॥ अथ सन्मात्रग्राहिप्रत्यक्षभङ्गवादः द्वादशः ॥12॥
यस्य सत्त्वेन विश्वस्य सत्ता सदसदात्मनः ।
प्रत्यक्षाद्यपरिच्छेद्यं तत्सदैकमुपास्महे ॥
यत्तु प्रत्यक्षादिविरुद्धं शास्त्रार्थमुपपाद्य पुनस्सानुशयैरुक्तम् - प्रत्यक्षादिविरोधे सत्येव हि शास्त्रस्यबलीयस्त्वं वक्तव्यम् ।
विरोधमेव न पश्यामः; प्रत्युतैकरस्यम्; प्रत्यक्षस्यापि शास्त्रस्येव निर्विशेषसन्मात्र ग्राहित्वात् ।
ननु यदि सन्मात्रं प्रत्यक्षेण गृह्यते, तदा घटोऽस्ति पटोऽस्ति इत्यादिनानाकारवस्तु विषयोपलम्भव्यवहारयोर्विरोधः ।
न हि सत्सदित्येव प्रतीतिव्यवहाराविति चेत् - मैवम्; यथा इदं रजतमित्यादि रूपेषु शुक्तिरजतादिभ्रमेष्विदमंशस्याबाधितस्य सर्वत्र प्रत्यक्षेण ग्रहणं रजताद्यंशस्य त्वारोपितस्यैव भ्रान्त्यैवेति विविच्यते, तद्वदत्रापि सर्वत्र सन्मात्रप्रकाशव्यवहारयोः प्रत्यक्षोपज्ञत्वम्, घटपटादिभेद विषययोस्तु तयोर्भ्रमोपज्ञत्वमिति विविञ्चामः; तथा हि घटोऽःस्तीत्यादावस्तित्वं तद्भेदश्च प्रकाशते; व्यवह्रियते च ।
तत्र विधिव्यवच्छेदयोर्भावाभावात्मनोरैक््यायोगात् भेदस्तावदङ्गीकार्यः ।
ततश्च स्वरूपभेदयोः सद्घटयोः किं द्वयोरपि
ग्राहकं प्रत्यक्षम्, उत अन्यतरग्राहि इति विचारणीयम् ।
पूर्वत्रापि किं युगपद्ग्राहकम्, उत क्रमेणेति ।
न प्रथमः; स्वरूपग्रहणस्य निरपेक्षतया झटित्युत्पत्तेः भेदग्रहणस्य त्वाश्रय - प्रतियोगिग्रहणसापेक्षस्य जघन्यत्वाच्च यौगपद्यासम्भवात् ।
न द्वितीयः; क्षणिकस्य ज्ञानस्य निरपेक्षं स्वरूपमवलम्ब्यास्तमितस्य भेदग्रहणाय क्षणान्तरस्थितेरशक्यत्वात् ।
अन्यतरग्राहित्वपक्षेऽपि न भेदमात्रग्राहित्वम्, निराश्रयभेदग्रहासम्भवात् ।
ततःपरिशेषात् स्वरूपमात्रग्राहिप्रत्यक्षमिति सद्ध्यति ।
एवं प्रत्यक्षस्य भेदग्राहित्वासम्भवे तन्मूलानां प्रमाणान्तराणामपि न वस्तुतो भेदसमर्थनसामर्थ्यमिति कुतस्तत्सिद्धिः? सिद्ध्यन्नपि च भेदः इतरव्यवच्छेदरूपतया स्वयभावात्मतया षष्ठप्रमाणवेद्य इत्यतोऽपि न तस्य प्रत्यक्षग्राह्यता ।
एवं प्रत्यक्षे प्रथमाक्षसन्निपातक्षणभाविनि स्वरूपमात्रमवलम्ब्य विलीनेऽपि,अविद्यावशात् तदनन्तरभाविनि विकल्पेऽपि सन्निकर्षात् प्रत्यक्षाभिमानमात्रं जायते, न तु साक्षात्प्रत्यक्षतेति भ्रान्तिमूल एव भेदव्यवहार इति ॥
अत्र ब्रूमः - “भेदापह्नवलोभेन भेदं विधिनिषेधयोः ।
स्वयं समर्थयन् मूर्खः स्ववाग्वज्ज्रेण खण्डितः ’’ ॥
यदुक्तं स्वरूपभेदयोर्युगपत् क्रमेण वा ग्रहणमिति, तत्र योग्येषु भेदेषु युगपदेवेति ब्रूमः ।
तदाह - “एकक्षणवर्तित्वेऽपि प्रत्यक्षज्ञानस्य तस्मिन्नेव क्षणे वस्तुभेदरूपतत्संस्थानगोत्वादेर्गृहीतत्वात् क्षणान्तरग्राह्यं न किञ्चिदिह तिष्ठति’’ इति ।
स्वरूपवज्जातिगुणादेरपि तत्तदिन्द्रिययोग्यत्वाविशेषात् एकसामग्रीवेद्यत्वं निर्विकल्पकनिरूपणे प्रदर्शितम् ।
न च
जात्याद्यतिरिक्तं भेदमिच्छामः ।
त्वमपि हि घटोऽस्तीत्यादिषु घटत्वादिकमेवात्र भेदतयोदाहरसि ।
घटत्वादेश्च स्वरूपेण गृह्यमाणस्य न प्रतियोगिज्ञानापेक्षा ।
आश्रयप्रकाशापेक्षायामपि सहोपलम्भादेव नैराकाङ्क्ष्यं समर्थितम् ।
प्रतियोगिनिरपेक्षस्य कथं भेदत्वमिति चेत् ? यदि तस्य भेदत्वं नास्तीति मन्यसे तर्हि तत एव आश्रयस्येव तद्गतघटत्वादेरपि ग्रहणे न कश्चिद्दोषः ।
तदाऽपि न सन्मात्रग्राहकत्वसिद्धिः ।
सौहार्देन तु वदमः; “जात्यादीनामेव स्वरूपेण गृह्यमाणानां न प्रतियोग्यपेक्षा, तेषामेव तु भेदत्वाख्येन स्वधर्मेण गृह्यमाणानाङ्कदाचित्प्रतियोग्यपेक्षा’’ इति सर्वेषां स्वप्रतीतिसाक्षिकमेतत्।
भेदत्वं चानन्तरमेव भेदनिरूपणे (वादः 13)शिक्षयिष्यामः ।
बाधाभावे च (वादाः 13 - 15 - 16) सेत्स्यति, शुक्तिकारजतादिबद्बाध्याबाध्यांश निष्ठावार्ताऽपि निरस्ता ।
यच्चोक्तम् - प्रत्यक्षस्य भेदग्राहित्वाभावात् तन्मूलानामन्येषामपि प्रमाणानां न भेदसमर्थनसामर्थ्यमिति, तत्र किं तेषां कस्यचिदप्यग्राहकत्वं विवक्षितम्, उत अभेदग्राहित्वम्, यद्वा भेदग्राहित्वेऽपि तत्र प्रामाण्यं नास्तीति? नाऽऽद्यद्वितीयौ; प्रतीतिबाधापसिद्धान्तादिदोषप्रसङ्गात् ।
न तृतीयः; भेदबाधकानां निरसिष्यमाणत्वात् ।
यदि च प्रत्यक्षचर्वितचर्वणेन तदर्थे अप्रामाण्यमनुमानादेः, तदाऽतीन्द्रियस्य कस्यचिदपि कुतश्चित्सिद्धिर्न स्यात् ।
यदि च स्वविषयभेदे अनुमानादीनां प्रामाण्यं नाङ्गीकृतम्, कुत्र तर्हि तेषां तत्स्यात् ।
न कुत्रचिदिति चेत्, तर्हि प्रत्यक्षैकप्रमाणवादी चार्वाकः प्रत्यक्षाप्राप्तविषयप्रामाणान्तरप्रदर्शनेन किं त्वया प्रतिक्षिप्यते ।
धर्माधर्म परतत्त्वादिगोचरवेदप्रामाण्यप्रत्याशयेति चेत्, चार्वाकवदेव वस्तुतस्तत्र तत्प्रामाण्यमनिच्छतस्ते किमनया स्वैराचारसुखोपरोधिन्या दुराशया ।
प्रत्यक्षस्य भेदग्राहित्वाभावे लिङ्गलिङ्ग्यादिभेदो विकल्पसिद्ध इति
तन्मूलानामनुमानादीनामप्रामाण्यमिति चेत्, तर्ह्यनुमानादिकं प्रमाणमेव न भवतीति चार्वाकवत् ब्रूहि, न पुनर्भेदे न प्रमाणमिति ।
किञ्च प्रत्यक्षमूलस्यापि शास्त्रस्य प्रत्यक्षविरुद्धार्थेऽपि प्रामाण्यं सम्भवतीति मन्यमानस्य तवानुमानादेरपि तथात्वे को विरोधः?
यच्च - अभावरूपस्य भेदस्याभावप्रमाणवेद्यत्वान्न प्रत्यक्षवेद्यत्वं सम्भवतीति - तत् अभावाख्यं प्रमाणान्तरं प्रमेयान्तरं चानभ्युपगच्छतां गोष्ठीषु नावतिष्ठते ।
भवतु वा षष्ठं प्रमाणम्, तथाऽपि तत्रैव भेदग्राहकतयाऽभ्युपगते क्रमयौगपद्यविकल्पानुपपत्तिस्तदवस्था ।
प्रत्यक्षेणाधिकरणग्रहणे संस्कारोन्मेषाच्च प्रतियोगिस्मरणे सति क्षणिकेनाप्यभावजन्यज्ञानेन भेदग्रहणमुपपद्यत इति चेत्, हन्त! तहिर्पूर्वप्रत्यक्षेणाधिकरणग्रहणे तथैव प्रतियोगिस्मरणे च सति क्षणिकेनापि प्रत्यक्षान्तरेण भेदग्रहणे काऽनुपपत्तिः? पूर्वोत्तरप्रत्यक्षयोः परस्परवार्तानभिज्ञतया वैशिष्ट्यं न सिद्ध्येदिति चेत्, हन्त! किम्प्रत्यक्षस्याभावप्रमाणस्य च परस्परवार्ताभिज्ञता शिक्षिता भवता? येन तत्र वैशिष्ट्यं बोद्धव्यमिति मन्यसे ।
प्रथमोदितप्रत्यक्षसंस्कारात् विशिष्टज्ञानोदयस्तत्रेति चेत्, किं प्रत्यक्षान्तरे तथा निर्वाहो राजशासनवारितः ।
अत एव प्रत्यक्षाभासेन विकल्पेन भेदग्रहणमित्येतदपि दत्तोतरम् ।
एवं प्रत्यक्षस्य भेदग्राहित्वासम्भवे तुल्यन्यायतया षष्ठप्रमाणस्य प्रत्यक्षाभासस्य च भेदग्राहित्वा सम्भवं सिद्धं कृत्वा, “अपिचे’‘त्यादिना प्रतीतिविरोधादिकमुदाजहार भाष्यकारः ।
तत् व्याकुर्मः यदि सन्मात्रं प्रत्यक्षग्राह्यम्, न भेदः तदा
तुल्यन्यायतया षष्ठप्रमाण - प्रत्यक्षाभासादेरपि भेदग्राहित्वासम्भवात् घटोऽस्ति पटोऽस्तीति विशिष्टविषयाप्रतीतिर्विरुध्येत; अश्वार्थिनश्च महिषदर्शने निवृत्तिर्न स्यात्; भेदग्रहणासम्भवस्य त्वयोक्तत्वात्; सदिति ग्रहणस्य चाश्वादिसर्वसाधारणस्य निवर्तकत्वायोगात् ।
सर्वेषां प्रत्यक्षज्ञानानां सन्मात्रविषयत्वे तत्तत्प्रतिपत्तिविषयप्रतिनियतानां सर्वेषां शब्दानां स्मृतिप्रसङ्गः ।
ततश्च तत्प्रयोगोऽपि यथाविवक्षमेवेति सर्वेषां शब्दानां पर्यायत्वप्रसङ्गः ।
सर्वेषां च प्रत्यक्षज्ञानानां पूर्वपूर्वगृहीतमात्रग्राहितया स्मृतिवैलक्षण्यं न स्यात् ।
न च तदिष्यते; सर्वेन्द्रियजन्यज्ञानानामेकविषयत्वेऽभ्युपगते रूपशब्दाद्यग्रहणनिबन्धनान्धबधिरादिभेदः, तत्प्रतिनियतविषयबोधजनकत्वहेतुकेन्द्रियभेदकॢप्तिश्च न स्यात् ।
यत्तु शास्त्रस्य प्रत्यक्षविरोधपरिहाराय तयोरेकविषयत्वं साधितम्, तदपि शास्त्रस्य प्रतिपन्न विषयानुवादकत्वापादकम् ।
ब्रह्मणश्च प्रत्यक्षवेद्यत्वं शास्त्रयोन्यधिकरणार्थविरुद्धम् ।
“न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्’’, ,(कठ.6 - 1.1. तै. महाना) “न चक्षुषा गृह्यते नापि वाचा’’(मुण्ड 3 - 1 - 8) “मनसा तु विशुद्धेन’’, (श्रुतिः)“न मांसचक्षुरभिवीक्षते तम्’’, “न मांसचक्षुषा द्रष्टुं ब्रह्मभूतः स शक्यते’’ इत्यादि श्रुतिस्मृतिविरुद्धं च ।
किञ्च प्रत्यक्षजन्यक्षणिकज्ञानेन सन्मात्रस्य ग्रहणमुपपादयता ब्रह्मण एव दृश्यत्वमुक्तं स्यात्; ततश्च तत्प्रयुक्ततया त्वदभिमतानि जडत्व - नाशित्व - मिथ्यात्वादीनि दुर्निवाराणि ।
अतो जात्यादिलक्षणभेदविशिष्टब्रह्मव्यतिरिक्तघटादिसद्विशेष
विषयमेवास्मदादिप्रत्यक्षम्, योगि प्रत्यक्षमपि तत्तद्ग्रहणादिविशिष्टविषयमित्युक्तम् ।
अपिच सच्छब्दार्थः स्वरूपं घटादिशब्दार्थस्तु भेद इति केनावधृतं त्वया घटपटादिषु सदनुवृते सतिघटादेश्च मिथो व्यावृत्तेरिति चेत्; घटादेस्सदनुवृत्तेः सत्त्वस्य चासतो घटात् व्यावृत्तेर्विपरीतं किं न स्यात् ।
असतोऽपि किं घटत्वमिति चेत्, मैवम्; “न हि सन् घटादिः’’ इति युष्माभिरेव वर्णनात् ।
यदा च घटोऽस्ति पटोऽस्तीति सदनुवृत्त्या सतस्स्वरूपत्वमिष्यते, तदा घटो नास्ति पटो नास्तीत्यसदनुवृत्त्या तस्यापि स्वरूपत्वं किं नेष्यते ।
सति तद्व्यावृत्तेरिति चेत्,असति सतोऽपि व्यावृत्तेस्तस्यापि तन्नेष्यताम् ।
अतो घटत्वादिवत् सत्त्वमसत्त्वं च तत्तद्वस्तूनां धर्म एव ।
स्वरूपं तु घटादीनां घटत्वादसत्त्वादेश्चाश्रयतया परस्परासङ्कीर्णं प्रत्यक्षेण गृह्यते ।
अतः सच्छब्दार्थः स्वरूपं चेत्, घटशब्दार्थोऽपि स्वरूपमेव ।
घटत्वा देर्धर्मतया निष्कर्षे सत्त्वादेरपि तथेति न स्वरूपत्वम् ।
अतो यत् स्वरूपं घटादीनां प्रत्यक्षग्राह्यम्, तत् परस्परं व्यावृत्तं सत्ताघटत्वाद्यनन्तविशेषविशिष्टं चेति न तस्य निर्विशेषैकस्वरूपता ।
अनुवर्तमानं चैकं सत्त्वं घटादिधर्मभूतमिति न तस्यापि सर्वधर्मिभूतब्रह्मता ।
यश्च प्रतिवस्तुनियतं प्रामाणिकत्वादिकमेव सत्त्वमिच्छति, तस्य पुरतः सत्त्वमेकमित्यपि दुस्साधम् ।
अतः प्रत्यक्षस्य सर्वस्य नैकविषयत्वम्; नतरां निर्विशेषविषयत्वम्, नतमां ब्रह्मविषयत्वमिति सिद्धे प्रत्यक्षमूलानां प्रमाणान्तराणामपि प्रत्यक्षगोचरविशिष्टविषयत्वे न कश्चिद्दोषः; प्रत्युत निर्विशेषविषयत्व एव प्रत्यक्षादिबाध इति सिद्धम् ।
॥इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां सन्मात्रग्राहिप्रत्यक्षभङ्गवादो द्वादशः ॥12॥
नृसिंहराजीया
पूर्ववादे निर्विशेषविषयं निर्विकल्पकं न सम्भवतीत्युक्तमयुक्तम् । प्रत्यक्षस्य सन्मात्रग्राहितया तस्यैव तथात्वादित्याक्षेपसङ्गतिमभिप्रेत्य वादार्थं सङ्गृह्णातियस्येति। सदसदात्मकस्य चेतनाचेतनात्मकस्य विश्वस्य सत्ता यस्य ब्रह्मणः सत्वेन भवति सत्तैव विश्वसत्तेति भावः । तत्र हेतुःप्रत्यक्षाद्यपरिच्छेद्यमिति।ब्रह्मणः प्रत्यक्षानुमानाद्यगोचरस्य सत्ता कथं प्रत्यक्षभूतविश्वसत्ता स्यात् । न कथञ्चिदिति अनेन वादार्थः सुगृहीतः सानुशयैरिति। शास्त्रं शब्दविज्ञानादसन्निकृष्टे विज्ञानं ““असन्निकृष्टवाचा च द्वयमत्र जिहासितम् । ताद्रूप्येण परिच्छित्तिस्तद्विपर्ययतोपि वा ॥’’ (कुमारिल श्रलोकवार्तिकं) इति न्यायेन प्रत्यक्षबाधितेर्थे शास्त्रस्य अप्रवृत्तिं मन्वानैरित्यर्थः । उपलम्भासिद्धिशङ्कापरिहाराय व्यवहारग्रहणंशुक्तिरजतादि भ्रमेष्विति। भ्रमत्वेन व्यवहारविषयेष्वित्यर्थः ।विविञ्चाम इति। तदियं धातुस्तदादिर्नतैजोहेत्वादिकः ।घटोस्तीत्यादिष्विति। अस्तित्वं सत्ता तदवच्छेदो घटत्वादि विधिर्भावात्मा व्यवच्छेदस्त्वभावात्मा ।अन्यतरेति। अन्यतरमात्रग्राहीत्यर्थः ।पूर्वत्रापीति। द्वयोरपि ग्राहकमित्यस्मिन् पक्षेपीत्यर्थः। स्वरूपग्रहणस्य - सत्स्वरूपग्रहणस्य भेदग्रहणस्य - घटत्वादिभेदग्रहण्स्यक्षणिकस्येति।अक्षणिकत्वेपि विषयसम्बन्धस्यागन्तुकत्वायोगाच्चेति भावः । प्रथमविकल्पे द्वितीयकोटिं दूषयतिअन्यतरेति।ननु प्रत्यक्षस्य सन्मात्रविषयत्वेऽप्यनुमानादिना शास्त्रस्य विरोधस्यादित्यत्राहएवमिति। तन्मूलानां - तदनन्तरभाविनामित्यर्थः । पक्षव्याप्त्यादिग्रहणाभावे अनुमान स्याप्यप्रवृत्तेः तद्ग्रहस्य च प्रत्यक्षमूलत्वे वाच्ये तस्य सन्मात्र विषयत्वसमर्थनेन प्रत्यक्षस्य तद्विषयत्वाभावे सिद्धे प्रत्यक्ष स्थलीयव्यवहारायक्लप्तभ्रममूलत्वमेव वाच्यमिति न तेषां भेदसमर्थनसामर्थ्यम् ।भेदे प्रामाण्यमिति। तद्विरोधो मोक्ष इत्यर्थः ।भेदस्य प्रत्यक्षत्वाभावे हेत्वन्तरमाहसिद्ध्यन्नपीति। षष्ठप्रमाणम् - अभावाख्यं प्रमाणं तेन चान्यत्वमभावस्य भट्टा वदन्ति । मायिनोऽपि व्यवहारः भाट्टनय इत्यभ्युगन्तारः तथैवाङ्गीकृतवन्त इति भावः । षष्ठ प्रमाणंवेद्यत्वे हेतुरभावात्मतयेति । तत्र हेतुः । इतरव्यवच्छेदरूपतयेति । ननु सन्निकर्षजन्यत्वाद्भेद ज्ञानमपि प्रत्यक्षमेवेत्यत्राहएवमिति।सन्निकृष्टे सत्यारोपितत्वात्प्रत्यक्षत्व भ्रम इत्यर्थः ।सन्निकर्षात्।अधिष्ठानसन्निकर्षानन्तरभावित्वाद्भ्रान्तिमूल एवेति सर्वस्यापि प्रमाणसामग्रीविरहाद्भ्रान्तित्वमिति तात्पर्यम् ।भेदेति।भेदस्य प्रत्यक्षविषयत्वाभावसमर्थनाय विधिनिषेधयोर्भेदं साधयन् स्ववाग्व्याहत इत्यर्थः । तदाहेति। भाष्यकार इति शेषः । वस्तुनः भेदश्चतद्रूपे तच्च संस्थानगोत्वं च ततः आदिशब्देन बहुव्रीहिः। ननु स्वरूपग्रहणदशायामेव कथं गोत्वादिग्रहः तस्य स्वरूपाद्भिन्नत्वादित्याशङ्क्य एककालीनसामग्रीकत्वाद्युगपगृह्यत इत्याहस्वरूपवदिति। नन्वेवमपि जातिग्रहणे किमायातमित्यत्राहन च जातीति।नहि त्वदनिच्छामात्रेण तत्सिद्धिरित्यत्राहत्वमपीति ।ततोतिरिक्तकल्पने प्रमाणाभावादिति भावः । ननु प्रतियोगिज्ञानसापेक्षोपलम्भस्य कथं सहोपलम्भ इत्यत्राहघटत्वादिरिति। ननु स्वरूपतो ग्रहणेप्याश्रयप्रकाशापेक्षास्त्येवेत्यत्राहआश्रयेति। स्वरूपे (स्वकाले) तदपेक्षायाः आवश्यकत्वान्न हेतुत्वेनापि तदपेक्षागौरवादिति समर्थितप्रायम् । निर्विशेषनिर्विकल्पक निराकरणवाद इत्यर्थः ।प्रतियोगीति।ज्ञाननिरपेक्षवेद्यस्येत्यर्थः । कथंशब्दः क्षेपार्थः । यद्वा प्रश्नार्थ इत्यभिप्रेत्य आद्ये आहयदिति। तत एव भेदत्वाभावादेव प्रतियोगिसापेक्षत्वशङ्काया अप्यभावादित्यर्थः । फलितमाहतदापीति। भेदत्वपक्ष इव भेदत्वाभावपक्षेपीत्यर्थः । प्रश्नार्थकत्वे आहसौहार्देनत्विति । सर्वेषामिति। अतिरिक्ताभाववादिभिरपि भेदत्वेन ज्ञाने प्रतियोगिज्ञानापेक्षा नतु प्रमेयत्वाद्याकारान्तरेण गोत्वादिभेदत्वेन ज्ञानेपि तदपेक्षा नाकारान्तरेणेति भावः।उपसंहरति । बाधाभावे चेति ।ग्रहणानुपपत्तिर्हि बाधिका उक्तप्रकारेण बाधाभावे सम्भविष्यति बाध्याबाध्यांश विवेचकमसङ्गतमितिभावः । अभेदमात्रग्राह्नित्वमित्यर्थः ।अपसिद्धान्तादित्यादि उताभदेतिशब्देन व्यवहारानुपपत्तिर्गृह्यते अनुमानादीनाम् । तत्र प्रामाण्याभावः किं भेदस्य बाधितत्वात् उत प्रत्यक्षविषयसन्मात्र एव तत्वावेदकतया स्वविषये । भेदे तत्वावेदकत्वाभावात् । यद्वा सन्मात्रविषयप्रत्यक्षसहचरितभ्रान्तिमूलत्वादिति विकल्पाभिप्रायेणाद्ये दोषमाहभेदबाधकानामिति। उपरितनवाद इति शेषः । द्वितीयं शङ्कतेयदि चेति। किञ्च स्वातन्त्र्येण तत्वावेदकत्वं प्रामाण्यं तच्चावधारणविषयभेद एव वाच्यम् । सन्मात्रे प्रत्यक्षचर्विते स्वातन्त्र्याभावाद्भेदेपि तत्वावेदकत्वाभावं वदता त्वयोक्तरूपं प्रामाण्यं नाङ्गीकृतमिति कुत्रापि तेषां प्रामाण्यं न स्यादित्याहयदि स्वविषय इति । तर्हीति। अप्रत्यक्षविषये प्रामाण्याभावादित्यर्थः । ननु तत्वावेदकत्वरूप प्रामाण्यसिद्धयर्थं न प्रतिक्षिप्यते किन्तु धर्माधर्मादौ शुक्तिरजतादिभ्रमव्यावृत्तविद्यमानार्थ विषयत्वरूपप्रामाण्यसिध्यर्थमेवेत्याशङ्कतेधर्मे चेति।चार्वाकवदितियद्यपि व्यावहारिकं प्रामाण्य माविशेष्यते तथापि न तदङ्गीकारेण प्रयोजनमस्ति । वस्तुतः प्रामाण्यस्वाभावादित्यर्थः । तृतीयं शङ्कतेप्रत्यक्षस्येति। भेदग्राहित्वाभावे सिद्धेत्यर्थः ।न पुनरिति।विषयविशेषे प्रामाण्यनिरसनं व्यर्थम् । प्रामाण्यस्यैवा भावात् । चार्वाकनिरसनं व्यर्थमिति भावः । प्रत्यक्षस्य भेदावगहित्वाभावात् न तन्मूलानां तत्र प्रामाण्यमित्यत्र दोषान्तरमाहकिञ्चेति। प्रत्यक्षविरुद्धं - प्रत्यक्षाविषयत्वम् । यथा प्रत्यक्षस्य सन्मात्र विषयत्वेप्यन्वयव्यतिरेकाभ्यां तन्मूलस्य शास्त्र्स्य प्रपञ्च मिथ्यात्वेपि प्रामाण्यमिष्यते तथानुमानादेरपि भेदे प्रामाण्यमिष्यताम् इत्यर्थः । क्रमयौगपद्येति। प्रतियोग्यधिकरणग्रहणे न विना अभावग्रहणासम्भवादिति भावः । प्रत्यक्षेणाधिकरणग्रहणे - प्रत्यक्षरूपेऽधिकरणज्ञाने इत्यर्थः ।परस्परवार्तानभिज्ञे इति।परस्परवाक्यानभिज्ञत्वं - परस्परविषयाविषयकत्वम् । अधिकरणग्राहिप्रत्यक्षस्य उत्तरप्रत्यक्षविषय भेदविषयत्वाभावाभेदग्राहिप्रत्यक्षस्याधिकरण विषयत्वाभावाद्भेदाधिकरणयोर्वैशिष्टयं न केनापि प्रमाणेन सिद्धयेदित्यर्थः । समो दोष इति परिहरतिहन्त किमिति । प्रथमोदितेति। प्रथमोत्पन्नप्रत्यक्षसहकाराद्वा विशिष्ट ज्ञानं जायमानं युगपदेवाभावप्रमाणेन भेदाधिकरणविषयकं जायत इत्यर्थः । समस्समाधिरित्याहकिं प्रत्यक्षान्तर इति । दत्तोत्तरमितिक्रमयौगपद्यविकल्पानुपपत्तेरेवेत्यर्थः । ननु भाष्ये सन्मात्रग्राहित्वे घटोस्ति पटोस्तीति विशिष्टविषया प्रतिपत्तिर्विरुध्येत इत्याद्युक्तमयुक्तं स्यात् ।विशिष्टविषयविकल्पाङ्गीकारेण प्रतीतिविरोधाद्यभावादिति शङ्कायां भाष्यं व्याकुर्वन् दूषणान्तराण्याहएवं प्रत्यक्षस्येत्यादि । अश्वार्थिनश्चेति। उक्तन्यायेन विशिष्ट प्रतीतेरसम्भवादिति भावः ।सर्वेषामिति। त्वदुक्तन्यायेन विशिष्टप्रतीतेरसम्भवात् । वस्तुतस्तदर्थानियतानामपि शब्दानां सन्मात्र एव व्युत्पत्ते र्ग्राह्यतया सर्वेषां शब्दानां सर्वत्र स्मरणं स्यात् । तथा च तत्प्रयोगोऽपि प्रतिनियतो न स्यात् । किं तुयथाविवक्षितंयथेच्छमेवस्यादित्यर्थः ।सर्वेषां चेति। अनुमित्याद्यन्यत्वे सति गृहीतमात्रग्राहित्वं स्मृतित्वप्रयोजकम् । नच सिद्धान्ते धारावाहिकेऽतिप्रसङ्गः । तत्तत्काल विषयत्वेन गृहीतमात्रग्राहित्वाभावात् इति भावः । ननु चक्षुराद्यभावनिबन्धन मन्धत्वाद्यास्त्वित्यत्राहतत्तत्प्रतिनियतेति। चक्षुरादीनामप्यभाव प्रसङ्गादिति भावः । प्रत्यक्षस्य सन्मात्रग्राहित्वे दूषणमभिधाय तत्फले शास्त्रप्रत्यक्षैकरस्ये दूषणमाहयत्विति।शास्त्रयोन्यधिकरणार्थविरुद्धमिति। त्वयापिशास्त्र्यैकवेद्यत्वस्य योजनाभेदेनाभिधानादिति भावः ।श्रुतिस्मृतिविरोधमप्याह"न सन्दृश (तै - महाना)इत्यादिना ।ब्रह्मणः रूपं स्वरूपं दृशे दृगर्थं न सन्तिष्ठति दृशा न गृह्यत इत्यर्थः ।दुर्निवारा। अन्यथा दृश्यत्वानुमानस्य व्यभिचारप्रसङ्गादिति भावः । ननु योगि प्रत्यक्षं सन्मात्रब्रह्मविषयमस्त्वित्यत्राहयोगिप्रत्यक्षमपीति। प्रह्लादवामदेवादि समाधिष्वित्यादिनेति भावः । स्वरूपं - अधिकरणस्वरूपमित्यर्थः ।केनावधृतमिति। सच्छब्दार्थे भेदः ।घट शब्दार्थस्वरूपमिति वा । किं नस्यादिति भावः । अनुवृत्तिव्यावृत्तिभ्यां च वैशम्यं शङ्क्य समत्वमाहसदनुवृत्तेरित्यादिना। सत्वस्य व्यावृत्तिर्नास्तीत्याशङ्कतेअसतोऽपीति। खण्डनोक्त्या परिहरतिमैवमिति।ह्यसन्निवृत्तमिति। किं च यदि सत्वं रूपं तर्हि असत्वमेव स्वरूपं किं न स्यादिति प्रतिबन्द्यन्तरमाहयथेति। तर्हि किं तत्वमित्याकाङ्क्षायामाहअतो घटत्वादिरिति। परस्परव्यावृत्तमिति वस्तुत इति शेषः। ततः किमित्यतआह ।न तस्येति। नानाभूतवस्त्वान्मत्वासम्भवादित्यर्थः । अस्त्वेवं तथापि सत्वमेव ब्रह्म भवत्वित्यत्राह।न तस्यापीति। तस्य धर्मत्वायोगादिति भावः । एकत्वाभावाच्च सत्वस्य नब्रह्मतेत्याह ।यश्चेति। उपसंहरति ।अत इति। अस्तु प्रत्यक्षस्यापि विशेषविषयत्वम् । निर्विशेषविषयत्वमप्यस्त्वित्यत्राहप्रत्युतेति। विशिष्टविषयत्वस्येवानुभवादिति भावः । वत्सकुलजलधिकौस्तुभनृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणीटीकायां द्वादशो वादसमाप्तः ॥