11 निर्विशेषविषयकनिर्विकल्पकभङ्गवादः

॥अथ निर्विशेषविषयकनिर्विकल्पकभङ्गवादः एकादशः ॥11॥
सम्प्रज्ञातस्थितिमधिगते निर्विकल्पे समाधौ शान्तावद्यं स्तिमितबहुलानन्दसन्दोहमन्तः ।

यत्तत् ब्रह्म स्फुरति यमिनां पूर्णषाड्गुण्यरूपं सा मे नित्यं हृदि हयमुखी देवता सन्निधत्ताम् ॥
यदेतदाहुः अस्ति तावन्निर्विकल्पकं नाम प्रत्यक्षम्; प्रथमाक्षसन्निपातसमनन्तरमविशिष्ट विषयापरोक्षाभासस्य दुरपह्नवत्वात् ।
अभ्युपेतं चैतत् सर्वैर्वादिभिः ।

ननु शाब्दास्तत्रापि शब्दानुवेधमिच्छन्ति, यथाऽऽहुः - “न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते ॥’’ (वाक्यपदीयं) इति ।
सत्यम्; तैरपिसमाधिदशायां तस्यैव शब्दस्य निरस्तसमस्तकल्पनाजालस्योपलम्भः स्वीकृतः ।
किञ्च शब्दानुविद्धत्वं नसर्वत्र ज्ञाने दर्शयितुं शक्यम्; बालादिविज्ञानेषु तदसम्भवात् ।
अन्यथा चैषां व्युत्पत्तिमन्तरेण तत्तद्वाचकपरिज्ञानप्रसङ्गात् ।
बालादिविज्ञानान्यपि सूक्ष्मशब्दानुविद्धविषयाणीति चेत्, तथाविधस्य शब्दस्य परैरनभ्युपगमात् ।
अब्युपगच्छतामपि तदनुवेधस्य दुःसाधत्वात् ।
पदज्ञानमेव तावन्न प्रत्यक्षम्; किम्पुनस्तदनुविद्धस्तस्य विषयः।
न च सूक्ष्मशब्दानुविद्धत्वव्याप्तं किं पुनस्त (दनुविद्ध)स्य विषयः ।
न च सूक्ष्मशब्दानु विद्धव्याप्तं किञ्चिल्लिङ्गमस्ति अथ व्युत्पन्नपुरुषबोधदृष्टान्तेन बालादिज्ञानेष्वपि प्रत्ययत्वादि हेतुभिः शब्दानुविद्धविषयत्वं साध्येत तदप्यशक्यम्; पूर्वोक्तप्रसङ्गा(पाता)त् ।
अस्तु स्थूलशब्दानुवेधस्य बाधः; तत्सहकृतात् पक्षधर्मताबलात्
सूक्ष्मशब्दानुवेधः सिद्ध्यतीति चेन्न; वाचकतयाऽनुवेधविवक्षायांसूक्ष्माभिमतशब्दस्यावाचकत्वादेव तदनुवेधासम्भवात् ।
न हि व्युत्पत्तिपदवीदवीयसस्तस्य वाचकत्वमुत्प्रेक्षणीयम् ।
“अव्युत्पन्नोऽपि शब्दः स्ववाचक’’ इति तु परिभाषामात्रम्; शब्दवाचकतायामपि शब्दस्य व्युत्पत्तिसापेक्षत्वात् ।
स्ववाचकत्वसिद्धावपि च न वस्तुनस्तदनुवेधः, तस्य तद्वाचकत्वेनाव्युत्पत्तेः अस्तु रूपादिव दवाचकत्वेनैवानुवेध इति चेत्, न; अतन्निष्ठत्वात्; आरोपासम्भवाच्च ।
सौगतैरपि शब्दाध्यासो व्युत्पत्ति (कल्पित) बुद्धावेवाऽऽद्रियते, न तु निर्विकल्पके ।
अतश्चक्षुरादिभिरर्थेषु स्वरूपेणोपलब्धेषु कलुषित व्युत्पत्तिसमयसहानुभूतार्थसन्दर्शनादुद्बुद्धसंस्कारवशात् वाचकावगतौ सत्यां वस्तुनस्सञ्ज्ञानविकल्प इति न प्रथमाक्षसन्निपातजेषु ज्ञानेषु अव्युत्पन्नबालमूकतिर्यगादिबुद्धिषु च शब्दानुवेधसम्भवः ।

मा भूच्छब्दानुवेधस्तत्र, तथाऽपि, समानेन्द्रियग्राह्यजातिगुणादिविशिष्टमेव सर्वं द्रव्यं प्रथमाक्षसन्निपातादप्युपलभ्यते इति चेत् तदपि न; अकारणकार्योत्पत्तिप्रसङ्गात् ।
विशिष्टज्ञानस्य सर्वस्य स्वरूपज्ञानपूर्वकत्वदर्शनात् ।
प्राथमिकस्वरूपज्ञानाभावे विशिष्टज्ञानस्यानुत्पत्तिप्रसङ्गात् ।
विगीता बुद्धिः स्वरूपज्ञानपूर्विका, विशिष्टबुद्धित्वात्, सम्प्रतिपन्नवदित्यनुमानात् ।

अस्तु स्वरूपज्ञानम्; तदेव स्वरूपं जातिगुणादिसर्वात्मकमपि निर्विकल्पे न तथा विविच्यते; विकल्पे तु जातिगुणाद्यात्मना तदेव विकल्प्यते इति चेत् तन्न; जातिगुणादीनां परस्परम्, आश्रयाच्च भेदसिद्धेः ।
अभेदोऽपि तद्वत् सिद्ध्यतीति चेन्न; साधकाभावात् ।
प्रथमपिण्डग्रहणमस्तीति चेत्, तत्रप्रथमपिण्डग्रहणशब्देन किं पिण्डस्य प्रथमं ग्रहणं विवक्षितम्? उत
अनुपलब्धचरेष्वेकजातीयेषु कस्यचित् प्रथमस्य पिण्डस्य ग्रहणमिति? न प्रथमः; प्रथमाक्षसन्निपातसमनन्तरं जात्यभिन्नवस्तूपलम्भे तस्यैव विकल्पत्वापातात् ।
अनुवृत्तत्वाद्याकराग्रहणादविकल्पत्वमिति चेत् न; तथासति जात्यादिस्वरूपस्याग्रहणे तदभिन्नवस्तूपलम्भासिद्धेः जात्यादीन्यपि सदात्मना तदैव गृह्यन्त इति चेन्न; तथा सति सन्मात्रं गृहीतम्, न तु जात्यादिरित्येव पर्यवसानात् ।
तथाच तदेवास्माकं निर्विशेषमिति ।
असद्व्यावृत्तिलक्षणो विशेषस्तत्रापि गृहीतस्स्यादिति चेन्न; तस्य तत्स्वरूपानतिरेकात् ।
अतिरेके वा तद्ग्राहिणः सविकल्पकत्वप्रसङ्गात् ।
नापि द्वितीयः; तत्रापि प्रथमाक्षसन्निपातजन्यज्ञानस्य उक्तन्यायेन तदभेदग्रहणासिद्धेः ।
तत्समनन्तरभाविनस्तु विकल्पस्य जातिग्रहणे सत्यपि प्रकारप्रकारिभावेन भेदस्यैव ग्रहणात् ।
तदानीं तत्सजातीयवस्त्वन्तरग्रहणाभावात्, जातेर्वस्त्वन्तरानुगतत्वलक्षण आश्रयाद्भेदो न गृह्यते ।
जातिगुणादिविशिष्टेऽपि वस्तुन्येको गौरित्याद्येकशब्दानुविद्धप्रत्ययादैक्यमुपलब्धमिति चेन्न; वसनाभरणादिविशिष्टेऽप्येकोऽयमिति प्रत्ययात् ।
तत्र पुरुषान्तरव्यवच्छेदार्थमेकशब्दः; न तु विशेषणविशेष्यैक्यार्थमिति चेत्, अत्रापि गवान्तरादिव्यवच्छेदार्थमित्येवास्तु ।
नन्वभेदरहितेषु विशेषणेषु मत्वर्थीयसापेक्षं सामानाधिकरण्यं दृष्टम्; जातिगुणादिषु मत्वर्थीयनिरपेक्षसामानाधिकरण्या दभेदोऽप्यभ्युपगन्तव्य इति चेन्न; अभेदप्रसङ्गरहितेष्वपि शरीरात्मादिषु देवोऽहम्; मनुष्योऽहम्; आत्मादेवो जातः कर्मभिरित्यादिमत्वर्थीयनिरपेक्षसामानाधिकरण्यदर्शनात् ।
लक्षणया तत्र सामानाधिकरण्यमिति चेन्न; तत्रापि कैश्चितथाऽभ्युपगमात् ॥ अपृथक्सिद्धत्वात् अपर्यवसानादिवृत्त्या वा तत्र
सामानाधिकरण्यमिति चेन्न; शरीरेऽपि तथा सुवचत्वात् (तत्रापि तथा सुवचत्वात्) अपृथक्सिद्धत्वस्य मत्वर्थीयनैरपेक्ष्यप्रयोजकत्वादिति ।
अस्तु तर्हि अपृथक्सिद्धत्वादेव जातिगुणादेराश्रयतादात्म्यमिति चेन्न; भेदगर्भेण सम्बन्धेनाभेदसाधने व्याघातात् ।
नायमभेदो भेदाभावात्मा, नापि भेदविरुद्धो धर्मः; येन व्याघातः स्यात्; अपि त्वन्यादृश इति चेन्न - तथाविधस्य कस्यचिदभेदस्याप्रसिद्धत्वात् ।
भेदाविरुद्धस्य कस्यचित् स्वभावान्तरस्य साधनेऽस्माकमनिष्टाभावाच्च ।
एतेन “सहोपलम्भनियमादभेद’’ इत्यपि निरस्तम्; सहोपलम्भस्य तन्नियमस्य च तादात्म्यवैरित्वात् ।
तदेवं भिन्नेष्वभेदसाधकासिद्धौ, “भेदाभेदयोः प्रतीतिबलादविरोधः’’ इति धार्ष्ट्यमात्रेणोच्यते; अतोजातिगुणाद्यात्मकस्य एकस्यासम्भवादेव तद्विषयं निर्विकल्पमाशाम्बरसगोत्राणामाशामात्रपरिकल्पितम् ।

अस्तु तर्हि परस्परमत्यन्तभिन्नानां द्रव्यजातिगुणादीनामगृहीतविशेषणविशेष्यभावानां स्वरूपमात्रग्रहणं निर्विकल्पकम्; तत एव च तत्समनन्तरभाविविकल्पोत्पत्तिरपि निर्त्यूढा भवति ।
“न ह्यगृहीतविशेषणा विशिष्टबुद्धिरुपपद्यते’’ ।
न च जात्यादीनां विशेषाणां तत्दिन्द्रियेण ग्रहणयोग्यानान्तत्दिन्द्रियसम्प्रयोगादिसामग्र्यां सत्यामग्रहणमुपपद्यते ।
अतोविशेषण स्वरूपग्रहणरहितं निर्विकल्पकं नास्तीति ।
तदप्यसारम्; यदि विशेषणविशेष्ययोस्स्वरूपग्रहणम्; कस्तर्हि विकल्पाद्भेदः?
समवायग्रहणमिति चेन्न; अपृथक्सिद्धेषु जात्यादिषु वेदान्तविद्भिः स्वरूपातिरिक्तसमवायानभ्युप गमात् ।
तथा च वैशेषिकनिराकरणाधिकरणे सूत्रम् - “समवायाभ्युपगमाच्च साम्यादनवस्थितेः’’ (ब्र.सू.2 - 2 - 12)इति ।
अस्तु वा
समवायाख्यः सम्बन्धः,स किं तदा न गृह्यते?।
अयोग्यत्वादिति चेन्न; नित्यं तदग्रहणप्रसङ्गात् ।
एवमपि कैश्चिदिष्यत इति चेन्न; तथाऽपि विकल्पाविशेषप्रसङ्गः; न हि तदा विकल्पेऽपि समवायग्रहणं सम्भवति ।
तथाऽपि विशेषणविशेष्यभावो गृह्यत इति चेन्न, तर्हि तत एव ततःपूर्वं विशिष्टप्रत्ययोत्पत्तिर्वक्तव्या ।
जाते हि विशिष्टप्रत्यये निष्कर्षकबुद्ध्या विशेषणमिदं विशेष्यमिदमिति विविच्यते ।
ततश्च प्रथममेव विशिष्टप्रत्यये क्व निर्विकल्पकम्? ।
मा भूत् स्वरूपायोग्यत्वम्; “सहकारिवैकल्यात्तु निर्विकल्पके समवायाग्रहण’‘मिति न्यायाचार्या इति चेत्; किं तत् सहकारि? ।
अवच्छेदकग्रहणमिति चेन्न, अवच्छेदकयोराश्रयाश्रयिणोस्स्वरूपस्य निर्विकल्पेऽपि ग्रहणात् ।
अवच्छेदकग्रहणस्य सम्बन्धग्रहणकारणत्वात् पूर्वमवच्छेदकग्रहणमपेक्षितमिति चेन्न; तस्य कारणत्वे प्रमाणाभावात्; सम्बन्धग्रहणदशायां च येन रूपेणावस्थाय तदवच्छेदकमवच्छिन्द्यात्, तद्यदि रूपं युगपद्ग्रहणेऽपि सम्भवति, किं तस्य पूर्वग्रहणेन, व्यर्थविशेषणत्वात् ।
सत्यपि पूर्वग्रहणेतादात्विकावच्छेदकस्वरूपोल्लेख एव हि अवच्छेद्योल्लेखापेक्षितः, पूर्वग्रहणे सत्यपि तादात्विकावच्छेदकोल्लेखाभावे तदवच्छिन्नसम्बन्धोल्लेखासम्भवात् ।

अस्तु सम्बन्धस्यापि स्वरूपग्रहणम्, तथाऽपि तस्यावच्छिन्नत्वं न गृह्यत इति चेन्न; अवच्छेदकयोराश्रयाश्रयिणोरवच्छेद्यस्य च सम्बन्धस्य स्वरूपग्रहणे कथमवच्छिन्नत्वाग्रहः? अवच्छेदकस्वरूपग्रहणातिरिक्तस्य तदवच्छिन्नत्वग्रहणापेक्षितस्यासम्भवात्, अनभ्युपगमाच्च ।

एतेन समवायस्य निर्विकल्पकैकविषयत्वं वदन्तो भूषणमतानुसारिणोऽपि प्रत्युक्ताः ।
अतो यदि विशेषणग्रहणम्, तदा न
कथञ्चिदपि निर्विकल्पकत्वसिद्धिः ।
विशेषणरहितस्वरूपग्रहणे तु तदेवास्माकं निर्विशेषग्रहणमिति ।

भवतु निर्विकल्पके निर्विशेषग्रहणम्, तथाऽपि विशेषा एव स्वलक्षणापरनामानः स्वयमकिञ्चिन्निष्ठाः कैश्चिदनाश्रिताश्च तत्र गृह्यन्ते; नद्वितीयमिति चेन्न प्रमाणभावात् ।
नीलपीतादिप्रतिनियतविचित्रविकल्पोत्पत्तिरेव प्रतिनियतकारणमन्तरेणानुपपद्यमाना निर्विकल्पकेऽपि स्वानुरूपविशेषोल्लेखं व्यवस्थापयतीति चेन्न; एकस्मिन् अद्वितीये सर्वेषु निर्विकल्पेषु गृह्यमाणेतत्तद्विचित्रवासनादिरूपभ्रमसामग्रीसामर्थ्यादेव प्रतिनियतविकल्पोपपत्तेः ।
किमेकस्यामेव रज्जौ गृह्यमाणायां विचित्राः सर्पभूदलनाम्बुधारादिविकल्पाः क्रमशो न सन्दृश्यन्ते? युगपदपि वा किमेकस्मिन् गगने गन्धर्वनगरप्राकारतोरणादि विकल्पाः प्रकल्प्यन्ते? विकल्पानां च भ्रान्तिरूपत्वं भवद्भिरपीष्यते ।
विशेषाणामेवाभावे कथं विचित्रवासनादिसम्भव इति चेन्न; विशेषाणां वासनाहेतुत्वाभावात्, तत्तद्विषयविज्ञप्तिबीजान्येव वासनामङ्कुरयन्ति ।
अन्यथा शुक्तिरजतादिविषय मिथ्यात्वेन तदनुभवजन्यवासनाभावात् तदनुस्मरणतन्मूल चेलाञ्चलग्रन्थिविघटनादयो न सम्भवेयुः ॥
नन्वापणादिषु सत्यरजतग्रहणाद्रजतवासना ।
ततश्च तदेव रजतं वासनावशादेव देशान्तरकालान्तरयोरसदपि प्रतीयते ।
तत्प्रतीतिमूलश्च पुनस्संस्कारस्मृत्यादिप्रवाह इति युज्यते ।
यस्य तु क्वचिदपि विशेषा न सन्ति, तस्य कथं विशेषवासना निर्वाह्या? उच्यते, मिथ्यार्थज्ञानस्यापि तावद्वासनाजनकत्वं भवद्भिरपीष्यत एव ।
ततश्च पूर्वपूर्वभ्रमविशेषजनितसंस्कारविशेषादेव सर्वविकल्पोपपत्तौ किं क्वचिद्विचित्रेणार्थेन, विकल्पवैचित्र्याय प्रत्यक्षतया
तदनुमेयतया वा कल्पितेन? अस्य चार्थस्य वैशद्याय समानसमयाचारा योगाचारादय उपास्यन्ताम् ।
तत्र तु भवन्त एव तेषां बाह्याभेदापह्नवन्यायेन आन्तराभेदापह्नवं परानिष्टमुद्घाटयन्तु ।
अतो विचित्रविकल्पोदयस्य अन्यथासिद्धेर्निर्विकल्पकेऽपि विचित्रविशेषग्रहणकल्पना न युक्ता; तत्कल्पनेऽपि वा लाघवाय विचित्राद्वैतं विश्वविषयमास्थीयताम् ।
न चैकस्यानेकस्वभावताव्याघातः; “रूपरसगन्धस्पर्शस्वभावाः पार्थिवाः परमाणवः, रूपरसस्पर्शस्वभावा आप्याः, रूपस्पर्शस्वभावास्तैजसा’’ इति भवद्भिरेकैकस्यानेकस्वभावकल्पनात् ।
अत एव नैकस्यविरुद्धस्वभावतेत्यपि दतोत्तरम्, लोकदृष्ट्या परराद्धान्तिभिश्च रूपत्वरसत्वादेरविरुद्धस्वभावतया स्वीकारात् ।
भवद्भिस्तु शान्त्या सिद्धाश्रमीभवद्व्यालनकुलादेरिवनीलधवलादेरपि वैरस्यस्य शमयितुं शक्यत्वात् ।

तस्मादस्मदभिमतमद्वैतमेव शुद्धं चित्रं वा निर्विकल्पकपदमिति शत्रुमित्रविभागोदासीनैश्च सौगतैरपि सङ्ग्रहणीयम् ।
ततः प्रमाणज्येष्ठस्य प्रत्यक्षस्य प्रथममेव निर्विशेषोल्लेखित्वात् विकल्पोल्लीढविशेषाणां भ्रान्त्या निर्वाहात् न शक्यम्, “निर्विशेषवस्तुनीदं प्रमाणमिति न शक्यते वक्तुम्’’(श्री.भाष्यं जिज्ञा) इति ।
अत्रोत्तरमाह,“निर्विकल्पकमपि सविशेषविषयमेवे’‘ति ।
अयमभिप्रायः तत्र यत्तावत् शाब्दकौमारिलादिमतदूषणं तदस्माकमपि सम्मतमेव ।
तत्र यदुक्तं विशिष्टग्रहणस्य स्वरूपग्रहणं कारणम्मिति तन्न सार्वत्रिकम् ।
भिन्नसामग्रीवेद्येषु सविशेषणविशेष्येष्वेव तथा दर्शनात्, एकसामग्रीवेद्येषु तु समानकालीनविशेष्यग्रहणेनैव विशिष्टग्रहणसिद्धेः ।
उक्तं च त्वयाऽपि “तत्कालीनविशेषणग्रहणमेव
विशिष्टोल्लेखोपयोगी’‘ति; तद्वत् विशेष्यस्वरूपस्य पूर्वगृहीतस्यापि तादात्विकृेल्लेखाभावे विशिष्टग्रहणासिद्धेः, सति तस्मिंस्तत्सिद्धेः, पूर्वग्रहणस्यानपेक्षितत्वात् ।
अत एव विशिष्टग्रहणत्वात् स्वरूपग्रहणपूर्वकत्वानुमानं प्रत्युक्तम् ।
यच्चोक्तं विशेषणग्रहणे सति न कथिञ्चिदपि निर्विकल्पकसिद्धिरिति तदप्यसत्; निर्विशेषग्रहणरूपनिर्विकल्पके शशविषाणायमाणे यदि विशेषणग्रहणेनिर्विकलपकं नाम न किञ्चित् स्यात्; न स्यादेव; न ह्यप्रामाणिकमवश्यमङ्गीकुर्मः ।

योगशास्त्रेषु निर्विकल्पकसमाध्युपदेशान्न तस्याप्रामाणिकत्वमिति चेन्न; तत्रापि निर्विशेष ग्रहणस्यानुपदेशात् ।
आगमानां च सविशेषपरत्वस्य स्थापयिष्यमाणत्वात् ।
समाधिलक्षणानु प्रविष्टस्यार्थमात्रावभासत्वपरस्य “स्वरूपशून्यमिव’’ (पा.यो.सू.3 - 3) इत्यस्य निर्विशेषग्रहणपरत्वा भावात् ।
ध्यानमेव हि यथावस्थितध्येयार्थवैशद्यातिशयात् तन्निगीर्णस्वरूपमिव भवतीति तत्रोपदिश्यते ।
प्रह्लादवामदेवादि समाधिषु चानन्तविशेषणविशिष्टब्रह्मानुभव एव श्रूयते ।
अतो न शास्त्रान्निर्विशेषविषयनिर्विकल्पक सिद्धिरिति ।

अतः प्रामाणिके कस्मिंश्चिन्निर्विकल्पके यथोपलम्भङ्गीक्रियमाणे संस्कारानपेक्षप्रथमाक्षसन्निपात मात्रसम्भवं प्रत्यक्षं निर्विकल्पकम् ।
ततस्तत्संस्कारसहकृतेन्द्रियजन्यं तदेकविषयं तज्जातीयपिण्डान्तरविषयं वा प्रत्यक्षं सविकल्पकम् ।
तच्च येनाऽऽकारेण पूर्वापरानुवृत्तेन स्वविषयं विशिनष्टि, तदाकारविशिष्टस्यपूर्वमपि ग्रहणावश्यम्भावात् प्रथमाक्षसंयोगजस्यापि विशिष्टविषयत्वमेव युक्तम्, तदाह “सविकल्पके स्वस्मिन्ननुभूतपदार्थविशिष्टप्रतिसन्धानहेतुत्वा’‘दिति ।
“निर्विकल्पकम्’’ “तच्च विशिष्टविषयम्’’ इति स्ववचनविरुद्धमिति चेन्न; प्रमाणबलात् शब्दवृत्तिसङ्कोचेऽवश्यम्भाविनि
परामर्शदशाविषयीक्रियमाण विशेषणनिवृत्तिमात्रेण निर्विकल्पकवाचोयुक्तेरुपपत्तेः ।
तदाह “निर्विकल्पकं नाम केनचिद्विशेषेण वियुक्तस्य अर्थान्तरस्य ग्रहणम्; न सर्वविशेषरहितस्य’’ इति ।
यदुक्तं प्रथमाक्षसन्निपातसमनन्तरमविशिष्ट विषयापरोक्षावभासो दुरपह्नव इति, तत्राह “तथाभूतस्य कदाचिदपि ग्रहणादर्शनात्’’ इति ।
अयमभिप्रायः - न तावत् निर्विशेषवस्तु ग्रहणमिति वयं तदुत्तरकाले व्यक्तं परामृशामः; न च तदानीमेव ।
यद्यपि निर्विशेषवस्तुग्रहणमपि स्वप्रकाशत्वात् स्वतःसिद्धमिति वक्तुं शक्यम्; तथाऽपि तथाविधा स्वतस्सिद्धिरपि तथाभूततद्गोचरपरामर्शमन्तरेण दुरुपपादेत्युक्तम्; अन्यथा शशविषाणग्रहणमपि स्वप्रकाशसिद्धमिति धृष्टोक्तेरनिस्तारात्, तथा च न किञ्चित् प्रतिक्षेप्यं स्यात्, सर्वस्यापि तथा तथासिद्धेः सुवचत्वादिति ।
मा भूत् तथाभूतस्य ग्रहणम्, उपपत्त्या तु कल्प्यत इति यदाहुः, तत्राह “अनुपपत्तेश्च’’ इति ।
उपपत्त्यभावादित्यर्थः ।
व्याख्यातमिदं प्रागेव ।
अदर्शनं विवृणोति “केनचिद्विशेषणेन इदमित्थमिति हि सर्वा प्रतीतिरुपजायते’’ इति ।
उपपत्त्यभावं विवृणोति “त्रिकोणसास्नादिसंस्थानविशेषेण विना कस्यचिदपि पदार्थस्य ग्रहणायोगात्’’ इति ।
यद्वा, “तथाभूतस्य कदाचिदपि ग्रहणादर्शनादनुपपत्तेश्च’’ इति योग्यानुपलब्धिबाधमुपपत्तिबाधं चाऽऽह; तदुभयविवरणम्, “केनचित्’’ इत्यादिग्रन्थद्वयम् ।
यद्वा पूर्वग्रन्थद्वयं साधकाभावपरम्; उत्तरं तु तद्द्वयं बाधकपरमिति विभागः ।
उक्तप्रकारनिर्विकल्पक सविकल्पकविभागमुदाहरणमुखेन विशेषेण दर्शयति - “अतो निर्विकल्पकमेकजातीयद्रव्येषुप्रथमपिण्डग्रहणम्; द्वितीयादिपिण्डग्रहणं सविकल्पकमित्युच्यते’’ इति ।
निर्विकल्पक
सविकल्पकोदाहरणविशेषभूतयोः प्रथमद्वितीयपिण्डग्रहणयोः केनचिद्विशेषेण वियुक्तिमवियुक्तिं च दर्शयति “तत्र प्रथमपिण्डग्रहणे गोत्वादेरनुवृत्ताकारता न प्रतीयते ।
द्वितीयादिपिण्ड ग्रहणेष्वेवानुवृत्तिप्रतीतिः’’ इति ।
ननु यदि कस्यचिदग्रहणान्निर्विकल्पकत्वम्, तर्हि द्वितीयादिपिण्ड ग्रहणमपि यत्किञ्चिद्वस्त्वन्तराग्रहणान्निर्विकल्पकमेव स्यात् ।
ततश्च सविकल्पक निर्विकल्पकयोर्व्युत्पत्त्यनुसारेण विभाजकं लक्षणं वाच्यमिति; तत्राह “प्रथमप्रतीत्यनुसंहितवस्तु संस्थानरूपगोत्वादेरनुवृत्तिधर्मविशिष्टत्वं द्वितीयादिपिण्डग्रहणावसेयमिति द्वितीयादिग्रहणस्य सविकल्पकत्वम् ।
सास्त्रादिवस्तुसंस्थानरूपगोत्वादेरनुवृत्तिर्न प्रथमपिण्डग्रहणे गृह्यत इति प्रथमपिण्डग्रहणस्य निर्विकल्पकत्वम्; न पुनः संस्थानरूपजात्यादेरग्रहणात्’’ इति ।
अयमभिप्रायः - संस्कारसहकृतेन्द्रियजन्यतया सप्रत्यवमर्शं ज्ञानं सविकल्पकम्, संस्कारनिरपेक्षकेवलेन्द्रियजन्यज्ञानं निर्विकल्पकम्;तदेतद्दृश्यते प्रथमपिण्डग्रहणदशायामिदमित्येव ग्रहणात्, द्वितीयादिपिण्डग्रहणेषु तज्जातीयतया सोऽयमिति परामर्शादिति ।

ननु यदि प्रथमपिण्डग्रहणे जातिग्रहणं स्यात्, तदैवं विभागः स्यात्; तत्रैव तु किं प्रमाणम्? न ह्यनुवृत्ताकारजातिग्रहणमेकपिण्डग्रहणे सम्भवतीत्यत्राह “संस्थानरूपजात्यादेरप्यैन्द्रियकत्वाविशेषात् संस्थानेन विना संस्थानिनःप्रतीत्यनुपपत्तेश्च प्रथमपिण्डग्रहणेऽपि संस्थानमेव वस्तु इत्थमिति गृह्यते’’ इति ।
एतेन वैशेषिकाद्युक्तं निर्विकल्पकमपि निराचकार ।
ननूक्तेन लक्षणप्रकारेण विभागे प्रथमपिण्डग्रहणेऽपि सविकल्पकत्वं सम्भवति; यथा
प्रथमपिण्डस्यैव द्वितीय पिण्ड ग्रहणे सोऽयं गौरिति; द्वितीयदिपिण्डग्रहणेष्वपि निर्विकल्पत्वं स्यात् ।
यथा विस्मृत प्रथमपिण्डस्य परामर्शाभावात् द्वितीयादि पिण्डेष्वप््ययं गौरिति ।
अतो लक्षणोदाहरणयोरसामञ्जस्यमिव भाति; अनुवृत्तस्वरूपाया जातेर्ग्रहणमेकपिण्डमात्रग्रहणे न सम्भवतीति चोद्यं चापरिहृतम्; तत्राह “ततो द्वितीयादिपिण्डग्रहणेषुगोत्वादेरनुवृत्तिधर्मविशिष्टता संस्थानवत् संस्थाननिवच्च सर्वदैव गृह्यत इति तेषु सविकल्पकत्वमेव’‘इति ।

अयमाशयः, निर्विकल्पकसविकल्पकविभागस्तावत् उक्तप्रकारमन्तरेण नोपपद्यत इति दर्शितम् ।
उदाहरणमपि सम्भवल्लक्षणव्यक्तिविषयम् ।
अतः प्रथमद्वितीयाद्यनादर एव ।
येषु तु प्रथमस्यैव पिण्डस्य द्वितीयादिग्रहणेषु प्रतिसन्धानसम्भवः, तेषु सविकल्पकत्वमेवास्तु ।
येषु द्वितीयादिपिण्डग्रहणेषु च,प्रथमस्यैव पिण्डस्य द्वितीयादिग्रहणेषु च प्रमुषितसंस्कारस्य प्रतिसन्धानासम्भवः, तत्रापि निर्विकल्पकत्व मेव ।
येषु पुनर्द्वितीयादिपिण्डग्रहणेषु गोत्वादेरनुवृत्तिधर्मविशिष्टता संस्थानिवत् संस्थानवच्च सर्वदैव गृह्यते, तेषु सविकल्पकत्वमेवेति तत् द्वितीयविकल्पोदाहरणम् ।
योग्यतया संस्थानस्य प्रथममेव स्वरूपग्रहणम्, आश्रयभेदग्रहरूपसहकारिविशेषस्याभावादनुवृत्तिरूपधर्माग्रहणम्, द्वितीयादिपिण्डेषु गृह्यमाणेषु तथाविध सहकारिसद्भावात् संस्थानस्वरूपस्येव तदनुवृत्तेरपि ग्रहणमिति न सङ्कटं किञ्चिदिति ।
निगमयति - “अतःप्रत्यक्षस्य न कदाचिदपि निर्विशेषाविषयत्व’‘मिति ।
“अत’ इति साधकाभावात् बाधकसद्भावात् प्रामाणिकस्य निर्विकल्पकसविकल्पकविभागस्य लोकशास्त्राविरोधेन निर्वाहाच्चेत्यर्थः ।
“कदाचिदपी’‘ति
सविकल्पकदशायामिव निर्विकल्पकदशायामपीत्यर्थः ॥
॥इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां निर्विशेषविषयकनिर्विकल्पकभङ्गवादः एकादशः ॥11॥

नृसिंहराजीया

ननु संविन्मात्रस्य विशिष्टवस्तु विषयकत्वं न सम्भवति निर्विकल्पके व्यभिचारात् । तथा च तद्विषयोनिर्विशेषं वस्त्वित्याशङ्क्य निर्विकल्पकस्यापि विशिष्टविषयकत्वमेवेति वदन् वादार्थं सङ्गृह्णातिसम्प्रज्ञातेति।सम्प्रज्ञातसञ्ज्ञितस्यैव निर्विकल्पकशब्दार्थत्वान्न परोक्षनिर्विकल्पकसिद्धिरिति वादार्थ सङ्गृह इति भावः । सम्प्रज्ञातसमाधिस्वरूपमाहशान्न्तावद्येति। तदपि विशिष्टस्वरूपमित्याहपूर्णषाड्गुण्येति। पूर्णाः - अविकलाः षड्गुणाः यस्मिन् तथोक्तम् । स्वार्थे ष्वञ् । पराभिमतं निर्विकल्पकमनुवदतितदिति। इन्द्रियसंयोगानन्तरमविशिष्टविषयकज्ञानं दुरपह्नवमित्यर्थः । सर्ववादाभ्युपगतत्वमसिद्धमिति शङ्कतेनन्विति। शब्दानुगमः शब्दविशिष्टविषयत्वमित्यर्थः । तत्र हेतुमाहअनुविद्धमिति। सर्वमपि ज्ञानं शब्दविशिष्टगोचरत्वेनैवानुभूयत इत्यर्थः । शाब्दा अपि शब्दानुवेधं क्वचिन्नेच्छन्तीत्यत्राहसत्यमिति। स्फोटाख्यं (तत्राह अनुविद्धमिति) शब्दब्रह्म जगदात्मना विवर्तते । तस्यैव स्वरूपस्य समाधिदशायां निरस्तसमस्तजगद्रूपस्य विवर्तस्य समाधौ भानमित्यर्थः । समाध्यतिरिक्तस्थले शब्दानुवेधनियमो नास्तीत्याह ।किञ्चेति। तेषां व्युत्पत्त्यभावादिति भावः । ननु सूक्ष्मशब्दे व्युत्पत्त्यपेक्षा नास्तीति शङ्कते ।बालादिविज्ञान इति। सूक्ष्मत्वम् उच्चारणायोग्यत्वम् ।तथाविधस्येतिवर्णपदवाक्यव्यङ्ग्य स्फोटातिरिक्तस्येत्यर्थः। प्रत्यक्षादिविकल्पं मनसिकृत्य प्रत्यक्षं दूषयतिपदज्ञानमेवेति। शब्दानुविद्धविषयतया नप्रत्यक्षमित्यर्थः ।अनुमानं दूषयति।नचेति। प्रत्ययत्वादिलिङ्गमस्तीति शङ्कतेतथापीति। पूर्वोक्तेति । व्युत्पत्तिमन्तरेणापि तत्तद्वाचकपरिज्ञान प्रसङ्गादित्यर्थः । बाध उक्तप्रसङ्गहेतुरित्यर्थः । शब्दानुवेधःकिं वाचकतया उत रूपादिवत्स्वरूपेण । आद्येआहवाचकतयेति। शब्दत्वाद्वाचकत्वं कल्प्यत इत्यत्राहनहीति। व्यवहारादेवव्युत्पत्तेर्ग्राह्यत्वादित्यर्थः। ननु शब्दानाम् अर्थान्तरवाचकत्वमेव व्युत्पत्तिसापेक्षं न स्ववाचकत्वमपीत्याहपरिहरति । अव्युत्पन्नइति। स्ववाचकत्वसम्भवेपि तदनुवेधासम्भवमाहस्ववाचकत्वेति । तस्येति। तदुद्बोधाभावे नानुवेधायोगादिति भावः । द्वितीयं शङ्कते।अस्त्विति। तदनिष्टत्वेपि लौहित्यवदारोपोस्त्वित्यत्राहआरोपेति। अस्यैव प्राथमिकज्ञानत्वेन पूर्ववदधिष्ठान ज्ञानाभावाद्बाधका भावाच्च नारोपत्वं सम्भवतीति भावःसौगतैरपीति।बौद्धसिद्धान्ते - ““प्रत्यक्षं न भवेद्विकल्पम्मखिलंशब्दात्मनाभासनाद् । अर्थानामिह शङ्खपीतनयतश्शब्देतिरोधित्सती’’॥ ति सविकल्प एव शब्दानुरोधोङ्गीक्रियत इति भावः । ननु निर्विकल्पकेपि शब्दानुवेधोस्तु तैः प्रतिषेधाभावादित्यत्राहअतइति। सम्बन्धिदर्शनस्य स्मारकत्वात्तद्(द)ज्ञाने शब्दभानेकारणं नास्तीति भावः । सञ्ज्ञानं सञ्ज्ञितस्य विकल्पः ।सञ्ज्ञानविद्धप्रत्यये इत्यर्थः । प्रथमाक्षसन्निपातसमनन्तरमेव विशिष्टज्ञानमस्तु सन्निकर्षाविशेषादिति शङ्कतेमाभूदिति। सन्निकर्षमात्रं न कारणमिति परिहरतितदपि नेति। तर्ह्यधिकं किं कारणमित्यत्राहविशिष्टज्ञानस्येति। जम्बीरस्य रूपरसौ पर्वतो वह्निमानित्यादौ जम्बीरपर्वतादिज्ञानस्य हेतुत्वदर्शनादिति भावः । अन्वयव्यतिरेकाभ्यां कारणत्वमुक्त्वा अनुमानमपि प्रमाणमित्याहविगीतेति। प्राथमिकज्ञानस्य जात्याद्यविषयकत्व मसहमानः प्रकारान्तरेण निर्विकल्पकमुपपादयन् कौमारिलश् शङ्कतेअस्त्विति। जात्यादेर्भेदाभेदाङ्गीकारेण स्वरूपाभिन्नत्वात् स्वरूपविषयकमपि प्राथमिकज्ञानं जात्यादिविषयकमेव । प्राथमिकज्ञानेतु न विविच्यते न भिन्नतया गृह्यते । द्वितीयादि ज्ञानेतु विविच्यते ।यस्मिन्नविविच्यते तन्निर्विकल्पकम् इतरस्य विकल्पकम् । नतु जात्याद्यगोचरं निर्विकल्पकं तद्गोचरंसविकल्पकमिति विभागमित्यर्थः। जात्यादि स्वरूपाभेदो धर्मिणोऽसिद्ध इति परिहरतिनेति । प्रथमपिण्डेति।अयं घट इति प्रथमपिण्डग्रहणमभेदे प्रमाणमित्यर्थः । प्राथम्यं किं ग्रहणविशेषणम् उत पिण्डविशेषणमिति विकल्पयतितत्रेति।ज्ञानस्य प्राथम्य मेकव्यक्तिविषयेषु प्रथमोत्पत्तिः । पिण्डस्य प्राथम्यम्प्रथमगृहीतत्वम् । सजातीयेषु प्रथमाक्षेति जातित्वेनोपस्थितजात्यभेदग्रहादिति भावः ।अनुवृत्तत्वेति। जातित्वाग्रह्णादिति भावः (अर्थः) । असाधारणरूपेण ग्रहणे तदभिन्नत्वेन ग्रहो न सम्भवतीति भावः । ननु जात्याद्यभिन्नत्वप्रकारेण ग्रहणे हि जात्यादेरसाधरणरूपेण ग्रहणापेक्षा । सन्ति तु धर्मिणि गृह्यमाणे जात्यादिकमपि सदभिन्नं सदात्मना गृह्यत इति शङ्कतेजात्यादीन्यपि।तथा सतीति। स्वरूपापेक्षया जात्यादेरभेदे किं प्रमाणमिति पृष्टे तत्स्वरूपविषयकं ज्ञानं सदभिन्नत्वाज्जात्यादिकमपि सद्रूपेण गृह्णातीत्युक्तं ततश्चान्योन्याश्रयः। अभेदे सिद्धे सदज्ञानस्य सद्रूपेण तदभिन्नजातिविषयत्वसिद्धिः । सद्रूपेण तग्रहे सिद्धे हि भेदसिद्धिरिति । तथा च सन्मात्रमेव गृहीतम् । नतु जात्यादिकमित्येव पर्यवसानान्निर्विशेषविषयं निर्विकल्पकं सिद्धमित्यर्थः ।नन्वेवमपि निर्विशेषविषयनिर्विकल्पकसिद्धिर्न भवति । असद्वयावृत्तेरपि ग्रहणादिति शङ्कतेअसद्वयावृत्तीति।अन्योन्याभावो व्यावृत्तिः । सा स्वरूपाद्भिन्नेति पक्षे कथमित्यत्राहअतिरेके वेति। तदानीं तद्ग्रहो नस्यादिति भावः ।तदभेदग्रहणासिद्धेरिति ।जात्याद्यभेदग्रहणासिद्धेरित्यर्थः ।जातिप्रथमाक्षसन्निपातज्ञानेन भेदग्रहण सम्भवादेकशब्दप्रयोगाच्च अभेदे तत्प्रमाणमिति शङ्कतेतदानीमिति।आश्रयाद्भेदः भेदकः । शब्दानुविद्धः शब्दव्यवहारहेतुः । न तावदभेदग्रहणे भेदग्रहणाभावो मानमिति प्रसङ्गात् ।नाप्येकशब्दानुविद्धत्वं व्यभिचारादिति परिहरतिवसनेति। यद्विषय एक शब्दानुवेधः तत्रापि तदभेद इति न व्यभिचार इति भावः ।अत्रापीति। विशेषमात्रविषय इत्यर्थः । अभेदे मानान्तरं शङ्कतेनन्वभेदेति। यथा दण्डी देवदत्त इत्यत्रेति भावः । मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यस्य व्यभिचारमाहअभेदप्रसङ्गइति। यद्यपि देवोऽहमित्यादि व्यवहारो भ्रान्तिमूलक इति वक्तुं शक्यम् । तथापि विवेकिनाम् आत्मा देवो जात इति व्यवहारे व्यभिचार इति भावः ।लक्षणयेति। देहवाचिना देवादिपदेन तद्विशेष्टेलक्षणा । तथा चा लाक्षणिकमत्वर्थीय प्रत्ययनिरपेक्षसामानाधिकरण्यम् अव्यभिचारीति भावः ।तत्रापीति।मीमांसकैकदेशिभिः जातिवाचिपदानां व्यक्तिषु लक्षणाङ्गीकारात्सत्वसिद्धिरिति भावः । ननु येतु अपृथक्सिद्धत्वादपर्यवसानवृत्त्या वा सामानाधिकरण्यमिच्छन्ति तन्मते न दोष इति शङ्कतेअपृथगिति (अन्यथेति)। जातिमात्रशक्तिजन्यज्ञानस्य व्यक्तिविषयत्वं विना जातिविषयत्वासम्भवात्पर्यवसान मित्यर्थः । जातिशक्तेरेव व्यक्तिबोधकत्वमादि शब्दार्थः । अपृथक्सिद्धयादेशशरीरेपि वक्तुंशक्यत्वान्न तस्योक्तसामानाधिकरण्य प्रयोजकत्वम् । यदि शरीरव्यावृत्तमेवतत्तदाविशेष्यवैयर्थ्यमिति भावः । नन्वस्तु शरीरव्यावृत्तमपृथक्सिद्धत्वमभेदहेतुरिति शङ्कतेअस्त्विति। भिन्नेषु घटपटादिष्वपृथक्सिद्धेर दर्शनादितिभावः ।ननु कुत्राप्यन्वयादर्शनात् कथं व्याप्तिग्रह इति चेत् व्यतिरेक्यनुमानस्य सुवचत्वात्। भेदगर्भेणेति। ययोर्मध्ये नियमेनैकमपराश्रितमेव तयोरपृथक्सिद्धत्वमिति भेदगर्भत्वम् । यद्वा तद्वयाप्यत्वमेव तद्गर्भत्वम् । अन्यथा घटस्यैव घटापृथक्सिद्धप्रसङ्गादिति भावः । व्याधाताविति शङ्कतेनायमिति। स किम्भेदशब्दस्यमुख्यार्थः उत न आद्य आहतथाबिधस्येति। द्वितीयं दूषयतिभेदावरुद्धस्येति। स्वभावोधर्मः ।प्राथमिकस्यस्वरूपविषयत्वस्य ज्ञानस्य जात्याद्यविषयतयाऽस्मदभिमत निर्विकल्पकाविरोधादिति भावः ।सहोपलम्भस्येति। सहभावस्य भेदगर्भत्वादनियमस्य भेदव्यापकत्वादित्यर्थः ।आशाम्बरेति। भेदाभेदवादिनामनैकान्त्यवादिदिगम्बरसगोत्रत्वमिति भावः । निर्विकल्पकं नैयायिकसिद्धमाशङ्कतेअस्त्विति।एवमपि जात्याद्यविषय निर्विशेषविषयक निर्विकल्पकसिद्धेर्नेति भावः । सविकल्पकव्यावृत्त्यर्थे गृहीतविशेष्यविशेषणभावमित्युक्तिःतत एवेति। निर्विकल्पकरूपविशेषणज्ञाना(असाध्यत्वात् तज्जनक निर्विकल्पकस्य) देरेवेत्यर्थः ।नहीति। निष्ठया भूतत्वस्य विवक्षितत्वात्पूर्वं विशेषणज्ञानाभावे विशिष्टबुद्धिर्नस्यादित्यर्थः । जात्यादिविषयज्ञानस्य जात्यादिविशेषणज्ञानसाध्यत्वात् तज्जनक निर्विकल्पकस्य जात्यादिविषयकत्वं (प्रसाध्य सामग्री सत्वाद्य निर्विक्लपकस्य जात्यादिविषयकत्वं) साधयतिनचेत्यादिना। सत्यां सामग्रयां कार्यविलम्बायोगादिति भावः ।कस्तर्हीति। विशेषणविशेष्यग्रहस्याविशेषादिति भावः । समवायेति - उभयसम्बन्धविषयकज्ञानं सविकल्पकं तदविषयकं निर्विकल्पकमिति भावः। अपृथक्सिद्धेष्विति। पृथक्सिद्धदण्डादिष्विव तदुभयातिरिक्तसम्बन्धाभावात्तदुभयस्वरूपविषयत्वम विशिष्टमिति भावः ।समवायाभ्युपगमाच्चेति। रूपरूपिणोस्सम्बन्धितया समवायेऽभ्युपगम्यमाने समवायस्यापि सम्बन्धाभावेऽभ्युपगम्यमाने तस्यापि तथेत्यनवस्था स्यादिति । तत्परिहाराय क्वचित्सम्बन्धं विनाप्याधाराधेयभावे सत्यादावेव तदस्त्विति समवायो निराकृतज्ञत्यर्थः। स किमिति। इच्छादेरिव तस्यापि ग्रहणे सामग्रयाः सत्वादिति भावः। एवमपीति। समवायाग्रहणं कैश्चिदिष्यते तन्मतमङ्गीकुर्म इति भावः ।नहीति। नित्यं ग्रहणाङ्गीकारादिति भावः ।तथापीति। विशेषणत्वविशेष्यत्वग्रहात् विकल्पकस्य विशेष इति भावः ।तर्हीति। विशेषणविशेष्य भावो यत एव विशिष्टप्रतीति निबन्धकः तत एव हेतोस्ततः पूर्वं विशिष्टप्रतीतेः पूर्वं विशिष्टप्रतीतौ जायमानायां विशेषणमिदं विशेष्यमिदमिति ज्ञानान्तरेण गृह्यत इत्यर्थः ।माभूदिति। सहकारिवशाद्विकल्पे समवायभानाद्विशेष इति भावः । सहकारिपदेन किं प्रयोजकत्वं विवक्षितम् उत कारणत्वमिति विकल्पाभिप्रायेणाद्येदोषमाहअवच्छेदकयोरिति। अवच्छेदकग्रहस्य पूर्वं सत्वा भावेपि तद्व्यतिरेक सम्बन्धग्रहाभावात् प्रयोजकत्वमिति भावः । द्वितीयं शङ्कतेअवच्छेदकग्रहस्येति। अवच्छेदकशब्देन सम्बन्ध्यन्तरमुच्यते । सम्बन्धिज्ञानाभावे सम्बन्धग्रहो न दृश्यत इत्यत्राहसम्बन्धेति। ज्ञायमानत्वरूपेणावच्छेदकं दण्डत्वाद्यवच्छेद्यं सम्बन्धाद्यवच्छिन्द्याद्वि विशेषशब्देन सम्बन्ध्यत्रोच्यते । सम्बधिज्ञानाभावे सम्बन्धग्रहो नदृश्यत इत्यत्राहसम्बन्धेति) शेषयत्तादृशं ज्ञायमानत्वं युगपद्ग्रहणेपि सम्भवतीति किन्तस्य पूर्वग्रहणे न सम्बन्धिज्ञानविषयत्वमपेक्षितम् । ननु पूर्वं ज्ञानविषयत्वं पूर्वविशेषणस्य व्यर्थत्वादिति भावः । अन्यथासिद्धत्वाच्च पूर्वग्रहणं नापेक्षितमित्याहसत्यपीति। सत्यपि पूर्वग्रहणे तादात्विकग्रहणमभिप्रेतं ततश्च तादात्विकावच्छेदकग्रहणाभावे विशिष्टज्ञानासिद्धेः । यत्र पूर्वग्रहणमस्ति तत्राप्यव्यभिचारात् तादात्विकग्रहणमेव प्रयोजनं नतु पूर्वग्रहणमपीत्यर्थः । अवच्छेदकस्वरूपोल्लेखः - प्रतियोगिस्वरूपज्ञानम् । अवच्छेदोल्लेखः - सम्बन्ध ज्ञानम् । ननु निर्विकल्पकमपि सम्बन्धविषयकमस्तु । नच निर्विकल्पकत्वव्याघातः अवच्छिन्नत्वस्याग्रहान्निर्विकल्पकत्वोक्तिरिति शङ्कतेअस्त्विति। निर्विकल्पकेपि (तद) तद्ग्रहणं स्यादेव सामग्र्यास्सत्वादिति भावः ।अवच्छेदकयोरिति। नन्वच्छेदकज्ञानस्य पूर्वमभावात्कथं निर्विकल्पके भानसामग्रीत्याहअवच्छेदक स्वरूपेति ।स्वरूपशब्देनावच्छेद्यस्वरूपं गृह्यते । अवच्छेद्यावच्छेदकस्वरूपग्रहणं च समानकालीनतयापेक्षितं न तु पूर्ववृत्तितयेति भावः । ननु विशेष्यविशेषणानवगाहि स्वरूपविषयकं ज्ञानं निर्विकल्पकमिति हि तल्लक्षणम् । तत्र स्वरूपशब्देन विशेषणविशेष्यसम्बन्न्ध उच्यते स एव निर्विकल्पकविषयः । न च तस्य सविकल्पकेऽपिविषयत्वं विशेषणविशेष्यमात्रादेव विशिष्टज्ञानत्वोपपत्तेः । न समवायविषयत्वमिति पक्षं दूषयतिएतेनेति।अवच्छेदकभानं विनावच्छेद्यभानायोगादित्यर्थः । नन्वेतावतापि निर्विकल्पकखण्डनेन किंसिद्धं भवतीत्यत्राहअत इति। यतो निर्विकल्पकं जात्याद्यविषयकं स्वरूपमात्रविषयकमतइत्यर्थः । नन्वस्तु निर्विकल्पकं तथापि कथं निर्विशेषवस्तु सिद्धिः निर्विकल्पकस्यैवविशेषविषयत्वसम्भवेनाद्वैतासिद्धेरिति बौद्धः शङ्कतेतथापीति। स्वलक्षणापरनामानः - स्वलक्षणशब्दवाच्यः । निराधारा - निर्धर्मकाइत्यर्थः । तथाच बहुत्वाद्वितीयवस्तुविषयत्वं नास्तीति भावः ।निर्विकल्पकस्य विशेषविषयत्वे प्रमाणं नास्तीत्याहप्रमाणेति। नीलपीतादिस्वलक्षणानां सद्भावे मानं नास्तीत्याशङ्कतेनीलपीतादीति ।कम्बले नीलोऽयमिति सुवर्णे पीतोऽयमिति पटे शुक्लोऽयमिति विकल्पनियमो दृश्यमानस्वकारणभूततत्तद्गोचरञ्ज्ञानमाक्षिपन् तद्गोचरं निर्विकल्पकं कल्पयतीत्यर्थः । स्वानुरूपविशेषोल्लेखं - तत्तद्विशेष विषयत्वमित्यर्थः ।विशेषणज्ञानं नर्विकल्पकम् अपितु विकल्प एवेति परिहरतिनैकस्मिन्निति। गृह्यमाणे - अध्यासमाने ।उक्तमेवोपपादयति ।किमेकस्यामिति। प्राकारतोरणादिविकल्पाः युगपदपिवा किं तेन कल्प्यम् इत्यन्वयः ।ननु सर्पादि भ्रमाणां वासनावशात्सम्भवेपि प्रकृते तदसम्भव इत्यत्राहविकल्पानामिति। ननु भ्रान्तिज्ञानवैचित्र्यार्थं विचित्रवासना सिद्धये विचित्रविशिष्टविषयज्ञानस्य जनकता वाच्याविचित्रविषयाभावे च विचित्रवासना न स्यादिति शङ्कतेविशेषाणामिति। विज्ञप्तिबीजान्येव विज्ञप्तयो ज्ञानानि।तान्येव बीजानि कारणानीत्यर्थः ।अन्यथेति।विशेषाणां वासना हेतुत्वे तत्र विषयीभूतरजतस्य मिथ्यात्वेन जनकत्वादित्यर्थः । ननु तत्तद्विषयविज्ञप्तेर्वासनाहेतुत्वेपि भ्रमरूपविज्ञप्तेरपि वासनाजन्यत्वात्तन्मूलज्ञानापेक्षायां क्वचित्प्रमायामेव पर्यवसानं वाच्यम् अन्यथावस्थानात् । तथाच विशेषानङ्गीकारः कथमिति शङ्कतेनन्वापणादिष्विति। आपणस्थरजतानुभवोऽपि भ्रम एव । एवं च न तन्मूलसंस्कारजनकासम्भवः । जन्मान्तरीयरजतानुभवस्येव तन्मूलत्वात् । न चानवस्था । प्रवाहानादित्वेनादोषत्वादिति परिहरति ।उच्यत इति। ननु प्रत्यक्षादिसिद्धाः विशेषाः कथमपह्नोतुं शक्य इत्यत्राहअस्यार्थस्येति। बाह्यमिथ्यात्वेन समानसमयाचाराः समानव्यवहाराश्च द्वितीयबौद्धा इत्यर्थः । नन्वेवमप्यालयविज्ञानाद्यान्तरभेदाङ्गीकारात्कथं निर्विशेषत्वमित्यत्राहतत्रत्विति। आन्तरविकल्पस्यापि वासनामूलत्वेन भ्रमत्वसम्भवादित्यर्थः ।तत्कल्पनेऽपि क्षितिकर्तूनामिति लाघवान्निर्विकल्पकानामेव विषयत्वे विशेषविषयत्वेपि सविशेषाणामेवैक्यमित्यर्थः ।विश्वविषयं विश्वे विषयाः प्रतियोगित्वेन यस्याद्वैतस्येत्यर्थः ।रूपरसेति। पृथिव्यादयश्चत्वारः पदार्थाः । तेच परमाणुस्वरूपाः त एव रूपरसगन्ध स्वभावाः । ननु रूपादयस्तद्धर्माःइत्यङ्गीकृतमिति भावः । यद्यपि वैभाषिकस्य तन्मतम् । न योगाचारस्यतथापि बौद्धत्वेनैक्याद्भवद्भिरित्युक्तिः ।केचित्तु यद्यपि योगाचारस्य बोधकं वस्तु नास्ति तथापि कल्पितं वस्तु तथा कल्प्यत इति न विरोध इत्याहुः । किं प्रतीतिविरोधो वस्तु विरोधो वेति विकल्प्याद्ये लोक दृष्टैरपि लौकिकाः पटादिबोध्यो रूपादीनि विविच्य न पश्यन्ति किन्तु तदात्मनेति रूपत्वादि नानाधर्मवत्वेन प्रतीतिर्नविरुद्ध इति भावः । द्वितीये आहपरसिद्धान्तिभिश्चेतिबौद्धैरित्यर्थः। सर्वमतेप्यविरोधमाहभवद्भिस्तु शान्त्येति। सिद्धप्रभाववत्प्रतीति - प्रभाव एव शान्तिकारणमिति भावः । सौगतमते क्षणिकत्वान्नकश्चिच्छत्रुर्न कश्चिन्मित्रमिति भागाभावः । ननु विशेषग्राहकाणामपि सत्वात्कथं निर्विशेषता । न च तेषामप्रामाण्यं बाधकाभावात् न च निर्विकल्पकं बाधकं वैपरीत्यप्रसङ्गादित्यत्राहप्रमाणजयेष्ठस्येति। निर्विकल्पकस्य निर्विशेषविषयस्य प्रथमभावित्वात् तेन इतरेषामन्यथासिद्धानां बाध इति भावः । इदं प्रमाणमिति वक्तुं न शक्यत इति वक्तुमित्यन्वयः ।“अत्रोत्तर’मिति भाष्यकार इति शेषः । नहि प्रतिज्ञामात्रमर्थसाधकमिति मनसिकृत्यभाष्यं व्याचष्टेअयमभिप्राय इति। अन्वयव्यतिरेकौ भिन्नसामग्रीवेद्यविशेषणविशेष्यविशिष्टबुद्धि विषयावेव ।नतु सामान्यतो विशिष्टबुद्धिमात्रविषयौ । अतो न प्रत्यक्षं स्वरूपग्रहणस्य विशिष्टबुद्धिं प्रति कारणत्वेप्रमाणमित्याहभिन्नसामग्रीति।एकसामग्रीवेद्येषुएकेन्द्रियनिरूपित लौकिकप्रत्यक्षसामग्रीवेद्येष्वित्यर्थः ।उक्तं च त्वयापीति। पूर्वपक्ष इति शेषः । ननु तत्र विशेषणग्रहस्य पूर्ववृत्तत्वमास्त्वित्युक्तं न तु विशेष्यस्वरूपग्रहस्येत्यत्राहतद्वदिति। न्यायस्य तुल्यतयोक्तप्रया सत्वमित्यर्थःअत एवेति। भिन्नसामग्रीवेद्यविशेषणविशेष्यगोचर बुद्धिष्विव स्वरूपग्रहणपूर्वकत्व दर्शनादित्यर्थः । ततश्च सर्वजनकेन्द्रियनिरूपितस्वजनकलौकिक सन्निकर्षवद्विशेषणविशेष्य विषयकत्वरहितविशिष्टबुद्धित्व मुपाधिरिति । यद्वा विशेष्यांशे लौकिकभिन्न बुद्धित्वमुपाधिः सुरभिचन्दनमित्यादौ विशेषणज्ञानजन्यत्वेपि विशेष्यज्ञानजन्यत्वाभावात् न साध्यमिति न साध्यव्यापकत्वं शङ्कतेति ध्येयम् । ननु विशेषग्रहणे सति कथञ्चिदपि निर्विकल्पकत्वासम्भवात् रूपादिग्रहणमेव निर्विकल्पकं वक्तव्यमित्यत्राहयच्चोक्तमिति।निर्विशेषग्रहणेति। निर्विशेषनिर्विकल्पकन्तावत् दूषितमेव । विशेषग्रहणात्मकमपि यदि न स्यात् माभूत्किन्नछिन्नमित्यर्थः । ननु निर्विकल्पकं तावन्नाप्रमाणिकं योगशास्त्रसिद्धत्वात् विशेषणग्रहणे च तस्यासम्भवान्निर्विशेषस्वरूपग्रहणमेव तदेष्टव्यमिति शङ्कते ।योगीति। ननु वेदान्तानामखण्डार्थत्वान्निर्विशेषनिर्विकल्पकसिद्धिरित्यत्राहआगमानाञ्चेति। ननु अर्थमात्रावभासोयं समाधिर्हानोमकः यत्र स्वरूपशून्यमिव भवतीति योगरहस्ये श्रूयते । तेन निर्विशेषनिर्विकल्पकसिद्धिरित्यत्राहअर्थमात्रावभासस्येति। तर्हि तस्य कोर्थ इत्यत्राहध्यानमेव हीति। ध्येयार्थानां वैशद्ये सति ध्यानं ध्येयार्थैरेकीभूतमिव ध्येयध्यानभूतं विना भासते ““अधराहितचारुवंशनाला मकुटालम्म्बिमयूरपिञ्छमालाः । हरिनीलशिलाविभङ्गनीलाः प्रतिभास्सन्तु ममान्तिम प्रयाणे ॥ (वेदान्तदेशिककृत गोपालविंशतिः12) ““दयाशिशिरिताशया मनसि मे जागृयुः। श्रियाध्युपितवक्षसः श्रितमरुद्वृधा सैकताः । जगद्धुरितघस्मराजलधिडिम्भडम्भस्पृशः सकृत्प्रणतरक्षणप्रथितसंविदस्संविदः ॥’’ (वेदान्तदेशिककृत अभीतिस्तवः2) इत्यादीत्यर्थः । अत एव शून्यमिवेत्युक्तिः । अर्थ निगीर्णत्वम् अर्थात्मना भानत्वम् । पृथगनवभासनात् शून्यसादृश्यं तैर्द्रष्टव्यम् । नन्वेवं व्याख्याने किं मानमित्यत्राहप्रह्लादेति । अतः प्रामाणिक इति। निर्विशेष निर्विकल्पकस्याप्रामाणिकत्वात्प्रामाणिकनिर्विकल्पकमुपलम्भ सिद्धेष्वेव किञ्चिदङ्गीकर्तव्यम् । तत्र संस्कारनिरपेक्षस्य तस्य निर्विकल्पकत्वं सविकल्पकान्यूनविषयकत्वादित्यर्थः ।ततः। निर्विकल्पकानन्तरमित्यर्थः । ननु संस्कारसहकृतेन्द्रियजन्यं ज्ञानं सविकल्पकम् ।तन्निरपेक्षेन्द्रियजन्यं ज्ञानं निर्विकल्पकमित्यनुपपन्नम् । समाधिज्ञाने निर्विकल्पशब्दाभिलप्येतिव्याप्यापत्तेः ।तस्य संस्कारजन्यत्वात् । किं च सामान्याकारेण प्रथमं गृहीतमेव पुनरपि किञ्चिदिति गृहीतं तदनन्तरं प्रथममपि निर्विकल्पकतया गृहीतं पुनरपि निर्विकल्पकतयैव न तु विशिष्येति प्रत्यवमर्शः । तत्राप्यव्याप्तिरिति चेदत्राहुः । संस्कार सहकृतेन्द्रियजन्यं ज्ञानं सविकल्पकमित्युपलक्षणम् । तत्तत्पुरुषजिज्ञास्यमानतत्तदसाधारण धर्मं विना ग्रहणं तत्तत्पुरुषापेक्षया निर्विकल्पकं तद्विशेषाकारग्रहणं सविकल्पकं तथैव व्यवहारात्! तथाच न क्वाप्यव्यतिव्याप्ती । न च प्राथमिक गौरिति ग्रहणस्यासङ्ग्रहः । इष्टत्वात् । न च भाष्य विरोधः । एतत्परतया योजयितुं शक्यत्वात् । ननु संस्कारसहकृतेन्द्रियजन्यज्ञानन्निर्विकल्पकमिष्यते तेन तदविशिष्टविषयत्वमस्त्वित्यत्राहतच्च येनाकारेणेति। सविकल्पकं हि पूर्वानुभूतः ।इदानीमनुभूयमाने च अनुवृत्ततर्या प्रतीयमानधर्मेण स्वविषयं विशिनष्टि ““अयमपि गौः स एवाय’‘मिति वा । अतः पूर्वमपि गोत्वानुभवः आवश्यकः इत्यर्थः । ननु सामग्र्यभावे कथं विशिष्टविषयत्वमित्यत्राहप्रथमेति। संयोगसंयुक्ताश्रितत्वादिकारणस्यावश्यं भावादित्यर्थः । भाष्य सम्मतिमाहतदाहेति। स्वस्मिन्निर्विकल्पके अनुभूतपदार्थस्य सविकल्पके प्रति सन्धानम्प्रति हेतुर्निर्विकल्पकमित्यर्थः । शङ्कतेनिर्विकल्पकमिति। विकल्पशब्दस्य विशेषवाचित्वादिति भावः । परामर्शदशा - संस्कारजन्यविकल्पत्वदशा ।तत्र विवक्षयिष्यमाणानुवृत्तत्वस्य निर्विकल्पके विषयत्वाभावमात्रेणेत्यर्थः । अस्मिर्थे भाष्यमाहतदाहेति।केनचिदिति ।सविकल्पकानुभूतव्यत्वेत्यर्थः ।भाष्ये विप्रतिपत्तिः ।तत्राहेति। तथाभूतस्य निर्विशेषवस्तुनो यद्ग्रहणं निर्विकल्पकं तस्यादर्शनादित्यर्थः ।ननु कथमदर्शनम् । तादृशनिर्विकल्पकस्य स्वप्रकाशविरुद्धत्वादित्यत्राहअयमभिप्राय इति।तद्दुरूपपादेत्युक्तम् इति। पूर्ववादे निर्विशेषवस्तुनः स्वतस्सिद्धत्वखण्डनावसरे इत्यर्थः ।व्याख्यातमितिविशिष्टबुद्धित्वं सोपाधिकमित्युक्तमित्यर्थः । साधकाभावस्य संशयसहत्वात्तदसहबाधकपरतया व्याचष्टेयद्वेति। व्याख्येयन्याख्यानपरत्वे व्याख्यन मात्रस्यैव वक्तुमुचितत्वात् । तथा क्वचिद्वयाख्यातं च गत्यभावविषयमिति मत्वा आहयद्वेति। तथा भूतस्य कदाचिदपि ग्रहणादर्शनानुपपत्तेश्चेति पूर्वग्रन्थद्वयं केनचिद्विशेषणेन इदमित्थमितिसर्वाप्रतीतिरूपजायते । त्रिकोणसास्नादिसंस्थानविशेषेण विना कस्यचिदपिपदार्थस्य ग्रहणायोगादित्युत्तरग्रन्थद्वयं द्रष्टव्यम् ।अतो निर्विकल्पकमिति। प्रकारान्तरासम्भवादित्यर्थः । ततश्च सविकल्पकत्वनिर्विकल्पकत्वयोः व्युत्पत्त्यनुसारेणेति सविकल्पकनिर्विकल्पकयोस्सङ्कीर्णार्थत्वे तेनैव लोके व्युत्पन्नत्वादिति भावः । ननु प्रथमप्रतीत्यनुसंहितेत्यादि भाष्येपि पूर्वभाष्यवदनुवृत्ताकार रूपवस्त्वन्तरगृहणाग्रहणयोरेव प्रतिपादनाच्छङ्का तादवस्थ्यमित्यत्राहअयमभिप्राय इति ।संस्कारजन्यत्व तदभाववुपपादयतितदेतद्दृश्यत इति। सामग्री ग्रहणमित्यत्राहनह्यनुवृत्ताकारेति। अनुवृत्तत्वं हि पण्डान्तरवृत्तित्वे सत्येत्पिण्डवृत्तित्वम् । तथाचैकपिण्डज्ञानेपि पिण्डान्तरवृत्तित्वग्राहका भावान्नसामग्रीति भावः ।संस्थानरूपजात्यादेरिति। अनुवृत्तत्वं हि जातिधर्मः । नतु जातिस्वरूपमिति तद्ग्रहाभावेपि जातिग्रहे न किञ्चिद्बाधकमित्यर्थः । इत्थमिदं प्रकारः संस्थानमेवेत्यर्थः ।एतेनेति। प्रथममेव विशिष्टग्रहणसामग्रीसत्वादित्यर्थः ।प्रथमपिण्डस्यैवेति। सजातीयेषुप्रथमगृहीतपिण्डस्येत्यर्थः । तदेव दर्शयतिसेयं गौरिति।द्वितीयादीति ।संस्कारजन्यत्वसम्भवादित्यर्थः ।तदुपपादयतियथेति। ननु द्वितीयादिपिण्डग्रहणेषु गोत्वादेरनुवृत्तत्वधर्मविशिष्टता सर्वैरेव गृह्यत इत्यनुपपन्नं विस्मृतप्रथमपिण्डस्य परामर्शाभावादित्युक्त्वात् तदा द्वितीयादिपिण्डग्रहणं सर्वं सविकल्पकमेव । प्रथमपिण्डग्रहणमात्रं निर्विकल्पकमिति तदनुपपन्नम् । निर्विकल्पकलक्षणस्य संस्कारजन्यद्वितीयपिण्डग्रहण साधारणत्वादित्यत्राहअयमाशय इति। तर्हि प्रथमपिण्डग्रहणस्य निर्विकल्पकोदाहरणत्वोक्तेः द्वितीयादि पिण्डग्रहणस्य सविकल्पकत्वोदाहरणत्वोक्तेरेवा भाव इत्यत्राहद्वितीयादीति। प्रायशः प्रथमपिण्डग्रह अनुवृत्तत्व ग्राहकसामग्र्यभावात् द्वितीयादिपिण्डग्रहणे तत्सत्वात्तदुक्तिरिति भावः । वत्सकुलजलधिकौस्तुभानृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणी टीकायाम् एकादश वादस्समाप्तः ॥