14 वेदप्रामाण्यपरिग्रहानुपपत्तिवादः

॥अथ वेदप्रामाण्यपरिग्रहानुपपत्तिवादः चतुर्दशः ॥14॥
यदात्मानो वेदा यदनुगुणवर्णाकृतिजुषः ।
प्रमाणं यत्रैते नियतमपरिच्छेद्यविभवे ।

य एषामाहर्ता दनुजमथनो वाजिवदनः ।
स मे देवः श्रीमान् विदलयतु सम्मोहमखिलम् ॥
वेदप्रामाण्यवाङ्मात्रकञ्चुकच्छन्नमर्मणाम् ।
बुद्धसिद्धान्तसुहृदां सन्तः पश्यन्तु बाध्यताम् ॥2॥
अतीन्द्रिये हि धर्मादौ वेदाः प्रमाणमिति साधितं प्रथमकाण्डे ।
तदुपजीवनेन सिद्धेऽपि प्रामाण्यं शारीरके ।
अतस्तथागताद्यागमस्तत्त्वानुष्ठानयोरप्रमाणमिति सर्वमीमांसकसम्मतम् ।
तदेतत् संविन्मात्रव्यतिरिक्तमिथ्यात्ववादे न सङ्गच्छते ।
तदुक्तमभियुक्तैः -
“प्रमाणत्वाप्रमाणत्वे पुण्यपापादि तत्फलम् ।
विध्यर्थवादमन्त्रार्थनामधेयादिकल्पना’’ ।

“सर्वेषु लक्षणेष्वेव स्वप्रमाणगणे स्थितिः ।
वचनव्यक्तिभेदेन पूर्वसिद्धान्तपक्षता’’ ।

“कर्मभ्यः फलसम्बन्धः पारलौक्यैहलौकिकः ।
सर्वमित्याद्ययुक्तं स्यादर्थशून्यासु बुद्धिषु’’ ॥
(कुमारिल श्लोकवार्तिकं) इति ।

तदिह किन्नाम वैषम्यमाश्रित्य वेदाः प्रमाणम्, बुद्धाद्युपदेशा न प्रमाणमिति निष्कृष्यते! किं शब्दस्वरूपसत्यत्वासत्यत्वाभ्युपगमेन, उत परमार्थभूतप्रामाण्याप्रामाण्याश्रयत्वेन, उत प्रमातृसत्यत्वा सत्यत्वाभ्युपगमभेदेन, यद्वा सत्यभूतप्रमितिहेतुत्वाहेतुत्वाभ्याम्, किं वा नित्यत्वानित्यत्वाभ्याम्, अथानादित्वसादित्वाभ्याम्, उत दोषतदभावाभ्याम्, अथ व्यवहार विसंवादसंवादाभ्याम्, अथवा महाजनपरिग्रहबहिष्काराभ्याम्, आहोस्वित् वेदत्वावेदत्वमात्रेण, अथाविद्याविशेषजनिताभिमानानभि मानमात्रेण, अथ वा इक्षुक्षीरादिवत् स्वात्ममात्रसाक्षिकेणानिर्देश्य रूपभेदेनेति ।

नाऽऽद्यः; असिद्धेः न हि योगाचारादिभिः बुद्धप्रणीतोऽक्षरराशिः सत्य इत्यभ्युपगम्यते; नापिभवता वेदरूपः ।
न वयं वेदस्यशशश्रृङ्गादिवदसत्यत्वमभ्युपगच्छाम इति चेत्, किं तर्हि सत्यत्वमभ्युपेतम्? ।
तदपि नेति चेत्, तर्हि को विशेषः? ।
व्यावहारिकापरपर्यायकाल्पनिकसत्यत्वाभ्युपगम इति चेन्न, तैरपि संवृतिसत्यत्वाभ्युपगमात् ।
अयमेव तावत् विशेष इति चेन्न; पर्यायमात्रस्य वैषम्यानाधायकत्वात् ।
अन्ततो वञ्चनार्थत्वस्याप्युभयोरविशेषात् यथाऽऽहुः -
“तुल्यार्थत्वेऽपि चैतेषां मिथ्या संवृतिशब्दयोः ।

4वञ्चनार्थ उपन्यासो लालावक्त्रासवादिवत्’’ ।

“नास्तिक्यपरिहारार्थं संवृत्तिः कल्पितेति च’’ ।

(कुमारिल श्लोकवार्तिकं) इति ।
न च युष्माभिः संवृतिसत्यत्वस्यावाच्यत्वं सङ्केतितम् ।
उक्तं च गूढपाषण्डिगोष्ठीगरिष्ठैः “तदेतत् संवृतिरिति गीयते’’ इति ।
अस्तु वा तदभ्युपगमेन वैषम्यम्; भवता तु निपुणधिया द्वयोरपि व्यावहारिकसत्यत्वमविशिष्टमेष्टव्यम्; व्यवहारानुबन्धित्वमात्रस्य तुल्यत्वात् ।
अतो भवता परित्यक्तपक्षपातेन न तद्बहिष्कारः कार्यः ।
यदि चाभ्युपगमसिद्धेन सत्यत्वेन प्रामाण्यसिद्धिः, तर्हि वैभाषिकाद्यागमानां तदभ्युपेतेन तेन तत्सिद्धिरनिवार्या ।

एतेन द्वितीयतृतीयचतुर्था निरस्ताः ।
विशेषतोऽपि ब्रूमः ।
द्वितीये तावत् प्रामाण्यलक्षणवैषम्यसिद्धिः प्रामाण्याश्रयत्वेनेति वदता साध्यमेव साधनत्वेनोपन्यस्तम् ।
ननु विशेषणविशिष्टाकारेण साधनत्वम्, स्वरूपतस्तु साध्यत्वमिति चेन्न; विशेष्यासिद्धौ विशिष्टस्याप्यसिद्धेः ।
भवन्मते विशेषणमप्यसिद्धमेव;वेदप्रामाण्यस्यापि ब्रह्मव्यतिरिक्तस्य पारमार्थ्यानभ्युपगमात् ।
तदभिमानमात्रस्य चोभयोरविशेषात् ।
तृतीयेऽपि, सत्यप्रमातृत्वेन कस्तावदिष्यते भवता? किं संविन्मात्रम्, उत तदेवोपहितम्, उतोपाधिभेद एव? आद्ये व्याहत्यपसिद्धान्तौ ।
अनन्तरे प्रमातृत्वस्य सत्यतानभ्युपगमात् नेष्टसिद्धिः ।
तत्र स्वरूपमात्रस्य सत्यता योगाचारैरप्यङ्गीक्रियते ।
उपाधिमात्रपक्षे तु उपाधिस्वरूपस्य तत्प्रमातृत्वस्याप्यसत्यत्बमेवेति ।
नापि चतुर्थः; विकल्पासहत्वात्; तत्र किं प्रमितेः स्वरूपतः सत्यत्वं विवक्षितम्, उत विषयतः? न पूर्वःशास्त्रजन्यायाः प्रमितेर्भवता
स्वरूपसत्यत्वानभ्युपगमात् ।
तेन तु तदभ्युपगमेन तदागमस्यैव प्रामाण्यापातः ।
तुल्यैस्तु तदपि नेष्यत इति त एव भवतोऽत्रान्तरङ्गसम्बन्धिनः ।
नाप्युत्तरः; विषयतः सत्यत्वस्य चिद्व्यतिरिक्तांशे भवता योगाचारेणाप्यनभ्युपगमात् ।
चिदंशस्य विषयत्वेऽभ्युपगम्यमानेऽपि सत्यत्वमुभयसम्मतम्; तत्र क्षणिकत्वनित्यत्वादिभेदस्तु दुरुपपादः ।
निर्धूतसमस्तधर्मविप्लवा हि संवित् भवद्भिः तैश्च परिगृह्यते ।

नापि पञ्चमः;आविद्यकस्य वेदस्य भवताऽपि नित्यत्वानभ्युपगमात् ।
अभ्युपगमे वा नित्यसंसारादिप्रसङ्गात् ।
क्षणिकत्वनित्यत्वादिकल्पनाभेदस्याप्यप्रयोजकत्वात् ।
नापि षष्ठः; अविद्याकल्पितत्वाभ्युपगमेनानादित्वासिद्धेः ।
अनादित्वेनैवेयं कल्पनेति चेन्न; बाह्यैरपिसर्वज्ञसन्तानान्तरितधर्मदेशनासन्तानस्य अनादित्वाभ्युपगमात् ।
क्षणभङ्गतदभावादिकं तु वाक्यार्थयाथार्थ्यं प्रति अकिञ्चित्करमेव ।
नापि सप्तमः; तत्पक्षेण तदागमस्य दोषमूलत्वाभावात्; भवत्पक्षेण तु उभयोरपि दोषमूलत्वाविशेषात् ।
वक्तृदोषो वेदे नाभ्युपेत इति चेत्, किं दुष्टेन्द्रियादिषु सोऽभ्युपेतः; येन तदप्रमाण्यं सिद्ध्येत ।
अतो येनकेनापि दोषेणाप्रामाण्यं स्यादित्यनुसन्धत्स्व ।
अविद्याख्यदोषमूलत्वमपि वेदस्य नेष्टमिति चेत्, आगतोऽसि पन्थानम्; अत एव कल्पितत्वादेरपि प्रतिक्षेपात् ।
अकल्पितत्वेऽपि प्रतीतिबाधाभ्यां मिथ्यात्वमिति चेन्न; ब्रह्मणोऽप्यकल्पितस्य त्वदभिमतयुक्त्याभासैर्बाधप्रसङ्गात् ।
अर्निवचनीयकुसृतेश्च निरसिष्यमाणत्वात् ।

नाप्यष्टमः; कारणदोषाविशेषे विसंवादानुदयस्याकिञ्चित्कत्वात्; दोषज्ञानेनैव बाधसिद्धेः ।
तथा चाहूः, “दुष्टकारणबोधे तु सिद्धेऽपि विषयान्तरे ।
अर्थात् तुल्यार्थतां प्राप्य बाधो गोदोहनादिवत् ॥’’ (कुमारिल श्लोकवार्तिकं) इति ।
किञ्च बाह्यागमेषु न विसंवादस्त्वया सुवचः ।
अदृष्टस्यातीन्द्रियत्वेन तत्र तदयोगात्; दृष्टार्थेषु विषहरणाद्युपदेशेषु तत्राप्यविसंवाददर्शनात् ।
तत्त्वविषये तु प्रत्यक्षादिविसंवादस्य, तद्विरोध गमनिकाकुसृतेश्चोभयतुल्यत्वात् ।
वेदाधीनस्य संविन्नित्यत्वादिरूपविसंवादस्यवेदप्रामाण्यसिद्धिसमनन्तराभिधेयत्वात् ।
अन्यथा विपरिवर्तप्रसङ्गात् ।

एतेन नवमोऽपि दत्तोतरः; बहुजनविवक्षायां समानत्वात् ।
निपुणजनविवक्षायां सर्वेषामप्यज्ञानभ्रमादिकलुषितत्वाभ्युपगमेन त्वत्पक्षे तदसिद्धेः ।
हेतुदर्शनरहितपुरुषपरिग्रहविवक्षायामपि परमार्थतः कारणदोषे निर्णीते दोषानभिज्ञैः भ्रान्तैरेव परिग्रह इत्यायातम्; ततश्च न विशेषः ।
नापि दशमः; सञ्ज्ञावैषम्यमात्रस्याकिञ्चित्करत्वात्; तद्व्यवहारभेदरूपस्य किञ्चित्कारस्य प्रस्तुतानुपयोगात् ।
नाप्येकादशः; तथाविधाभिमानस्य पुरुषभेदेनोभयत्रापि सुलभत्वात् ।
न तत्र वयं प्रामाण्यमभिमन्यमाह इति चेत्, ते वा किं वेदे? अतो यस्यकस्यचिदभिमानसिद्धं प्रामाण्यमिति त्वयैव स्थापनीये त्वमेव कथं तत्प्रामाण्यं नाभिमन्यसे?
द्वादशस्तु परिशिष्यते, तत्र स्वात्मशब्देन किं सर्वेषां प्रमातृणां स्वात्मा विवक्षितः, उत भवदन्तरात्मा ।
नाद्यः; इक्षुक्षीरादिरसभेदवत्, “ज्योतिष्टोमेन स्वर्गकामो यजेत’’ (आप.श्रौत 5 - 6) “चैत्यं वन्देत स्वर्गकामः’’ इत्यनयोः प्रामाण्याप्रामाण्यलक्षणभेदस्यान्यैरनुपलम्भात् ।
नेतरः; भवत्स्वात्मानमपि हि वयमितरात्मसमानतयैवोन्नयामः ।
रत्नतत्त्वपरीक्षकवदहमतिशयितप्रज्ञ इति चेत्,सौगतेनाप्येवमुक्ते किमुत्तरम् ।
मध्यस्थदृष्टिरिति चेन्न;तदसिद्धेः ।
अस्तु
वेदप्रामाण्यमप्यविचारितरमणीयम्; किन्नञ्छिन्नमिति चेत्, प्रथमं तावत् वैषम्योपपादनाभिमानः।
ततो वैदिकत्वविडम्बनम् ।
पश्चात् तत्त्वानुष्ठानव्यवस्थाभङ्गः ।
ततश्च स्वर्गापवर्गगमनसरणेः ।
एवञ्च सौगतसौहार्दभयपलायितेन द्वैवर्गिकमतमहादुर्गमेवानुप्रविष्टमिति ।
अत्र च प्रामाण्यादेरप्रयोजका एव केचित् कल्पा मन्दमतिसम्मोहशमनायोपन्यस्य निरस्ताः ।
एतदभिप्रायेण यादवप्रकाशैरुक्तम्,
“वेदोऽनृतो बुद्धकृतागमोऽनृतः प्रामाण्यमेतस्य च तस्य चानृतम् ।

बोद्धाऽनृतो बुद्धिफले तथाऽनृते यूयं च बौद्धाश्च समान संविदः ॥‘‘इति
किञ्च प्रत्यक्षतोऽनुमानतश्च भवद्भिर्निर्विशेषं प्रसाध्यते ।
ततश्च प्राप्तार्थतयाऽपि शास्त्राप्रामाण्यम्, द्वित्रावयवानुमानवाक्यपाठमात्रेण ब्रह्मविद्यानिष्पत्तौ क खलु जडः श्रुतिनिकरशिखर परिशीलनप्रयासादिकमारभेत ।
न ब्रूमस्तर्ह्यनुमानादिकमस्मत्सिद्धान्तसाधनतयेति चेत्, किमिदं श्रुति प्रामाण्यभङ्गभीरुतया, उत अनुमानादेस्तत्र प्रामाण्ययोगात्? नाद्यः; भवद्भिरनुक्तेऽपि तत्सद्भावमात्रेण श्रुतिप्रामाण्यभङ्गस्य दुर्वारत्वात् ।
सम्प्लवोदयस्य च शास्त्रयोन्यधिकरणनिरस्तत्वात् ।
न द्वितीयः; ज्ञानोदयादेवानुत्पत्तिलक्षणस्याप्रामाण्यस्यासिद्धेः; एककोटिनियततया च संशयरूपत्वस्याप्यभावात् ।
निपुणतरप्रयोगे च प्रयोगदोषाणामभावात् ।
विपर्यसलक्षणं तु विषयापहारमन्तरेण न सिद्ध्यतीति ।
तथाच सति तुल्यविषयतया तत एव शास्त्रमप्यप्रमाणमिति घट्टकुट्यां प्रभातम् ।
एवं च सति अद्वैतवाक्यानां न तत्त्वावेदकत्वं
द्वैतवाक्यानामेव तत्त्वावेदकत्वमित्यभिमतविपर्यासश्च ।
अन्ततः शास्त्राप्रामाण्य मप्यस्माकमिष्टमेवेति चेन्न; पूर्वन्यायेन दत्तोत्तरत्वात् ।
असन्दिग्धाविपर्यस्तबोधोदयस्य दुरपह्नवत्वात् ।
बोध्यमिथ्यात्वे च वैदिकव्यपदेशकञ्चुकं मुञ्चतस्ते बाह्यसमयसुरङ्गाप्रवेशमन्तरेण कथासमरसीम्नि संशयापत्तेः ।
तदेतदखिलमभिसन्धाय भाष्ये सन्मात्रग्राहिप्रत्यक्षप्रतिक्षेपाय,
गृहीतमात्रग्राहित्वेन सन्मात्राभिमतब्रह्मस्वरूपपरवेदान्तवाक्यानामप्रामाण्यप्रसङ्ग उदाहृतः ।
स्थलान्तरेषु विप्रकीर्णं शेषमवघातव्यमिति ।

॥इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषुशतदूषण्यां वेदप्रामाण्यपरिग्रहानुपपत्तिवादः चतुर्दशः ॥14॥

नृसिंहराजीया

पूर्ववादे पूर्वपक्षे भेदानां भ्रन्तिसिद्धत्वं प्रत्यक्षस्य सन्मात्रविषयत्वमित्युक्तौ वेदप्रामाण्यसिद्धिर्नस्यादिति बाधकान्तरमस्मिन्वादे निरूपयतीति पूर्ववादशेषत्वान्नपृथक्सङ्गतिः । अत एव पूर्वपक्षानुक्तिः । अप्रामाण्यस्यैव प्रपञ्चनसमर्थनाद्वादान्तरताचेत्यभिप्रेत्यवदार्थ सङ्गृह्णाति ।यदात्मन इति। य आत्मा प्रति पाद्यतयान्तरस्थितः यस्मिन्विषये अनुगुणा स्वरसावणकृतानुपूर्वी च तद्युक्ताः यत्र ब्रह्मभूते श्रीनिवासे प्रमाणं भवेत्तदन्यविषयत्वे प्रामाण्यमनुपपन्नमित्यर्थः । तत्र हेतुःअपरिच्छेद्येति। अन्यत्र प्रतिपाद्यविषयाभावादिति भावः । आहर्ता मधुकैटभहृतान्वेदान्पुनरानीतवान् । पूर्वश्लोके प्रमाणमिति सूचितं वादार्थं श्लोकान्तरेणविस्पष्टयतिवेद प्रामाण्येति ।कर्मवेदबाह्यतारूपापायस्थानम् । ननु प्रपञ्चमिथ्यात्वमतभेदे प्रतिपादकपूर्वभागस्य प्रामाण्यं नह्यभ्युपगम्यते । किन्त्वद्वैतपर वेदान्तभागस्येत्यत्राहतदुपजीवनेनेति। अपौरुषेयत्वादिना सिद्धवेद प्रामाण्योपजीवनेन तद्विशेषेप्रामाण्यसिद्धिरित्यर्थः।अत इति। तद्विरोधिवेद प्रामाण्यादित्यर्थः ।तदेतदिति।सर्वमीमांसकसम्प्रतिपन्नप्रामाण्याप्रामाण्यव्यवस्थापनमित्यर्थः ।संविन्मात्रेतिमिथ्यार्थविषयत्वेन वेदाप्रामाण्यप्रसङ्गात् अन्यथा बुद्धाद्यागमस्यापि प्रामाण्यप्रसङ्गादिति भावः । प्रमाणत्वेति। वेदस्य प्रामाण्यं तद्विरुद्धस्याप्रामाण्यं च प्रथमाध्यायार्थः । वेदप्रामाण्य समर्थनसिद्धम्फलमाहपुण्येतिआदिपदेन मोक्ष साधनपरिग्रहः। विधीति। प्रथमाध्यायस्य प्रथमपादार्थः ।अर्थवादमन्त्रेप।द्वितीयपादार्थः ।नामधेयानीतिचतुर्थपादार्थः । आदिपदेन नामधेयापवादग्रहः ।सर्वेष्विति। द्वितीयाध्यायादिषु तत्तद्व्युत्पाद्यभूत शब्दान्तरादिभिः भेदादिप्रमाणैर्यव्यस्थितिरित्यर्थः । ननु तर्हि पूर्वपक्षप्रमाणविरोधि व्युत्पादनात् प्रमाणैरितिकथमित्यत्राहवचनेति। पूर्वोत्तरपक्षयोरुभयोरप्येकार्थ व्युत्पादनतात्पर्यान्नदोष इति भावः । सर्वेष्वेव लक्षणेषु परिनिष्पन्न तत्तदधिकरिणस्तत्तत्परिकर विशिष्टतत्तत्कर्मभ्यस्तत्तत्फलसिद्धिरूपमर्थमाहकर्मभ्य इति। परलोकश्च इहलोकश्च परलोकहलोकौ तत्र भवःपारलौक्येहलौकिकः। आनुश्रविकादिषु परलोकेहशब्दात्तदादिविधिः तदन्तविधिं प्रयोजयत इति भागवृत्तिरित्याहुः । केचितु परलोके भवं पारलोक्यं"“बहिदेव पञ्चजनेभ्य’‘इत्यस्य योग विभागोपलक्षणार्थत्वस्याङ्गीकारात् “इपु’ प्रत्ययः मध्यपदलोपीसमास इत्याहुः । अपरेतु परलोकस्येदमिहलोकस्येदमिति विवक्षायां तस्येदमिति सम्बन्धसामान्ये ““र्ण प्रत्ययः’’ ततोद्वन्द्वः । ततः परम्मत्वर्थीय इति अन्येतु परलोकशब्दादरेणेव इहलोकशब्दात्"“कालात् ठञ्’’(पाणि अष्टाध्या 4 - 3 - 11)इत्याहुः । इतरेतु परलोकशब्दात्"“स्वार्थिकाण्णं’‘तास्थलेमत्यर्थी युष्मद्भिन्नम्पदमिति वदन्ति । अर्थस्य मिथ्यात्वाविशेषे वेदबाह्यागमयोः किं वैषम्यमाश्रित्य वेदाः प्रमाणं म्बाह्यागमो न प्रमाणमिति स्वयमध्यवसीयते परं प्रति च साध्यत इत्यर्थः । किमिति स्वरूपसत्यत्वाभ्युपगमेनेत्यारभ्य निर्देश्यस्वरूपेण भेदेन वैषम्यमाश्रित्य निष्कृष्यते किमिति योजनाव्यवहारविसंवादात्प्राचीनाः विकल्पाः स्सर्वे अभ्युपगमभेदपराः । सत्यभूतप्रमितीत्यत्र प्रमितिशब्दो ज्ञानपरः । अनिर्देश्यस्वरूपेण विशेषतो निर्देष्टुमशक्येनेत्यर्थः । योगाचारादिभिरित्यादिशब्देन माध्यमिकादिसङ्ग्रहः ।तैरपीति। सम्प्रति दोषस्तदधीनसत्वं कल्पितत्वमिति यावत् । एवं चोभाभ्यामेकरूपसत्यत्वस्याङ्गीकारात् न विशेष इति भावः ।अनन्येतिसम्प्रति सत्वपदस्य व्यावहारिक सत्वपदेन सह पर्यायान्तरत्वातदर्थतो विशेषाभावादित्यर्थः ।अन्तत इति। वस्तुनो लोकवञ्चकत्वमुभयोरित्यर्थः । लोकवञ्चकत्वमेव परोक्त्या दृढयतियथाहुरिति । वञ्चनार्थ इति। यथा परेण तुच्छत्वमेवाभ्युपेत्य प्रामाणिकजनवञ्चनार्थं सांवृतिकं सत्यमिति व्यवह्रियते तथा त्वया वैदिकजनवञ्चनार्थ सांवृतिकशब्दं परित्यज्य तस्यैवार्थस्य मिथ्याशब्देनोपन्यासः । यथा लालेत्युक्ते जुगुप्सा जायेतेति वक्ता सर्वशब्दो पन्यास इत्यर्थः । संवृतिः कल्पितेति च नास्तिक्यपरिहारार्थं नास्तिक इति लोकापवादपरिहारार्थं वञ्चनार्थमुपन्यासः इत्यन्वयः । एवं वञ्चनार्थम्प्रवृत्तैरपि वञ्चना न लब्धेत्याह ।नच युष्ममाभिरपि। वञ्चयितु मुद्युक्तैर्युष्माभिस्सर्वैस्सम्भूय संवृतिसत्यशब्देन न व्यवहरिष्याम किं तु मिथ्याभूत व्यावहारिक सत्यशब्देनैव व्यवहरिष्याम इति न सङ्केतितमतो चौल्यमेव प्रकटीकृतमिति भावः । असङ्केतित्वादेव खण्डनकारादिभिस्संवृति शब्देनापि व्यवहृत मित्याहउक्तं चेति।तद्बहिष्कारःबाह्यागमबहिष्कारः । यदि पराभ्युपगमः प्रयोजकस्तदा दूषणान्तरमाहयदि चेति। वैभाषिकेन स्वागमस्य पारमार्थिकसत्यस्यैवाङ्गीकारादिति भावः । एतेनेति ।असिद्धेनेत्यारभ्येत्येत्तावत्पर्यन्तम् उक्तेनेत्यर्थः । ननु न प्रामाण्यमात्रमेव हेतुः । येनसाध्या विशेष स्यात् किं तदाश्रयत्वमिति शङ्कते ।नन्विति। विशेषस्याकारो विशेषणं तद्विशिष्टतयेत्यर्थः । हेत्वसिद्ध्यादूषयतिविशेषस्येति। प्रामाण्यनिरूपिताश्रयत्वरूपविशेषस्यापि मिथ्यात्वमिति भावः ।भवन्मते प्रामाण्यरूपविशेषणं चासिद्धमित्याहभवत इति। विशेषणासिद्धिमुपपादयतिवेदप्रामाण्यस्येति।ब्रह्मव्यतिरिक्तत्वाद्वेदप्रामाण्यस्य मिथ्यात्वमित्यर्थः । ननु व्यावहारिकप्रामाण्यमभ्युपगतमेवेत्यत्राहतदभिमानेति। वेदवत् परागमेपि सत्वादित्यर्थः । व्याहतिः निर्विशेषपरमात्रपदप्रमातृत्वोक्त्या व्याहतिः निर्विशेषस्य प्रमातृत्वं च सिद्धान्त विरुद्धमित्यर्थः ।प्रमातृत्वस्येति। उपाधेरसत्यतवाद्विशिष्टस्याप्य सत्यत्वमित्यर्थः । ननु विशेषसंविन्मात्रस्वरूपसत्यत्वमङ्गीकृतमिति चेत् तत्राहतत्र स्वरूपेति।तवागमप्रमातर्यपि विशिष्टे विशेष्यभूत चैतन्यस्य सत्यतायाः अनङ्गीकारात् तदागमस्यापि प्रामाण्यप्रंसग इत्यर्थः । किमुपाधिस्वरूपस्य सत्यत्वमभिमतं यद्वा तद्गत प्रमात्वस्येति विकल्पमभिप्रेत्याद्ये आहस्वरूपस्येति। द्वितीये आहतत्प्रमात्वृत्वस्यापि । तेनत्विति। योगाचारेण ज्ञानस्य सत्यत्वमङ्गीकृतमिति भावः ।तुल्यैरिति। माध्यमिकमतस्थैस्सर्वमिथ्यात्वस्याङ्गीकारादुभयत्रापि तुल्यवदेकप्रामाण्यसिद्धेरिति भावः । विषयः किञ्चिद्व्यतिरिक्तः उत चिदैवेति विकल्पाभिप्रायेण आद्येआहचिद्व्यतिरिक्तांश इति। द्वितीय्ये आहचिदंशस्येति। ननु नित्यस्यापि चिदंशस्य क्षणिकत्वोक्तेः तदागमजन्य ज्ञानस्य विषयतो सत्यत्वं चिदंशेऽपीत्याहतत्रेति। तत्र हेतुमाहनिर्धूतेति। क्षणिकत्वादि धर्मस्य तन्मतेपि वस्तुतोऽभावात्काल्पनिकस्य मतद्वयसाधारण्यादिति भावः । नित्यसंसारादिप्रसङ्गादिति ।वेदस्य नित्यतया तद्धेतुभूत अविद्याया अपि नित्यत्वस्यावश्यकत्वेतन्निवृत्तिरूपामुक्तिर्नस्यादिति भावः । ननु काल्पनिक क्षणिकत्वनित्यत्वाभ्यां विशेष इत्यत्राहक्षणिकत्वेति ।काल्पनिकस्यासत्वादप्रयोजकत्वमिति । अनादित्वेनेति ।कल्पनायाः प्रवाहरूपेणादित्वमित्यर्थः ।बाह्यैरपीति। धर्मदेशना - धर्मोपदेशरूपाण्यागमः ।सर्वज्ञः - बुद्धः । तयोः क्षणिकतया तत्सन्तानपरम्परास्ति । सा च एवम् । एक एव सर्वज्ञो धर्मदेशनाच । पुनरप्येक एव सर्वज्ञो धर्मदेशनाचेत्येवं क्रमेण प्रदीपतत्प्रभासन्तानवत् सर्वज्ञसन्तानान्तरित धर्मदेशनासन्तानादिरभ्युपगतः । न च तत्प्रवाहानादित्वमप्यसदेवेति वाच्यम् । वेदेपि तव तुल्यत्वादिति भावः । ननु बौद्धानां प्रवाहानादित्वं क्षणभङ्गविशिष्टम् । अस्माकं तदभावविशिष्टमिति वैषम्यमाशङ्क्याहक्षणभङ्गेति। अर्थयाथात्म्यप्रयोजनकत्वाभिमानेनादित्वादिपरिग्रहः । तथा (अर्थ) बाधक याथात्म्यप्रयोजकविशेषेण प्रक्षोपोनुचित इति भावः । परागमस्य दोषमूलत्वं तन्मतेनोच्यते, उत त्वन्मतेन ।नाद्य इत्याहतत्पक्षेणेति। द्वितीये आहभवत्पक्षेणेति । अत इति। असदर्थजनकत्वेनाविद्यादोषःनत्वसदर्थविषयकज्ञानजनकत्वापादकत्वान्नेति चेन्न । एवमपि प्रमाणस्य मिथ्यात्वे तद्विषय याथात्म्येऽनाश्वासात् । न ह्यारोपित धूमेन वह्निसिद्धिरिति भावः । पन्थाः - सत्यत्वमार्गः । अत एव अविद्याख्यदोषमूलत्वाभावादेवेत्यर्थः ।ब्रह्मणोऽपीति। प्रकाशमानत्वाच्छून्यवादियुक्तिभिर्बाधाच्च ब्रह्मणोपि बाधो मिथ्यात्वं प्रसज्यत इत्यर्थः । प्रतीति बाधाभ्यामनिर्वाच्यत्व रूपमिथ्यात्वसिद्धिरपि नेति वक्ष्यते इत्याह ।अनिर्वचनीयेति। कारणदोषादिविसंवादस्वारसिकबाधः यौक्तिकोबाधः सम्भवति गगनततिमप्रत्ययवदिति भावः॥ ननु दोषमूलत्वज्ञानेन कथं बाधः भिन्नविषयत्वादित्यत आहतथाचाहुरिति। विसंवादेन साक्षादर्थाभाव एव परिच्छिद्यते । कारण दोषस्तु यद्यपि न साक्षादर्थाभावात्परिच्छिनत्ति । इदं ज्ञानमप्रमाणं दुष्टकारणजन्यत्वादिति साक्षादप्रामाणस्यैव बोधनेन भिन्नविषयत्वात् । तथाप्यर्था भावाधीनतया प्रामाण्यस्य तत्परिच्छेदे अर्थाद्विषयावभास्यापि परिच्छेदाद्विसंवादेन तुल्यकार्यत्वात् अर्थाभावपरिच्छित्तौ विसंवादस्य बाधानपेक्षा भवति । यथा प्रणयनार्थतया अविहितमपि गोदोहनं प्रणयनाश्रितत्वेन प्रणयनस्य स्वेनावश्यं कर्तव्यत्वात् अर्थाच्चमसेन तुल्यकार्यत्वात् प्रणयनं चमसं नापेक्षतइत्यर्थः। त्वयेति। प्रत्यक्षादिविसंवादोऽस्माभिस्तु सुवच इति भावः । किमदृष्टार्थेषु विसंवादो यद्वा दृष्टार्थेषु।नाद्य इत्याहअदृष्टस्येति। द्वितीय्ये आहदृष्टार्थेष्विति। ननु पृथिव्यादितत्वगोचरस्य क्षणिकत्वादुपदेशस्य स्थायित्वग्राहकप्रत्यक्षादिबाधाद्वैषम्यमित्यत्राहप्रत्यक्षादिति। त्वन्मतेपि प्रपञ्चमिथ्यात्वावगमस्य सत्वग्राहिप्रत्यक्षादिविसंवादात् । यदि प्रत्यक्षज्ञानं भ्रम इति न तद्विसंवाद इति तदपि समानमित्यर्थः । न च संविन्नित्यत्वप्रतिपादकवेदेन तदागमस्य बाधादप्रामाण्यमित्याशङ्क्य भवन्मते वेदप्रामाण्यस्यैवासिद्धेर्नतेन बाध इत्याहवेदाधीनस्येति ।प्रामाण्यासिद्धावपि तस्य बाधकत्वे बौद्धागमस्य वा बाधकत्वं कुतो न स्यादित्याहअन्यथेति । एतेनेति। कारणदोषविशेषे माहाजनपरिग्रहस्या किञ्चित्करत्वादिति भावः । किं महत्वं सङ्ख्यया निपुणत्वेन वा दोषरहितत्वेन वा नाद्य इत्याह ।बहुजनेति। द्वितीये आहनिपुणेति। वेदतदर्थयागस्वर्गसाध्यसाधनभावादिज्ञानास्य त्वया भ्रमत्वस्याभ्युपगमादिति भावः । तृतीयन्दर्शयतिहेतुदर्शनेति। हेतोरर्थादिप्रयोजनस्य दर्शनं ज्ञानमपेक्षेति यावत् । दृढि हेतुदर्शनवस्तु तज्जनितेतितताभिमानवत् बुद्धागमः । द्भिः परिगृहीतो बौद्धागमः । वेदस्तु तद्रहितैः परिगृहीत इति वैषम्यमयुक्तमित्यर्थः।तत्र हेतुः परमार्थत इति।दोषमूलस्य परिग्रहे दृष्टलो भाद्ववा दोषमूलत्वेन प्रामाण्य भ्रमाद्वा । तत्र प्रथमस्यभावाच्चरमः परिशिष्यते ।ततश्च हेतुदर्शनवत्पुरूष सङ्ग्रहादविशेष इत्यर्थः ।सञ्ज्ञेतिअन्यथा विपरिवर्तप्रसङ्गादिति भावः। ननु वेदशब्दव्यवहारप्रयोजकत्वान्नाकिञ्चित्करत्वमित्यत्राहतत्तद्वयवहारेति। एतादृश व्यवहारभेदस्यापि प्रामाण्याप्रामाण्यप्रयोजकत्वाभावादिति भावः ।पुरुषभेदेनेति। अविद्याविशेषकनीतोवेदो भवति । बुौद्धागमस्तु तज्जनितेति तवाभिमानवत् बुद्धागमः नैतादृशाविद्याजनितो वेद एव तज्जनितइति कस्यचिदभिमानसम्भवादित्यर्थः । नन्वस्मदभिमानो विवक्षितः नच बुद्धागमं तथाभिमन्यामह इति शङ्कते ।तत्रवयमितियस्य कस्यचिदभिमानसिद्धम्प्रामाण्यमिति।यस्य कस्यचिदविद्याविशेष दोषाजन्यत्वाभिमानरूपवैशम्यात्प्रामाण्यं सम्भवतीत्यर्थः । प्रामाण्याप्रामाण्य लक्षणभेदस्येति। प्रामाण्याप्रामाण्ययोर्लक्षणभेदस्य ज्ञापनवैषम्यस्येत्यर्थः ।भवदिति। इतरापेक्षया भवतो विशेषाभावादिति भावः । नन्वितरानुपलब्धमपि रत्नतत्वं कस्यचिदुपलभते ।नहीतरानुपलम्भमात्रेण कस्याप्यनुपलम्भ इत्याशङ्कते ।रत्नतत्वेति। प्रामाण्यप्रयोजको विशेषो बौद्धागम एवोपलभ्यते । वेदे तदभाव इत्युक्तौ उत्तरं न स्यादित्याहनापीति। वादिप्रतिवादिनोः तदुपलम्भो न प्रयोजकः किन्तु तदन्यस्येति शङ्कतेमध्यस्थेति। अनिर्वचनीयवादित्वादस्माकं प्रामाण्यस्य मिथ्यात्वमिष्टमिति शङ्कतेअस्त्विति। अभिमान इत्यत्र चिद इति लिङ्गपरिणामेनान्वयः । सरणेत्यनन्तरं भङ्गइत्यनुषङ्गः। एवं चेति। उक्तरीत्या वेदवत्सुगतामस्यापि प्रामाण्याभ्युपगमभीत्या वेदप्रामाण्यपरित्यागात् चार्वाकमतानुप्रवेश इत्यर्थः । यद्यपि वह्न्याद्यनुमान लौकिकशब्दादेः प्रामाण्याङ्गीकारात् ततो भेदः । तथापि पारलौकिकार्थाङ्गीकारात् । साम्यमिति भावः । ननु अविसंवादादिप्रामाण्यादिप्रयोजकत्वात् शङ्कितं ुयोग्यत्वेपि स्वरूपसत्यत्वादिकल्पाः तदप्रयोजकाः कथं शन्ता इत्यत्राह ।अत्र चेति। उक्तार्थंयादवप्रकाशोक्त्या संवादयतिएतदभिप्रायेणेतिबुद्धिःशास्त्रजन्यज्ञानम् । अनुवादकतयापि प्रामाण्यं न स्यादित्याह ज्ञानजनकत्वाभावादप्रामाण्यमित्याह । नन्वध्ययन विधिबलात्तदर्थ विचारसम्भवेन ज्ञानजनकत्वं स्यादित्यत्राहकःखल्विति। अन्यतस्सिद्धौ तदर्थं विधेः विशिष्टप्रवर्तकत्वायोगात् । न च नियमार्थाविधिः अविद्यानिवृत्तेः ज्ञानमात्रसाध्यतया नियमेन प्रयोजनाभावादिति भावः । नन्वनुमानादिकं निर्विशेषसन्मात्र साधकतयाभ्युगम्यते तेन नाधिगतार्थत्वं नवा ज्ञानाजनकत्वम्मिति शङ्कतेन ब्रूम इति । भवद्भिरिति। स्वार्थानुुमानस्य दुर्निवारत्वात् । न हि प्रमाणं प्रतिज्ञापरतन्त्रम् । तथा सति बाधितत्वादि हेतोः को भेद ः नन्वस्तु अनुमानादिकमपि संवादार्थतया दोषाभावादित्यत्राहसम्प्लवेति। सम्प्लवः - संवादः । शास्त्रैकप्रमाणकत्वकथनं विरोध भावः । द्वितीय्येपि किं ज्ञानजनकतया उत ज्ञानजनकत्वेपि संशयरूपतया यद्वा निर्णयजनकत्वेपि विपर्ययततयेति विकल्पमभिप्रेत्याद्यन्दूषयतिज्ञानोदयादेवेति।द्वितीय्ये आहएककोटीति।तृतीयोपि किं दुष्ट प्रयोगात् उत विषयापहारेण नाद्य इत्याहनिपुणेति। सन्निर्विशेषं सत्वाद्यतिरेकेणधटवदिति निर्दुष्टप्रयोगस्य सम्भवात् । नचाप्रयोजकत्वं श्रुत्यनुग्राहकतर्काणामेव अनुमानग्राहकत्वसम्भवात् ।अन्यथा भेदश्रुत्यादिषु विरोधश्रुत्यापि तत्सिद्धिर्नस्यादिति भावः । द्वितीय्ये आहविपर्ययलक्षणत्विति। अस्तु विषयापहार इत्यत आहतथा चेति। अनुमान प्रामाण्यसमर्थन धट्टकुट्टि प्रभाततुल्यतामुपपादयतिएवमिति। अभिमतविपर्यासो नास्तीति शङ्कतेअन्तत इति। अस्तु वेदाअप्रामाण्यमपि अविचारितरमणीयमित्यनेन पौनरुक्त्यं शङ्क्यम् ।असन्दिग्धाविपर्ययः ।तद्बोधादस्य दुरपह्नवत्वादिति परिहारान्तरकथनार्थतया दोषाभावादविपर्यस्तत्वं बोधस्यासिद्धमित्यत्राहबोधेति। बोधस्य मिथ्यात्वम्बाधितविषयत्वमित्यर्थः । सुरङ्गा - कृत्रिमबिलविशेषः । संशयापत्तिपराजयरूप मरणापत्तिः ।स्थलान्तरेष्विति।शास्त्रप्रबल्यादनिरूपणस्थले दोषमूलस्य अबाधितस्य पारमार्थ्यन्नियमादित्याद्यवधारितवशमित्यर्थः । ननु तत्वावेदकत्वमेव प्रामाण्यम् । तत्वं च यं यादृशं रूपं तदावेदकत्वम् ।विशेषाधृत्याप्रकारकत्वं वा तद्वृत्ति तत्प्रकारकत्वं वा एतच्च वेदे सम्भवति । स्वर्गादेस्साधनत्वरूपं ब्रह्मणश्च अबाधितत्वं तद्बोधकत्वम् । बौद्धागमे तु न तदस्ति ज्ञानानन्दात्मलक्षणजीवस्य पृथिव्यादेःक्षणिकत्वाभावेन तदावेदकस्य तत्वावेदकत्वाभावादिति शङ्का इति पदनिवृत्त्या - तत्प्रकारस्तु शुक्तिरजतवाक्य वैलक्षण्यं वेदवचसां न स्यात् । यदि शुक्तिरजतं न रूपमिति तदा"“यस्सर्वज्ञ’’(मुण्ड - 1 - 1 - 9) इत्यादि वाक्यानामपि प्रामाण्यं न स्यात् । न हि जगत्कारणत्वं वा सार्वज्ञादिकं वा ब्रह्मणो रूपम् । किं च यस्य यद्रूपं तद्बाधकत्वं ““चैत्यं वन्देत स्वर्गकाम ’’ इत्यादि वाक्यसाधारणम् । यागादिरूपस्वर्गसाधनत्वबोधकत्वात् तद्गततया (तत् बोधकत्वं) च ब्रह्मबोधक विशेषवाक्यव्यावृत्तम् । अत एव विशेषावृत्त्या प्रकारत्वम् । तद्वति तत्प्रकारकत्वमित्याद्यपि निरस्तम् । शुक्तिरजत वाक्य साधारण्यादिति ॥ वत्सकुलजलधिकौस्तुभनृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणीटीकायां चतुर्दशो वादस्समाप्तः ॥