः क्वचिद्वर्तते किं तेनैववात्मनाऽन्यत्रापि? उत ततोऽन्येन? आद्ये द्वयोरपि विषयत्वादिप्रसङ्गः ।
द्वितीयेकथमेकस्य व््यात्मकता?द्वयो (तयो)रप्यात्मनोर्द्विष्ठत्वा भावात् ।
सम्बन्धरूपतात्यागे तदात्मनोऽपि सम्बन्धस्य तत्त्वं न स्यात् ।
एवमन्यान्यपि सम्बन्धसामान्यविकल्प दूषणान्यत्रानुसन्धेयानि ।

ननु किं सम्बन्धान्तरगवेषणेन? स्वत एव किञ्चिज्ज्ञानं कस्यचिदेवेति नियतस्वभावमुप लम्भसिद्धमिति चेन्न; नियामकमन्तरेण नियमेऽतिप्रसङ्गात् ।
कस्यचिदिति सम्बन्धविभक्तेर्मित्थ्या विषयत्वप्रसङ्गाच्च ।
तन्निरूप्यस्वभावतया स्वसामग्र्या जन्यत इति चेन्न; ईश्वरज्ञानस्य तदभावेन निर्विषयत्वप्रसङ्गात् ।
सामग्र्या हि स्वरूपमुत्पादयितुं शक्यम्, न तु (त्व) सम्बन्धिनिरूप्यत्वापादनम्, सर्वाकारैस्सर्वनिरूपणापादनप्रसङ्गात् ।
सम्बन्धरहितयोरपि भावाभावयोरिव विषयविषयिणोर्निरूप्य निरूपकभाव इति चेन्न; सम्बधरहितयोर्भावाभावयोरपि तात्त्विकस्य निरूपणस्यास्माभिरभ्युपगमात् ।

तथाऽपि दोषादिसामग्रीवैचित्र्यादेवासम्बन्धविषयनिरूप्यत्वं शुक्तिरजतादिज्ञानोत्पत्तौ दृष्टमिति सर्वत्रापि तथाऽभ्युपगम्यत इति चेत्; आगतोऽसि पन्थानम् ।
विषयमिथ्यात्वादेव हि तत्र विषयसम्बन्धाभावः, तथाऽत्रापि स्वीकर्तव्यमिति ।
अत एकस्यैव संविदात्मनोऽनाद्यविद्यादोषवैभवादविचारितरमणीयसम्बन्धे तदाकारावभासोऽभ्युपगन्तव्य इति ।

अत्रोच्यते - किं दृग्दृश्ययोस्सम्बन्धानुपपत्त्या तदुपपादनार्थं दृश्यमित्थ्यात्वकल्पनमित्यर्थापत्ति विवक्षा? यद्वा विकल्पासहत्वेन सम्बन्धाभावं सिद्धं कृत्वा तेनैव सम्बन्धिनोऽप्यभावसाधनम्? उत दृश्यसत्यत्वे तस्य संवेदनसम्बन्धाभाव प्रसङ्ग इति प्रपञ्चमिथ्यात्वसाधकानुमाने श्रुत्याद्यनुग्राहकतर्क विवक्षा? इति ।

नाद्यः, अन्यथैवोपपत्तेः, परिदृश्यमानार्थस्यानुपपत्तौ प्रसज्यमानायामुपपादककल्पनं ह्यर्थापत्तिः ।
न च दृग्दृश्यसम्बन्धस्योपपादकं दृश्यमिथ्यात्वम्, अपि तु तत्प्रतिक्षेपकमेव ।
अत उपपादककल्पनाप देशेनानुपपत्तिकल्पनमेवेत्यायातम् ।
मिथ्याभूतसम्बन्धस्योपपादकमेवेति चेन्न; तथाविधस्य तस्यादर्शनेन तदुपपादकान्वेषणायोगात् ।

नापि द्वितीयः, सम्बन्धाभावेऽपि मेरुमन्दरयोश्शशविषाणयोश्शाखाचन्द्रयोरिव च सम्बन्धित्वाभिमतयोस्सत्त्वाविघातात् ।

अन्यथा दृश्यवद्दृशोऽपि, तस्या एव वा मिथ्यात्वं किं न कल्प्यते? दृगधीनसिद्धेर्दृश्यस्य दृगभाव इव तत्सम्बन्धाभावे च मिथ्यात्वं सिध्यति, दृशेस्तु स्वसंवेदनसिद्धतया दृश्य सम्बन्धाभावेनासत्यत्वमिति चेन्न; यथा दृशो दृशिकर्मत्वाभावेऽपि स्वसंवेदनेन सिद्धिस्तद्वद्विश्वस्यापीति वदतः कः प्रतीकारः? स्वात्मनि क्रियाविरोध इति चेत्, तुल्यम् ।
संवेदनेऽपि स्वव्यवहारे स्वगोचरसंविन्नैरपेक्ष्यमात्रविवक्षायां न बाध इति चेत्, घटादावपि तथाऽस्तु ।
संविद्विषयत्वं घटादेः प्रतीयत इति चेत्; किमतः? स्वव्यवहारेऽन्यसापेक्षत्वमिति चेन्न; संवित्सम्बन्धस्य त्वयैव प्रतिक्षिप्तत्वेन तदधीनव्यवहारत्वायोगात् ।
ततश्च परिशेषात् घटादेरन्य निरपेक्षव्यवहारत्वसिद्धेस्तावन्मात्ररूपं स्वसंवेदनं फलितमेव ।
घटादिस्वरूपवत्तस्य स्वसंवेदनमपि
नोपलभ्यत इति चेत्; संविदो वा किं स्वतस्स्वयम्प्रकाशत्वमुपलभ्यते? अनुभूतित्वाद्यनुमानादिभिस्साध्यत इति चेन्न; घटत्वाद्यनुमानैरपि विश्वस्वप्रकाशत्वसाधनप्रसङ्गस्याप्यवेद्यत्वनिराकरणे स्थापनात् ।
किञ्च अनुमानविषयत्वाङ्गीकारे कथं विषयविषयिभावसम्बन्धं विघटयसि? तद्विघटने वा कथं स्वप्रकाशत्वमेव साधयसि? अतो दृग्दृश्ययोस्सम्बन्धानुपपत्त्या दृश्यमिथ्यात्वेदृशोऽपि मिथ्यात्वप्रसङ्गो दुर्वारः ।
स्वतस्सिद्धतया तत्सत्यत्वे विश्वस्यापि तत एव सत्यत्वमवर्जनीयम्, अविशेषात् ।

ननु भवतोऽपि संविदस्स्वयम्प्रकाशत्वं घटादेर्दृगधीनसिद्धित्वं चाभिमतम्; अतः कथं प्रतिबन्द्यवतारः? इत्थम् अस्माभिस्संवित्स्वयम्प्रकाशकत्वस्य संविदन्तरवेद्यताभ्युपगमात् ।
यदि त्वयाऽपि तथेष्यते, ततस्तत्रैव विषयविषयिभावस्सिद्धः ।
यदि तत्रापि विषयमिथ्यात्वम्, ततस्स्वयम्प्रकाशत्वमेव न स्यात् ।
धर्मरूपत्वात्तदाऽपि माभूदिति चेन्न; तत्परित्यागे स्वसंवेदनेन संवित्सत्यत्वस्थापनानुपपत्तेः ।
धर्मतामपहाय संवित्स्वरूपतया तदेव तिष्ठतीति चेत्; तर्हि स्वरूपमेव स्वप्रकाशत्वसाधकसंविदन्तरविषय इत्यायातम् ।
तथा सति विषयभूतायास्संविदोऽपि त्वदुक्तानुपपत्त्यैव घटादिवन्मिथ्यात्वमवर्जनीयम् ।
तन्मिथ्यात्वेऽपि तद्विषया संविदन्या स्वसंवेदनगुप्ता तिष्ठतीति चेन्न; तत्संवेदनेऽप्युक्तदोषानतिलङ्घनात् ।
अतस्संविदन्तरकर्मतागन्धरहितसंवित्स्वयम्प्रकाशत्वे विश्वस्यापि तथात्वेन सत्यत्वप्रसङ्गो दुर्वारः ।
संविदोऽपि यथाकथञ्चिद्दृश्यत्वाभ्युपगमेऽपि तन्मिथ्यात्वप्रमङ्गेन दृश्यमिथ्यात्वकल्पनमशक्यमि (क्यं स्यादि)ति ।

किञ्च यदि परिदृश्यमानस्सम्बन्धोऽनुपपन्नस्तदा सम्बन्धान्तरमेव दृष्टवाधेन कल्प्यताम् ।
न पुनस्सम्प्रतिपन्नस्वारसिकबाधरहितदृश्यबाधो युक्तः ।
सम्बन्धान्तरमपि कल्प्यमानमनुपपन्नमिव भातीति चेत्, किं दृश्यमिथ्यात्वं कल्प्यमानुपपन्नमिव भाति? यत्ते स्ववचनव्याघातादिकमापादयति ।
अनुपपन्नमपि गत्यभावादवलम्ब्यत इति चेत्, सम्बन्धसत्यत्वमप्यनुपपन्नमपि किं नावलम्ब्यते? अनुपपन्नत्वमेवसत्यत्वाभाव इति चेत्; मिथ्यात्वेऽनुपपन्ने तदभावस्यावर्जनीयत्वात् ।
यथा सम्यग्रजतस्य मिथ्यारूपत्वानुपपत्तौ सत्यत्वम् ।
अतस्सम्बन्धोऽपि तथाभूतः कश्चिदिति नित्यमुपलम्भानुरोधेन तत्सत्यत्वस्थापने दृश्यस्याप्युपलब्धसत्यत्वाबाधोपपत्तेः, मिथ्यात्वस्य च स्वयमेवानुपपन्नत्वाभ्युपगमा दस्माकमनायासेनेष्टसिद्धिप्रसङ्गात् ।
अनुपपन्नत्वाभिमतपरपक्षाणामपि प्रतिषेधायोगाच्च ।
यथारुचि परिग्रह इति तु स्यात् ।
तथा च कृतं वैदिकत्वकञ्चुकवहनवृथाप्रयासेन ।

न च तृतीयः, असत्यत्वपक्षेऽपि सम्बन्धानुपपत्तिप्रसङ्गेन प्रतितर्कपराहतत्वात् ।
असत्यत्वेऽपि शुक्तिरजतादिष्वारोपितसम्बन्धेन व्यवहारः प्रतीयत इति चेत्; सत्यत्वेऽप्यनुभूतेस्तद्विषय ज्ञानान्तरस्यारोपितसम्बन्धे व्यवहार
इति तुल्यम् ।
अतस्सम्बन्धमात्रस्य विकल्पासहत्वाभिमतस्या रोपितत्वमिष्यताम् ।
किं ततो दृश्यमिथ्यात्वकल्पनप्रयासेन? किञ्च प्रसङ्गस्य विपर्यये पर्यवसानमप्यङ्गम् ।
अत्र च दृश्यस्य सत्यत्वे सम्बन्धानुपपत्ति प्रसङ्ग इत्यस्य विपर्यय उपपद्यते चायं सम्बन्ध इत्येवं रूपस्स्यात् ।
तथा च सम्बन्धोपपत्त्या दृश्यमिथ्यात्वकल्पनमिति स्यात् ।
ततश्च सम्बन्धिपरित्यागेन सम्बन्धस्वीकारप्रसङ्गः ।
न ह्यस्ति सम्भवस्सम्बन्धिनमन्तरेण सम्बन्धस्येति ।
अनुपपन्न (विशेषेण)वेषेणोपपन्नं विपर्यय इति तत्स्वीकार इति चेन्न; प्रसङ्गतद्विपर्यययोरविशेषप्रसङ्गात् ।
तथा च प्रसङ्गविपर्ययासिद्धिः ।
अन्यथेष्टप्रसङ्ग इति स्यात् ।
उपलभ्यते चायं सम्बन्ध इत्येव विपर्यये न दोष इतिचेत्; तर्हि दृश्यसत्यत्वे सम्बन्धोपलम्भभङ्गप्रसङ्ग इति (प्रति) तर्कः स्यात् ।
अहो! सम्बन्धिसत्यत्वे सम्बन्धोपलम्भ भङ्ग इति कुत्रेयं व्याप्तिर्गृह्यते? तथाऽप्यारोपितस्सम्बन्धो दृश्यसत्यत्वे न स्यादिति प्रसङ्ग इति चेत्? तर्ह्यनारोपितोऽयं सम्बन्ध इत्यास्थीयताम् ।
अनारोपितस्तु विकल्पासहत्वान्न सिध्यतीति चेत्; तथाऽप्येकस्यारोपितत्वे तदनुबन्धिनोऽन्यस्याप्यारोपितत्वमिति वृथानिर्बन्धः ।
तथा हि सति सम्बन्धिनो ब्रह्मणोऽपि विलयप्रसङ्गात् ।
अनारोपितयोरेवारोपितसम्बन्धस्य परकीयस्वकीयत्वभ्रमादौ दृष्टत्वाच्च ।
एतेन दृश्यसत्यत्वे सम्बन्ध
उपपद्यतेति विवक्षाऽपि निरस्ता, इष्टप्रसङ्गात् ।
विषय विषयिभावस्य भ्रान्त्यविशेषेण सर्ववादिसम्मतत्वात् ।
अत एव विपर्ययापर्यवसानं च ॥
यत्त्वतीतानागतादिभिस्सह सम्बन्धो न सम्भवतीति ।
तत्र पृच्छामः, वर्तमानैर्वा कथं सम्भवतीति ।
स्वरूपस्य विद्यमानत्वादिति चेन्न; विद्यमानयोरेव शशविषाणयोरसम्बन्धदर्शनात् ।
तथाऽपि क्वचिद्दर्शनादभ्युपगम्यत इति चेत्; अत्रापि तथाऽभ्युपगम्यताम् ।
संयोगादिलक्षणस्सम्बन्धोऽतीतादिभिर्न दृष्ट इति चेत्, अयं तु दृष्टत्वादङ्गीक्रियताम् ।
दृष्टत्वेऽपि निराधारत्वेन प्रतिक्षिप्यत इति चेन्न; वर्तमानयोरिवातीतादेरपि स्वकालवृत्तित्वेनाधारत्वोपपत्तेः ।
यथा चाभिन्नदेशयोरिव भिन्नदेशयोरपि मूर्तयोस्संयोग इष्यते, तथा भिन्नकालयोरपि प्रतिनियतसामग्रीसामर्थ्याद्वा नित्यज्ञाने नित्यं तत्प्रवणस्वभावत्वाद्वा
विषयविषयिभाव इति किं नोपपद्यते? व्यवधानाव्यवधानाभ्यां विशेष इति चेन्न; तद्विशेषमात्रस्याकिञ्चित्करत्वात्, अन्यथाऽतिप्रसङ्गात्; तथाऽप्यव्यवहितत्वलक्षणसम्बन्धस्तत्र न सम्भवतीति चेन्न; तद्विशेषमात्रस्याकिञ्चित्करत्वात्, अन्यथाऽतिप्रसङ्गात्,तथाऽप्यव्यवहितत्वलक्षणसम्बन्धस्तत्र न सम्भवतीति चेन्न, सम्बन्धमात्रस्याव्यवहितत्वलक्षणाभावात् ।
गोमानित्यादौ तद्दर्शनाभावात् ।
तल्लक्षणस्यात्रानिष्यमाणत्वात् ।

ननु ज्ञानमपि हि द्रव्यमेव, सम्बन्धश्च संयोगलक्षणः इति भाष्यं वः (ष्यवचः) कथमिति चेन्न; सम्भवद्विषयस्य तस्य संयुक्ताश्रितत्वादेरप्युपलक्षणपरत्वात् ।
सर्वत्र सङ्ग्रहः कथमिति चेत् तत्तत्स्वभावविशेषादेव ।
तेषामनुवृत्तादिव्यपदेशः कथमिति चेत्, न; आधाराधेयभावादिवदुपपत्तेः ।
तथाऽपि विविक्तव्यवहारेऽभिव्याप्तमाकारान्तरमन्तरेण कथमिति चेन्न; व्यवहारानुगुण्यापादन रूपत्वस्य प्रतीतिसिद्धत्वात् ।
अन्यथा भवतामप्यवेद्यत्वे सत्यपरोक्षव्यवहारानुगुण्यादिकथनम (सं) बद्धप्रलाप एव स्यात् ।
एतेन भविष्यद्वृष्ट्यादिना सस्यादिपोषणप्रसङ्गोऽपि प्रत्युक्तः, सम्बन्धस्वभावविशेषाणां प्रतिनियतसामर्थ्यात् ।
सामग्रीवैचित्र्यादेव च वर्तमानतत्प्रतिनियतविषयत्वोपपत्तेः ।

तथाऽपि कोऽसौ सम्बन्ध इति सौहार्देन पृच्छाम इति चेत्; वयमपि परमसौहार्देन प्रतिब्रूमः ।
कोऽसाविति किं सञ्ज्ञाविशेषः पृच्छ्यते? उत स्वरूपविशेषः? यद्वा लक्षणम्? उत प्रकारान्तरम्? अथवा संयोगादिषु कुत्रान्तर्भाव इति? उतान्यः कश्चित्? आद्ये तमन्तरेणापि सामान्यत एव व्यवहारनिष्पत्तेः किन्तद्विचारक्लेशेन? विषयविषयिभाव इत्येव वा विशेषनाम निर्दिश्यताम् ।
सङ्केत्यतां वा यथारुचि नामान्तरम् ।
द्वितीयेऽपि स एव सः न त्वसः, अन्यथा व्याघातादिप्रसङ्गात् ।
तृतीयेऽपि लक्षण मन्तरेणापीक्षुक्षीरादिरसवैषम्यवत्स्फुट प्रतीतिसिद्धं दुरपह्नवतरम् ।
अतिपीडायां तु व्यवहा (रविशेषा) रानुगुण्यापादनम् ।
अत एव चतुर्थेऽपि दत्तमुत्तरम् ।
पञ्चमे तु न कुत्रचिदिति वा क्वचिदन्तर्भावदर्शने तत्रैवेति वा वक्तव्यम् ।
बहिर्भावेऽपि नाभावत्वप्रसङ्गः, स्वेच्छापरिसङ्ख्यातद्वित्रादिबहिर्भावेऽन्येषामभावत्व प्रसङ्गात् ।
अन्यस्तु व्यवहाराङ्गतया प्रतीयमानत्वे स्वयमेवावगम्यताम्; अनङ्गत्वे तु किं तन्निरूपणेनेति ।

यत्तु - सम्बन्धपरिग्रहे सम्बन्धान्तरानवस्था, अन्यथा तत्सम्बन्धत्वपरित्याग इति ।
तदपि किं सम्बन्धमात्रापह्नवार्थमुच्यते? ज्ञानार्थनिरूपितसम्बन्धविशेषापह्नवार्थं वा? आद्ये स्वव्याघातः, दूष्यदूषणवाच्यवाचकादिसम्बन्ध प्रतिक्षेपे त्वदुक्तदूषणस्यैवाकिञ्चित्करत्वप्रसङ्गात् ।
तदभ्युपगमे चस्माकं प्रतिक्षेपासिद्धेः ।
स्वपरप्रतिक्षेपसामर्थ्यस्याप्यन्यत्र प्रतिक्षेपात् ।
द्वितीये त्वनङ्गाङ्गीकारः, सम्बन्धस्य सतोऽपि विशिष्टव्यवहारे सम्बन्धान्तरमपेक्षितमित्यनङ्गस्यैव स्वीकृतत्वात् ।
यु(उ) क्ताङ्गत्यागो वा, अङ्गस्यापि स्वपरपरित्राणस्य परित्यागात् ।
अन्यसम्बन्धस्य चाङ्गत्वे दूष्यदूषणसम्बन्धादावपि प्रसङ्गात् ।

सम्बन्धान्तराभावे सम्बन्धत्वहानिरित्यपि तत एव दत्तोतरम् ।
अन्यथा स्वपरनिर्वाहकमात्रभङ्गे स्वयम्प्रकाशस्यापि निरासप्रसङ्गात् ।
स्वव्यवहारस्य नैरपेक्ष्यमन्यत्रादृष्टं तत्र हि स्वीक्रियते, तद्वदत्रापि स्वप्रतिसम्बन्धिव्यवहारे सम्बन्धान्तनैरपेक्ष्यमिति समाधिस्सम एव ।

यत्तु सम्बन्धस्य स्वतो मेलने सम्बन्धिनोरेव स्वतो मेलनप्रसङ्ग इति, तदपि दृश्यमाने सम्बन्धे नावतरति; कल्प्यमाने तु वयमपि तथाऽभ्युपगच्छाम इति क्वानिष्टप्रसङ्गः? इदमप्यसूत्रयत् - “समवायाभ्युपगमाच्च साम्यादनवस्थिते(ब्र.सू.2 - 2 - 12)रिति ।
नच तत्र मेलनमेव नास्तीति प्रसङ्गो दोषः, तदभावेऽपि विशिष्टव्यवहारजननस्वभावतयैव तत्तत्स्वरूपसिद्धेः ।
न च स्वयमेव सम्बन्धात्मकंस्वसम्बन्ध्यात्मकं चेति स्वरूपभेदमङ्गीकुर्मः, येन व्याघातादिप्रसङ्गस्स्यात् ।
अतो यत्र वस्तुनोर्विशिष्टव्यवहारजननस्वभावत्वं दृष्टं तत्र तत्तत्स्वरूपमेव विशिष्टव्यवहारजनकत्वमात्रेण सम्बन्ध इति व्यपदिश्यते; यत्र तु सम्बन्ध एव स्फुटस्तत्र तदभ्युपगमेन तदुपरि सम्बन्धान्तरनैरपेक्ष्यमङ्गीक्रियत इति सर्वत्र विशिष्टव्यवहारे निरुह्यमाणे
स्ववचनविरोधादि नरकपातमनुमत्य किं विश्वमिथ्यात्ववृथाग्रहेण?
यत्तु विषयविषयिभावो द्विष्ठ एकनिष्ठो वेति, तत्र विषयत्वं विषयित्वं चैकैकनिष्ठमितरेतर प्रतियोगिकमिति निष्कर्षः ।
ताभ्यामेव च विषयविषयिणोर्विशिष्टव्यवहारसिद्धेः ।
तदुभयसमाहाराद्विषय विषयिभावाख्य सम्बन्ध इत्युच्यते ।
अत एव येनात्मनाऽसौ क्वचिद्वर्तत इत्यादिकमपि दत्तोतरम्; यानि चान्यानि सम्बन्धसामान्यदूषणानि तान्यपि दूष्यदूषणादिसम्बन्धसत्त्वा सत्त्वयोस्स्वव्याघातकानीति न ततोऽपि दृग्दृश्यसम्बन्धभङ्गः ।
तदेतत्सर्वं योगाचारोक्तग्राह्यलक्षणा योगनिरासे फलिष्यतीति मत्वाऽत्रोदास्ते ।
इहाप्यसूचयत् - * “अनुभूतिसद्विषययोश्च विषयविषयिभावेन भेदस्य प्रत्यक्ष सिद्धत्वादित्यादिना सदनुभूतिभेदस्य प्रत्यक्षसिद्धत्वात् इत्यादिना सदनुभूति भेदभाष्येण ॥
इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्यकृतिषु शतदूषण्यां द्दक्द्दश्य सम्बन्धानुपपत्ति
परिहारवादः सप्तदश स्समाप्तः ।
॥17॥

नृसिंहराजीया

ननु दृश्यत्वेन प्रपञ्चमिथ्यात्वे साध्यमाने अस्य (अ) प्रयोजकत्वं दूषणमुक्तम् । तदयुक्तम् । दृश्यस्य मिथ्यात्वाभावे दृकसम्बन्धानुपपत्त्या दृश्यत्वमेव न स्यादिति तर्कस्य सत्वादित्याक्षेपसङ्गत्या दृग्दृश्य सम्बन्धं निरूपयन् वादार्थं सङ्गृह्णाति ।बिभ्राणमिति। महतीं विभूतिमात्मनि दिव्यात्मस्वरूपे सदा बिभ्राणं तन्मयेति प्रकृत्यादिविभूतिमयत्वेन निदर्शितम् अस्त्रभूषणाध्याये प्रतिपादितं भूषणानि चास्त्राणि च"“जातिरप्राणिना’‘मित्येकवद्भावः ।देहे - दिव्यमङ्गलविग्रहे सदा बिभ्राणमित्यनुषङ्गः । कमलया सदालिङ्गितं सदेत्युक्त्या प्रपञ्चसत्यन्वमभिप्रेतम् । चित्तवृत्तैरालम्बनमित्यनेन सत्ययोः दृग्दृश्ययोः सम्बन्न्धो वादार्थस्सूचितः । आत्मख्यातिवादिनो योगाचारमतस्थाः । त एवमाहुः बाहयार्थस्य सत्ये सम्बन्धाद्ययोगात् ग्राह्यत्वं न सम्भवति । तस्माद्बाह्यार्थो नास्तीति पठन्तीति मायिन इति शेषः । उक्तन्त्विति। सम्बन्धानुपपत्त्या ग्राह्यत्वं नास्तीति सौगता आहुः । मायिनस्तु मिथ्यात्वमाहुः । शब्दभेदमात्रं नार्थभेद इति भावः । प्रत्यक्षस्याबाधितत्वमसिद्धमिति शङ्कते ।नन्विति । गुणादिभिरिति।न च तत्र संयुक्तसमवायादिस्सम्बन्धः । अननुगमत्वादारोपग्रहणदशायां स्पर्शनस्यापि ग्रहणप्रसङ्गाच्च ।नापि समवाय इति। तत्सम्भवे प्रमाणाभावादिति भावः । किं च ज्ञानार्थयोरन्यतरस्मिन् समवायः उत एकस्मिनधिकरणे । आद्येपि किं ज्ञानस्य अर्थे समवायः आहोस्विदर्थस्य ज्ञानेन नाद्य इत्याहआत्मधर्मस्येतिद्वितीये आहनचार्थानामेवेति । तेषां बाह्यत्वादिति। घटादीनां ज्ञानव्यवहितदेशवृत्तित्वेनज्ञानवृत्तित्वासम्भवादित्यर्थः । प्रथमद्वितीयकोटिं दूषयति ।न चेति। सङ्क्रमः किं परिणामः किं वा विवर्तः ।आद्ये आह ।निर्विकाराया इति। द्वितीय्ये आहविवर्तेति। विवतोह्यध्यासः। अध्यस्तायाः दृशो मिथ्यात्वे तत्सम्बन्धस्यापि मिथ्यात्वमिति भावः । ननु सङ्क्रमो न सम्बन्धः येन बाहयार्थानां न स्यात् । किन्तु अन्तः करणवृत्तिरूपपरिणामविशेष इत्याशङ्कते ।अन्तः करणस्येति । विषये वैधर्मिण इति। विषयवैधम्यम् उत्तरप्रत्यक्षसिद्धमित्यर्थः ।गौरिति ज्ञानमिति। वृत्तिरत्र ज्ञानं विवक्षितम् ।तयोरिति। शब्दसारूप्यमेव नार्थसारूप्यम् ।प्रत्यक्षविषय इत्यर्थः । सारूप्याभावमुपपादयति ।गोत्वेति।गौरिति शब्द इति। गकारौकारात्मकशब्दइत्यर्थः । ननु विषयोपलब्धिरेव ज्ञानस्य विषयेण सम्बन्धः । नः चक्षुरादिद्वारा विषयदेशस्यापि तदाकार प्रसृतिरूपवृत्तिमदन्तः करणसम्बन्धात् भेदग्रहाणाभावे तद्वृत्तिमत्वाभिमानःचैतन्येसौरविषयोपरागविषयविषयिभावाख्यो दृग्दृश्ययोः सम्बन्धो भवत्विति साङ्ख्यमतं शङ्कते ।विषयोपरागेति ।प्रत्येकमिति। चितिस्वरूपत्वात् सर्वात्मनां सर्वविषयसम्भिन्नवृत्तिमदन्तकरणाभेदाभिमानरूप विषयोपलब्धिसम्भवेन सर्व सुखदुःखाद्यनुभवः सर्वेषामप्यविशिष्ट इति भेदसाधकसुख दुःखानुभवव्यवस्थाविरहात् पुरुषबहुत्वं सिद्धमित्यादिनस्यादि यदित्यर्थः । ननु यदृष्टोपार्जितं सुखदुःखादि तेनैव अनुभूयते सम्बन्धे सत्यपि नान्यैरिति व्यवस्था स्यादित्यत्राहन चऽप्रत्यात्ममिति। साङ्ख्यैरदृष्टसुखादुःखादेरन्तः करणगतत्वादित्यर्थः । अस्तु तर्ह्यन्तः करणगतं नियामक मित्यत्राहअन्तः करणस्यत्विति। अविशेषादिति भावः । ननु भोगसामग्रयास्तदीयत्वात् भोगस्य तदीयत्वं तस्यास्तदीयत्वं तु पूर्वपूर्वसामग्र्याः तदीयत्वादिति शङ्कते ।अनादिसामग्रीति । पूर्वपूर्वेतिसामग्रीप्रवाहभेदा असाधारण्यप्रयुक्त भोग प्रवाह साधारण्यं न सम्भवतीति भावः ॥ विषयेण ज्ञानस्य तादात्म्यमेव सम्बन्ध इति जैनमतं शङ्कते ।न च तादात्म्यमिति । परस्परविरुद्धेति।परस्परात्मत्वायोग्य तेजस्तिमिरसुखदुःखशीतोष्णादीनामित्यर्थः । विरोधो भेदः । नत्वेकज्ञानविषयत्वम् ।नास्ति तत्र विरोधस्सिध्यतीत्यत्राहइदं सर्वमिति। नन्वस्तु विरोधाभावः को दोष इत्यत्राहविचित्रव्यवहारेति। भेदव्यवहार इत्यर्थः । पूर्वं ज्ञानैक्यविषयैक्यमासादितम् । इदानीं विषयैक्येन ज्ञानैक्यमापादयतितथाचेति। नर्तकी भ्रूलतायाम् अनेकज्ञानवत् ज्ञानेषु एकस्यार्थस्य विषयत्वसम्भवात् तद्गोचरज्ञानात् ऐक्यं स्यात् एकार्थतादात्म्यादित्यर्थः । केचित्तु नर्तकी भ्रूलतादिष्विवेति पठन्ति । तदा अनेकज्ञानविषयत्वसम्भवात् इत्याध्याहृत्ययोज्यम् । नन्वर्थानां स्वतस्सिद्धत्ववैचित्र्यानुरोधेनैव एकज्ञानतादात्म्य प्रयुक्तवैचित्र्यमस्तु । एक ज्ञानानामप्यर्थैक्यमस्तु । यथा नीलत्वपीतत्वादिवैचित्र्ये सत्येव चित्ररूपस्यैक्यमिति शङ्कान्निराकरोति। नच चित्राद्वैतमिति। रूपदेर्व्याप्यवृत्तित्वाभावमतेनाहचित्ररूपन्त्विति। तथा च नैकस्य रूपस्य नीलत्वादि वैचित्र्यमिति भावः । अतिरिक्तरूपाङ्गीकारेपि वैचित्र्यप्रतीत्यर्थं रूपसमुदायस्यावश्यकत्वात् नरूपान्तरकल्पनेति व्याप्यवृत्तित्वाभाव मतेनाहनानारूपेति। भिन्नावच्छेदनैकाधिकरणे नीलादीनां वृत्तिसम्भवात् समुदायभाव इति भावः । ननु विजातीय रूपैः चित्ररूपान्तरवत् अत्राप्यर्थभेदज्ञानैकत्वाभ्यां ज्ञानभेदार्थैकत्वाभ्यां वा चित्राद्वैतमिति किञ्चिदारभ्यतां न्तत्समुदाय एव वा चित्राद्वैतमस्तु इत्यत्राहनचात्रेति। भेदाभेदारब्धः कश्चिद्धर्मोनभ्युपगत एव । भेदाभेदयोरवच्छेदकभेदेनापि एकत्रवृत्त्यभावादेकाधिकरण सम्बन्धप्रयुक्त समुदायिभावोपि अनभ्युपगत इति भावः ।अस्मिन्मतेति। अर्थानां भेदस्य दृश्यत्वंहि न वस्तुतो दृशितादात्म्यात् । सत्यमिथ्याभूतयोः तदयोगात् अतस्तत्राध्यासिक एव सम्बन्धे वाच्य इति सर्वत्रापि तथैव स्यादित्यर्थः । ज्ञानस्वरूपात्मैवार्थाकारेण ख्यायते । अतः सर्वोप्यान्तर इति न तद्ज्ञानानुपपत्तिरिति योगाचारमतमाशङ्कतेनिराकारमेवेति। बाहयत्वम्भेदः ।एतावदिति। अस्मभिरपि ज्ञानाभेदोऽर्थस्य नेष्यते ज्ञाने अध्यासस्तु इष्यत इति अर्थाध्यास एव ज्ञानार्थयोस्सम्बन्ध इति मदिष्ट सिद्धिरिति भावः।““भिन्नकालं कथं ग्राह्यमिति चेत्ग्राह्यतांविदुः । हेतुत्वमेवं युक्ति ज्ञानाकारार्पणक्षमं’’। इति सौत्रान्तिकमतमाशङ्क्य निराकरोति ।नचेति।नन्वङ्कुरादिपरम्पराया लाक्षारसात्ततत्कार्पास बीज जन्यकार्पासल्लाक्षारसिम्नः सङ्क्रमो दृश्यत इत्यत्राहअनेनैवेति । ““यस्मिन्नेवहि सन्तानेनाहिता कर्मवासना । फलं तत्रैव बध्नाति कार्पासेरक्ततायथा’’ इत्येतदपि गुणमात्रस्य सङ्क्रमो दृष्ट इत्यनेनेत्यर्थः । तर्हि कार्पासतूलस्य कथं रक्तिमेत्यत्राहकार्पासेति। लाक्षारसजन्यसंस्कारपरिपाकाद्रक्तिमान्तरं जायते । न तु लाक्षारक्तिम्नस्सङ्क्रम इत्यर्थः ।कथं चेति। अर्थस्य क्षणिकत्वात् विनश्यतात्वेन समर्पणं वक्तव्यं तत्कालेनानुवृत्तेरनुत्पन्ने ज्ञानेनाकार समर्पणं सम्भवति आश्रयाभावादिति भावः । नन्वर्थाकारस्य ज्ञाने वर्तनमेव समर्पणम् । तच्चार्थे नष्टेपि सम्भवतीत्यत्राहनचाकार इति । सम्बन्धायोगादिति। सत्यभूत सम्बन्धायोगादित्यर्थः । मिथ्याभूतसम्बन्धस्याभ्युपगमे स्वाकारसमर्पकत्वरूपं ग्राह्यत्वम् । तस्य मिथ्याभूताकारस्य नास्तीति तस्याग्रहात् बाह्यार्थस्यानुमानन्नस्यात् । अतो न स्वाकार समर्पकत्वं त्वमिति भावः । आलम्बनं - विषयः अधिपतिरिन्द्रियमिति बौद्धपरिभाषा ॥ सम्बन्धसम्बन्धित्वेति । ““सम्बन्धिभ्यां भिन्नस्तौ आश्रितौ एकश्चेति’‘तल्लक्षणात् । सम्बन्ध्यभिन्नस्य सम्बन्धत्वं विरुद्धमित्यर्थः । तमेवोपपादयतितर्हीति। नहि नीलमिति ज्ञानस्य किञ्चित्प्रतिज्ञानत्व स्वरूपत्वयोरभावः । तथा सति नीलस्यापि किञ्चित्प्रतिशुक्लत्वप्रसङ्ग इत्यर्थः । ननु ज्ञानस्य स्वजनकापेक्षया सम्बन्धत्वम् अतो घटज्ञानस्याहेतु पटापेक्षया न सम्बन्धत्वमिति शङ्कां निराकरोतिन च हेतुत्वमात्रमेवेति। हेतुत्वरूपधर्मसम्बन्धित्व नियामकमित्यर्थः ।अतीतादेरिति। हेतुत्वाभावादेरिति भावः । नन्वदृष्टादिवशात् कर्मकारकेणैव ज्ञानसम्बन्धः । इन्द्रियादि च कर्मकारकम् अतीतादिकमपि कर्मैव । अतीतं जानामीत्यादि व्यवहारादतोऽस्यविषयत्वमिति शङ्कतेअदृष्टादीति। अदृष्टशब्दः पुण्यपरः आदिशब्देन दुरदृष्टपरिग्रहः । ननु जन्यज्ञान एवायं नियमः । ईश्वरज्ञानस्यनियामकाभावात् सर्वविषयत्वमित्यत्राह ।अस्मदादीति। अतीतं जानामीति व्यवहारस्तु गौण इति भावः ।भ्रान्तीति। भ्रान्तिज्ञानस्य जन्यत्वे कर्मकारकेणैव सम्बन्धनियमाद् अकर्मकारकेण रजतादिना सम्बन्धाभावात् निर्विषयतापत्तिः । अकर्मकारकेणापि सम्बन्धे तु ईश्वरज्ञानवन्नित्यत्वं स्यादित्यर्थः । अन्यज्ञानस्योक्तम् अदृष्टादिवशात् विषयनियमव्यभिचारेण दूषयतिमुक्तस्य चेति। कौमारिलमतमाशङ्कते न चविषयेति । अन्यथेति। सम्बन्न्धान्तरमन्तरेणापि प्राकट्यजनननियमाकारे, प्राकट्य विनापि नियमस्यादित्यर्थः । विषयविषयिभावः पदार्थान्तरमिति पक्षमाशङ्कते ।न च विषयेति । तस्यापीति। सम्बन्धान्तररूप नियामकान्तरस्वीकारे अनवस्थेति भावः ।सामान्येति। सामान्यविशेष समवायानां धर्मान्तरानाधारत्वात् सुतरां जन्यधर्माधारत्वाच्चेति भावः । अभावत्वादित्यादिशब्देन प्रागभावादिप्रयुक्तानादित्वादिग्रहः । पदार्थ सप्तकातिरिक्तत्वादित्यत्राह ।भूषणेति। भूषणकारस्त्वतिरिक्तमन्धकारादिस्वीकृतवानिति भावः । नन्वस्तु भूषणपक्षवदतिरिक्तपक्षवदित्यत्राहएवमितिअदृष्टं विशदयतिसर्वथेति । अन्यायेति। जलाभावेपि जलसम्बन्धरूपसेकसम्भवादिति भावः । उभयात्मा सम्बन्धात्मेत्यर्थः ।अन्यात्मेति। सम्बन्धादिचतुष्कादिविनिर्मुक्त इत्यर्थः ।तयोरिति। विषयविषयिणोस्सम्बन्धो न स्यादित्यर्थः ।द्वितीयेत्वसम्बन्धत्वमिति। विषयविषयिणोस्सम्बन्धत्वमित्यर्थः ।सम्बन्धरहितमपीति। तत्सम्बन्धरहितस्यसम्बन्धस्य तत्सम्बन्धत्वं नास्ति यथा मेरुगतसम्बन्धस्य न विन्ध्यसम्बन्धत्वमित्यर्थः । मिलितस्सम्बन्ध इत्यर्थः ।नामान्तरेणेति। स्वतो मिलितमिति मिलितशब्देन मेलकरूपसम्बन्धो नास्तीत्युक्तमित्यर्थः ।व्याघातस्येति। सम्बन्धसम्बन्धित्वलक्षणविरुद्ध धर्माध्यासस्येति भावः । सम्बन्धत्वासम्बन्धत्वयोस्सबन्धि भिन्नत्वात् सम्बन्धभिन्नयोः परसार विरोधात् स्याद्वयाघात इत्याहउभयेति।अनुभयेति। सम्बन्धासम्बन्धवैलक्षण्यवत् सदसद्वैलक्षण्यस्यापि व्याघाताभावात् तदपि सिध्येदित्यर्थः ।अन्योन्यस्मिन्नितिविषयत्वविशिष्टं विशिष्टत्वं विषयविषयिभावः । विषये विषयित्वाभावात् विषयिणि ज्ञानविषयत्वाभावात् द्वयोरपि न स्यादित्यर्थः ।अत एवेति। यत्रैकस्मिन् वर्तते तत्र विषयत्वविषयित्वयोः द्वयोरपि प्रसङ्गादित्यर्थः ।सम्बन्धरूपेति॥ द्विनिष्ठत्वाभावादिति भावः ।येनात्मनेति। विषयविषयिणोर्यः स्सम्बन्धः विषयविषयिणोर्मध्ये अन्यतरस्मिन् येनात्मना विषयत्वात्मना विषयित्वात्मनावा वर्तते तत्र अन्यस्मिन्नपि तेनैवात्मना वर्तते उतान्यात्मनेति विकल्पार्थः ।कथमेकस्येति। विषये विषयात्मना विषयिणि विषयत्वात्मना ज्ञानार्थसम्बन्धस्य वृत्त्या भावो विषयत्वविषयित्वयोर्भेदादेव वाच्यः । तथाच ज्ञानार्थसम्बन्धस्य तादृशोभयात्मकत्वसम्भवात् विषयेपि विषयत्वात्मना विषयिव्यपि विषयित्वात्मनां वृत्तिर्न सम्भवतीत्यर्थःतयोरपीति। विषयत्वस्य विषयित्वस्य च एकैकमात्रवृत्तित्वात् सम्बन्धलक्षणाभावात् तदभिन्नस्यापि विषयविषयिभावाख्यस्य दृग्दृश्य सम्बन्धस्य सम्बन्धत्वं न स्यादित्यर्थः ।एवमन्यान्यापीति। सामान्यं साधारण धर्माः । सम्बन्धि भेदतदुभयाश्रयत्वैकत्वानि । तथा चदृग्दृश्य सम्बन्धसम्बधिभ्यां भिन्नः उत न ।द्वितीये सम्बन्धत्वमेव हीयेत । आद्येपि किमनाश्रितः उतान्यमाश्रितः उभयाश्रितो वा । आद्ययोर सम्बन्धत्वम् ।अन्त्ये किमयं नाना उतैकः । आद्ये न सम्बन्धता । अन्त्ये अतीतानागतयोः सम्बन्धत्व प्रसङ्ग इति भावः । कस्यचिदिति। ज्ञानस्वरूपस्य सम्बन्धितया सम्बन्धित्वाभावात् षष्ठयर्थानुपपत्तिरिति भावः । सामग्र्य सामग्यवन्नियामिकेत्याशङ्कतेतन्निरूप्येति। दोषान्तरमाहसामग्र्या हीति। न हि सम्बन्धाधीनस्यतन्निरूप्यत्वस्य सम्बन्धाभावेप्यापादने सामग्रीसमत्वादपितु कार्यस्वरूपस्योत्पादन इत्यर्थः ।सर्वाकारैरिति।अविद्यमानधर्ममादाय निरूपणे विशेषाभावात् अभावत्व प्रतियोगित्वाधाराधेयभावकार्यकारण भावत्वादिना निरूपणस्यादित्यर्थः ।अस्माभिरनभ्युपगमादिति। दृष्टान्तासिद्धिरितिभावः । रजतादि ज्ञानस्यासद्विषयत्ववादिस्वमतावष्टम्भेन शङ्कतेतथापीति। असता सम्बन्धाभावादिति भावः ।अविचारितरमणीयसम्बन्ध इति। सतीति शेषः । तत्र ज्ञाने अध्यस्तानां तत्तत्पदार्थाकाराणाम्भानमिति भावः । अथ सिद्धान्तः अन्यथैवेति। तथा च नार्थापत्तिरिति भावः । (प्रथमपक्ष निरासः) अर्थापत्तिरपि भवत्प्रतिकूलेत्याहपरिदृश्यमानेति। तथाविधस्य मिथ्याभूतस्य (द्वितीयपक्ष निरासः) दृगभाव इतिदृष्टान्तयोक्तम् । यथोक्तं यथा प्रमाणज्ञानाभावे मिथ्यात्वं तथा तत्सम्बन्धाभावेपीत्यर्थः । स्वयंवेदिनं स्वप्रकाशः । दृशिकर्मत्वाभावेपीति। दृशिकर्मत्वं सिद्धाव प्रयोजकमिति भावः ।विश्वस्यापीति। स्वप्रकाशत्वमस्त्विति भावःस्वत्मनीति। साधकत्वं साध्यत्वं च भिन्नाश्रयमिति भावःघटादावपीति। स्वव्यवहारे स्वगोचरसंविन्नेरपेक्ष्यमस्त्वित्यर्थः । ननु घटादेस्संविदन्तराधीनव्यवहारः प्रत्यक्षादिसिद्ध इत्याशङ्क्य निराकरोति । संविद्विषयत्वमित्यादिना। तावन्मात्ररूपमिति। स्वव्यवहारे अन्यनिरपेक्षत्वमित्यर्थः ।घटादिस्वरूपवदिति। व्यतिरेकदृष्टान्तःअनुभूतित्वाद्यनुमानादिभिरिति। अनुभूतिः स्वयम्प्रकाशा अनुभूतित्वात् व्यतिरेकेण घटवदित्यनुमानादिभिरित्यर्थः ।घटत्वादीति। घटः स्वयं प्रकाशः घटत्वात् व्यतिरेकेण पटवत् इत्यनुमानादिभिरित्यर्थः । सर्वदा प्रकाशादिसङ्गस्तूपरिष्टात् परिहरिप्यते।किं चेति। नचाध्यासिक सम्बन्धः शक्यः । अनुमितावध्यासाभावादिति भावः । उपसंहरति ।अत इति। मिथ्यात्व प्रसङ्गो दुस्तर इति सम्बन्धित्वविशेषादिति भावः । ननु दृश्यस्य सिद्धिः दृश्यध्यादध्यः तस्यहि मिथ्यात्वं न तु दृश इति प्रतिबन्द्युद्भावनायोक्तं प्रसञ्जयतिस्वत इति। तत एव स्वतस्सिद्धेत्यर्थः । अस्माभिरिति। स्वसिद्धत्वं हि प्रमाणबलादभ्युपेत्यं प्रमाणं च संविदि वर्तते न तु घटादावित्यङ्गी क्रियते । भवद्भिस्तु प्रमाणाभावेप्यङ्गीकारे कथं व्यवस्थास्यादित्यर्थः ।धर्मरूपत्वादिति। यद्यपि स्वप्रकाशस्यापि विषयत्वादेव मिथ्यात्वं वक्तुं शक्यम् । तथापि दृशोपिमिथ्यात्वं वक्तुं तथोक्तमिति भावः ।तर्हीति। यद्यपि पूर्वोक्तं संविन्मिथ्यात्वमभ्युपगम्य धर्ममिथ्यात्वापादकस्य परिहारकथनात्संविन्मिथ्यात्वं नापादनीयं तथाप्यत्यन्ताज्ञानस्फोरणाय पुनरापादनमिति भावः ।तद्विषयेतिसंविद्विषयेति ।संविद्विषयीभूता स्वयं वेदनमात्रसिद्धेरित्यर्थः ।अत इति। स्वप्रकाशत्वस्य संविदन्तरवेद्यत्वे दोषस्योक्तत्वात् प्रमाणाभावेपि स्वप्रकाशत्वाङ्गीकारे विश्वस्यापि स्वप्रकाशत्वं स्यादित्यर्थः । वदित्वमपि तथेष्यत इत्युक्तम् अनूद्य दोषान्तरमाहसंविदोऽषीपीति। यथाकथञ्चित् स्वप्रकाशत्वादिविशिष्टरूपेण दृश्यत्वाभ्युपगम इत्यर्थः । किं च यदि परिदृश्यमान इति। संयोगस्समवायश्चेत्यर्थः ।अनुपपन्नमिव भातीति। तथा च सम्बन्धान्तरस्य कल्पयितुमशक्यत्वात् सम्बन्धाभावे मिथ्यात्वमेव कल्प्यत इत्यर्थः ।दृश्यमिथ्यात्वमिति। मिथ्यात्वकल्पनमेवानुपपन्नमित्यर्थः ।स्ववचनेति। विश्वमिथ्येत्यत्र हि मिथ्यात्वस्यापि मिथ्यात्वस्यावश्यकतया प्रपञ्चसत्यत्वसिद्धेः विश्वमिथ्यात्ववचनं व्याघातमावहदित्यर्थः । आदिशब्देनप्रत्यक्षादि विरोधग्रहः ।सम्बन्धसत्यत्वमेवेति। स्वमतव्याघाताद्यभावादिदमेवयुक्तमित्यर्थः ।अनुपपन्नत्वमेवेति।तथा च सत्यत्वस्याभावात् सम्बन्धस्य मिथ्यात्वं पर्यवस्यतीत्यर्थः ।मिथ्यात्व इति। दृश्यस्येति शेषः ।अत इति। यतो मिथ्यात्वेनानुपपन्ने तदभावोऽवर्जनीयः अतः सम्बन्धस्यमिथ्यात्वानुपपत्तेस्सत्यत्वं स्यादित्यर्थः । ननु सत्यरजतस्य सत्यत्वं न मिथ्यारजतत्वानुपपत्त्या किं तु अनृतमेवेत्याशङ्क्य निराकरोतिनित्यमित्यादिना। सत्यरजतस्य नित्युमपलम्भात् सत्यत्वं शुक्तिरजतस्य तदभावात् मिथ्यात्वमित्युक्तौ विश्वस्यापि नित्यमुपलम्भानुसारेण सत्यत्वप्रसक्त्या नोक्तव्यवस्थेति भावः । उक्तदूषणं निष्कृष्यदर्शयन्नुपसंहरतिमिथ्यात्वस्य वेति। अनुपपन्नस्याभावनियमात् मिथ्यात्वस्याप्यभावः । तथापि स्वरुचिमात्रेण मिथ्यात्वं गृह्यत इत्यगतिकस्य शङ्कां निराकरोतियथारुचीति। तथा सति प्रमाणस्यान पेक्ष्रणमिति भावः । तृतीयपक्ष निरासःअसत्यत्वेपीति। मिथ्याभूत सम्बन्धस्य च नानुपत्तिरिति भावः ।सत्यत्वेपीति।यथा मिथ्याभूतस्य आरोपित सम्बन्धेन व्यवहारस्तथा सत्यस्याप्यारोपितसम्बन्धेन व्यवहारोदृश्यत इत्यर्थः ।ततः किमित्यत्राहतत इति। अनुपपत्त्यभावादिति भावः । विकल्पासहत्वाभिमतस्य वकल्पासहत्वेनाभिमतस्या । न ह्यस्तीति । सम्बन्धिनमन्तरेण सम्बन्ध इत्यस्य सम्भवोनास्तीत्यन्वयः ।सम्बन्धोपपत्तेः। सम्बन्धिसत्वव्याप्तेः व्याप्तिशून्यतया तर्काभास इत्यर्थः ।प्रसङ्गतद्विपर्यययोरितिअनुपपन्नत्ववेषेणोपपन्नत्वं हि अनुपपत्ति विशिष्टरूपेणानुपपन्नत्वं वा अनुपपत्ति रूपोपत्तिमत्वं वा उभयथाप्यनुपपन्नत्व एव पर्यवसानादित्यर्थः । तथाचेत्यादिप्रसङ्ग तद्विपर्ययोः रविशेषप्रसङ्गस्यासिद्धतया तद्विपर्ययोप्यसिद्धस्यात् । तथा च विपर्यये पर्यवसानरूपाङ्गाभावादाभास इति भावः ।अन्यथेति। विपर्ययसिद्धौ तदभिन्नस्य प्रसञ्जनीयस्यापि सिद्धतया इष्ठ प्रसङ्गस्स्यादिति अनिष्टापादनरूपाङ्गहान््याभास इति भावः । अङ्गहानिर्नास्तीति शङ्कतेउपलभ्यत इतिएतद्विपर्ययेण एतद्रूपविपर्यय इत्यर्थः । तर्हि न पूर्वतर्कस्याभासता न परिहृतेत्याहतर्हीति। तर्कान्तरमेतदित्यर्थः । अस्तु तर्ह्ययन्तर्क इत्याशङ्क्यास्यापि व्याप्यभावादाभासत्वमाहअहो सम्बन्धीति ।ननु सम्बन्धिसत्यत्वे सम्बन्धस्याप्यारोपितत्वं न स्यादिति तर्कतात्पर्यमिति शङ्कते ।तथाप्यारोपितेति।तर्हीति।यदि पर्वतो निर्वह्निःस्यात् निर्धूमस्यादित्यादावपि निर्धूमत्वमेवास्त्विति तर्कमात्रोच्छेद इतिचेन्न । धूमवत्वं हि पर्वतस्य निर्णीतम् ।अत्रतु सम्बन्धस्यारोपितत्वं सन्दिग्धम् । प्रत्युत सम्बन्धिसत्यत्वमेव निश्चितमिति महद्वैषम्यमिति भावः ।तथाप्येकस्येति। दृश्यसत्यत्वे आरोपितसम्बन्धो न स्यादिति प्रसङ्गोहि एकस्य मिथ्यात्वे तदनुसम्बन्धिनोन्यस्य मिथ्यात्वमितिनियमावलम्बनेन वाचः । स चाप्रयोजक इत्यर्थः ।तथेति। निर्बन्धोवा दृश्यवत्सम्बन्धित्वाविशेषात्ब्रह्मरूपदृशोपि मिथ्यात्वं स्यात् अविशेषादिति भावः ।स्वकीयत्वभ्रमादाविति। तत्र व्यभिचार इति भावः ।आदिशब्देन दूरस्थवनस्पत्योः संयोगभ्रमादिगृह्यतेएतेनेति। स्वकीयता भ्रमस्थले सत्ययोरपारोपित सम्बन्धदर्शनादित्यर्थः ।उपपद्यतेति। मिथ्यानस्यादित्यर्थः ।प्रशिथिलमूलत्वमुत्कृष्ट प्रसङ्गत्वमाहइष्टेति। तदुपपादयतिविषयेति। भ्रान्तिस्थले विषयासत्यत्वेप्यबाधात् सम्बन्धः उपपन्न इति सर्ववादिभिर्वाच्यं किमुताभ्रान्तिस्थल इत्यर्थः ।अत एवेति। इतोऽपि तर्काभासत्वमित्यर्थः ॥ विद्यमानयोरिति। सम्बन्धाक्षेप समाधानानिविद्यमानत्वस्य प्रयोजकत्वविवक्षायाम् इदं दूषणम् ।तथापीति। प्रयोजकत्वाभावेऽपीत्यर्थः ।अतीतादेरपीति। बाधं विना प्रत्यक्षसिद्धो नापह्नवमर्हति तथाचाखण्ड एव विषयविषयिभावः । स यदा कदाचित्सन्तं विषयमाश्रित्य उपपन्न इति भावः । ननुभाविज्ञानजन्यः सम्बन्धः पूर्वकालीनं विषयं कथमाश्रयेत् तत्काले ज्ञानाभावादित्यत्राहअभिन्नदेशयोरिति।अयं भावः ।सम्बन्धस्याध्यस्तत्वेपि कथं ज्ञानस्यातीतेन सम्बन्धः तस्याभावात् न च सम्बन्धाभावेपि विषयत्वमतिप्रसङ्गात् ।तथा च कल्पितोपि सम्बन्धे निरूपकत्वात् तन्निष्ठ इति वाच्यम् । तथा च सत्यत्वेपितुल्यं यदि च सामग्रीविशेषप्रभवत्वात् ज्ञानमात्रनिष्ठ एव तन्निरूप्यत्वमात्रात् तन्निष्ठ इव तदपि समानमिति ।वा शब्दो व्यवस्थित विकल्पार्थः । ननु भिन्नदेशस्थलेपि घटयोरप्यवधानात् संयोग उपपद्यते । भन्नकालयोः स्वभिन्नकालयोरिवा व्यवधानाभावात् न सम्बन्धस्सम्भवतीति शङ्कतेव्यवघानेति । अन्यथेति ।कञ्चिद्विशेषमात्रात् सम्बन्धासम्भवेभिन्नदेशत्वविशेषात् घटयोरपि संयोगसम्बन्धो नस्यादित्यर्थः ।तथापीति।अव्यवहितत्वं लक्षणं नियामकम् । यथा व्यवहितत्वप्रयोज्य इत्यर्थः।किं सम्बन्धमात्रं तल्लक्षणम् उत तद्विशेषः ।नाद्य इत्याहसम्बन्धमात्रस्येति। तल्लक्षणत्वाभावे हेतुमाहगोमानिति। व्यभिचारादिति भावः । द्वितीयेआहतल्लक्षणस्येति। यस्तल्लक्षणस्संयोगादिर्न ज्ञानार्थयोः सम्बन्धतया नेष्यत इत्यर्थः । नन्विदमनुपपन्नम् ।भाष्ये ज्ञानार्थसम्बधमात्रस्य संयोगरूपताभिधानादिति शङ्कते ।नन्विति।सम्भवद्विषयस्येति। अन्यथारूपादिना सम्बन्धाभावप्रसङ्गादिति भावः । ननु ज्ञानार्थयोः कोयं सम्बन्ध इति प्रश्ने सर्वव्यक्तिसङ्ग्राहक धर्म पुरस्कारेणोत्तरं वक्तव्यं यथा गविपृष्टे सास्नाद्याश्रय इति इह च तथा नोक्तमिति शङ्कते ।सर्वत्रेति। माभूदेकेन सर्वसङ्ग्रहः । किं नः छिन्नम् । जिज्ञासानिवृत्तिर्हि उत्तरस्य प्रयोजनम् । सामान्येनोत्पन्नसर्वव्यक्तिजिज्ञासा च सर्वव्यक्त्युपस्थापकैकधर्मपुरस्कारेण वा तत्तत्कतिपय व्यक्तिसङ्ग्राहकानेकधर्मपुरस्कारेण वा सर्वव्यक्त्युपस्थापनेन निवर्तत इति क्वचित्संयोगः क्वचित्संयुक्ताश्रितत्वमित्याद्युक्त्या जिज्ञासानिवृत्तौ कथं नोत्तरमित्यभिप्रायेणाहत्तत्तदिति। संयोगत्वादि स्वभावविशेषादेव सङ्ग्रह इत्यर्थः । ननु घटमात्रानुगतस्यैव घटत्वस्याघटव्यवच्छेदकत्वदर्शनात् । इह ज्ञानार्थसम्बन्धमात्राननुगतस्य घटमात्रानुगतस्यैव घटत्वस्य अघटव्यवच्छेदकत्व दर्शनात् इह ज्ञानार्थसम्बन्धमात्रानु ननु गतस्य तदन्यव्यवच्छेदकत्वम् । तथा चान्यस्यापि विषयत्वं स्यादिति शङ्कतेतेषामिति ।नेति। तद्वयवच्छेदकत्वे तदवृत्तित्वमेव प्रयोजकं न तु तदितरयावद्वयक्तिवृत्तित्वम् । तथा च (अन्यस्यापि विषयत्वं स्यादि शङ्कतेतेषामिति नेति)सत्याधारधेयभावस्य सम्बन्धमात्रानुगतस्य असम्बन्धाद्वयावर्तकत्वप्रसङ्गात् नीलघटत्वस्या घटव्यावर्तकत्वाभाव प्रसङ्गाच्चेति भावः । विविक्तः - अन्यूनानतिप्रसक्तः । अभिव्याप्तः - अन्यूनानतिप्रसक्तः ।व्यवहारेति। ज्ञाने सत्यर्थो व्यवहारानुगुणो भवति तथानुगुण्यं च तत्र तत्र सम्भावित ज्ञानार्थ सम्बन्धादित्यौपपत्तिकप्रतीति सिद्धत्वादित्यर्थः । न चव्यवहारे व्यवहारानुगुण्यापादनरूपत्वेन प्रयोजकत्वेन आत्माश्रयः । सजातीय साक्षात्कार प्रतिबन्धकतावच्छेदक धर्मत्वरूपतादरत्वादिवतत्स्वरूपसत एव प्रयोजकत्वात्अन्यथेति। एतदनङ्गीकारे सम्बिद्यवेद्यत्वे सत्यप्यपरोक्ष व्यवहारानुगुण्यकथनंविषये ज्ञानविषयत्वापादितव्यवहारानु गुण्यकथनं चानुपपन्नं स्यादित्यर्थः । वेद्यत्वेन ह्यपरोक्षव्यवहारानुगुण्यं दृश्यस्येष्यते । वेद्यत्वं च वृत्तिसम्बन्ध एव ।एतेनेति। अव्यवधानलक्षणसम्बन्धस्य क्वचिदेवाङ्गीकारात् अन्यत्रान्यस्यचाङ्गीकाराच्चेत्यर्थः । तदेव विवृणोतिसम्बन्धेति। सम्बन्धोहि सम्बन्धः । भावेनिष्ठा संयोगस्यहि स्वभावः । सम्बन्धिनि सत्येव संयोगित्वापादन समर्थः ।विषयविषयिभावस्य स्वभावो विषयभावेपि विषयिणि सति विषयत्वापादन समर्थः । नन्विदं सामर्थ्यं किन्निबन्धनमित्यत्राहसामग्रीति। संयोगस्यह्युभयम् अपृक्सिद्धाश्रयतया सामग्रीत्येकाश्रयाभावेपि संयोगो न सम्भवति । विषयित्वेहि ज्ञानमेवाश्रयः । विषयस्तु निरूपक एवेति विषयाभावेपिज्ञाने विषयिता सम्भवः ।वर्तमान तत्प्रतिनियतेति। संयोगसामर्थ्यस्य वर्तमान मात्र विषयत्वमिति नियमादिति भावः । तत्व बुभुत्सयापृच्छामीत्याहतथापीति। प्रकारान्तरं लक्षणातिरिक्तस्तद्धर्मः । अन्यः निरुक्तसर्वकोटिबहिर्भूतः । ननु नामविशेषाभावे कथं तद्विशेष व्यवहार इत्यत आह ।विषयविषयिभावेति। यथारुचिनामान्तरं सङ्केत्यतामित्यन्वयः । स एव सः । तत्स्वरूपं तत्स्वरूपमेवेत्यर्थः ॥ न त्वसः ॥ न तदन्यस्वरूपमित्यर्थःअन्यथेति। तस्य तद्भिन्नस्वरूपत्वे भेदाभेदयोर्विरोधो भवेत् । गवादेर्गदभादिस्वरूपताप्रसङ्गेन विधिनिषेधशास्त्रार्थादिति कुतः सम्बन्धान्तराभावाद्सम्बन्धस्य । वैय्याकुलीप्रसङ्गश्चेत्यर्थः ।व्यवहारानुगुण्यापादनमिति। ज्ञानतद्वयवहारजनकत्वयोग्यतेत्यर्थः । ननु सापि कथं घटं प्रत्येव योग्यता नाघटं प्रतीति कुतः । सम्बन्धान्तराभावादसम्बन्धस्य साधारण्यादिति चेन्मिथ्यासम्बन्धस्यापि तुल्यत्वादिति भावः ।दत्तमुत्तरमिति। प्रतीतिसिद्धदुरपह्नवमित्यनेनेत्यर्थः ।क्वचिदन्तर्भावदर्शन इति। प्रौढोक्तिः । अप्रयोजकत्वमाह ।स्वेच्छापरिसङ्ख्यातेति । व्यवहाराङ्गतयेति। किं व्यवहाराङ्गात्वमविज्ञाततया वाज्ञाततया वोभयथापि तत एव तन्न कथनीयमित्यर्थः । दूष्यमाणेति। मिथ्याभूतसम्बन्धाङ्गीकारेपि दूष्यादीनां मिथ्यात्वं तत्र तेषामध्यासाभावादिति भावः ।तदनभ्युपगमे - अकिञ्चित्करत्वाभ्युपगमे । नन्विदं सम्बन्धदूषणं स्वसम्बन्धस्यापि प्रतिक्षेपात् स्वप्रतिक्षेपकं तथापि स्वपरनिर्वाहकसमाधिना परमपि प्रतिक्षेपतीति नाकिञ्चित्करत्वमिति शङ्कायामाहस्वपरेति। अयं भावः । स्वनिर्वाहकत्वपरनिर्वाहकत्वयोर्नविरोधः । स्वपरप्रतिक्षेपकत्वे तु मिथोविरुद्धे । स्वप्रतिक्षेपे स्वयं परं प्रतिक्षेप्तुं न शक्तोतीति प्रतिज्ञाहेत्वो र्व्याघात इत्यर्थः । ज्ञानार्थ सम्बन्धमात्रमनङ्गीकुर्वता स्वीकृतसम्बन्धान्तराणावनवस्थाभिया स्वपरनिर्वाहकत्वस्वीकारात् तन्यायेन ज्ञानार्थसम्बन्धस्यापि सम्बन्धान्तरं विना स्वकार्यकारित्वसिद्धौ सम्बन्धान्तरापादनमनङ्गीकारदोषावहमित्याहद्वितीयेत्विति। विशिष्टव्यवहारानङ्गस्य तदङ्गतया स्वीकारोनङ्गीकार इत्यर्थः ।सम्बन्धस्येति। विशिष्टव्यवहारविषयत्वेपि व्यवहाराविषयभूतं यदि सम्बन्धस्यापि सम्बन्धान्तरं स्वीक्रियते तदानङ्गस्वीकार इत्यर्थः ।युक्तेति। वाशब्दश्चार्थः । स्वपरनिर्वाहकत्वं सम्बन्धस्याङ्गम् ।अन्यसम्बन्धस्य चेति। सम्बधसम्बन्धस्यचेत्यर्थः ॥सम्बन्धान्तरपरिग्रहे अनवस्थेत्येतत्परिहृत्यान्यथा तत्सबन्धसत्वपरित्याग इत्येतद्दूषयतिसम्बन्धान्तराभाव इति।तत एव दत्तोतरमिति दूषणादिसम्बन्धवत् सम्बन्धान्तराभावेपि सम्बन्धत्वसम्भवादित्यर्थः ।न्यथेति। सम्बन्धातराभावे दृग्दृश्य सम्बन्धस्य सम्बन्धत्वाभावो यदित्यर्थः ।तद्वदिति। यथा प्रकाशस्य, स्वगोचरस्य व्यवहारे प्रकाशान्तरनैरपेक्षयं तथा सम्बन्धिनि स्वविशिष्टव्यवहारेपि दृक्सम्बन्धस्य न सम्बन्धान्तरापेक्षेत्यर्थः । स एव त्वदुक्त एवेत्यर्थः । दृश्यनुमानेनावतरतीति। संयोगस्य प्रत्यक्षसिद्धतया तन्निरासा योगादित्यर्थःतथाप्युपगम इति । गुणगुणिनोस्तथाभ्युपगमादित्यर्थः ।असूत्रयदितिबादरायण इति शेषःसमवायेति।समवायाभ्युपगमाच्चासामञ्जस्यं(ब्र.सू.2 - 2.12) कुतः साम्यात् समवायस्य समवायोऽङ्गीक्रियते न वा । द्वितीये समवायो व्यर्थः। समवायवदेव गुणादीनां स्वरूपेणापृथक्सिद्धिसम्भवात् । प्रथमं तस्यपि समवायाङ्गीकारेऽनवस्थितरित्यर्थः ।नचात्रेति। स्वरूपातिरिक्तसम्बन्धाभावस्थले मेलनाभावप्रसङ्गदोषोऽस्तीत्यर्थः ।विशिष्टेति। सम्बन्धोऽपि विशिष्टव्यवहारजनकोभवति तथा तत्तत्स्वरूपमपि विशिष्टव्यवहारजनकतया दृष्टमिति तत्तत्स्वरूपमपि सम्बन्ध इत्यर्थः । नन्वेकस्यसम्बन्धसम्बन्धित्वाङ्गीकारे स्वरूपभेदप्रसङ्गः । सम्बन्धस्य सम्बन्धिभिन्नत्वाद्वयाघात इत्यत्राह ।नच स्वयमिति।सम्बन्धस्सम्बन्धिश्चेत्येतावता स्वरूपभेदो प्रयोजकत्वदिति भावः ।विशिष्टव्यवहारजनकत्वमात्रेति। एतावदेवसम्बन्धत्वे निमित्तं न तु सम्बन्धिभिन्नत्वमपि गौरवादिति भावः ।सम्बन्ध एवेति। सम्बन्धभिन्नसम्बन्ध एवेत्यर्थः ।स्ववचनेतिसम्बन्धदूषणस्यदूष्यासंस्पर्शात्सम्बन्धस्य स्थिरीकरणात् स्ववचनविरोध इत्यर्थः ।इतरेतरप्रतियोगिकमिति।तत्र विषयत्वे ज्ञानं निरूपकम् अर्थः आश्रयः । विषयित्वे अर्थो निरूपकः ज्ञानम् आश्रय इत्यर्थः । नचातीतस्य विषयताश्रयत्वं न स्यादितिवाच्यम् । परम्परासम्बन्धवदाधारत्वेपि दोषाभावादिति भावः । तदुभयस्य सम्बन्धत्वे हेतुमाहताभ्यामेवेति। विशिष्टव्यवहारप्रयोजकत्वमेवसम्बन्धत्वं नत्वेकत्वमपि तत्र प्रविष्टमिति भावः । ननु तर्हि विषयत्वमात्रेण सम्बन्धव्यवहारस्यादित्यत्राहतदुभयेति। द्वित्वमिव मिलिते सम्बन्धत्वमिति भावः ।अत एवेति। प्रत्येकमेव वृत्तिमत्वादेकस्योभय वृत्तित्वाभावस्योक्तत्वादित्यर्थः ।दूष्यदूषणादि सम्बन्धत्वेति ।किमयं दूष्यदूषणादिसम्बन्धसम्बन्धिभ्यां भिन्नः उत न । द्वितीये सम्बन्धत्वमेवाभिधीयेत । प्रथमे तस्या सम्बन्धोस्तिनवा ।आद्येऽनवस्था।द्वितीये दूष्येण सम्बन्धो न स्यादित्यादि विकल्पदूषणत्वे दुष्टत्वात्सम्बन्धखण्डनमेव न स्यात् ।दूषणरहितत्वे दुष्टत्वाभावात् तत्सम्बन्धस्येव सम्बन्धान्तरस्यापि सिद्धत्वात् व्याघात इत्यर्थः । ननु दृग्दृश्य सम्बन्धानुपपत्तिं भाष्यकारः किमर्थं परिहृतवानित्यत्राहतदेतदिति।इहापीति। सदनुभूतिभेदस्य विषयविषयिभावेन समर्थनादनुपपत्तिनिरासोप्यर्थादुक्तो भवति । न चात्र सच्छब्देन घटाद्यभिधीयते अपितु ब्रह्मैव तस्य तद्विषयत्वं न तत्राध्यास्यो मिथ्या सो मिथ्यात्वप्रसङ्गादित्यर्थः । सम्बन्धोवाच्य इति भावः ॥ वत्सकुलजलधिकौस्तुभनृसिंह गुरुसुतेन सिंहदेवेन कृतायां शतदूषणी टीकायां सप्तदशो वादस्समाप्तः ॥