15 दृश्यत्वानुमाननिरासवादः

॥अथ दृश्यत्वानुमाननिरासवादः पञ्चदशः ॥ 15॥
अबाधादध्यक्षप्रभृतिमितिवर्गेष्ववधृतं शरीरं यस्येदं जगदखिलमन्तर्यमयितुः ।

स मे तर्कैरतैर्निजविभवल्लुण्टाकमथनैः प्रसीदत्वासीदन्निगमशतसीमा हयमुखः ॥
यदेतत् सन्मात्रग्राहिप्रत्यक्षदूषणान्ते भाष्यम् - “सन्मात्रब्रह्मणः प्रमेयभावश्च ।
ततो जडत्व नाशित्वादयस्त्वयैवोक्ताः’’ इति ।
अनेन पश्यतोहराणां दृश्यत्वानुमानस्यानैकान्तिकत्वमपि सूचितम् ।
उत्तरत्रापि क्वचित् परमतव्याप्त्या प्रसङ्गं प्रायुङ्तः “ब्रह्म मिथ्या ज्ञानविषयत्वात्’’ इति ।
साङ्ख्याधि करणे च व्याघातमसूचयत् - “दृश्यत्वबाध्यत्वाभ्युपगमात् सुतरामसङ्गतम्’’ इति ।
योगाचारोक्त संवेदनहेतुनिरासेन च इदमपि निरस्तं भविष्यतीत्यमंस्त ।
तदिह वयं विस्तृणीमहे विगीन्तं मिथ्या दृश्यत्वात्, यद्यपि इत्थं तथा, यथा शुक्तिरजतमित्यादि ।
तत्र किमिदं मिथ्यात्वमभिप्रेतम्? किं तुच्छत्वम्, उत अन्यथाख्यातिविषयत्वम्, उत सदसद्विलक्षणत्वम्, अत प्रतिपन्नोपाधौ निषेधप्रतियोगित्वरूपं बाध्यत्वम्, अथवा स्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वम्, यद्वा सत्यब्रह्मविलक्षणत्वम्, यद्वा अन्यदेव किञ्चिदिति ।

नाऽऽद्यः; प्रतीतिविरोधात् अपसिद्धान्ताच्च ।
अत एव न द्वितीयः मिथ्यात्वाध्यासादिविषयतया सिद्धसावधनत्वाच्च ।
शुक्त्यादिरेव हि रजताद्यात्मनाऽन्यथाख्यातेर्विषय इत्यभ्युपगम्यते ।
अथाऽऽरोपितत्वेन विषयत्वमिष्येत, तथाऽपि सिद्धसाधनता; सर्वस्यापि वस्तुनो यत्र क्वचित् येन केनचिदारोप्यमाणत्वात् ।
न तृतीयः; परं प्रति अप्रसिद्धविशेषणत्वात् ।
अर्थापत्तिप्रसिद्धं तदिति चेन्न; तस्याः स्वावसरेदूषयिष्यमाणत्वात् ।

न चतुर्थः; तद्धि बाध्यत्वम्, बाध्यमबाध्यं वा? पूर्वत्र, सिद्धसाधनत्वम्, तस्य प्रपञ्चसत्यत्वाविरोधित्वात् ।
उत्तरत्र किं ब्रह्मस्वरूपम्, उत ततो भिन्नम् आद्ये सिद्धसाधनत्वम्, ब्रह्मसम्बन्धस्यास्माभिरिष्यमाणत्वात् ।
बाध्यत्वधर्मयोगो हि प्रपञ्चस्य साध्यते; बाध्यत्वं च ब्रह्मस्वरूपमित्यभिधत्से ।
द्वितीये तेनैव दृश्यत्वहेतोरनैकान्त्यम् ।
तेनैव हेतुना तत्सिद्ध्यसिद्ध्योर्नानैकान्त्यमिति चेन्न; तेनैव तत्सिद्धावनैकान्त्य प्रसङ्गः, तदसिद्धौ हेतोरसाधकत्वमिति प्रसङ्गपर्यवसितत्वात् ।
तेनैव तत्सिद्धौ तत्साधनस्य सतः कथमनैकान्त्यम् ।
न हि तत्साधकत्वे तदसाधकत्वप्रसङ्ग इत्युन्मत्तोऽपि ब्रूयादिति चेन्न,
अभिप्रायानभिज्ञानात्; न हि तत एव तत्सिद्धिमभ्युपगम्यानैकान्त्यं ब्रूमः, अपितु, अबाधिते बाध्यत्वे दृश्यत्वहेतुर्वर्तत इति भवताऽभ्युपगतत्वेन तथाऽभ्युपगमे अन्यतरानैकान्त्यप्रसङ्ग इति ।
तर्हि तत्र दृश्यत्वहेतुर्न वर्तत इत्यभ्युपगम्यानैकान्त्यं परिहरिष्याम इति चेत् - तदा दृश्यत्वानुमानेन तत्साधनं न शक्यते; तज्जनितज्ञानविषयत्वे तस्य दृश्यत्वावश्यम्भावात् ।
अतोऽनुमानमेव परित्यज्यानैकान्त्यं परिहर्तुमर्हसि ।
ननु बाधितस्याबाधितस्य चसाधारणम्बाध्यत्वमात्रं साध्यत इति चेन्न; तथाऽपि सिद्धसाधनत्वस्य दुष्परिहरत्वात्; बाधितबाध्यत्वमभ्युपगच्छतासाधारणाकारस्याभ्युपगमात् ।
पक्षधर्मताबलादस्मदभिमतविशेषलाभ इति चेन्न; तस्याः तद्विरुद्धत्वात् ।
अविरोधेऽपि पूर्वोक्तानैकान्त्यस्य स्थितत्वात् ।

न पञ्चमः; प्रत्यक्षाद्यैस्तद्विधायकैस्तदभावग्रहासम्भवात् ।
श्रुतीनामपि निषेधिकानामन्यत्र व्यवस्थापनात् ।
अत एव योग्यानुपलम्भनिराकृतसद्भावस्य तदभावस्यानुमानेन साधयितुमशक्यत्वात् ।
कृत्स्नप्रत्यक्षोपरोधे च निर्मूलतयाऽनुमानप्रामाण्यस्यैवासम्भवात् ।
तदभ्युपगमे च स्वोक्तिविरोधात् ।
परसिद्धान्तस्थिरीकरणाच्च ।
अप्रमाणेन साधितस्यापि सत्यत्वे अस्मदुक्तिमात्रेणापि तद्दूषणस्य दुर्वारत्वात् ।

नापि षष्ठः; सिद्धसाधनादेव ।
सर्वं ब्रह्मात्मकमिति भास्करादिभिरिव त्वयाऽपीष्यत इति चेन्न; तदपृथक्सिद्धिमात्रेणास्माभिस्तदुक्तेः ।
तथाऽपि सत्यभूतब्रह्मव्यतिरेकसाधनादसत्यत्वं फलतीति चेन्न; स्वयमपि सत्यस्य सत्यान्तरव्यतिरेकमात्रेणासत्यत्वप्रसङ्गाभावात् ।
स्वयं घटस्य घटान्तरव्यतिरेकेऽपि न ह्यघटत्वम् ।
ब्रह्मैकमेव सत्यमिति
सिद्धे तद्व्यतिरेकसाधनेनैवासत्यत्वं सिद्ध्यतीति चेन्न; आत्माश्रयप्रसङ्गात् ।
अवधारणेन हि प्रपञ्चासत्यत्वं विवक्षितम्, तत एव च तत्सिद्धिरिति ।
श्रुतिसिद्धब्रह्ममात्रसत्यत्वोपजीवने अनुमाननैरर्थक्यप्रसङ्गः; अन्ततः श्रुतेरेव पुरस्करणीयत्वात्,
तस्याश्च निरपेक्षत्वात्।
विप्रतिपन्नं प्रति अनुमानं सप्रयोजनमिति चेन्न; श्रुतिप्रामाण्यमनिच्छतः तदुपजीवनासम्भवात्, इच्छतस्तयैव तत्सिद्धेः ।
श्रुतेश्च प्रत्यक्षाद्यविरोधिविषयत्वे सिद्धे, सा कथं प्रत्यक्षादिबाधकानुमानस्योपजीव्या? ननु सत्यमिति केनचित् सामान्यतो निश्चित्य तद्व्यतिरेकः साध्यत इति चेन्न; प्रत्यक्षादिभिस्तन्निश्चये प्रपञ्चस्यैव सत्यतया तस्य तद्व्यतिरेकसाधनायोगात् ।
ततश्च शास्त्रनिश्चितसत्यव्यतिरेकसाधनेऽपि तस्य सत्यान्तरत्वमात्रं सिध्येत् ।
सत्यत्वात्यन्ताभावःसाध्य इति पक्षेऽप्येवमेव दोषो ग्राह्यः ।

नापि सप्तमः; तत् किं लोकतः शुक्तिरजतादिषु विधातुम्, आपणिकरजतादिषु निषेद्धंु च शक्यङ्किञ्चित्, अथाशक्यमिति; न प्रथमः, प्रत्यक्षादिभिर्बाधस्य दुर्निवारत्वात् ।
न द्वितीयः, तस्याप्रसिद्धत्वात् ।
तथाविधस्य कस्यचिदन्यस्य साधने तेनाप्युपहितस्य प्रपञ्चस्याक्षतत्वेनानिष्टाभावात् ।
एवं प्रत्यक्षबाधेनिरूपिते सति अर्थापत्त्यभावयोः पृथक्प्रामाण्यमिच्छतां ताभ्यामपि बाधःसिद्धः ।
अबाध्यत्वलक्षणव्यवहाराविसंवादान्यथानुपपत्त्या सत्यत्वसिद्धिः ।
अभावोऽपि प्रपञ्चस्य बाध्यत्वाभावाख्यं सत्यत्वं प्रकाशयन् मिथ्यात्वानुमानं बाधत एव ।
न चात्र योग्यानुपलब्धिःनास्तीति वाच्यम्; योग्यत्वस्योपपादितत्वात् ।
न हि लोकसिद्धमिथ्यात्वादन्यत् किमप्ययोग्यं मिथ्यात्वमस्ति ।
न चानयोः श्रुतिबाधः, तदान्यपर्यस्थापनात् ।

ननु सत्यत्वे सिद्धे बाधः, तदेव न किञ्चित् पश्यामः किं सत्तासामान्यम्, उत स्वरूपसत्त्वम्? अथवा भावत्वम्? यद्वा प्रामाणिकत्वमात्रम्; अथवा किञ्चिदित।
ि नाद्यः; सामान्यमनिच्छतस्तदयोगात्, इच्छतोऽपि सामान्यादिषु मिथ्यात्वसाधनस्य निरुपद्रवत्वप्रसङ्गात् ।
न द्वितीयः; तत्रापि किं स्वरूपमेवसत्त्वम्, उत स्वरूपस्य सत्त्वम्? पूर्वत्र मिथ्याभूतस्यापि स्वरूपं स्वरूपमेवेति न किञ्चित् व्यतिरिक्तं भवति ।
निस्स्वरूपं तदिति चेन्न; तेनैव रूपेण तत्स्वरूपनिर्णयात् ।
अन्यथा प्रातिस्विकवस्त्वन्तरस्वरूपाभावे सर्वेषां निःस्वरूपत्वप्रसङ्गात् ।
उतरत्र, तत्सत्त्वस्य सत्त्वान्तराभावे मिथ्यात्वं दुर्वारम् ।
ततश्च विश्वमिथ्यात्वम् ।
न तृतीयः; अभावस्य मिथ्यात्वप्रसङ्गात् ।
इष्टमिदमिति चेन्न; अविशेषात् भावस्यापि तत्प्रसङ्गात् ।
भावान्तराभाववादे तु भावानामेवाभावत्वात् तत्प्रसङ्गः ।
न चतुर्थः; दृश्यत्वानुमानमपोद्य तदसिद्धेः ।
न पञ्चमः; तस्य सर्वत्र प्रमाणबाध्यत्वे शशविषाणवदसिद्धेः ।
योग्यत्वेऽनुपलम्भबाधादिति ।

तदेतदसारम्; प्रामाणिकत्वमेव हि सर्वत्र सत्त्वमभ्युपगच्छामः ।
तदुक्तं भाष्ये, “व्यवहारयोग्यता सत्त्वम्’’ इति ।
न चैतत् बाधकानुमाने जीवति न सिद्ध्यतीति वाच्यम्; कालात्ययापदेशस्यनिर्मूलत्वप्रसङ्गात्; यथा वह्न्यनुष्णत्वानुमानं प्रतियोगिभूतोष्णत्वग्राहिणा बाध्यते, तथेहापि सत्यत्वव्यतिरेकानुमानं प्रतियोगिविशेषसत्यत्वग्राहिणा बाध्यते ।
न च तन्न गृह्यत इति वाच्यम्; तद्व्यतिरेकासिद्धिप्रसङ्गात् ।
ब्रह्मणि तद्ग्रहात् व्यतिरेकसिद्धिरिति चेन्न; ब्रह्मण्यपि सत्त्वस्य त्वदुक्तयुक्तिभिः खण्डनात् ।
तत्राखण्डितत्वे तदेव विश्वस्यापि सत्त्वमिति पश्य ।
स्वतस्सदेव ब्रह्मेति चेत्, किमहेतुकत्वं विवक्षितम्, उत
स्वयम्प्रकाशत्वम्? यद्वा सत्त्वाभावेऽपि सदिति पूर्वत्र ब्रह्मव्यतिरेकात् प्रपञ्चस्य कार्यत्वमेव साधिन्त स्यात् ।
ततश्चांशतस्सिद्धसाध्यता ।
द्वितीयेऽपि परप्रकाश्यत्वसाधनात् स एव दोषः ।
तृतीये तु प्रपञ्चस्यापि तद्वत् सत्त्वे को विरोधः? एतेन सत्त्वस्य सत्त्वान्तराभावात् असत्त्वप्रसङ्गोऽपि प्रत्युक्तः ।
अतः सत्त्वमात्रप्रतिक्षेपे शून्यवादावतारः ।
क्वचित् तदभ्युपगमे प्रामाणिकेषु सर्वेषु तत्सिद्धिरनिवार्येति ।
न चैवं मिथ्यात्वासत्त्वादौ; तस्य सामान्यतोऽस्माभिरप्रतिक्षेपात् ।
सत्यस्यैव हि रजतत्वादेः स्वात्यन्ताभावाश्रयनिष्ठतया प्रतीयमानत्ववेषेणमिथ्यात्वम्; तत्तन्निष्ठात्यन्ताभावप्रतियोगित्वमेव तस्यासत्त्वमिति यथालोकमभ्युपगमात् ।
किञ्च य एष विश्वं विचारासहमलीकमनिर्वचनीयं चेत्यादिरूपं व्याहतप्रतिज्ञानमाद्रियते, स किं स्वपक्षं किञ्चित् स्थापयति, न वा? स्थापनेऽपि प्रमाणतः, अप्रमाणतोऽपि वा नेति पक्षे परपक्षं दूषयतोऽयमेव विकल्पः ।
तत्र प्रमाणत इति पक्षे तत् प्रमाणं तथात्वेन विचारसहम्, नवा? पूर्वत्र कथं विश्वमिथ्यात्वम्? तस्यापि तदन्तर्भावात्; उत्तरत्र कथं तत् प्रमाणम् ।
प्रमाणताभ्रमेणेति चेत्, तथाऽपि किं तेन? अन्यथा हेत्वाभासानामप्रतिक्षेपे सर्वसमयसाम्राज्यप्रसङ्गात् ।
लोकव्यवहारसिद्धमिति चेन्न; तस्य सपरिकरस्य परिग्रहे लोकस्थिरीकरणात् ।
प्रमाणान्तराविरोधादेश्च तत्परिकरत्वात् ।
अन्यथा लोकतोऽप्यसिद्धेः ।
त्रिचतुरकक्ष्या विमर्शावस्थापितमिति चेन्न; तथैव विश्वानुग्राहकप्रमाणानामव्यवस्थापनात् ।
तत्तद्विमर्शबाधस्य विश्वद्वेषिण्यपि निवारकाभावात् ।
तस्य तु प्रथमकक्ष्यायामेव स्फुटप्रतीति व्याघातादिभिर्विलय इति विशेष इति ।

न चापच्छेदनिमित्तनैमित्तिकशास्त्रयोः प्रामाण्याविशेष इव अप्रामाण्यविशेषेऽपि परत्वात् प्राबल्यम्; न मिथ्येत्यस्मदुक्तेस्ततोऽपि
परत्वात् ।
अविश्रमस्तर्हीति चेन्न; स्वदोषस्य परत्राऽऽरोपात् ।
परत्वमात्रेण प्राबल्यं ब्रुवतस्तवैवासौ दोषः ।
किञ्च यद्यप्रमाणं परं स्वविषयं नावस्थापयेत्, कथं प्रबलम्; स्थापयतो वा कथमप्रामाण्यम्? ।
ननु प्रमाणत्वे कथं बाध्यत्वम्, तस्मिन् वा कथं तदित्यपच्छेदेऽपि प्रसज्यत इति चेन्न; अनियतविरोधपौर्वापर्यतया अन्यतरोदयसम्भावनया च प्रयोगान्तरेषु प्रामाण्योपपत्तेः ।
किञ्चत्वदुक्तप्रमाणस्यापि दुष्टकारणप्रसूतत्वं त्वयैवाभ्युपगम्यत इति अदोषप्रसूततयाऽपि न प्राबल्दौर्बल्य विभागः ।
अन्यथा माध्यमिकयुक्तीनां सर्वसिद्धान्तजीवितास्वादिनीनां सर्वतः परत्वेन प्राबल्यप्रसङ्गात् ।
तदेवं सिद्धं न कथञ्चिदपि विश्वमिथ्यात्वप्रतिज्ञानं शक््यमिति ।

दृश्यत्वं च किमभिप्रेतं? किं चाक्षुषत्वम्? उत प्रत्यक्षज्ञानविषयत्वम्, यद्वा ज्ञानविषयत्वमात्रम्, उत दृग्व्यतिरिक्तत्वम्, अथवा अन्यत् किञ्चिदिति?नाऽऽद्यः; भागासिद्धत्वात् ।
अत एव न द्वितीय; व्यर्थविशेषणत्वाच्च ।
ब्रह्मव्यच्छेदार्थं विशेषणं सार्थकमिति चेन्न; तस्य ज्ञानविषयत्वानभ्युपगमात् ।
अभ्युपगमे वा योगिप्रत्यक्षादिविषयतया सन्मात्रग्राहिप्रत्यक्षवर्णनाच्च हेतोस्तत्र वृत्तेः ।
न च तृतीयः; अनैकान्तिकत्वादेव ।
ज्ञानविषयत्वमात्रमपि ब्रह्मणो नास्तीति चेन्न; “आत्मा वाद्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’’ (बृ.4 - 4 - 5) “ब्रह्म वेद ब्रह्मैव भवति’’ (मुण्ड - 3 - 2 - 1) “अथातो ब्रह्मजिज्ञासा’’(ब्र.सू.1 - 1 - 1) इत्यादिस्वपराभ्युपगतश्रुतिसूत्रादिविरोधात् ।
सन्मात्रग्राहि प्रत्यक्षमिति वादस्यापि प्रहाणप्रसङ्गाच्च ।
व्यावहारिकं ब्रह्मणो दृश्यत्वम्, न तु पारमार्थिकमिति चेत्, हन्त! किं प्रपञ्चदृश्यत्वं पारमार्थिकम्, येन तस्मिन् मिथ्यात्वं सिद्ध्येत् ।
तथाच सति पारमार्थिकं दृश्यत्वम् ।
तत एव दृश्यम् अपारमार्थिकमिति भ्रान्तजल्पितायेत ।
अतः प्रपञ्चस्यापि व्यावहारिकदृश्यत्वमभ्युपेयम्; तच्च ब्रह्मणोऽप्यविशिष्टमिति तस्यापि मिथ्यात्वप्रसङ्गस्याविशेषेऽपि सत्यत्वे, प्रपञ्चस्यापि सत्यत्वप्रसङ्गः ।
यदिच व्यावहारिकमपि दृश्यत्वं ब्रह्मणो नास्तीत्युच्येत, तदा ब्रह्मविज्ञानान्मोक्ष इति वेदान्तसिद्धान्तविरोधश्च ।

किञ्च, “ब्रह्मणो दृश्यत्वं नास्ति’ इत्यत्र ब्रह्मशब्दः किं कस्यचिदप्यबोधकः उताब्रह्मबोधकः अथवा ब्रह्मबोधक इति? नाद्यः ब्रह्मशब्दप्रयोगनैरर्थक््यप्रसङ्गात् ।
न द्वितीयः; अब्रह्मणस्तेनाभिधाने तस्यैव दृश्यत्वनिषेधात्; ततः प्रपञ्चे हेतोरसिद्धेश्च ।
न तृतीयः; ब्रह्मणो दृश्यत्वस्य दुस्त्यजत्वात् ।
स्वयम्प्रकाशस्यब्रह्मणो यथाकथञ्चिल्लक्षणया ब्रह्मशब्देन प्रतिपादनमिति चेत्, तथाऽपि लक्षणया वृत्त्या शब्दजन्यप्रतीतिविषयत्वं सिद्धम् ।
तावतैव दृश्यत्वमवर्जनीयम् ।
ब्रह्मशब्देन ब्रह्मणो लक्षणा चानुपपन्नेति आदावेवोक्तम् ।
एतेन सर्वशब्दागोचरत्वं ब्रह्मणो वदन् प्रत्युक्तः; ब्रह्म न शब्दप्रतिपाद्यमित्यत्र पूर्ववत् विकल्पदूषणयोरवर्जनीयत्वात् ।
“यतो वाचो निवर्तन्ते’’ (तै.आनं.1) इत्यत्रापि यच्छब्देन ब्रह्मानुवादोऽवर्जनीयः उपहितमूनद्यत इति चेत्, तथाऽपि ज्ञानविषयत्वं सिद्धम् ।
उपहितानुवादेनानुपहितेतन्निषेधश्चाशक्यः ।
एवमनुभूतिःस्वयम्प्रकाशेत्यादिभिरवेद्यत्वप्रतिपादनमपि तन्निराससमये निरस्तं द्रष्टव्यम् ।

न चतुर्थः;पारमार्थिकव्यतिरेकस्य शुक्तिकारजतादौ प्रपञ्चेऽप्यनभ्युपगमेन साधनविकलत्व असिद्ध्यादिदोषात् ।

अपारमार्थिकव्यतिरेकस्य ब्रह्मण्यपि विद्यमानत्वेनानैकान्त्यादेव ।
अत एव प्रातिभासिकव्यतिरेकपक्षोऽपि निरस्तः ।
किञ्च घटोऽस्ति पटोऽस्तीत्यादिषु सत्त्वमनुभूतिविषयतयैव प्रतिभासते ।

॥इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषुशतदूषण्यां दृश्यत्वानुमाननिरासवादः पञ्चदशः ॥15॥

नृसिंहराजीया

निर्विशेषस्य शास्त्रवेद्यत्वे शास्त्रस्याप्रामाण्यमुक्तम् । किं च ब्रह्मणो मिथ्यात्वमपि स्यादित्युत्थानात्सङ्गतिरित्यभिप्रेत्य वादार्थं सङ्गृह्णातिअबाधाध्यक्षेति। प्रत्यक्षादिमिति वर्गेषु मध्ये कयापि मिथ्याबोधाभावात्जगदखिलंयस्य शरीरमवगतमित्यर्थः । अनेन वादार्थः सूचितः । जगतो बाधितत्वं हि मिथ्यात्वम् । तदभावोक्तेः । शरीरत्वोक्तौ"“सर्वं खल्विदं ब्रह्मे (छां.3 - 14 - 1)त्यादेक निर्देशस्यशरीरिशररभावनिबन्धनत्वसूचनान्न बाधार्थसामानाधिकरण्येन मिथ्यात्वमिति सूच्यते । एतैर्वक्ष्यमाणलक्षणैःनिजविभवस्यैश्वर्यस्य लुण्टाकास्तस्कराः मिथ्यात्ववादिनः तेषाम्मथनैः। एतेन परपक्षस्य प्रतिकूलतर्कपराहतिरुक्ता । एतादृश तर्कैः सहासीदन्सन्निधानः निगमशतसीमा - समस्त - श्रुतिप्रतिपाद्यःप्रसीदत्विति प्रार्थना । सन्मात्रग्राहिप्रत्यक्षपक्षे प्रतिकूलतर्कप्रदर्शनपरतया अस्य वादस्य तच्छेषत्वमिति सूचयतियदेतदिति। केचित्तु स्वेन वक्ष्यमाणदूषणस्य सम्प्रदायसिद्धत्वमाहयदेतदित्यादिना इत्याहुः ॥ नाशित्वादयइत्यादिशब्देनमिथ्यात्वं गृह्यते। अनेकान्तत्वं सूचितमिति। दृश्यत्वेपि मिथ्यात्वभाव सम्प्रतिपत्तेःरिति भावः। उत्तरत्रेति । तेनाप्यनैकान्त्यं सूचितम् । प्रसङ्गाभिप्रायत्वात्। प्रयोगस्येति। साङ्ख्ये दृश्यत्वं बाध्यत्वाभ्युपगमात्सुतरामसङ्गतमिति भाष्यमित्यर्थः । दृगधीनसिद्धत्वं दृश्यत्वम् । दृगधीन बाध्यत्वं मिथ्यात्वम् । तथा चास्तीति ज्ञानविषयत्वान्नास्तीति ज्ञानं विषय इति पर्यवसानात् व्याधात् इत्यर्थः ।योगाचारेति। ““जागरितप्रत्ययो निरालम्बनः संवेदनत्वात् स्वाप्नप्रत्यय’‘वदिति बौद्धानुमानं"“वैधर्म्याच्च न स्वप्नादिवदि’’ (ब्र.सू.2 - 2 - 28)ति सूत्रभाष्ये दूषितम् । मायिना ““प्रम्पचो मिथ्या दृश्यत्वात् शुक्तिरजतस्वाप्नाद्यर्थवदि’‘त्युक्तम् । एवं च ज्ञातत्वेन मिथ्यात्वविषयत्वसाधनस्य ज्ञानविषयत्वेन मिथ्यात्वसाधनस्य चाविशेषात् ज्ञानत्वदूषणान्येव तद्विषयत्वहेतोरपि भवन्तीत्यर्थः ।यद्वेतिब्रह्मविलक्षणत्वमित्यर्थः । वस्तुतो ब्रह्मणस्सत्यत्वात्तद्वैलक्षण्यासिद्धया मिथ्यात्वसिद्धिरिति भावः । प्रतीतिविरोधादितिअसच्चेन्न प्रतीयेतेति भवद्भिरेवाभिधानादिति भावः । अत एव अपसिद्धान्त इति ध्येयम् ।मिथ्यात्वेति। सत्यभूतस्य प्रपञ्चस्य रजतत्वाध्यासविषयस्य शुक्तेरिव मिथ्यात्वप्रकारकज्ञानविषयत्वात् सिद्धसाधनमित्यर्थः । आदिशब्देन क्षणिकत्वादिविवक्षितम् । अध्यासादित्यादिशब्देन रजतत्वाध्यासविवक्षा । ननु मिथ्यात्वाध्यास्य मिथ्यात्वाद्येव विषयः न प्रपञ्चः इति न सिद्धसाधनमित्यत्राह ।शुक्त्यादिरिति। अध्यासस्याधिष्ठानविषयत्वनियमात् अन्यथा बाधायोगेनभ्रमत्वायोगादिति भावः । ननु स्वात्यन्ताभावाधिकरणेऽन्यथाख्याति विषयत्वं विवक्षितं पूर्वोक्तं तु तत्तेथेति न सिद्धसाधनमिति शङ्कतेअथेति।सर्वस्येतिइदं रजतमिति शुक्तौ रजतत्वारोपवत् इदं भूतलं रजतवदित्यादि रूपेण धर्मिण एवारोपसम्भवादिति भावः ।अप्रसिद्धविशेषणत्वमिति। सर्वस्य विशेषणीभूतसाध्यं प्रसिद्धमित्यर्थः । ननु ख्यातिबाधान्यथानुपपत्त्या शुक्तिरजते प्रसिद्धमिति शङ्कतेअर्थापत्तीति। पूर्वत्रेतिमिथ्यात्वस्य च मिथ्यात्वे मिथ्याभूतस्य शङ्खारोपितपीतिम्नः श्वैत्येनेव पारमार्थिक सत्यत्वे न अविरोधात् अर्थान्तरमित्यर्थः । अर्थान्तरमोपपादयतितस्येति। बाध्यत्वस्येस्यर्थः । आद्येऽपि किं बाध्यत्वं सम्बन्धस्साध्यते बाध्यत्वं वा । आद्ये दोषमाहअन्ये इति। द्वितीय्ये आहबोध्यत्व इति। बाध्यत्व धर्मयोग इति। साध्यस्य पक्षधर्मताभिहिता न तु योगस्य साध्यत्वं ततश्च स्वमहिम्नि प्रतिष्ठितस्य अनन्याधारत्वात् व्याहतिरित्यर्थः । अत एव सर्वार्थसिद्धौ ““सत्यमिथ्यात्वब्रह्मत्वमिति कोटिनिराकरणे ब्रह्मस्वरूपस्य सत्यस्य असत्यवृत्तित्वव्याधाताभिधान मनैकान्त्यमिति’’ मिथ्यात्वरूपसाध्यस्या बाध्यत्वात्तत्रा हेतोर्वृत्तेरिति भावः ।तेनैव हेतु नेति। तेनैव हेतुना मिथ्यात्वसिध्यनन्तर ज्ञातम् अनैकान्त्यं मिथ्यात्वसिद्धावप्रतिबन्धकत्वात् न दोषः । असिद्धिदशायान्तु अनुपस्थित्वादेव अदोष इत्यर्थः । अयं चानिष्टप्रसङ्गः । सिद्धेः प्रागस्तीति सिद्धि प्रतिबन्धक एवेति भावः । शङ्कतेतेनैव तदिति। असाधकत्वमनैकान्त्यं तत्सिद्धावनैकान्त्यमित्यस्या साधकत्वमिति पर्यवसितत्वात् । आपाद्यापादकव्याधातेन प्रसङ्गानुपपत्तेर्न प्रतिबन्धक इत्याशयः । नहि ।तत एवेति। यद्यनेन साध्यं सिध्येत् तदा अनैकान्तिकत्वमिति नापादयामः येन व्याधातस्यात् । हेतुना व्याप्तिग्रहणदशायाम्उपस्थितसाध्येऽपि हेतुग्रहात् तव तत्र अनैकान्यज्ञानसत्वात् कथं व्याप्तिग्रहमूलकानुमान प्रयोगइत्यर्थः ।तदेति। यद्यपि यदि दृश्यत्वाभाव निश्चये सति तस्य तज्जनितानुमितिविषयत्वं न सम्भवति । नचात्र तदभाव निश्चयः । किन्तु दृश्यत्वाभाव निश्चयएवेति । अस्तु वा दृश्यत्वाभावनिश्चयः । तथापि भिन्न विषयत्वात् व प्रतिबन्धसम्भवः तथापि तत्र हेतुव्यतिरेकग्रहाभावे तन्निश्चयस्यादेव । तन्निश्चये च सति स्वप्रकाशतया तदज्ञानविषयस्यापि भानसम्भवेन समानविषयत्वादिति भावः ।नन्विति। बाधितार्थस्या बाधितार्थस्य चसाधारणबाध्यत्वमात्रं साध्यं नत्वबाधित साध्यत्वम् । एवं च प्रपञ्चे सामान्येन रूपेण सिसाधयिषितस्य अबाध्यबाध्यत्वस्य प्रागसिद्धेर्न सिद्धसाधनम् । साध्ये च बाधितबाध्यत्वमादाय बाध्यत्वसामान्यस्यसत्वात् नानैकान्त्यमित्यर्थःतथापीति।साध्यतावच्छेदकावच्छिन्नस्य पक्षेसिद्धिः न तु तद्विशेषावच्छिन्नस्य ।तथा च तादृशस्य बाधितबाध्यत्वस्य पक्षे सत्वात्सिद्धसाधनमिति भावः ।पक्षधर्मताबलादितिपक्षधर्मताबलात् अबाधितबाध्यत्वरूपविशेष एव प्रम्पचे सिध्यति । अन्यथा दृशि जडस्याबाधित कल्पितत्वमन्तरेण अपरोक्षत्वानुपपत्तेः । न बाधो विशेषः । साध्यतावच्छेदकवच्छिन्न रूपेण सिध्यतीति भिन्नविषयापि तत्समानाकारसिद्धिः प्रागेवास्तीति सिद्धसाधनमिति वाच्यम् । पक्षधर्मताबलादेव अबाधितबाध्यत्वेनैव सिद्धेः। अनुमितिसमानाकारसिद्धेश्च पूर्वमभावान्न सिद्धसाधन मित्यर्थः । तस्या इति। दृगधीनसिद्धिकत्वं दृश्यत्वम् । तत्पक्षधर्मतायाः दृगयास्साध्यत्वेन विरुद्धत्वादित्यर्थः ।अविरोधेपीतिपक्षधर्मताबलात् प्रपञ्चे बाधितत्वम् अबाधितत्वरूपेण सिद्धयति तत्साध्यत्वे च तादृशबाध्यत्वाभावसम्प्रतिपत्तेः । दृश्यत्वास्यापि सत्वादनैकान्त्यमित्यर्थः । ननु बाध्यत्वामात्रं साध्यमित्युक्तम् । तच्च पक्षधर्मताबललभ्याबाधित बाध्यत्वेप्यऽस्ति । बाधितबाध्यत्वस्य तत्र सम्भवात् । तथा च कथमनैकात्यमिति चेत् उच्यते साध्यगतसाध्यत्वं यदि बाध्यं तर्हि प्रम्पचासत्यत्वं स्यात् । तत्र व्यभिचारश्च यदि चतुर्थमादाय परिहारः तथा प्रपञ्चस्य सत्यत्वं स्यात् । एवं च साध्यत्व परम्परायां यद्युयुग्मबाध्यत्वमादाय प्रथमबाध्यत्वस्य अबाध्यत्वेन न सिद्धसाधन परिहारः। तथाहि युग्मबाध्यत्वमादाय प्रपञ्च सत्यत्वमेव स्यादिति न विवक्षितसाध्यसिद्धिरिति भावः । प्रत्यक्षाद्यैरिति। स्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वं स्वात्यन्ताभाव समानाधिकरणप्रतीतिविषयत्वम् । सा च प्रतीतिर्नसम्भवति प्रतियोगिग्राहिकया प्रतीत्यातत्त्रैव तदभावग्रहसम्भवादित्यर्थः । ननु प्रपञ्चविधायक निषेधश्रुत्या तादृशप्रतीतिस्सम्भवतीत्यत्राहश्रुतीनामपीति। विहितव्यतिरिक्तविषयत्वेन व्यवस्थापनात् न भावाभावसामानाधिकरण्यधीरिति भावः ।ननु स्वात्यन्ताभावसमानाधिकरणत्वप्रकारक प्रतीतिविषयत्वं साध्यम् । तच्च स्वात्यन्ताभाव समानाधिकरण विशेष्यक स्वात्यन्ताभाव समानाधि करणप्रकारक प्रतीतिविषयत्वम् । सा च प्रतीतिः एतदनुमानजन्यानुमितिरेव स्वात्यन्ताभावसमानाधि करणविशेष्यकेत्यंशे स्वात्यन्ताभाव समानाधिकरणत्वस्य प्रकारतयावगाहनादित्यत्राहअत एवेति। प्रतियोगि समानाधिकरणतया अभावप्रत्यक्षस्य असम्भवनिरस्ततया प्रतियोगिसामानाधिकरण्यावच्छिन्ना भावानुपलम्भेन तादृशाभावस्य निरस्ततया तत्साधनस्य अनेन मानेनासम्भवादित्यर्थः ।कृत्स्नेतिअनेनानुमानेन सर्वस्याप्यभावसाधने कृत्स्नप्रत्यक्षस्यापि अप्रामाण्यात् पक्षहेतुव्याप्त्यादीनाम् असिद्धयाअनुमान प्रामाण्यमेव न स्यादित्यर्थः । अनुमानाप्रामाण्य प्रसङ्ग इष्ट एवेत्यत्राहतदभ्युपगम इति।स्वोक्तिः।साध्यसिध्यर्थमनुमानप्रयोगः स नस्यादित्यर्थः।परेति। बाधकाभावात् सत्यत्वस्यैव सिद्धिप्रसङ्गादित्यर्थः ।ननु प्रामाण्य प्रयोजक व्याप्त्याद्याकार हीनापि लिङ्गेन साधितस्य सत्यतया यादृच्छिकसंवादस्थले दृष्टा तद्वदिहापि स्यादित्याशङ्क्य तथा सत्यस्मदुक्तिमात्रेण तदभावेऽपि सत्यस्यादिति परिहरतिअप्रमाणेनेति। ननु सिद्धसाधनम् । ब्रह्मात्मकत्वपक्षे तदवच्छिन्नस्य प्रपञ्चस्य तद्भेदासिद्धिरिति शङ्कतेसर्वं ब्रह्मात्मकमिति। ब्रह्मैव स्वाभिन्न सत्योपाधिवशात् चिदचिदीश्वरविभागं भजते । वस्तुतस्सर्वं ब्रह्मात्मकमेवेति भास्करमतमिति भावः । सिद्धान्तस्य भास्करमाताद्वैलक्षण्यमाहतदपृथगिति। शरीरशरीरिभाव निबन्धनत्वात् तदभेदव्यपदेशस्य न शुद्धाभेद इत्यर्थः । ननु ब्रह्मण एव सत्यत्वात् तद्व्यतिरेक सत्वावच्छिन्नव्यातिरेकस्यादिति शङ्कतेतथापीति। ब्रह्मैकमेव सत्यमित्यसिद्धम् । अन्यस्यापि सत्वेन प्रतीतेः । तथा च ब्रह्मव्यतिरेकसाधनेपि सत्वावच्छिन्नव्यतिरेको न सिध्यतीति परिहरतिस्वयमपीति। ब्रह्मैकमेव सत्यमिति सिद्धं तथा च तद्व्यतिरेकसत्वावच्छिन्नः सिध्यतीति शङ्कतेब्रह्मैकमिति ।अवधारणेनहीति ।ब्रह्मैव सत्यमित्यवधारणस्य ब्रह्मसत्यत्वे सति इतरासत्यत्वमर्थः इत्यात्माश्रय इत्यर्थः ।अत एवेति। अनेनानुमानेन ब्रह्मेतरासत्यत्वसिद्धिरित्यर्थः । ननु श्रुतिवदनुमानस्यापि प्रमाणत्वात् न अन्यतरेण अन्यत रानार्थ्यक्यमित्यत्राहअन्तत इति। अनुमानात्पूर्वं श्रुतेः पुरस्करणीयत्वात् अनुमाननैरर्थक्यमित्यर्थः। विप्रतिपन्नमिति। श्रुति प्रामाण्ये विप्रतिपन्नं प्रतीत्यर्थः ।श्रुतिप्रामाण्यमिति।तथा च ब्रह्मैक सत्वासिद्धेः प्रपञ्चस्य असत्वं न सिध्यतीत्यर्थः । वस्तुतः श्रुत्या तत्सिद्धिर्नास्तीत्याहश्रुतेश्चेति।ननु ब्रह्मैकमेवेति निश्चित्य न सत्यवैलक्षण्यस्साध्यते । येनमिथ्यात्वश्रुतिरुपतप्येत । किन्तु सत्यमस्तीति निश्चित्येति शङ्कतेनन्विति। किं सत्यत्वावच्छिन्नव्यतिरेकस्साध्यते । यद्वा ब्रह्मव्यतिरेकः नाद्य इत्याहप्रत्यक्षादिभिरिति। तेषां प्रत्यक्षविषयत्वनियमात् तत्र सत्यत्वग्रहे सत्यत्वावच्छिन्नव्यतिरेकसाधनं बाधितमिति भावः । द्वितीय्येआहततश्चेति । एकमेवेतिप्रत्यक्षादिबाधो ग्राह्य इत्यर्थः ।तेषां च प्रपञ्चविषयत्व नियमात्तत्र सत्यत्वग्रहे सत्यत्वावभिन्न व्यतिरेक साधनं बाधितमिति भावः । प्रत्यक्षादिभिरितिसत्यत्वग्राहिभिरिति शेषः ।तस्येति। तथाच व्याप्तिग्रहायोगात् व्याप्यत्वासिद्धिरिति भावः । तथाविधस्येति। विधिनिषेधायोग्यस्य सिद्धसाधनबाधादिविरहात् तस्य साधने प्रपञ्चमपहर्तुं प्रवृत्तेन अधिकं साधितमिति भावः । अर्थापत्त्या बाधमुपपादयतिअबाध्यत्वेति। अभावप्रमाणेन बाधमुपपादयतिअभावोऽपीति । योग्यत्वस्येति।चरमविकल्पदूषणे शुक्तिरजतादिप्रसिद्धातिरिक्तस्य कस्य चिन्मिथ्यत्वरूपतानिरपेक्षान्मिथ्यत्वस्य योग्यतामुपपादितमिति भावः । तदेव स्मारयतिनहीति।अनयोरर्थापत्त्यभावयोः । ननु सत्यत्वग्राहिप्रत्यक्षेण उक्तो बाधोनुपपन्नः । सत्यस्यस्यैवानिरूपणादिति शङ्कतेनन्विति । इच्छतोपीति। वृक्षे संयोगानुमानवत् पक्षैकदेशे मिथ्यानुमाने क्रमेण सर्वमिथ्यानुमानं स्यादिति भावः ।किञ्चिदिति। मिथ्यावस्तु व्यावृत्तं सत्यत्वं नोक्तं भवतीत्यर्थः ।नीरूपं तदिति चेदितिसत्यत्वनङ्गीकारात् तुच्छत्वपर्यवसानादिति भावः ।तेनैवेति। असद्विलक्षणत्वस्याप्यभ्युपगमान्मिथ्यात्वाश्रयस्वरूपेणैव सत्स्वरूपत्वमित्यर्थः ।अन्यथेति। यत्किञ्चित्स्वरूपे सत्यपि यत्किञ्चित्स्वरूपाभावमात्रेण निस्वरूपत्व इत्यर्थः ।वस्त्वन्तरस्वरूपाभाव इतिसतीति शेषः । प्रातिस्विकरूपाभावस्य सत्वादित्यर्थः ।उत्तरत्रेति। स्वरूपस्य सत्यत्वमित्यस्मिन् विकल्पे इत्यर्थः । सत्वान्तराङ्गीकारत्वेऽनवस्थास्यादव्याप्त्यनिरूपणा दात्माश्रयश्चेति भावः ।ततश्चेति। सत्यस्यैवाभावादिति भावः ।इष्टमिदमिति। अभावत्वादेवतस्यमिथ्यात्वमिष्टमित्यर्थः ।भावस्यापीति। प्रमाणसिद्धत्वाविशेष्य भावस्यमिथ्यात्वे भावस्यापि तत्प्रसङ्ग इत्यर्थः ।भावान्तरेति। अभावत्वस्य मिथ्यात्वप्रयोजकत्वपर्यवसानादिति भावः । दृश्यत्वानुमानप्रवृत्तिसमये प्रपञ्चग्राहिप्रतीतेः प्रामाण्यसन्देहात् प्रामाणिकत्वस्य प्रपञ्चे सिद्धयासिध्यभावादितिभावः प्रामाणिकत्वमिति ।सर्वत्रेति। ब्रह्मणि ततोऽन्यत्र प्रपञ्चेत्यर्थः ।अनुपलम्भबाधादिति।इदं सदिदंसदित्यपलम्भावानुपलम्भबाध इति चेत् न तस्याधिष्ठान भूतब्रह्मसत्ताविषयत्वात् ततोऽतिरिक्तायां मानाभावादिति भावः॥ प्रामाणिकत्वमिति। प्रामाणिकविषयत्वं प्रमेयत्वमेवेत्यर्थः । ननु प्रत्यक्षेण सदिति ग्रहणं न स्यात् ।प्रमाणस्यातीन्द्रियतया तद्विषयस्यापीतीन्द्रियत्वात् । किं च प्रमाणपदं व्यर्थं विषयत्वमात्रस्यैव लक्षणत्वसम्भवात् । किं च तद्विषयत्वं विशेषणम् उपलक्षणं वा नाद्यः तदभावदशायाम् असत्वप्रसङ्गात् । नद्वितीयः उपलक्ष्यतावच्छेदकाभावात् इत्यत आहतदुक्तमिति। व्यवहारोऽर्थक्तिया तद्योगतावच्छेदकमित्यर्थः । ननु तस्यालम्भ इति चेत् न प्रमाणविषयतावच्छेदकस्यैव तदवच्छेदकत्वात् । सच धर्मः कालसम्बन्धः । न च तस्य प्रत्यक्षासम्भवः । अयं घट इति कालिक सम्बन्ध प्रतीतेरनुभवसिद्धतया कालतत्सम्बन्धयोः षडिन्द्रियवेद्यत्वात् । यद्वा वर्तमानवस्तुगोचरसामग्रयाः अयं स्वभावः। तत्कालसम्बन्धग्राहकत्वमिति। अत एव न व्यर्थविशेषणत्वम् । तस्योक्तधर्मोपलक्षणार्थत्वात् इत्याहुः ।तन्नगृह्यत इति। तथा च कालात्ययापदेशस्य न निर्मूलत्वमिति भावः । तर्हि व्यतिरेकानुपस्थित्या व्याप्तिग्रहणाभावात् अनुमानमेव नोदयमासादयदित्याहतद्व्यतिरेकेति । त्वदुक्तयुक्तिभिरिति ।तत्किंसत्तासामान्यैरिति। विकल्पाभिहितैरित्यर्थः ।पूर्वत्रेति। अहेतुकं मायाकार्यपर्यवसानादिभावः।ततश्चेति।प्रकृतिकालात्मव्यतिरिक्तस्य सत्वस्यापि कार्यत्वस्य सम्प्रतिपन्नत्वादिति भावः ।परप्रकाश्यत्वेतितेन सत्वस्यैव सिद्धेः हेतोः विरुद्धत्वम् अदोष इत्यर्थः ।एतेनेति। स्वरूपेणैव सत्वादित्यर्थः । एवं ब्रह्मणोपि सत्वं परिहार प्रम्पचस्य वा सत्वं स्वीकुरु नार्थमुखेन्नेयन्यायाश्रयेत्याह ।तत इति। ननु तर्हि मिथ्यात्वादावप्येवं विकल्पस्यात् प्रपञ्चमिथ्यात्वप्रतिक्षेपे शुक्तिरजतस्यापि मिथ्यात्वं न स्यात् शुक्तिरजतस्य मिथ्यात्वाङ्गीकारे प्रपञ्चोतथास्यात् । एवं शशश्रृङ्गस्थ असत्वाङ्गीकारे प्रपञ्चस्याप्यसत्वं स्यात् । प्रपञ्चे(मिथ्यात्व) तत्प्रतिक्षेपे शशश्रृङ्गस्यापि तन्नस्यादित्यत्राहन चैवमिति। तस्य सामान्यतोअस्माभिरिति ।स्वरूपेण किं चेन्मिथ्या किञ्चिदसदिति नाङ्गीक्रियते । किन्तु सत्स्वरूपस्यैव अधिकरणविशेषमादाय अङ्गीक्रियत इतिप्रतिचारमिति। विचारसहत्व प्रतिज्ञया अनीकत्वप्रतिज्ञानं व्याहतंविचार्थैव अलीकत्वनिर्णयात् । अलीकत्वेननिर्वचनादेवालीकत्वप्रतिज्ञानम् अनिर्वचनीयत्वप्रतिज्ञया व्याहतम् ।तथा प्रथमेन वा निर्वचनीयत्वमपि व्याहतं विचार्यैव अनिर्वचनीयत्वस्थापनादित्यर्थः । एवं चोन्मत्त इव व्याहतं वा उपेक्ष्य इति भावः । जाल्पिको वैतण्डिको वेति विकल्पयति ।सकिमिति।स्वपक्षसाधनपरपक्षदूषण विकल्पकोटिद्वयमपि युगवदेव निरकरोतितत्र प्रमाणत इति ।तथात्वेन - प्रमाणत्वेन।कथं विश्वमिथ्यात्वम् ।विचारासहत्वं मिथ्यात्वं विवक्षितमिति भावः ।तस्यापीति। प्रमाणस्यापिपक्षान्तर्भावदिति भावः ।तथापीति। न भ्रममात्रेण प्रमाणता तथा च न किञ्चित्प्रयोजनमित्यर्थः ।अन्यथेति।तादृशेनापि प्रयोजनसिद्धावित्यर्थः ।लोकव्यवहारेतिस्वपक्षसाधनत्वेनाभिमतं लोकव्यवहारेण प्रमाणतया सिद्धं न तथा हेत्वाभास इत्यर्थः ।ननु।तस्येति। लोकव्यवहारसिद्धस्य सपरिकरस्य प्रमाणस्य परिग्रहे प्रमाणान्तराविरोधानुकूलतत्कालादेस्तत्परिकरतया तादृशप्रमाणेन प्रपञ्चसत्यत्वमेव सिध्येत् । प्रपञ्चमिथ्यात्व साधकस्य प्रमाणान्तरविरोधादनुकूलतर्काभावाच्च लोकतस्सिध्यभावात् न तेन विश्वमिथ्यात्वसिद्धिरित्यर्थः ।अन्यथेति। सपरिकरस्य साधकत्वं लोकव्यवहारतोप्यसिद्धम् । लोके सपरिकरस्यैव प्रमाणत्वव्यवहारादिति भावः । त्रिचतुरकक्ष्या सह प्रमाणतयाविचारे तदेवलोकव्यवहारसिद्धमिति विवभासादि तु प्रमाणतया विचारे न तथेति शङ्कतेत्रिचतुरेति। प्रमाणमिति शेषः ।विश्वानुग्राहकाः - विश्वसत्यत्वस्थापकाः । ननु सत्यत्वस्थापकस्य बाधो दृश्यते अपितुमिथ्यात्वस्थापकस्येति वैषम्यमस्तीति चेत्तत्राहतत्तदिति। विश्वद्वेषिप्रपञ्चमिथ्यात्वसाधकं प्रमाणमित्यर्थः । उक्तदोषं परिहन्त प्रमाणत्व दूषणं च युगपदनुवदतिन चेति। परिहरतिन मिथ्येति।अविश्रमस्तर्हीतितदुपरि तन्निषेधस्यापि भावादित्यर्थः । परं किं स्वविषयं ज्ञापयति न वेति कल्पमभिप्रेत्याहकिं चेति । अनियतेति ।अन्यतरोदयसम्भावनया नैकावच्छेदकत्वाभावेनानियतविरोधतया नियतपौर्वापर्यतया च अन्यतर शास्त्रानुष्ठान सम्भवादित्यर्थः । किं च परस्य प्राबल्यं च तदापि दुष्टकारणजन्यत्वतदभावाभ्यां वैषम्यं वाच्यम् । तच्च त्वन्मते न सम्भवतीत्याहत्वदुक्तेति।अदोषप्रसूततया - दोषाजन्यतयेत्यर्थः। प्राबल्यइत्यर्थः । मिथ्यात्वनिर्वचनसम्भवात् पक्षहेत्वादिर्भिर्व्याधातात् साधनासम्भवाच्च न विश्वमिथ्यात्वप्रतिज्ञानं भवतीत्युपसंहरतितदेवमिति। साध्यं दूषयित्वा हेतुदूषणमाहदृश्यत्वञ्चेति।भागसिद्धत्वादिति। प्रपञ्चस्य क्वचिद्वाय्वादौ चाक्षुषत्वाभावादिति भावः।व्यर्थेति। प्रत्यक्षविशेषणस्य व्यर्थत्वादिति भावः। ब्रह्मेति। तत्र व्यभिचारवारकतया सार्थकमित्यर्थः। तस्येति यतो वाचोनिवर्तन्ते अप्राप्यमनसासहेति (तै.आनं)श्रुतेः ज्ञानविषयत्वनिषेधपरस्य भवद्भिः प्रतिपादनादिति भावः । प्रत्यक्षविशेषण व्यावर्तकं चे ( ) स्वपरेति ।“अप्राप्यमनसा सहे’ (तै.आनं. )त्यादि श्रुतिस्त्वपरिशुद्ध मनोविषयेति भावः । आदिशब्देनमन्तव्यश्चोपपत्तिभिः ( )इति श्रुतिग्राह्य सिद्धान्तविरोधश्चेत्याहसन्मात्रेति।भ्रान्तिजल्पितायेतितिपारमर्थ्यदृश्यत्व एव व्यभिचारात् तस्य कथं साधनत्वेनोपन्यास इत्यर्थः ।प्रपञ्चस्यापि सत्यत्व प्रसङ्ग इति।ननु धर्मसमानसत्ताकदृश्यत्वं विवक्षितम् । तच्च ब्रह्मणि नास्त्येव । ब्रह्मणः पारमार्थिकत्वेन दृश्यत्वस्य व्यावहारिकतया च वैषम्यादिति न व्यभिचार इति चेत् न प्रपञ्चमिथ्यात्वसिद्धेः पूर्वं सत्ताभेदाभावेन दृश्यत्व पारमार्थिकत्वात् तत्सन्देहेपि व्यभिचारसन्देहात् प्रपञ्चे दृश्यत्वस्य मिथ्यात्वे स्वरूपासिद्धिप्रसङ्गात् । शुक्तिरूपे दृग्विषयत्वस्य प्रातिभासिकत्वाभावेन व्याप्यत्वासिद्धेश्चेति द्रष्टव्यम्ब्रह्मविज्ञानादिति।ब्रह्मवेद ब्रह्मैवभवतीति (तै.आनं)सिद्धान्तादिति भावः । नैरर्थक्यप्रसङ्गात् इत्युपलक्षणम् । ब्रह्मणि दृश्यत्वाभाव सिद्धिश्च न स्यादित्यपि द्रष्टव्यम् । दुस्त्यजत्वादितिब्रह्मशब्दजन्यप्रतीति विषयत्वादित्यर्थः । ननु लक्षणावृत्त्यजन्यज्ञानविषयत्वं दृश्यत्वं विवक्षितमिति न तत्र व्यभिचारइति चेत् तत्राहलक्षणा चेति । पूर्वविकल्पदूषणयोरिति ।ब्रह्म शब्दमात्रप्रतिपाद्यमित्यत्र ब्रह्मशब्दे किं कस्यचिदबोधकइत्यादिविकल्पदूषणयोरित्यर्थः । तत्र प्रमाणतयोरप्युक्तश्रुतेरपि विरोधात् न त्वदुक्तार्थ इत्याहयतो वाच इति। किमुपहितस्यैव ज्ञानविषयत्वनिषेधः । किं वानुपहितस्य नाद्य इत्याहतथापीति। उपहितम् उपाधिविनिष्टम् । तत्र विशेष्यस्यापि तद्विषयत्वमवर्जनीयमित्यर्थः । द्वितीय्ये आहउपहितानुवादेनेति। तत्रैव निषेधान्वयबोधनादिति भावः । ननु ज्ञानान्तरावेदकत्वलक्षणस्वयम्प्रकाशत्वसाधनादेव अवेद्यत्वं सिध्यतीत्यत्राहएवमिति। अनुभूतिः स्वयम्प्रकाशेत्यनुमानं प्रतिज्ञान्तर्गतानुभूति ( ) जन्यप्रमितिविषयत्वादेरवर्जनीयत्वादिति भावः । अपारमार्थिकेति। व्यतिरेकस्य पारमार्थिकत्वाङ्गीकारे व्यभिचार इति भावः । किं च पारमार्थिकव्यतिरेको ब्रह्मण्यपि विद्यते । सद्रूपब्रह्मणो दृग्विषयत्वानुभवात् विषयविषयिभावस्य भेदाधीनत्वात् ब्रह्म सत्ताव्यतिरेकेण घटादौ सत्तान्तरानुभवादित्यत्राहकिं चेति। वत्सकुलजलधिकौस्तुभ नृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणी पञ्चदशो वादस्समाप्तः ॥