13 भेददूषणनिस्तारवादः

॥ अथ भेददूषणनिस्तारवादः त्रयोदशः ॥ 13 ॥
श्रीमल्लक्ष्मणयोगीन्द्रसिद्धान्तेष्वासनिर्गतः ।

भेदं बिभित्सतां चित्तं भिन्ते तर्कात्मकः शरः ॥
यदेतत्स्वमर्मघट्टनम् - भेदः स्वरूपं धर्मोवा ।
न तावत् स्वरूपंशुक्तिरजतादिभ्रमानुत्पत्तिप्रसङ्गात् ।
इदमित्यधिष्ठानतया हि शुक्तिस्वरूपमवगम्यते; अन्यथा निरधिष्ठानभ्रमप्रसङ्गात् ।
अवगते शुक्तिस्वरूपे तस्यैव रजताद्भेदत्वेन कथं शुक्तिरजतयोर्भेदाग्रहः? कथन्तरां च तन्मूलः शुक्तौ रजताध्यासः कथन्तमां च तदधीनाः कलधौताभिलाषिणः करतलप्रसारण - ग्रहण - चेलाञ्चलनिबन्धन - तद्रक्षणप्रभृतयः?।
कथं चाध्यासाभावे, नेदं रजतमिति बाधः? किञ्च नेदं रजतमिति व्यवहारहेतुर्भेदग्रहः पूर्वमस्ति वा, न वा? अस्ति चेत्, प्रथममेव तथा व्यवहारः स्यात् ।
न चेत्, भेदस्याग्रहे स्वरूपस्याप्यग्रहात् इदमिति स्वरूपव्यवहारः इदं रजतमित्यध्यासश्च न स्याताम् ।
यदि च घटस्वरूपमेव पटस्य भेदः, तदा घटो भेद इति पर्यायता प्रसज्येत ।
घटो भिन्न इति व्यवहारे घटो घटविशिष्ट इत्युक्तं च स्यात्; भिन्नशब्दस्य भेदविशिष्टवाचित्वात्; भेदस्य च घटस्वरूपत्वात् ।
यद्वा घटो भेद इत्येव व्यवहारस्स्यात् ।
यदि च घटाद्भेदः पटस्य स्वरूपम्, तदा कुड्ये पटस्वरूपत्वाभावात् कुड्यस्य घटाद्भेदाभावे घटकुड्यतादात्म्यं प्रसज्येतेति तेनैव क्रमेण सर्वस्य जगतस्तादात्म्ये स्वरूपभेदवादः सर्वाभेद एव पर्यवस्यतीति जितमायुष्मता ।
अथैतद्दोषपरिहाराय घटव्यतिरिक्तानां तत्तद्वस्तूनां
तानि तानि स्वरूपाणि प्रत्येकं घटाद्भेद इति मन्वीथाः,तदा घटव्यतिरिक्तेष्वखिलेषु वस्तुषु परस्परव्यावृत्तेषु घटाद्भिन्न इत्यनुवृत्तव्यवहारस्यानुवृत्तोपाध्यभावात् निर्विषयव्यवहारायोगाच्च परस्परस्वरूपाण्येव परस्परानुवृत्तानीति पुनरपि तदेव सर्वतादात्म्यं प्रसज्येत ।
किञ्च घटादीनां स्वरूपाणि सप्रतियोगिकानि निष्प्रतियोगिकानि वा? पूर्वत्र प्रतियोगिस्मृत्यभावे घटः पट इत्यादि व्यवहारो न स्यात् ।
उत्तरत्र सप्रतियोगिकभेदस्वरूपं व्याहन्येत ।

अथ धर्मो भेदः, तदा धर्मधर्मिणोर्भेदोऽस्ति, न वा? न चेत्, धर्मधर्मिणोरभेदात् धर्मस्यैवाभावेन धर्मभेदाभावात् पुनरपि सर्वतादात्म्यं प्रसज्येत ।
यद्वा धर्मिण एवाभावात् कस्य भेदो वर्णनीयः? अथ धर्मधर्मिणोर्भेदोऽभ्युपगम्यते, तत्रापि भेदः स्वरूपं धर्मो वेति विकल्पे स्वरूपपक्षस्य दूषितत्वात् धर्मपक्ष एव परिशिष्यते ।
ततश्च तस्यापि धर्मभेदापेक्षयाऽनवस्था स्यात् ।
एवञ्च स्वरूपधर्मयोरन्यतरकोटिबहिर्भावा भावात् अन्योन्याभाव - पृथक्त्व - विशेषाणामपि भेदत्वं पलायितमिति ।

किञ्च धर्मधर्मिणोराश्रयप्रतियोगिनोश्च भेदग्रहस्तदाकारग्रहणमन्तरेण स्वरूपेण गृह्यमाणयोर्न सम्भवति,
धर्मधर्मित्वादितत्तदाकारग्रहश्च तयोर्भेदग्रहे सतीति परस्पराश्रयणम् ।
वस्त्वन्तरसिद्धौ एकविधिरन्यव्यवच्छेदः व्यवच्छेदसिद्धौ वस्त्वन्तरसिद्धिरिति च ।
न च भेदग्रहणमन्तरेणापि स्वरूपेण गृह्यमाणयोर्धर्मित्वादिग्रह इति वाच्यम् ।
भेदग्रहाभावे हि गृह्यमाणयोरेकत्वग्रहे पर्यवसान स्यात्,अनेकत्वाग्रहे वा ।
उभयथाऽपि धर्मत्वधर्मित्वलक्षणवैलक्षण्यं कथञ्चिदपि न सम्भवति ॥
कथं तर्हि सार्वलौकिकोऽयं भेदग्रहः? अविद्यामाहत्म्यादिति ब्रूमः ।
न चाविद्यामूलेऽपि भेदग्रहे विचाराः प्रागुक्ताः प्रक्रमन्ते; अविचारितरमणीयतैकवेषत्वात् ।
न चैतावता परमार्थत्वसिद्धिः,वस्तुतो विचारासहत्वात् ।
न च वाच्यं प्रमाण - प्रमेय - तदुपकरण - तदवान्तरभेद - कथक - सिद्धान्त - साधन - दूषणादिभेदव्यवस्थाभङ्गात् स्ववचनविरोध - स्वसाध्यभङ्गादिरिति, साध्यत्वाभिमतविश्वानुप्रविष्टस्ववचन स्वसाध्यादिभङ्गेऽपि स्वाभिमताद्वैतसिद्धेरवर्जनीयत्वात् ।
किञ्च असिद्धभेदेन केनचिद्भेदसाधनमशक्यम्, अन्यथा त्वनवस्थैवेत्येषा दिक् ।

अत्रोच्यते - न तावत् भेदप्रतीत्यपह्नवः शक्यः; स्ववचनविरोध - बाधापसिद्धान्तादिप्रसङ्गात् ।
तथा सति हि “युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोः तमःप्रकाशवत् विरुद्धस्वभावयोः इतरेतरभावानुपपत्तौसिद्धायां तद्धर्माणामपि सुतरामितरेतरभावानुपपत्ति’’ (शाङ्करभाष्यं) रित्यादि भाषणमपि व्याहन्येतेति ।
न च भेदप्रतीतिकारणापह्नवः शक्यः; कार्यस्य कारणावश्यम्भावात् अन्यथा लोकायतमतापातात् ।
न च भेदप्रतीतेरकार्यत्वं वक्तुं शक्यम्; नित्यत्वतुच्छत्वयोस्त्यवयैव त्यागात् ।
न च दुर्निरूपन्तत्कारणमितिवाच्यम्; एतत्कारणत्वेनैव सुनिरूपत्वात् ।
अन्वयव्यतिरेकवशादिन्द्रियादि विशेषप्रसिद्धेश्च ।
भवताऽपि चाविद्या कारणमिति विशेषतो निर्णीतम्; अन्यथा परमार्थत्वप्रसङ्गात् ।
न चास्य निर्विषयत्वं सुवचम्; प्रतीत्यपह्नवपक्षोक्तदोषावश्यम्भावात् ।
स्वबाध्यभेदविषयप्रतीत्यभावेन परसिद्धान्तस्थिरीकरणाच्च ।
अतो बाध्यविषयत्वमवशिष्यते ।
तदपि दुर्वचम्; बाधकप्रमाणस्य भेदग्राहित्वे, भेदाभावग्राहित्वे, यत्किञ्चिद्ग्राहित्वाभावे च भेदस्य स्थिरीकरणात् ।
भेदाभावोऽपि सिद्ध्यन् भेदाद्भिन्न एव सिद्ध्यति;अन्यथा तदसिद्धेस्तत्सिद्धेर्वा भेदसिद्ध्यापातात् ।
एवञ्च
सामान्यतः स्थापिते भेदे न पृथग्जल्पानामुत्तरापेक्षा ।

या चात्र भेदतिरस्करिणी, साऽपि साध्वसाधुविवेकदिव्यचक्षुषि जने न जागर्ति ।
तथाहि स्वरूपं धर्मो वेति विकल्पयन् किं सामान्यतः स्वरूपधर्मयोः भेदमङ्गीकृत्य विकल्पयति, अनङ्गीकृत्य वा? न प्रथमः; विकल्पस्य निष्फलत्वात् ।
अन्यथा अभ्युपगमबाधात् ।
न द्वितीयः; विकल्पस्यानुत्थानात् ।
न पुनः पर्यायेण विकल्पः ।
न च निर्मुक्तोपाधिभेदैकवस्तुगोचरयोः शब्दयोरपर्यायता प्रातीतिकभेदमूलोऽयं विकल्पः; परमार्थविमर्शभेदमूलं तद्दूषणमिति चेन्न - विमर्शभेदस्यापि पारमार्थिकत्वानभ्युपगमात् ।
स्वमूलघातायोगाच्च ।
अत एव परमतसिद्धभेदोपजीवनेन विकल्प इति प्रत्युक्तम्; अनङ्गीकृतमूलघातकेन परमतेन तत्सिद्धेः ।
अन्यथा परमतेनापि तदसिद्धेस्तन्मूलविकल्पासम्भवात् ।
अतो यदि विकल्पयसि, सिद्धो भेदः।
यदि न, तथाऽपि सिद्धः विकल्पोपक्रमत्वात् तद्दूषणस्य ।
न चानुपलब्धेः किं विकल्पेनापीति वाच्यम्, तथा सति तस्यानिर्वचनीयपक्षनिक्षेपासम्भवात् संविदनुपलम्भवाचोयुक्तेश्चैवं सुलभत्वात् ।

किञ्च अभेदः स्वरूपं धर्मो वा? स्वरूपं चेत्, भेदभ्रमः क्वचिदपि न स्यात्; भेदविरोधिन्यभेदे दृष्टे तदारोपासम्भवात् ।
अभिन्नो घट इत्यादेः पर्यायतादिप्रसङ्गश्च प्राग्वत् ।
अथ तु धर्मः, तर्हि सिद्धो भेदः, धर्मधर्मिभावस्य तद्याप्तत्वात् ।
यद्यभेदरूपेणापि धर्मेणाभेदः, स चेत्स्वरूपम्, स एव दोषः।
धर्मश् - चेदनवस्थेति त्वदुक्तमर्यादाप्रवर्तने का वार्ता ।
उपलम्भ इति चेत् तुल्यम् ।
न कादाचिदिति चेत् किमर्थस्तर्हिभेदापह्नवः ।
अनन्यार्थ एवेति चेन्न; अप्रविष्टमाध्यमिकपक्षेण त्वया तथाऽनभ्युप गमात्
॥ न भेदापह्नवसाध्यमद्धैतम्; अपितु स्वतस्सिद्धमिति चेन्न; अद्वैतमित्येव तत्सिद्धेः ।
अन्यथा स्वरूपमात्रस्य भेदाभेदविकल्पसहस्य तत्त्वायोगात् ।
तस्मात् भेदस्वरूपमपह्नुवानैरभेदस्वरूपमप्यपह्नुवं स्यात् ।
न च अस्त्विति वाच्यम्, माध्यमिकमतापातात् ।
न चानुभयाकारत्वसिद्धिः, उभयाकारत्ववत् व्याघातात् ।
न च वयमेकस्यैवैकस्माद्भेदमभेदं च स्वीकुर्मः, येनास्मन्मते तत्प्रसङ्गः ।
न चाभेदमपि सर्वत्र परित्यजामः; येन प्रकारेण भवत इव सर्वाभावः स्यात्; अतः सर्वं वस्तुजातं स्वव्यतिरिक्तात् सर्वस्माद्भिन्नं स्वस्माच्चाभिन्नमिति सांसिद्धिकीयं तत्त्वव्यवस्था ।

अथ यावत्सम्भवं च विकल्पितं देवानाम्प्रियेण, धर्मान्तराणां स्वाश्रयस्य च स्वरूपधर्मबहिर्भावात् व्यावर्तकत्वेन भेदत्वस्य वक्ष्यमाणत्वाच्च उभयं वेत्यपि विकल्पः किं न विकल्पितः? स एव हि नस्समयः ।
यथासम्भवं
स्वरूपधर्मयोर्भेदत्वस्यानुप्रवेशोपलम्भात् ।
व्यावृत्तव्यवहारहेतुर्हि भेदः ।
स च व्यवहार; क्वचित् स्वरूपतः क्वचित् धर्मतश्च दृश्यते ।
शुक्तिरजतभ्रमादेः शुक्तित्वादिधर्मभेदाप्रतीतिनिबन्धनत्व स्यान्वयव्यतिरेकसिद्धत्वान्न भ्रमाद्यनुपपत्तिः ।
न हि शुक्त्यादीनां स्वरूपमेव रजतादिभ्यो भेदः ।

घटो भिन्न इति व्यवहारगतचोद्यान्यपि घटशब्दप्रवृत्तिनिमित्तविलक्षण - सार्वत्रिकप्रयोगयोग्य - भिन्न शब्दप्रवृत्तिनिमित्तयोगात् परिहृतानि ।
तच्च निमित्तं घटत्वादिभेदानामेव व्यावृत्तव्यवहारहेतुत्वं भ्रान्ति प्रतिपक्षोपलम्भत्वमित्यादिरूपेण ग्राह्यम् ।
अत एव व्यावृत्त्यनुवृत्त्यादिप्रयुक्तव्यवहारसाधनतादात्म्य प्रसङ्गोऽपि प्रत्युक्तः; स्वरूपशब्दवत् ।
घटस्वरूपं पटस्वरूपमिति भेदोल्लेखेनैव हि स्वरूपशब्दः सर्वत्र प्रयुज्यते ।
तत एव तत्रापि स्वरूपमात्रतादात्म्यमिति चेन्न; स्वधीवचनादिविरोधात् ।
भेदःस्वरूपमित्यनेनाभेदस्वरूपसिद्धिरिति कस्त्वदन्यो मन्येत? सप्रतियोगिकत्वाप्रतियोगिकत्वविकल्पोऽपि, भिन्न इति व्यवहारमात्रस्य प्रतियोगिनिरूपिताकारे व्युत्पन्नत्वात् प्रतियोगिसाकाङ्क्षतेति निरस्तः ।
स्वरूपधर्मभेदसमर्थनाच्च धर्मधर्मिणोर्भेदोऽनवस्थापरिहारश्च सिद्धः ।
अयमत्र सङ्ग्रहः
“यस्मिन् यद्दर्शने येषामध्यासो नोपपद्यते ।
तस्य भेदः स तेभ्यः स्यात् तदुक्तिस्तु विवक्षया’’ ॥ इति ॥
एवं तर्हि धर्मभेदपक्ष एवङ्गीकृतः स्यात्, न पुनः स्वरूपस्य भेदत्वसिद्धिः; तस्य भ्रमसहत्वात् इति चेत्; सत्यम्; तथाऽपि धर्मविशेषाणां धर्म्यन्तरमनपेक्ष्यैव स्वस्मिन्नन्यतादात्म्याध्यासविरोधित्वात् तेषां स्वरूपमेव स्वेषां स्वधर्मिपर्यन्तेभ्य इतरेभ्यो भेद इत्येष्टव्यम् ।
तच्च स्वरूपमाश्रयापेक्षया धर्मः भेद इत्यपि व्यपदिश्यते ।
स्वपरनिर्वाहकसमाधिश्च संवेदनादिषु त्वयाऽपि स्वीकृतः ।
धर्मिस्वरूपस्य न कदाचित् भेदत्वसिद्धिरिति चेन्न, अगृहीतभेदेषु केषुचित् धर्मेष्वाश्रयभेदात् भेदव्यवहारदर्शनात् ।
सौरभादिषु हि धर्मत्वमवगम्य कस्येदमिति सन्दिहानाः तदाश्रयविशेषदर्शनादिभिस्ततन्निष्ठतामध्यवस्यन्तःतदन्यनिष्ठादन्यतां मन्यन्ते ।
अतोऽस्ति धर्मिणोऽपि क्वचित् भेदत्वम् ।
सोऽपि धर्मी स्वधर्ममितरगतधर्मात् भिन्दानो धर्मान्तरेण भिन्न इति, न; “निर्भेदेन भिद्यते’’ इति शङ्का, येन भेदासिद्धिरनवस्थादिकं वा प्रसज्येत ।
यस्य च धर्मस्य धर्मी भेदः, सोऽपि कदाचित् तस्यैव धर्मिणो भेदस्स्यात्, यदा ह्याकारादिसादृश्यमात्रेण तस्यैव धर्मिणो धर्म्यन्तराद्व्यवच्छेदासिद्धिः ; यथा विलीने घृते तैलसन्देहदशायां गन्धविशेषेण तद्ध्यावृत्तिः ।
अतोऽत्र नान्योन्याश्रयशङ्काऽपि, अपेक्षानियमाभावात्, गन्धजातिभेदस्य
धर्मिभेदाप्रतीतावपि प्रत्यक्षेण पटुकरणानां प्रतीतेः ।
अस्फुटरूपधर्मद्वयभेदाभेदचिन्तायाच्च तद्भेदकस्याश्रयादिभेदस्य प्रत्यक्षावसिततदाकारान्तरयोगित्वेनैव सिद्धिः ।
एवं विषयधर्मादिषु विषयादिभ्योऽपि भेद उदाहर्तव्यः ।

यच्चोक्तम् - धर्मधर्मित्वादिग्रहो भेदग्रहात् ततश्च स इत्यन्योन्याश्रय इति तदपि न; तयोर्भेदानभ्युपगमात् ।
धर्मधर्मित्वादिरेव हि भेद इष्यते ।
तथा आत्माश्रयापात इति चेन्न; तस्यैव तत्र हेतुत्वानभ्युपगमात् ।
प्रत्यक्षादिसामग्रीवशादेव हि तद्ग्रहः समर्थित एव ।
स च जात्यादिरूपभेदः प्रत्यक्षादियोग्य इति ।
यच्च वस्त्वन्तरसिद्धौ एकविधिरन्यव्यवच्छेदः, व्यवच्छेदसिद्धौ वस्त्वन्तरसिद्धिरिति - तदपि न; वस्तुनोर्द्वयोरपि प्रतिनियतधर्मविशिष्टतया प्रत्यक्षादिर्भिग्रहणात् तावत एव व्यवच्छेदग्रहरूपत्वात् ।

यच्चोक्तम् - अविद्यावशात् भेदग्रहः; तत्र चाविचारितरमणीयतैकवेषत्वात् वस्तुतो विचारासहत्वान्न कश्चिद्दोष इति; तत्र किं प्रत्यक्षस्यैव शिरसि भारोऽयं निक्षिप्यते ।
तत्प्रामाण्यसिद्ध्यर्थमिति चेत्, तदपि वा किमर्थं न परित्यज्यते ।
लोकविरोधादिति चेत्, तुल्यं विकल्पेऽपि ।
तत्सिद्धेः स्वरूपमात्रे बाधकाभावादिति चेन्न, भेदेऽपि बाधकाभावस्योक्तत्वात् ।
अस्तु तर्हि प्रत्यक्षमप्यप्रमाणमिति चेत्, हन्त! तर्हि तत्सिद्धस्वरूपमात्रस्यापि मिथ्यात्वात् जितं माध्यमिकैः ।
केनाप्यसिद्धं तत् स्वतस्सिद्धमिति चेत्, तथाभावे तस्य किं त्वया प्रमाणमुपन्यसनीयम् ।
न किञ्चिदिति चेत्, साधु सिद्धान्तः समर्थितः ।
अथ प्रत्यक्षादिकमेव किमप्रमाणमपि प्रमाणतया उपन्यस्तं कार्यकरम्? तथा च सति परपक्षप्रतिक्षेपः कस्यापि न सिद्ध्येत् ।
परैः
प्रमाणतयाऽभ्युपगमात् तदुपन्यास इति चेत्, न तावता निर्णायकत्वम्, तत्त्वव्यवस्थित्यसिद्धेः ।
किञ्च स्वयम्प्रकाशप्रत्यक्षेणापि सकलेतरव्यावृत्तमेव प्रत्यग्वस्त्ववभासत इत्यतोऽपि भेदः प्रत्यक्ष एष्टव्यः; अन्यथा जडतादात्म्यप्रसङ्गात् , आकारभेदानभ्युपगमेन सामान्यस्फुरणायोगात्, तावतश्च भ्रमसहत्वेन भेदत्वासिद्धेश्चेति ।

॥इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषुशतदूषण्यां भेददूषणनिस्तारवादः त्रयोदशः ॥13॥

नृसिंहराजीया

ननु पूर्ववादे सन्मात्रग्रहो न सम्भवति भेदानामपि ग्रहसम्भवात् इति यदुक्तं तदयुक्तम् । भेदानां दुर्निरूपत्वादित्याक्षेपसङ्गत्या निरूपयन् वादार्थसङ्गृह्णाति ।श्रीमल्लक्ष्मणेति। भेदं विभत्सतामित्यादिना वादार्थसङ्ग्रहः । यदेतदिति। एतच्छब्देन वक्ष्यमाणपूर्वपक्षस्सङ्गृह्यते ।मर्मपरिधट्टनं - मर्मवेधनं स्वव्याघातास्तव वचनमिति यावत् । व्याघातप्रकारस्सिद्धान्ते वक्ष्यते ।शुक्तिरजतादीतिभेदे भासमाने अध्यस्ताभेदप्रत्यक्षप्रतीत्यसम्भवादिति भावः । निवृत्तिः - अभावः । आदि शब्देन वक्ष्यमाणकरतलप्रसाराणि गृह्यते । अस्तु स्वरूपपरिग्रहः तथापि भ्रमसम्भव इत्यत्राहअवगतेति । कथं चेति। अध्यासाभावे प्रतिपन्नोपाधौ निषेधरूपबाधो न स्यादिति भावः ।न चेदिति। भ्रमात्प्राक् स्वरूपग्रहाभावे तदानीमिदमिति व्यवहारो न स्यात् ।न स्याच्चाधिष्ठानसामान्यग्रहलक्षणकारणाभावेन भ्रमोऽपीत्यर्थः । दूषणान्तरामाहघटोभिन्न इति। तत्र हेतुमाहभिन्नशब्दस्येति। दूषणान्तरमाहयदि चेति। यदि पटस्वरूपमेव घटाद्भेदः तदा कुड्यादेः पटान्यस्य सर्वस्य पटे स्वरूपत्वाभावात् घटाभेदस्यात् । एवं घटस्यैव पटभेदत्वात् कुड््यादीनां पटाभेदोपि वक्तव्यः । घटपटयोरूभयोरपि तदितरत्परस्पर तादात्म्यं वक्तव्यमिति सर्वतादात्म्यं प्रसज्येतेति भावः । ननु तत्तद्वव्यक्तीनां सर्वासामपि धटभेदेत्वावच्छिन्नसर्वतादात्म्यमिति शङ्कतेअथैतद्दोषेति। सर्वासां व्यक्तीनां धटभेदत्वे धटभेद इत्यनुगतव्यवहारनियामकस्यानुगतस्य भेदत्वाख्य धर्मस्यासम्भवात् स्वरूपेणैवानुवृत्तत्वाच्चेति सर्वस्यापिघटव्यतिरिक्तस्य तादात्म्यं प्रसज्यते ।तथा पटस्यापि वाच्ये सर्वतादात्म्यं प्रसज्यत इति परिहरति ।घटव्यतिरिक्तेष्विति । प्रतियोगिस्मृत्य भाव इति। सप्रतियोगिकपदार्थ ज्ञानस्य प्रतियोगि ज्ञानसाध्यत्वादिति भावः ।न चेदिति ।भेदा ( ) त्यर्थः । किं धर्मधर्मिणोरैक्याद्धर्मधर्मि भेदो नास्तीत्युच्यते । किं वान्यतर परिशेषात् । तत्राद्ये स्वरूपपक्षोक्तदोषः । द्वितीये धर्मिपरिशेषो वा धर्म ( ) वेति विकल्पाभिप्रायेणाद्यं दूषयति ।धर्मधर्मिणोरितिअभेदादिति। भेदाभावदित्यर्थः ।धर्मभेदाभावादिति। धर्मभूतभेदस्याभावादित्यर्थः । द्वितीयं दूषयतियद्वेति।तत्रान्योन्याभावः पृथक्त्वं वा भेदोस्तु सप्रतियोगिकत्वादित्यत आहएवं चेति। तयोरपि स्वरूपं वा धर्मो वेति विकल्पदूषमाक्रान्तत्वात्प्रकारान्तरासम्भवात् न तयोर्भेदत्वमिति भावः । किं च धर्म धर्मिणोरिति। भेदतद्धर्मिणोरित्यर्थः । आश्रयप्रतियोगिनोःभेदाश्रयप्रतियोगिनोरित्यर्थः ।तदाकारः तत्तदसाधारणाकारः । एवं च धर्मितया प्रतियोगितया च भेदाद्धर्मिप्रतियोगिनोर्ग्रहण एव भेदग्रहणम् ।भेदग्रहणे सत्येव च धर्मित्व प्रतियोगित्वग्रहणम् ऐक्य ग्रहे, तदसम्भवादित्यर्थः । ननु विधेरेव व्यवच्छेदरूपतया तद्ज्ञाने कथमितरेतराश्रयत्वमित्यत्राहवस्त्वन्तरसिद्धाविति। किं विधेः स्वापेक्षयापि व्यवच्छेदरूपत्वं किमितरापेक्षया । नाद्यः विरोधात् । न द्वितीयः एकविधेरेवान्यव्यवच्छेद इति वदता वक्तव्यं - किं धट इत्याकरकोविधिः पटदेर्वव्यवच्छेदः न घटादिति । कुतः धटस्य तदन्यात्वादिति चेत् पटस्यान्यत्वे सिद्धे धट इत्याकारकविधेः तद्वयवच्छेदसिद्धिः । पटेव्यवच्छेदता सिद्धौ च धटात्पटस्य वस्त्वन्तरसिद्धिरित्यन्योन्याश्रयतेत्यर्थः । इति चेत्यनन्तरं परस्पराश्रयतेत्यनुषङ्गः ।उभयथापीति। अनेकत्वेनोपस्थित्या हि धर्मधर्मिभावप्रसङ्ग इति भावः। अविद्यामाहात्म्यादिति - प्रत्यक्षस्योक्तदोषैर्भेदविषयत्वासम्भवात्सन्मात्रविषयत्वम् अविद्यामाहात्म्यात्तु सकलदोषतिरस्कारे कोपि भेदभ्रम उत्पद्यत इत्यर्थः ।अविचारेति। दोषमूलकज्ञानस्य सिद्धकारणानपेक्षत्वादिति भावः ।वस्तुत इतिआपाततो विचारसहत्वेन ज्ञानमात्रमिति भावः । तदुपकरणन्तर्कादि तदवान्तर भेदः - प्रमाणप्रमेयतदुपकरणावान्तरभेदः । भेदश्च व्यवस्थाचेति द्वन्द्वः । इदमेव प्रमाणं प्रयोक्तव्यम् इदमेव कथा प्रवर्तनीयाः एत एव निग्रहाः उद्भावनीयाः इत्यादिसमयबन्धो व्यवस्था ।स्ववचन विरोधे इति। प्रमाणादिभेदवचनस्य भेदो नास्तीति वचनेन विरोधप्रसङ्गः । स्वसाध्यं भावरूपाज्ञानादिभेदसाधकत्वाभिमतप्रमाणस्य भेददूषकाद्भेदस्सिद्धो नवेति विकल्प्य द्वितीये दोषमाहकिञ्चासिद्धभेदेनेति।आद्य आहअन्यथेति।नन्वविद्याधीनत्वेपि भेदस्य ज्ञाने नियमो वाच्यम् । अन्यथा धट एव पटज्ञन प्रसङ्गात् ।नचेष्टापत्तिः । उक्तदोषादित्यत्राहदिगिति। तदर्थस्तु नियमरूपायाविद्यकत्वेन तदसम्भवस्येष्टत्वात् । नचधटे पटज्ञानप्रसङ्गः । सत्येव घटज्ञानविषये पटज्ञानस्येष्टत्वात्सर्वाध्या साधिष्ठानत्वात्सत इति। धर्मधर्म्यादि विकल्पदूषणं पश्चादुद्धरिष्य प्रथमतः प्रतीत्या भेदं साधयति ।न तावदित्यादिना। अन्योन्याश्रयदोषानतीतः । कथमिति चेत् किमन्योन्याश्रयणोद्भावनात्प्रतीत्य तद पह्नवोभिप्रेतः । उत प्रतीतिसम्भवेऽपि कारणापह्नवेन प्रतीतेर्मिथ्यात्वम् । यद्वा अनिर्वचनीयकारणात्वात्प्रतीतेर्मिथ्यात्वम् । किं वा निर्विषयत्वम्।अथवा बाध्यविषयत्वमिति विकल्पमभिप्रेत्याद्यं दूषयति ।नतावदिति।स्ववचन विरोधः। अविद्यामूलो भेदग्रह इति स्ववचन विरोधः । प्रतीत्यभाववचनम् । अभावमभ्युपेत्य प्रतीत्यभ्युपगमनं त्वदीयभाष्यविरुद्धं चेत्याहतथा सतीति। भेदप्रतीत्यपह्नवे सतीत्यर्थः । युष्मदस्मत्प्रत्ययावेवयुष्मदस्मदर्थभेदप्रत्यये, विषयविषयिणोरित्यादिना भेदश्चाभ्युपगत इत्यर्थः । द्वितीये आहतेन च भेदेति ।मथ्यात्वस्यापि कार्यत्वात्कारणं वाच्यमित्यर्थः। अन्यथेति। चार्वाकमते निर्हेतुकं कार्यमिति भावः । नित्यत्वतुच्छत्वयोरित्यकार्यस्य सत्वे ब्रह्मवत्सत्यत्वं समत्वे शशविषाणवत्तुच्छत्वं स्यादित्यर्थः । तृतीयं प्रतिवक्तिन च दुर्निरूपमिति। ननु विशेषतो निरूपणाभावोऽभिप्रेतइतिचेत्किमस्मन्मते निरूपणाभावः उत त्वन्मतेन । आद्ये इत्याहअन्वयेति। नचाधिकरणग्रहणपक्षर्योमानाभावादभेदप्रतीतौ साक्षत्वानुभवाच्चेति भावः । द्वितीयेआहभवतापीति।अन्यथेति। अविद्याकारणकत्वाभाव इत्यर्थः । चतुर्थं दूषयतिन चास्येति। स्ववचनभवद्भाष्य विरोधादित्यर्थः ।स्व बाध्येति। प्रतीतेर्निर्विषयतयाभेदगोचरप्रतीतेरभावात्तन्निरासानुपपत्तेरित्यर्थः । पञ्चममाशङ्कतेअतो बाध्येति। ननु भेदाभावग्राहित्वे कथं भेदस्थिरीकरणं तथा सत्यतिप्रसङ्गादित्यत्राहभेदाभावोऽपीति। अन्यथा भेदाद्भिन्नत्वेन सिद्ध्यभावे तदसिद्धेःभेदाभावसिद्धेः। तत्सिद्धे हेत्विति। यदि भेदाद्भिन्नत्वेन सिद्धावपि भेदाभावसिद्धिः तदा भेदात्मकतयैवा अभेदसिद्धयैवा भेदसिद्धिस्यादित्यर्थः । एवमप्युक्तदोषाणां प्रतिक्षेप इत्यत्राहएवं चेति।सामान्यत इति। धर्मधर्मित्वविशेषानादरेणेत्यर्थः । उत्तरापेक्षायामप्याहया चेति । निष्फलत्वादिति। भेदाभावलक्षणफलासिद्धेरित्यर्थः ।अन्यथेति। भेदाभावरूप फलसिद्धावित्यर्थः । इदमुपलक्षणम् । उपजीव्य विरोधोऽपीति ध्येयम् ।न पुनरिति। स्वरूपधर्मयोरेकत्वादिति भावः । नन्वेकविषयत्वमात्रेण न पर्यायता । नीलमुत्पलमितिवदित्यत्राहन चेति। भेदमात्रनिरासे प्रवृत्तिनिवृत्तिभेदस्यापि निरासाद्धर्मत्व - धर्मित्वयोर्ह््युपाध्योर्भेदाभावादित्यर्थः ।प्रातीतिकेति। सुप्रसिद्धधर्मधर्मिभेदमुल्लङ्घ्य प्रवर्तत इत्यर्थः । पूर्वोक्ताभ्युपगमबाधं परिहर्तुमाहपारमार्थिकेति। विमर्शविषयभूतभेदो विमर्शभेदः । तन्मूलं तदवलम्बनं तद्विषयं दूषणं प्रवर्तत इत्यर्थः । पारमार्थिको दोषो दूष्यत इति यावत् । तथा वाभ्युपगतस्य प्रतीतिसिद्ध भेदस्वरूपस्या निरासान्नाभ्युपगमबाध इति भावः । किं प्रतीतिसिद्धभेदस्वरूपादन्यस्यैव पारमार्थिकभेदस्य दूष्यत्वं किं वा प्रतीति सिद्धे भेद एव पारमार्थ्यनिरसनमिति विकल्पमभिप्रेत्याद्यं दूषयतिविमर्शभेदस्यापीति। तथा चापारमार्थिकभेदस्य दूष्यत्वासम्भवान्निर्विषयदूषणं स्यादिति भावः । द्वितीय्य आहस्वमूलघातेति। पारमार्थ्यधर्ममात्रनिरासपारमार्थ्यरूपेण भेदस्यैव निरासेपि दूषणमूलभूतपरमार्थ भेदस्यादित्युपजीव्यबाधोऽभ्युपगमविरोधश्चेति भावः । येन परमते भेदो निश्चीयते तत्किं स्वाघातकासहिष्णुः उत तत्सहिष्णुः आद्ये आहअङ्गीकृतेति ।यद्यनङ्गीकृतमूलघातकं तदा तेन विरोधाद्दूषणप्रवृत्तेः पारमार्थतयैव भेदस्सिध्येदित्यर्थः । द्वितीयआहअन्यथेति। ननु माभूद्भेदनिश्चयः । परोक्तप्रतीतित्वमात्राद्विकल्पस्यादित्यत्राहतन्मूलेति। निश्चयमूलो हि विकल्पः न प्रतीतिमात्रादित्यर्थः । ननु न वयं विकल्प्य दूषणं ब्रूमः येन मूलघातः किन्तु अनुपलब्धेरेव भेदस्य बाधं ब्रूम इत्यत्राह(न तन्मूलेति) न चानुपलब्धेरिति । विकल्पेन किमिति ।विकल्प्यं दूषणं न ब्रूमः । अपित्वनुपलब्धिवशादेवबाधं दूषणं ब्रूम इत्यर्थः ।तथा सतीति। ख्यातिबाधाभ्यां ह्यनिर्वचनीयत्वमनुपलब्धस्य तदसम्भवादित्यर्थः ।उपलम्भस्यैव सत्वेन अनुपलब्धिरसिद्धेत्याहसंविदिति। भेदः स्वरूपं धर्मो वेति विकल्प्यदूषणं जातिरिति दूषयतिकिञ्चेति।तदारोपसम्भवादिति ।नचा भेदस्य स्वरूपत्वेपि तिरोधानाद्भ्रम इति यदि तदा स्वरूपस्य भेदत्वेपि समानमिति भावपर्यायत्वादिति भिन्नो घट इत्यत्रेवेत्यर्थः । आदिशब्देन घटो घटवदित्युक्तम् ।स्याद्धटो भेद इति ।व्यवहारश्च स्यादिति विवक्षितम् ।धर्मधर्मिभावस्येति। ननु सिद्धान्ते स्वरूपस्यापि भेदत्वाङ्गीकारात् भिन्न इति धर्मधर्मिभावेन व्यवहारः कथमिति चेन्न । भिन्न इति व्यवहारस्य धर्म धर्मिभावनिबन्धनत्वासिद्धेः । तस्य भेदाप्रयोज्य सम्बन्धमात्राधीनत्वादिति भावः ।भेदो धर्म इति। पक्षे भेदस्याप्यधिकरणप्रतियोग्यादिभिर्भेदोऽस्तिनवेतिविकल्प्य प्रवृत्तिदूषणमभेदो धर्म इत्यत्रपिस्यादित्यत्राहयद्यभेद इति।स एवेति। भेदभ्रमानुपपत्तिर्दोष इत्यर्थः।त्वदुक्तेति। इतीत्यनेन भेदस्स्वरूपं धर्मोवेत्याशङ्क्योक्तोर्थः परामृश्यते । भेदास्स्वरूपं धर्मोवेति विकल्पयता परेण हि प्रकारान्तराभावाद्यद्येकत्र स्वरूपं सर्वत्रापि स्वरूपमेव क्वचिद्धर्मत्वे तु सर्वत्रापि धर्म एवेति मर्यादा विवक्षिता । अभेदेऽपि तादृशमर्यादाकल्पनेन दूषणोक्तौ किमुत्तरमित्यर्थः। उपलम्भ इति चेदिति। शुक्त्यादि स्वरूपग्रहेपि भेदभ्रमदर्शनात्तत्राभेदो धर्मः शौक्ल्यादिस्वरूपग्रहे तद्भेदभ्रमदर्शनात्तत्र स्वरूपभेद इति यथोपलम्भं स्वीकारेण न दोष इति चेदित्यर्थः ।न काचिदिति। नास्माभिरभेद दूषणपरिहारः कार्यः । तथा च तद्दूषणे इष्टापत्तिरिति भावः ।किमर्थ इति। जीवब्रह्मणोरभेद समर्थनार्थमेव भेदापन्नपातो नेष्टापत्तिरिति भावः ।अन्यार्थ एवेति। भेददूषणमभेदसमर्थनार्थं न भवति । किन्तु भेदासिद्धय इति भावः ।अप्रतिष्ठेति। माध्यमिकवत्सर्वशून्यत्वानङ्गीकारात् अङ्गीकृतस्य ब्रह्मणस्स्वात्मकजीवाभेदाभ्युपगमाद भेदनिरासो नेष्ट इति भावः । ननु वयं भेदापह्नवेनाद्वैतं साधयामः । येन भेदवत्तैरेव तर्कैरभेदस्यापह्नवस्यात् । किन्तु तर्कै र्भेदनिरासमात्रं कुर्मः । न चा भेदस्यापि तन्नयायेन निरासः । दृढतरप्रमाणसिद्धेःतर्काणामप्रवृत्तेरित्यभिप्रायेण शङ्कतेन भेदेति। द्वैताभावत्वेनैव सिद्धिरद्वैतसिद्धिः । स्वप्रकाशश्च न तादृश इतिनाद्वैतस्य स्वतसिद्धिरित्यभिप्रायेण परिहरतिनाद्वैतमिति। स्वरूपेणसिद्धिरद्वैतसिद्धिः कुतो नेत्यत्राहअन्यथेति।अद्वैतमित्याकारकत्वाभावे स्वरूपमात्रप्रकाशस्य संशयसहस्याद्वैतसिद्धित्वं न स्यादित्यर्थः ।भेद स्वरूपस्य दुरपह्नवत्वमाहअस्मादिति। ननु माभूद्भेदवदभेदोऽपि न चैतावता माध्यमिकमतापातः । वस्तुस्वरूपमात्राङ्गीकारादपि तन्मतनिरासादित्याहन चेति। अन्यतराभावस्यान्यतरसत्वव्याप्तत्वात् । उभयाभावः उभयसत्वप्रसङ्गात् । अनुभवात्मकत्वं व्याहतमित्यर्थः । ननु भेदवादिनापि त्वया भेदोङ्गीक्रियते नवा । आद्ये स एव व्याघातः । द्वितीये सर्वस्यापि स्वात्मनाप्यभेदाभावे माध्यमिकमतापात इत्यत्राहन च वयमित्यादिना। तर्हि तस्माद्भेद इत्यत्राहअत इति। विकल्पन्यूनत्वदोषमाहअथ यावदिति । धर्मान्तराणामिति ।चन्दनगन्धस्य कस्तूरिकागन्धाद्भेदो अस्ति स च भेदः गन्धाश्रयचन्दनाद्येव । न च भेदाश्रयो गन्धो न वा तद्धर्म इति तदितिरिक्तकोप््यन्तरं सम्भवतीतिभावः । कोट््यन्तरमाहउभयं वेत्यपीति ।क्वचिद्धर्मः क्वचिद्धर्मीतिकोटयन्न्तरं कुतो नोक्तमित्यर्थः ।स एवेति।एवकारेण धर्ममात्र भेदवादः स्वरूपमात्र भेदवादश्च व्यवच्छिद्यते । अङ्गीकारे हेतुमाहयथा सम्भवमिति। स्वमतेप्येकजातीय्यस्यैवाभावत्वासम्भवादिति भावः । कथमुभयोर्भेदत्वमित्याशङ्कायां भेदलक्षणसत्वादित्याहव्यावृत्तेरिति। स्वरूपे लक्षणं दर्शयतिस चेति। शौक्ल्यादिग्रहे सति काष्ण््यादिभ्यो व्यावृत्तिव्यवहारदर्शनात् शौक्ल्यादिस्वरूपमेव भेद इत्यर्थः । धर्मस्य भेदलक्षणयोगितामाहक्वचिद्धर्मश्चेति। तस्य भेदत्वमुपपादयतिशुक्तिरजतभ्रमादेरिति। अत एव स्वरूपपक्षोक्त लक्षणोक्तदोषोपि नास्तीत्याह ।न भ्रमाद्यनुपपत्तिरिति। ननु स्वरूपस्यापि भेदत्वात्कथं तद्ग्रहेदभ्रम इत्यत्राहन हीति।धर्म्यपेक्षया स्वरूपं न भेदः ।अपितु धर्म एवेत्यर्थः । ननु धटत्वादेर्भेदकत्वे धटोभिन्न इति पर्यायता प्रसङ्गः ।घट इति व्यवहारवत् भिन्न इति व्यवहारोपि प्रतियोगिनिरपेक्षस्यात् । अन्यतरपद वैयर्थ्यं च स्यादित्यत्राहघटोभिन्न इति। प्रवृत्तिनिमित्तभेदान्नदोष इति भावः ।व्यावृत्तेति।यत्सम्बन्धेन यत्र यद्वयावृत्ति व्यवहार प्रयोजकं यत् तत्सम्बन्धेन तत्र तद्भेदस्स इति विवक्षितम् । तेन शौक्लस्येतरभेदत्वे स्वाश्रयीभूत घटापेक्षयापि भेदतया घटेऽपि घटभेदप्रसङ्ग इति निरस्तम् । तस्य स्वाश्रयाद्भेदत्वेपि नाधाराधेय भाव सम्बन्धेन तत्र तद्वयवहार प्रयोजकत्वं किन्तु अभेदसम्बन्धेनैव व्यवहार प्रयोजकत्वमिति तेन सम्बन्धेन तद्वति स भेदो न भवतीति धटेऽपि न तद्भेदप्रसङ्गः । एवं शौक्ल्यस्य धर्मिणितदशौक्ल्यादि भेदत्वेपि शौकल्य भेदप्रसङ्गोऽपि नास्ति । तस्य धर्मिण्याधाराधेय भावसम्बन्धेनैवेतरभेदत्वात् ।शौक्ल्ये तादृश सम्बन्धेनाभावादिति दिक् ।भ्रान्तीति।भ्रान्तिप्रतिपक्ष उपलम्म्भो यस्येति बहुव्रीहिः । तथा चायमर्थः । यस्मिन्नधिकरणे यदुपलम्भो यदभेदज्ञान विरोधि तदधिकरणक तत्प्रतियोगिकभेदत्वं तस्यैवेत्यर्थः । यदुक्तं पटादिस्वरूपाणां प्रत्येकं घटाद्भेदे घटाद्व्यावृत्त इत्यनुगतव्यवहारस्य निर्विषयत्वेन बाधादनुवृत्तत्वाङ्गीकारे सर्वतादात्म्यप्रसङ्ग इत्युक्तदोषमुद्धरतिअत एवेति। सार्वत्रिकप्रयोगयोग्य प्रवृत्तिनिमित्तयोगाद्भिन्नेष्वप्यनुगत भेदव्यवहारोपपत्तेरित्यर्थः ।अनुवृत्त्यादिति। यद्यपि घटभिन्नवस्तुस्वरूपाणां परस्परानुवृत्त्या तेषां परस्पर तादात्म्यसिद्धावपि घटतादात्म्यासिद्धेः न सर्वतादात्म्यं तथापि पटभेद(स्य) व्यवहारविषयाणां पटभिन्नवस्तुस्वरूपाणां परस्परानुवृत्तिरादिशब्देन ववक्षिता । तथाच कुड्यादीनां घटपटोभयतादात्म्यात्सर्वतादात्म्यप्रसङ्ग इति भावः ।स्वरूपशब्दवदिति।यथा स्वरूपशब्दविषयाणां परस्परनुवृत्त्यभावेऽपि न स्वरूपशब्दस्य निर्विषयत्वं तथेत्यर्थः । दृष्टान्तोऽसिद्धः । तत्रानुवृत्तस्य विषयत्वसम्भवादित्यत्राहघटस्वरूपमिति। भेदोल्लेखबलान्नस्वरूप शब्दार्थानुवृत्तिरिति भावः ।तत एवेति। अनुगतव्यवहारस्य निर्विषयत्वप्रसङ्गादेव स्वरूपमात्रं न भिद्यतइति भावःस्वधीति। घटस्वरूपं पटस्वरूपाद्भिन्नं ब्रह्मस्वरूपं जडस्वरूपं न भवतीति स्वधीवचन विरोधः।न चाननुगमः । समभिव्यहृतविशेष्यांशत्वं स्वरूपत्वमिति नानुगतव्यवहारस्य निर्विषयत्वमिति भावः । दूषणान्तरमाहतेनेति । भेदस्वरूपमिति। व्यवहारात्तेनापि सर्वतादात्म्यं प्रसज्येत । नच तद्युक्तं विरोधादिति भावः ।प्रतियोगिनिरूपिताकारे व्युत्पन्नत्वादिति। दीर्घत्वस्य परिमाणत्वेपि दीर्घत्वाकारव्यवहारस्येव भिन्नत्वाकारव्यवहारस्यापि प्रतियोगिकत्वमिति भावः । यस्मिन्नेतिद्दर्शन इति। ननु शुक्तित्वदर्शनेऽपि तस्यां रजतसंसर्गारोपात्कथं तस्य रजतभेदत्वम् । किं च घटात्यन्ताभावेज्ञाते तत्र घटसंसर्गाध्यासायोगात् घटात्यन्ताभावे घटभेदस्यात् । तथाच तद्वतो घटस्य घटभिन्नत्वप्रसङ्गः । किञ्च घटत्वादेः घटापेक्षया भेदस्तदन्यस्यात् यस्मिन्यद्दर्शन इत्यभावात् । न च यद्दर्शनं यत्र यदध्यास विरोधीति विवक्षितं घटत्वादेर्दर्शनस्य स्वस्मिन् तदन्यथाध्यास विरोधित्वादिति वाच्यम् । तथा सति घटेपि घटभेदप्रसङ्ग इति चेन्न । यद्रूपेण ज्ञायमाने यत्र येन सम्बन्धेन यस्यज्ञानं यद्रूपेण ज्ञानमान यत्तादात्म्यज्ञानविरोधि तेन सम्बन्धेन तस्य तत्प्रतियोगिको भेदः । एवं च घटत्वं स्वस्मिन् तादात्म्यसम्बन्धेन ज्ञातमन्यतादात्म्यज्ञानविरोधीति तन्त्रभेदः । घटेतु संसर्गसम्बन्धेन ज्ञातमिति तादात्म्यज्ञानविरोधीति पटादिभ्यो घटस्य भेदः । न च घटस्यसंसर्ग सम्बन्धे घटत्व ज्ञानं स्वतादात्म्याध्यासविरोधित्वात्स्वयमेव स्वस्माद्भेदस्यात् इति वाच्यम् । इष्टत्वात् ।नचैवमस्मिन्नपि भेदव्यवहारप्रसङ्गः । यत्र भेदज्ञानविरोधि तत्राधिकरणे भेदव्यवहार प्रयोजकत्वादिति दिक् । ननु यदि घटत्वादिकमेव भेदः तस्मिन् गृहीते घट इति व्यवहारवत् भिन्न इति व्यवहारोऽपि स्यादित्यत्राहतदुक्तिस्त्विति। भिन्नशब्दस्य प्रतियोगिनिरूपिताकारे व्युत्पन्नत्वात् तदाकारविवक्षायां तथा व्यवहार इत्यर्थः । सत्यमिति। अवधारणांशो नाङ्गीकृतः ।धर्मविशेषाणामिति। ननु दण्डिन्यदण्डिभ्यो भेदो दण्डो न स्यात् । दण्डस्वरूपे ज्ञातस्य दण्डितादात्म्याध्यासात् किं चादण्डिभ्यो भेदो न स्वरूपस्स््यात् । तन्निष्ठधर्मदण्डदशायामपि दण्डिभेदव्यवहारापत्तेः । नच दण्डाभावः तस्यातिरिक्तस्याभावात् भावे वा सर्वत्र तथास्तु ।किं च जातिगुणादीनां स्वरूपस्याश्रयत्वाद्भेदत्वं न स्यात् । तद्ज्ञानस्य शुक्लोघट इत्याश्रय तादात्म्य सहत्वादिति चेन्न दण्डत्वादिकमेव भेदः । परम्परासम्बन्धेन तदध्यासविरोधित्वाद्दण्डिन्यदि तात्कालिककालापि सम्बन्ध एव भेदः । तस्याभावाद्दण्डिनि भेदव्यवहारायोगात् । नापि जात्यादेराश्रयाद्भेदत्वादभावः । यं धर्ममादाय घटो घटत्वमिति पर्यायत्वाभावः तादृग्धर्मस्यैव भेदत्वात् । तद्दर्शने च अन्यतादात्म्याध्यासाभावादिति दिक् । ननु यदि घटत्वमेव भेदस्तर्हि तद्ज्ञानमात्रात्स्वरूपव्यवहारवत् भेद इति व्यवहारोऽपि स्यादित्यत्राहतच्चेति। यथा घट इति स्वरूपेण व्यवह्रियमाणघटत्वं घटेन सहाश्रयाश्रयिभावविवक्षायां धर्म इति व्यपदिश्यते तदा तत्प्रतियोगित्वविवक्षायां घटाद्भेद इति व्यपदिश्यत इत्यर्थः । स्वरूपनिर्वाहकत्वसमाधिः परैरभ्युपगम्यत इत्याहस्वपरेति।संवेदनं - संवित् । तस्य स्वसिद्धपरसिद्धंस्वव्यवहारपरव्यवहार प्रयोजनस्योक्तत्वादित्यर्थः विकल्पायन्यूनतोद्भावनसमये स्वाश्रयस्य स्वरूपधर्मबहिर्भावादिति धर्मिणोपि भेदत्वमुक्तं तदुपपादयितुं शङ्कतेधर्मिस्वरूपस्येति । अगृहीत भेदेष्विति ।स्वरूपतो धर्मतो वेति शेषः । सौरभे गृहीते तदाश्रयानवगतिदशायां तैलघृतगन्धयो र्वैषम्यमगृहीतवतो पटुकरणस्य भवति संशयः किं तैलस्यायं गन्धः उत ततोऽन्य इति । तत्रधृतरूपाश्रयविशेषे निश्चिते सति तैलादिगन्धो नेति भेदव्यवहारात्तत्संशय निवृत्तेश्चाश्रय एव भेदइत्यर्थः ।ननु धर्म्यपि किं भिन्नमेव धर्मं भिनत्ति उत निर्भेदमेव द्वितीयेऽतादृशेन न भिन्नत्वसिद्धिः । अनेनापि धर्मस्यैव धर्मि भेदकत्वस्य वाच्यत्वात्तस्य च धर्माधीन भेदत्वेन्योन्याश्रय प्रसङ्गात् । निर्भेदस्यैव धर्मस्य धर्मिभेदकत्वं वाच्यम् । तच्च न सम्भवतीत्युक्तम् । किञ्च निर्भेदस्यैव भेदकत्वे भिन्नयोरंशयोर्भेदकं तस्यापि तन्निष्ठेन तेन धर्मेण भेदः तत्रापि यदेकं तस्यापि तेन भेद इत्यनवस्था स्यात् । ततश्च परमाणूनामपि भेदे तदंशस्यापिभेदे न चैकस्याऽसिद्धेश्शून्यतापत्तिश्चेत्यत्राह ।सोऽपि धर्मीति। धर्मान्तरेत्यनेन अन्योन्याश्रयः परिहृतः ।यस्यधर्मस्य धर्मिभेद्यत्वं ततोऽन्यस्य धर्मिभेदकत्वान्नान्योन्याश्रय इत्यभिप्रायः ।येनेति। येन निर्भेदेन भेद्यत्ववचनेनेत्यर्थः । ननु विलीनधृतादौ तैलादितादात्म्यसन्देहस्य सौरभ विशेषोपलम्भादेव निवृत्तिः ।अत एव धर्मिणो भेदकस्य स एव चेद्धर्मिणो भेद्यते व्यक्त एवान्योन्याश्रय इत्यत्राहयस्यचेति । कदाचिदिति।यदा स्वयं धर्मी भिद्यते न धर्मिण स्वयं भेदक इति तात्पर्यम् । ननु तादृशधर्मस्य नियमतो धर्म्येव भेद इवकदाचिदपि कथं तस्य धर्म भेदकत्वमन्योन्याश्रयादित्यत्राहअपेक्षेति। परस्परापेक्षानियमाभावादित्यर्थः ।तत्र धर्मस्य धर्म्यपेक्षा नियमाभावमुपपादयतिगन्धजातीति। धर्मिणो स्वभेदस्य धर्मापेक्षा नियामाभावमुपपादयति ।अस्फुटेति। अत्रेदं तत्वं गन्धादिस्थले गन्धगतविशेष एव भेदः । स एवाश्रयस्यापि घृतस्य भेदकः । तद्ज्ञानादेव तादात्म्याध्यासनिवृत्तेः । आश्रयोऽपिन भेदकः । निर्भेदस्य भेदत्वायोगात् । भेदसिद्धिश्च धर्मान्तराच्चेत्स एव गन्धादेरपि भेदः । तद्ज्ञानादध्यासनिवृत्तेः । न च तन्निष्ठत्वात्कथं स भेद इति शङ्क्यम् । धर्मिणोऽपि तथात्वात्तस्माद्धर्मिभेदवचनं धर्मस्येवेति न नियमः । किन्तु तदन्यस्यापि भेदत्वमस्तीति परमिति प्रागुक्तम् । धर्म्यन्तराणां भेदत्वमुदाहरतिएवमिति। विषयज्ञानं तद्धर्मे विषयत्वम् । आदिशब्देन विषयो गृह्यते । घटज्ञानस्य घटविषयक ज्ञानापेक्षया घटो भेदः घटे विषयत्वस्य पटविषयत्वापेक्षया स एव भेदः । तद्ज्ञानविषयस्य तदविषयापेक्षया तद्ज्ञानं भेद इति क्रमेणोदाहर्तव्यमित्यर्थः । तयोरिति। धर्मधर्मित्वादेर्भेदस्य च मिथो भेदानभ्युपगमादित्यर्थः ।तथेति। तथा सति भेदज्ञानाधीनं धर्मत्वधर्मित्व ज्ञानं भेदज्ञानं च तदेवेत्यात्माश्रय इत्यर्थः ।तस्यै वेति। धर्मत्व धर्मित्वयोर्ज्ञानस्य स्वात्मानं प्रति हेतुत्वे आत्माश्रयः । नहि धर्मत्वज्ञानं तत्र हेतुः । धर्मित्वज्ञानं वा स्वस्मिन्नित्यर्थः । धर्मत्व धर्मित्वादेर्भेदत्वमभ्युपेत्युक्तम् । वस्तुतो जात्यादेरेव भेदत्वात्तस्य च वस्तुना सहैव ग्रहणान्नाऽन्योन्याश्रयशङ्कापीत्यत्राहस चेति।वस्तुनोद्वयोरिति। विधिरेव व्यवच्छेदः । स च न तस्यैव व्याघातात् । किन्त्वन्यस्यैव । अन्यत्वं च तत्तत्प्रतिनियतो धर्मः । तत्तादात्म्य विरोधी धर्मः । तत्तदपेक्षयान्यत्वमिति यावत् । तद्यथा धटाद्यन्यत्वं पटत्वं तच्च प्रत्यक्षेणेव गृह्यत इति नान्योन्याश्रयइत्यर्थः । प्रत्यक्षस्यैवेति। अन्योन्याश्रयादिकं प्रत्यक्षस्यैव दोष इति तद्वर्जनभारस्तस्यापेक्षित इति किमर्थमुच्यते भेदज्ञानमात्रशिरसि किमर्थं निक्षिप्यत इत्यर्थः । प्रमाणस्यैव विचारसहत्वं नान्यस्य । तथा च प्रत्यक्षस्य प्रामाण्यसिद्धये अन्योन्याश्रयादिकं प्रत्यक्षस्यैव दोषवर्जनापेक्षेति शङ्कते ।तत्प्रामाण्येति। लोके हि सन् घट इत्यादौ प्रतीत्यैक्यं - प्रतीति स्वरसिद्धं तत्राऽन्योन्याश्रयादिदोषसहं प्रत्यक्षाद्भिन्नं भेद भ्रमरूपमेकं ज्ञानम् । अपरं तु प्रत्यक्षप्रमात्मकं सन्मात्रविषयं दोषासहमिति कुतो ज्ञानद्वयं कल्प्यते । लाधवात् एकमेव प्रत्यक्षकरणैर्भ्रमरूपमुत्पन्नमस्त्विति अतिशयेन परिहरतितदपि वेति । लोकेति। सन्मात्रप्रत्यक्षेन्योन्याश्रयादिदोषाणां लोकविरोधात्परित्यज्यत इत्यर्थः ।तुल्य विकल्पेति। लोकविरोधस्य भेदज्ञानमात्रेऽपि तुल्यत्वादित्यर्थः । बाधितं विषयत्वरूप वैषम्यं शङ्कतेतत्सिद्ध इति । सदिति। प्रत्यक्ष बधाभावात्प्रमाणं भेदविषयत्वे चान्योन्याश्रयादिदोषग्रासान्नप्रामाण्यं स्यादतो ज्ञान भेदः कल्प्यत इति भावः । बाधकाभावा ( ) नं तरं न परित्यक्त इत्यनुषङ्गः ।उक्तत्वादिति। अतो बाध्यविषयत्वमेव शिष्यत इत्यारभ्येत्यर्थः ।अस्तु तर्हीति। प्रामाण्याप्रामाण्यवैषम्यहेत्वभावात्सत्वरूप भेदोभयविषयकं प्रत्यक्षमेकमस्मत्प्रमाणं चास्त्वित्यर्थः ।तेनापीति। ऐन्द्रियकप्रत्यक्षेणेत्यर्थः। तथाभाव इति। तस्य सतस्वतस्सिद्धत्वे किं प्रमाणमित्यर्थः ।सिद्धाविति। प्रमाणाभावात्सत्स्वरूपमसिध्येदिति सर्वशून्यतास्यादित्यर्थः ।अथेति। प्रमाणतयोपन्यसनीयमितिशेषः । परिहरतिकिमिति। परपक्षाणामपितथोपन्याससिद्धप्रमाणप्रतिष्ठितत्वादिति भावः । प्रमाणतयोपन्यासमात्रान्नकार्यकरत्वं येनोक्तदोषस्यात् ।किन्तु परैः प्रमाणतयाभ्युपगतं कार्यकरमिति शङ्कते ।परैरिति । तावतेति। तत्तन्मतस्थैरभ्युपगतप्रमाण मात्रात्तदर्थसिद्धया तत्वव्यवस्थाया अयोग इत्यर्थः ।किं चेति। अत्र सकलतेर व्यावृत्तमित्यनेन व्यावृत्ति वैशिष्टयं विवक्षितं स्वरूपातिरिक्त भेद विशिष्टमिति यावत्अन्यथेति। स्वरूपस्य सकलेतरव्यावृत्तिरूपभेद साधकत्वात्प्रमाणान्तरस्य त्वदुक्तरीत्या असम्भवाज्जडाद्भेदे मानाभावाज्जडतादात्म्यप्रसङ्ग इति भावः । किं च स्वरूपातिरिक्तजडभेदस्यास्फुरणे प्रत्यग्वस्तुनः सामान्याकारेण स्फुरणं वक्तव्यम् । स्वरूपमात्रेण वा तत्र आद्य आहआकारभेदेति। येऽपि किं स्वरूपं जडभेदः उत न द्वितीय्ये जडतादात्म्य प्रसङ्गः उक्त एवेति प्रथमे दोषमाहतावत इति। प्रत्यग्वस्तुस्वरूपमात्रस्येत्यर्थः । यच्चोक्तं नियमस्याप्याविद्यकत्वेनतदभावस्येष्टत्वादित्यादितन्निरासाभिप्रायेणेति शब्दः । तदर्थस्तु घटज्ञानात् घटार्थिनो नियतप्रवृत्तिर्नस्यात् व्यावहारिक व्यवस्था यास्त्वाप्येष्टव्यत्वात् । अन्यथा हेयोपादेयविभागानुपपत्तिः । सत्येव धटज्ञान विषये पटज्ञानस्येष्टत्व वचनमपि व्यावहारिकप्रातिभासिकादिव्यवस्था भङ्गान्निरस्तमिति ॥ वत्सकुलजलधिकौस्तुभ नृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणीटीकायां त्रयोदशो वादस्समाप्तः ॥