॥अथ व्यावर्तमानत्वानुमानभङ्गवादःषोडशः ॥16॥
विश्वं व्यावर्तमानत्वान्निवर्तयितुमिच्छतः ।
निवर्तयामः कुमतीन् कथासङ्ग्रामसीमतः ॥
यत् तावत् घटादयोऽपरमार्थाः; व्यावर्तमानत्वात्; यदुक्तसाधनं तदुक्तसाध्यम्, यथा रज्जवाद्यधिष्ठानसर्पभूदलनाम्बुधारादि; यत्सत्, न तद्व्यावर्तते, यथा सर्पाद्यधिष्ठानभूता रज्जुः; यद्वा सर्वाधिष्ठानं ब्रह्म ।
यदि व्यावर्तमानस्यापि सत्त्वम्, तदा सत्यमिथ्यार्थविभागाभावप्रसङ्ग इति तर्कानुग्रहः इति ।
तत्र किमिदं व्यावर्तमानत्वम्? किं यतःकुत श्चिदन्यत्वम्? अथ यत्र कुत्रचिद्देशादावसत्त्वम्? यद्वा प्रध्वंसवत्त्वम्? उत प्रतिपन्नोपाधौ निषेधप्रतियोगित्वम्? किं वा कदाचित्क्वचिदेव प्रकाशमानत्वम्? अन्यद्वा किञ्चित्? ।
नाद्यः, युष्मदर्थादन्येन ब्रह्मणैवानैकान्त्यात् ।
“युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमः
प्रकाशवद्विरुद्धस्वभावयोरितरेतरभावानुपपत्ति’’(शाङ्करभाष्यं) भवतां भाष्यारम्भे भाषिता ।
यदिब्रह्मणस्तदन्यत्वं मिथ्या, तर्हि परमार्थतस्तयोरैक्यप्रसक्तिः, यथा घटस्य स्वरूपादन्यत्वे मिथ्याभूते तदैक्यम् ।
ततश्च मिथ्याभूतप्रपञ्चैक्याद्ब्रह्मणोऽपि मिथ्यात्वं सत्यब्रह्मतादात्म्यात्तस्यापि सत्यत्वं वा स्यात् ।
किञ्च ब्रह्मनिष्ठमन्यत्वं मिथ्याभूतमिति वदता किं प्रपञ्चनिष्ठमन्यत्वं सत्यमभिमतम्? तर्हि तेनैवान्यत्वेन परमार्थतो ब्रह्मणोऽन्येनानैकान्तिकत्वसद्धितीयत्वापसिद्धान्ताः ।
यदि तन्मिथ्या, तथाविधान्यत्वस्य ब्रह्मण्यपि त्वयैवाभ्युपगमाद्दुस्तरमनैकान्त्यम् ।
न द्वितीयः, तस्य मिथ्यात्वं प्रत्यप्रयोजकत्वात् ।
न हि शुक्तिरजतादेर्देशान्तरादावभावान्मिथ्यात्वम्, अपि तर्हि प्रतिपन्नदेशादावभावात् ।
अन्यथा येनाप्याकारेणासत्त्वात् ब्रह्मणोऽपि मिथ्यात्वं स्यात् ।
न हि ब्रह्मासद्रूपेण वा सदसद्विलक्षणरूपेण वा सदिति भवन्तोऽप्यभ्युपगच्छन्ति ।
अथ यत्र देशे काले वा तदभावस्तत्रैव मिथ्यात्वं साध्यं तदा सिद्धसाधनम् ।
न हि वयं क्वाचित्कस्य कादाचिक्तस्य च सर्वत्र सर्वदा सत्वं विरोधेन ब्रूमः ।
तथा सति आपणस्थ रजतस्य सर्वदेशवृत्तिकत्वाविरोधे (न) शुक्तिरूप्यादेरपि सत्यत्वापातात्; कार्यकारणभावविलोपप्रसङ्गाच्च ।
न तृतीयः, दृष्टान्तस्य साधनविकलत्वात् ।
न ह्यध्यस्तं सर्पादिकं बाधदशायामपि प्रध्वस्तमिति कश्चिद्वदति, बाधविनाशयोर्विविक्ततयैव व्युत्पत्तेः ।
प्रतिपन्नस्य नेति निषेधो बाधः ।
विनाशस्तु लब्धसत्ताकस्य स्वरूप प्रच्युतिः ।
दण्डादिना निहतेषु सत्येषु हि सर्पादिषु प्रध्वस्तबुद्धिः ।
तत एव चेदं प्रध्वंसप्रतियोगित्वं देशकालसत्यत्वेन व्याप्तमुपलब्धमिति विपरीतसाधकत्वम् ।
नापि चतुर्थः, असिद्धेः ।
नहि स्वदेशादौ घटादयो न सन्तीति बाध्यन्ते ।
नेदं रजतमितिवन्नायं घट इत्यादिस्वारसिकबाधादर्शनात् ।
ननु सर्वानुवृत्तस्य सत एव सर्ववस्तुदेशत्वेनाभासात्तत्रैव चास्ति पट इति पटादिविधौ तद्विरोधिघटादेर्निवृत्तिदर्शनान्मिथ्यात्वं स्यादिति चेत्, मैवम्; सतोऽत्र पटादिस्वरूपस्य देशत्वाभावात्, अननुवृत्तेश्च ।
घटोऽस्ति पटोऽस्तीत्यादिप्रतीतौ सत्त्वं घटादिधर्मत्वेनैव प्रतीयते, नतु घटादीनामाश्रयत्वेन, घटश्चलति पटश्चलति घटो महान् पटो महानित्यादिषु क्रियागुणादिवत् ।
अतोऽनुवृत्तत्वात्सतो देशत्वमित्यपि निरस्तम् ।
ब्रह्म तु सर्वानुवृत्तं सदपि न घटोऽस्ति पटोऽस्तीत्यादिधीविषयः।
न पञ्चमः, अप्रयोजकत्वात्, यत्र कुत्र(क्व)चित्प्रमितत्वमात्रेणैव सत्यत्वसिद्धेः ।
कालान्तरादौ प्रकाशानुत्पत्तेस्तत्सामग्र्यभावप्रयुक्तत्वात् ।
नचाप्रकाशमानत्वेन विरुद्धत्वात्प्रमितत्वमेवात्र नास्तीतिवक्तुं युक्तम्, देशकालादिभेदेन विरोधपरिहारात् ।
अन्यथा विपरिवर्तस्यापि दुर्वारत्वात् ।
यदिच यथाकथञ्चिदप्रकाश (मानत्वा) नान्मिथ्यात्वम्, तदा ब्रह्मणोऽपि तत्प्रसङ्गः, तस्याप्यामोक्षादविद्यावशेना प्रकाशमानत्वस्य भवद्भिरेव स्वीकारात् ।
अन्यथा कथमप्रकाशितार्थप्रकाशकत्वादित्यस्य भवदुन्नीतभावरूपाज्ञानानुमानहेतोरत्र सिद्धिः? कथञ्च ब्रह्माज्ञानसाधनं तिरोधानवाचोयुक्तिश्च? तरोहितस्वरूपस्यापि तस्य सर्वदा कथञ्चित्प्रकाशमानत्वमप्यस्तीति चेत्; तद्धटादेरप्यस्तीति न
कश्चिद्भेदः ।
स्वकालावच्छिन्नस्य तत्प्रकाशस्य कालान्तरेऽप्यनपायात् ।
घटादिप्रकाशस्य कादाचित्कत्वादस्ति भेद इति चेन्न; “नित्यो नित्यानामि (कठ 2 - 7 - 23) त्यादिशास्त्रसिद्धनित्येश्वरबुद्धिविषयत्वेन घटादेरपि नित्यं प्रकाशमानत्वात्, भ्रान्तबुद्धिविषयतया शुक्तिरजतादेश्च ।
वयं तु तथा न जानीम इति चेन्न; अस्माभिरपि तथाऽङ्गीकारात् ।
(शास्त्रेणा तथा ज्ञायमानत्वात् ।
) अस्माकं नित्यं घटादिप्रकाशो नास्तीति विवक्षितमिति चेत्; तुल्यम् ।
न ह्यस्मदर्थनिष्ठो ब्रह्मप्रकाशो नित्य इति त्वयाऽपि स्वीकृतम् ।
नित्यस्तु ब्रह्मप्रकाशो नास्मत्प्रतिसम्बन्धिकः ।
किञ्च किं प्रकाशस्य नित्यत्वं वस्तुसत्यत्वव्यवस्थापकम्? उतावाधितत्वम्? आद्ये निर्दोषत्वादिमात्रेणैव प्रामाण्यसिद्धौ तन्नित्यत्वस्य प्रामाण्यं प्रत्यनङ्गता ।
दोषे सति च प्रकाशानुवृत्तेरप्रयोजकत्वम् ।
द्वितीये तु कादाचित्कस्यापि घटादिप्रकाशस्य तदस्तीति घटादिसत्यत्वमकामेनापि स्वीकार्यम् ।
ततश्च,व्यावृत्तिरनुवृत्तिर्वा न मिथ्यात्वादिसाधिका ।
न वाधो जगतोऽध्यक्षाद्ब्रह्मणोऽप्यस्ति यौक्तिकः ॥
अयमत्र विभागः -
वाधश्शुक्त्यादिधीरत्र व्यावृत्तिर्भ्रमसंशयः ।
मिथ्यात्वं रजताद्यर्थस्वरूपाभाव उच्यते ॥
नापि षष्ठः, तस्य बाधपर्यायस्य तत्फलभूतभ्रान्तिविषयत्वनिवृत्तिलक्षणस्य वाऽनुपलम्भादि निरस्तत्वात् ।
इतरस्य त्वप्रयोजकत्वात् ।
व्यतिरेकासिद्धिश्च बहुधा द्रष्टव्या ।
यन्न मिथ्या तन्न व्यावर्तत इति हि व्यतिरेकः ।
ब्रह्म तु न मिथ्या, सर्वतो व्यावर्तते, सर्वान्यत्वात्, सर्वत्र स्वयमवर्तमानत्वाच्च ।
एवमनुवृत्त्यनुमानेऽपि द्रष्टव्यम् ।
एतेन
व्यावर्तमानत्वविकल्पदूषणन्यायेन भिन्नत्वात्, क्वाचित्कत्वात्, बाध्यत्वात्, जडत्वात् - इत्यादिप्रपञ्चमिथ्यात्वहेतुजालं समूलोन्मूलितमिति तेषूदासि भाष्यकारैः।
तर्कश्च दुष्टः, बाधाबाधादिभिरेव सत्यमिथ्यार्थविभागसिद्धेरिति ॥
॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषुशतदूषण्यां व्यावर्तमानत्वानुमानभङ्गवादः षोडशः ॥16॥
नृसिंहराजीया
पूर्ववादसङ्गतिरेवास्यापि सङ्गतिरिति अभिप्रेत्यवादार्थं सङ्गृह्णातिविश्वमिति। प्रपञ्चोमिथ्या व्यावर्तमानत्वात् शुक्तिरूप्यवदित्यनुमानेन प्रपञ्चमिथ्यात्वं साधयत इत्यर्थः । निर्वतनप्रकारं दर्शयितुं प्रतिजानीतेयथेति। उदाहरणान्तरमाहयद्वेति। यथेत्यनुषङ्गः अधिष्ठानत्वम् अधिकरणत्वं यदिति व्यावर्तमानस्य मिथ्यात्वप्रोयजकत्वेन प्रयोजकान्तराभावात् शुक्तिरूप्यमपि मिथ्या न स्यात् इत्यर्थः । ननु ब्रह्मणि युष्मदर्थान्यत्वं मिथ्यैव । न हि मिथ्या भूतधूमस्यहृदवृत्तित्वमात्रेण वह्निव्यभिचार इत्यत्राहयदिति।तदैक्यमिति। पारमार्थकमितिशेषः । उक्तबाधकभयान्मिथ्यात्वपरिग्रहमनूद्य दूषयतियदिति। तर्हि शुक्तिरजतादेर्मिथ्यात्वं न स्यादित्यत्राह ।न हीति । अन्यथेति। यथा कथञ्चिदसत्वमात्रेण स्वरूपस्यैव मिथ्यात्व इत्यर्थःसदिति। विद्यमानमित्यर्थः । नह्यसद्रूपेण वा सद्विलक्षणरूपेण वा ब्रह्मविद्यत इति अभ्युपगच्छन्तीत्यर्थः ।सिद्धसाधनमिति। तद्देशतत्काले च मिथ्यात्वस्य सत्यतावादिभिरपि अभ्युपप ेतत्वादिति भावः। शुक्तिरूप्यादेरपीति। रजतस्य सर्वदेशवृत्तित्वेन शुक्तावपि सत्यस्य आपणस्थ रजतस्यैव विद्यमानस्य रजतप्रतीतिविषयत्वात् मिथ्यारजतं न सिध्येत् इत्यर्थः । कादाचित्कस्य सर्वदा सत्वे दोषमाहकार्यकारणेति। पौर्वापर्याभावादिति भावः ।संवादिकमितिसंवादोऽर्थसत्वेन व्यवहारः । तदस्यास्तीति ठञ् प्रत्ययः । ननु विद्यामनस्यापि न व्यवहार नियम इत्यत्राहकश्चिदिति। यस्य कस्यचित् यदा कदाचित् विद्यमानत्वे यदाकदाचिद्व्यवहारस्स्यादिति भावः । ननु बाध्यत्वव्यवहार एव ध्वंस व्यवहार इत्यत आहबाधेति । निषेध इति। अभावबुद्धिरित्यर्थः ।तत एवेति। सत्येष्वेव सर्पादिषु प्रध्वस्तबुद्धिरित्यर्थः ॥विपरीतबाधकत्वमिति। तथाच विरुद्धत्वात् न साधनमिति भावः । किमुपाधिपदेन देशकाल रूपाधिकरणं विवक्षितम् उत अध्यस्तधिष्ठितमिति विकल्प्य आद्ये आहनहीति। द्वितीयमाहनेदमिति। द्वितीयकल्पमेवोद्बलयतिनन्विति। सन् घटः सन् पटः इति सदेवाधिष्ठानतया प्रतीय्यते । यथा इदं रजतमित्यत्र इदमर्थभूता शुक्तिः । तथा च सन् पटः इति पटविधिदशायां सन्नयं पट एव न तु घट इति निषेध दर्शनात् हेतुसिद्धेर्मिथ्यात्वं स्यादित्यर्थः ।मैवमितिदेशत्वमात्राधिष्ठानत्वं मिथ्यात्वसिद्धिः प्राक् घटादिस्वरूपातिरिक्तसतो सिद्धत्वादिति भावः ।अनुवृत्तेश्चेति।सतो घटादितत्तद्वस्तुरूपस्य पटादावनुवृत्त्यभावादित्यर्थः । ननु सत्ता न घटादिस्वरूपं किन्तु ब्रह्मस्वरूपमेवेत्यनु वृत्तिर्युक्तेत्यत्राहघटोस्तीति। आश्रयत्वमधिष्ठानत्वं न च तन्निष्ठतया भासमानायास्सत्तायाः अधिष्ठानत्वं भवतीति भावः । ननु त्वन्मते ब्रह्मस्वरूपस्य अनुवर्तमानत्वात्कथम् अधिष्ठानं स्यादित्यत्राहब्रह्मत्विति। अनुवृत्तिमात्रान्नाधिष्ठानत्वम् अपितु अध्यस्यमानगोचरप्रतीति विषयत्वेनेति भावः । नन्वाधारत्वमेवाधिष्ठानत्वं तत्र घटस्सन्निति प्रतीतस्य पटस्सन्निति प्रतीतिदशायां निषेधावगमात् व्यावर्तमानत्वमिति चेन्न । घटसन्निति प्रतीतस्य पटस्सन्निति न निषेधः किन्तु पटस्यापि विधिरेव न चान्यविधिरेव इतर निषेधः घटेरूपरसयोरिव सत्युभयविधिमात्रेण परस्परनिषेधाभावात् । न वात्र घटो न सन्निति प्रतीतिरिस्तिसत्वे वा घट एव सत्तानिषेधो न सति घटस्येति वैपरीत्य प्रसङ्गादिति दिक् । ननु कालान्तरादौ अप्रकाशमानत्वं शुक्तिरूप्यवत् सद्वैलक्षण्यप्रयुक्तमित्यत्राहकालान्तरादाविति । नचेति।प्रमायाः प्रकाशमानत्वं प्रमितत्वम् । तच्च प्रकाशमानत्वरूप सामान्याभावरूपप्रकाशमानत्वेन विरुद्धमिति भावः ।अन्यथेति। देश कालादिभेदेन परिहाराभावे कदाचित्प्रमितत्वेन विरुद्धः । प्रकाशमानत्वाभाव एवन स्यादिति भावः । देशकालभेदेना प्रकाशमानत्व मात्रेण मिथ्यात्वे साध्ये व्यभिचारमाहयथा कथञ्चिदिति ।अन्यथेति। ब्रह्मणो प्रकाशितत्वाभावे अत्र ब्रह्मणि प्रमाणज्ञानस्या प्रकाशितार्थप्रकाशकत्वरूपहेतु सिद्धिः कथमित्यर्थः । माभूदत्र हेतुसिद्धिः । घटादिगोचरप्रमाणज्ञानमादाय भावरूपाज्ञानसिद्धिः अस्तु इत्यत्राहकथं चेति । सर्वदा कथञ्चिदिति। देशविशेषे कालविशेषे वा कथञ्चिदपि प्रकाशमानत्वाभावो हेतुरिति भावः ।तद्धप्देरपीति। तथा च स्वरूपासिद्धिरिति भावः । ननु घटस्य कादाचित्कत्वात् प्रथमविद्यमानकाले प्रकाश इत्यत्राह। स्वकालावच्छिन्नस्येति। स्वकाले विद्यमानत्वाविषयस्येत्यर्थः । ननु घटादिप्रकाशस्यास्य स्मारकस्य नित्यत्वान्नसिद्धिरित्याशङ्कतेघटादिप्रकाशस्येति।भ्रान्तेति। ईश्वरज्ञानस्य रजतभ्रान्तिविषयस्य तद्विषयरजतविषयत्वावश्यं भावात् सर्वदा प्रकाशमानत्वात् दृष्टान्तस्साधनविकलइति भावः । ननु सर्वदा अस्माभिरीश्वरबुद्धिविषयत्वं नेष्यत एव । ईश्वरस्यानित्यत्वादित्यत्राहवयन्त्विति ।अस्माभिरिति ।अस्मभिस्सर्वदा तद्बुद्धिविषयत्वाङ्गीकारात् अन्यतरासिद्धिरित्यर्थः ।अस्मकमिति। अस्मदीयनित्यप्रकाशविषयत्वाभावो हेतुरिति वयन्त्वितिवाक्ये विवक्षितमिति भावः ।तुल्यमितितथा च ब्रह्मण्यनैकान्त्यमिति भावः । अनैकाविमुपपादयतिन ह्यस्मदर्थेति। अनुमानस्य अप्रयोजकत्वमाहकिं चेति ।आद्येपि किं निर्दोषत्वसहितं तदसहितं वा प्रामाण्यप्रयोजकमिति विकल्पमभिप्रेत्य आद्ये आहनिर्दोषत्वादिति। तथा च निर्दोषत्वेनैव प्रामाण्यात् तादृश प्रकाशाभावो प्रयोजको मिथ्यात्वस्येति भावः ।द्वितीये आहदोषे सतीति । द्वितीयेत्विति। कादाचित्कस्यापि घटादिप्रकाशस्याबाधितत्वात् यौक्तिकबाधस्य तु सर्वसाधारण्यादिति भावः । प्रयोजनत्वे अभियुक्तवचन संवादयति ।व्यावृत्तिरिति। व्यावृत्तिर्मिथ्यात्वे प्रयोजकं न भवति । तथाचानुवृत्तिरपि मिथ्यात्वे प्रयोजकं न भवति बाधस्योपाधित्वात् इति भावः । तर्हि बाधो मिथ्यात्वमस्त्वित्यत्राहन बाध इति। हेत्वसिद्धिरित्यर्थः । ननु नासिद्धिः यौक्तिकस्य सत्वादित्यत्राहब्रह्मणोऽपीति। तत्र व्यभिचार इति भावः। नन्वत्र व्यावृत्तेर्मिथ्यात्वं प्रत्यप्रयोजकत्वं बाधमिथ्यत्वयोस्साध्यसाधन भावश्च प्रतिपाद्यते । कथमेतदुपपद्यते भदाभावादित्यत्राहअयमत्रेति। अन्यत्किं बाधपर्यायाः तत्फलं वा विवक्षितम् । अन्यद्वा नाद्य इत्याहबाधपर्यायस्येति।बाधपर्यायो बाधतुल्यः ।बाधनियत इति यावत् । तत्फलमपि भ्रमनिवृत्तिः । व्यवहारनिवृत्तिश्च तेषामनुपलम्भादित्यर्थः द्वितीये आहइतरस्त्विति। तस्य मिथ्यात्वं प्रत्यप्रयोजकत्वात् इत्यर्थः । व्यतिरेकव्याप्तिसिद्धिरित्यर्थः ।बहुधेति। अन्योन्याभावान्त्यन्ता भाव भेदेनेति भावः । सर्वन्यत्वादित्यन्योन्या भावघटितासिध्युद्भावनंसर्वत्र स्वयमपि अत्यन्ताभाव घटितासिद्ध्युद्भावनमेवमिति। सर्वमेवमिति व्यतिरेकासिद्धिरित्यर्थः । यन्न सत्यं तदनुवर्तत इत्यसिद्धिमेव आनुपूर्व्येण सुश्लिष्टबहुभ्रमेष्वारोपितायाम् एकस्यां नीलरज्जौ व्यभिचारादिति भावः ।एतेनेति। भिन्नत्वं ब्रह्मणि व्यभिचारि । क्वाचित्कत्वकादाचित्कत्वे विरुद्धे । बाध्यत्वमसिद्धम् अजडत्वं दृश्यत्वानुमाने दृग्व्यतिरेककल्पदूषणेन निरस्तम् । आदिपदेन परिच्छिन्नत्वादि परिग्रहः। सङ्गातोेन्मीलितं - मूलतच्छिन्न सङ्घातमित्यर्थः ।आहिताग्नित्वात्निष्ठायाः परनिपातः ।तर्कश्चेति। सोपाधिकतया व्याप्तिशून्यत्वादा भासइत्यर्थः ॥ वत्सकुलजलधिकौस्तुभेन नृसिंहगुरुसुतेनसिंहदेवेन कृतायां शतदूषणीटीकायां षोडशोवादस्समाप्तः ।