॥ अथ निर्विशेषस्वप्रकाशभङ्गवादः दशमः ॥10॥
विचित्रं यत् स्वेन स्फुरति विषयाधारभिदुरम् ।
तदेव ब्रह्मैकं विगुणमपि साक्षात्कृतमिति ॥
वदन्तो वैयात्यात् बहुविहतिवात्याहतधियो ।
विधूयन्ते हन्त श्रुतिशतशिरश्शूलवचसः ॥
य एष मन्त्रवादः-यद्यपि प्रमाणानि सर्वाण्यपि सविशेषमर्थमभिनिविशन्ते, तथाऽपि नस्वप्रकाशाध्यक्षसिद्धनिर्विशेषसंवित्सद्भावेन विमन्तव्यम्, अन्यथा धार्ष्ट्यात् सर्वापह्नवस्यापि दुर्निवारत्वात् ।
किञ्च संवित्स्वप्रकाशत्वं तावत् त्रय्यन्तविदां सर्वेषामविगीतम् ।
तत्र प्रकाशात्मतामात्रेण स्वतस्सिद्धायां संविदि न
जडरूपधर्मानुप्रवेशावकाशः; प्रकाशात्मकास्तु न तत्वतो विवेक्तुं शक्यन्ते ।
अन्यथा तेषां परप्रकाश्यतया प्रकाशात्मत्वासिद्धेः ।
न च स्वरूपमात्रस्वप्रकाशे अन्यतो धर्मसिद्धिरिति वाच्यम्; अनुपलभ्यमानसाधनात् तद्बाधनस्य लघुत्वात् ।
निर्विशेषत्वानुभवेन तन्निरासव्याघातात्, सविशेषानुभवानां तदपेक्षया दुर्बलत्वात् ।
ते हि तद्विषयतयैव लब्धसत्ताकाः प्राथमिकेन सर्वसाक्षिणानिरपेक्षेण दुष्टकारणशङ्कादवीयसा स्वानुभवेन सह न स्पर्धितुमर्हन्ति ।
तादृशस्वप्रकाशस्य तु भ्रान्ति त्वोक्तौ संविदसिद्ध्या सर्वासिद्ध्यापातात् ।
न च बाधकाभावेन भ्रान्तित्वम् ।
न चाननुभवेनैव बाध इति वाच्यम्।
न चात्र योग्यानुपलम्भः; करणद्ययोग्यत्वेन विशेषणासिद्धेः; स्वयोग्यत्वेऽपि स्वेनानुपलम्भायोगेन विशेष्यासिद्धेः ।
न च नरविषाणादिसद्भावोऽप्येवं साधयितुं शक्य इति वाच्यम्; तस्य स्वसिद्ध्य ।
समर्थने तस्यैवानुभूतित्वात् ।
अन्यतस्तु तदसिद्धेः ।
साधने च बाधात् ।
यद्यपि जागरस्वप्नयोः विचित्रबाह्योपलम्भकलुषितधियोर्नतद्विविक्तावभासः, तथाऽपि सुषुप्ति-मद-मूर्च्छा-समाधि-मुक्त्याद्यवस्थासु तस्यैव साम्राज्यम् ।
न च सुषुप्त्यादिषु तत्प्रकाशस्य प्रतिबुद्धेन प्रतिसन्धानप्रसङ्ग इति वाच्यम्; इष्टप्रसङ्गरूपत्वात् ।
एतावन्तं कालं न किञ्चिदहमज्ञासिषम्,सुखमहमस्वाप्समिति तादात्विकज्ञानसुखसाक्षितया तत्प्रतिसन्धानात् ।
तदेवमात्मसाक्षिकनिर्विशेषानुभवस्याऽऽरोपितो परागविनिवारणमुखेन, संवादकतया वाऽनुग्राहकमनुमानागमादिकमप्यद्रियामहे न वेति ।
तत्रोच्यते-किमसौ निर्विशेषा संवित् स्वप्रकाशसिद्धेति स्वयं सैव भूत्वा प्रतिपादयति, अथ ततोऽन्य एव तटस्थस्तामुपलभ्य? ।
न प्रथमः; तस्याः स्वयाथात्म्यप्रतिपादनादिसंरम्भवैमुख्यात् ।
अन्यथा तस्या एव विषयादिवैशिष्ट्यस्यावर्जनीयत्वेन स्वनिर्विशेषोक्तेरलीकवादत्वप्रसङ्गात् ।
विषयादिविशेषणा मारोपितत्वान्नालीकवाद इति चेन्न; तदनुल्लेखे तन्निषेधोक्त्ययोगात् ।
तदुल्लेखे तु विशिष्टप्रकाशावश्यम्भावात् न स्वेन निर्विशेषप्रकाशः ।
नापि द्वितीयः; स तु तामुपलभमानः ततोऽन्यया वा तयैव वा स्यात् ।
पूर्वत्रावेद्यत्वविरोधः, अनुव्यवसायवेद्यत्वपक्षपातात् ।
उत्तरत्रापि सर्वलोकसम्मतां संविदमेव तथोपलम्भते ततोऽन्यां वा? ।
आद्ये, भ्रान्तित्वापातः।
सा हि विषयाश्रयस्वगतविशेषैर्विशेषितैव सर्वैः सन्दृश्यते ।
न च तत्तन्मिथ्यात्वेऽपि संविदस्तत्प्रकाशरूपत्वापह्नवः ।
न च योगादिप्रभावात् विशुद्धप्रकाशो जात इति वाच्यम्; योगस्यैव भ्रान्तित्वापातात् ।
न च शुक्तिकारजत प्रकाशमप्यालम्बनमात्ररहितं वदन् योगीश्वरोऽपि न भ्राम्यति ।
द्वितीयेऽपि, किमसौ महाभागः स्वस्मा एव स्वसुखादिवत् सिद्ध्यन्तीं तां परस्मा उपदिशति, उत प्रतिवादिनोऽपि तथा सिद्धाम्? नाद्यः, अविस्रम्भात् ।
पुलकोद्गमादिवत् लिङ्गाभावाच्च ।
नेतरः; स्वप्रत्ययसिद्धस्य परोपदेशनैरपेक्ष्यात् ।
न हि सुखादिसद्भावमात्रं परस्मा उपदिश्यते ।
न च सहृदयः कश्चित् तथाविधानुभवमपह्नोतुमीहते, नापि योग्यानुपलम्भनिराकृतसद्भावमभ्युपगन्तुम् ।
ननु न कस्मैचित् सा सिद्ध्यति ।
अतः स्वस्मै परस्मै वेति को विकल्पावकाश इति चेत्-सा तर्हि न सिद्ध्येदेव ।
सिद्ध्यन्ती वा कस्मैचिदेव स्यात् ।
सिद्धिमात्रमियमिति चेत्-कस्य कं प्रतीति वक्तव्यम् ।
न कस्यचित् कञ्चित् प्रतीति चेत्-न तर्हि सा सिद्धिशब्दार्थतया व्युत्पत्तुं शक्या ।
स्वस्या एव स्वात्मानं प्रतीति चेत् इदं तु दावदहनविवशजरदजगरपरिभ्रमणम् ।
कथमसौ वराकः स्वस्या एव स्वात्मानं प्रति सिद्धिरूपां तां ततोऽन्यस्तयैवोपलभते
।
तन्मयीभूतत्वात् तथोपलभत इति चेन्न; प्रागेव दूषणात् ।
ततो लोकसिद्धा संवित् विषयाश्रयादिविशिष्टैव स्वतः प्रकाशते ।
तदुत्तीर्णा तु न स्वतो नापि परत इति तस्याः शशविषाणतुल्यतैव ।
ननु लोकोत्तीर्णसंवित्स्वरूपं स्वप्रकाशमिति भवद्भिरपीष्यते ।
तत् कथमस्मदुक्ते विरागः? तर्हिसमबुद्धिरसि ।
वयं हि प्रत्यक्षाद्यगोचरं ब्रह्मस्वरूपम्, तस्य स्वप्रकाशत्वादिधर्मवर्गं च श्रुतिबलात् स्वीकुर्मः ।
भवतस्तु प्रमाणपोतं परित्यज्य स्वप्रकाशालाबुपरिग्रहेणापारसागरं निस्तर्तुमिच्छतो नेदानीम्प्रभूता श्रुतिः पुरस्कार्या ।
तत्पुरस्कारेऽपि सा सविशेषमेव प्रतिपादयतीति वक्ष्यामः ।
अतो न साम्यमिति ।
यत्पुनरुक्तम् प्रकाशात्मनः स्वस्यैव स्वतः सिद्धत्वात्, जडात्मानां केषाञ्चिदपि धर्माणां तदन्तर्भावानुपपत्तिरिति-तत् असिद्धस्यासिद्धेन साधनम्; कस्यचित् पुरुषस्य कञ्चित् धर्मविशेषं प्रति प्रकाशविशेषरूपतयैव सर्वेषामनुभवानां स्वतस्सिद्धेः ।
अतः सविषयत्वसाश्रयत्वधर्माभावे तुल्यन्यायतया स्वतस्सिद्धिरपि न स्यादेव ।
यत्पुनः प्रकाशात्मकास्तु न ततो विवेक्तुं शक्यन्त इति; तदप्यसत् ।
साजात्यमात्रेण तादात्म्येऽतिप्रसङ्गात् ।
ज्ञानरूपो ज्ञानाश्रयश्चाऽऽत्माऽस्माभिरिष्यते ।
तद्वत् धर्मिभूतज्ञानमपि ।
यदि ज्ञानस्वरूपधर्मान्तराश्रयतयोपलब्धम्, तदा तदप्यङ्गीकुर्मः ।
अनुपलम्भात्तु तदनभ्युपगमः ।
न च विविच्यमानतामात्रेण स्वप्रकाशात्मताभङ्गः; सर्वासामपि संविदां स्वयम्प्रकाशानामपि संविदन्तरकर्मत्वस्य समर्थयिष्यमाणत्वात् ।
यत्तु स्वरूपमात्रस्वप्रकाशेऽप्यन्यतो धर्मसिद्धिरित्यनुपलभ्यमानसाधनात् तत्साधनस्य लघुत्वमुक्तम्, तदपि चार्वाकसौहार्दम्; अनुमानाद्युच्छेदप्रसङ्गात् ।
उपलभ्यन्ते धर्मा इत्युक्तम् ।
यदप्युक्तम्-निर्विशेषस्वानुभवेन तन्निरसनव्याघातः, सविशेषानुभवानां तु तदपेक्षया दुर्बलत्वमिति तत् तदा सुन्दरम्, यदि द्वयोरपि स्वरूपमुपलभ्य बलाबलचिन्ता वर्तेत; इह तु निर्विशेषस्वानुभव एव नोपलभ्यते ।
यच्च निर्विषस्वानुभवैकविषयतया सविशेषानुभवानां सत्तालाभादिकमुक्तम्, तदपि प्रस्तुतप्रतीपम् प्रकाशात्मतामात्रतया स्वतस्सिद्धायां संविदि कथं विषयाश्रयादिविशेषितसविशेषानुभवान्तरप्रकाशः?
करणाद्ययोग्यत्वात् न योग्यानुपलम्भ इत्येतत् अनुभूतेरनुभूत्यन्तरविषयत्वस्य वक्ष्यमाणत्वान्निरस्तम् ।
यच्च स्वयोग्यत्वेऽपि स्वेनानुपलम्भायोगेन योग्यानुपलब्धेर्विशेष्यासिद्धिरिति, तत्र कः स्वेनानुपलम्भं ब्रवीति? सविशेषतया तु संविदुपलम्भं ब्रूमः,न तु निर्विशेषतयेति; स्वेन निर्विशेषतयोपलम्भस्य योग्यानुपलम्भं वदामः ।
तथाहि, किं जागरदशायामेव निर्विशेषं स्वतः प्रकाशत इति मन्यसे, उत स्वापाद्यवस्थायाम्, यद्वा सर्वावस्थानुपलब्धमपि युक्तिबलान्निर्विशेषतया निष्कृष्यत इति, अथोपलम्भयुक्त्यन्यथात्वेऽपि शब्देन तथा निर्दिश्यत इति ।
न प्रथमः; विषयाश्रयस्वगतविशेषैर्विशिष्ट तयैव तदानीं स्वत एव तद्गोचरानुभवान्तरेण वा संवित्स्वरूपस्य प्रकाशमानत्वात् ।
तदेतदाहुः-“इदमहमदर्शमिति केनचिद्विशेषेण विशिष्टविषयत्वात् सर्वेषामनुभवानामि’’ (श्री भाष्यं जिज्ञा) त्यादिना ।
नापि द्वितीयः; तत्रापि ह्यनुभवोऽस्ति चेत्, सविशेष एव; न चेत्-कस्य निर्विशेषतया प्रकाशः? “स्वापमदमूर्छासु च सविशेष एवानुभव इति स्वावसरे निपुणतरमुपपादयिष्याम’’ इति भाष्यम् ।
अयमभिप्रायः-सुषुप्त्यादिदशायामिदमर्थप्रकाशनं तावन्नास्तीति सर्वसम्मतम् ।
अहमर्थप्रकाशस्तु त्वया नेष्यते ।
इष्यमाणत्वेऽपि न तस्य निर्विशेषतया स्फुरणम्, प्रत्यक्त्वानुकूलत्वादिरूपेण स्फुरणात् ।
अन्यथा तत्प्रकाश एव नास्तीत ।
अथ पुनः जानामीति प्रतीयमानोऽर्थस्तदानीं विषयाश्रयशून्यः प्रकाशत इति मन्यसे,तदपि न; तस्य तन्निरूपणीयस्वभावतया तद्विरहेण प्रकाशायोगात् ।
न हि छेद्यादिविधुरश्छिनत्तिपरशुः ।
वयं तु यद्यपि नित्यां संविदं श्रुतिबलादभ्युपगच्छामः, तथाऽपि तस्या न निर्विशेषायाः प्रकाशमिच्छामः,निराश्रयाया वा स्थितिम् ।
अतः सुषुप्तावपि सा साश्रयैव ।
सङ्कोचादिधर्मवती च ।
एकदेशिमतेनाऽऽत्मविषयतया सविषया च ।
ततश्च सुखमहमस्वाप्समिति परामर्शोऽप्युपपन्नः ।
तव तु न तथा, अनुपलब्धेः ।
न हि सुप्त एव तथा परामर्शमर्हति ।
विषयाश्रयरहितेयं संविद्विवर्तत इति परामर्शे प्रतिसम्बन्धितया विषयाश्रयप्रतीत्यवश्यम्भावेन सुषुप्तिव्याघातात् ।
नापि प्रबुद्धस्तथा प्रतिसन्धत्ते ।
न हि सुप्तोत्थितः, “एतावन्तं कालं विषयाश्रयरहितज्ञप्तिरूपेणाहमवस्थितः’’ इति परामृशति; अपि तु, “सुप्तोऽहं नाज्ञासिषम्’’ इति ज्ञप्तिनिषेधेनैव ।
अहङ्कारविगमात् विषयानुभवाभावाच्च न तत्प्रतिसन्धानमिति चेत्, हन्त भवानेव निर्विशेषं हन्ति; तदप्रतिसन्धानस्यैवोपपादनात् ।
किञ्चान्याभावस्य अन्यानुल्लेखस्य च दृष्टमात्रस्मृतिप्रतिबन्धकत्वायोगात् ।
अन्यथा अतिप्रसङ्गात् ।
न चानुभूतस्य स्मरणनियमो नास्तीति वाच्यम्; प्रतिदिवसं चिरकालमन्यवैमुख्येन प्रत्यक्षेणैव प्रकाशमानस्यार्थस्य निखिलसंस्कारतिरस्स्कारक-मरणवेदनादि-प्रबलतरप्रतिबन्धकाभावेऽपि सावधानेनापि नियमेनास्मरणस्यानुभवाभावपर्यवसानात् ।
यत्तु एतावन्तं कालं न किञ्चिदहमज्ञासिषमिति अज्ञानसाक्षित्वेनानुभूतिः प्रकाशत
इत्युक्तं तत् विपरीतफलम्; नहि ज्ञानप्रतिषेध एव ज्ञानप्रकाशे प्रमाणं भवितुमर्हति ।
ज्ञानाभावातिरिक्तं त्वज्ञानं निरसिष्यते ।
किञ्चायं परामर्शोऽहमर्थानुवृत्तिं ज्ञाननि वृत्तिं च परामृशन् अहमर्थनिवृत्तिं ज्ञानानुवृत्तिं च वदतस्ते अत्यन्तप्रतिकूल एव ।
एवं सुखमहस्वाप्समिति परामर्शोऽप्यहमर्थस्यैव सुखतया प्रकाशं प्रदर्शयेत्, न पुनः सुखसाक्षितयासंवित्प्रकाशम् ।
एवं मदमूर्छाद्यवस्थासु च भाव्यम् ।
ततो न स्वापाद्यवस्थास्वपि निर्विशेषप्रकाशसिद्धिरिति ।
नापि तृतीयः; युक्त्याऽपि निरालम्बनतया निष्कर्षस्याशक्यत्वात्, आलम्बनमिथ्यात्वस्य निर्धर्मकत्वस्य च निराकरिष्यमाणत्वात् ।
किञ्च संविन्निर्विशेषा एवन्त्वादिति हि निष्कर्षप्रकारः; तत्रहेतुसाध्यरूपधर्मान्वये कथं निर्विशेषता?
तदनन्वये तु साध्यसमत्वसाध्याभावौ ।
तन्मिथ्यात्वेऽप्यन्ततस्तथैव ।
तयोः संवित्स्वरूपैक्ये पक्षहेतुविभागाभावः, सिद्धसाधनता चेत्यादयो दोषा द्रष्टव्या इति ।
तदेतदभिप्रेत्याह “सविशेषोऽप्यनुभूयमानोऽनुभवः केनचित् युक्त्याभासेन निर्विशेष इति निष्कृष्यमाणःसत्तातिरेकिभिः स्वासाधारणैःस्वभावविशेषैर्निर्विशेष इति निष्क्रष्टव्य ‘’(श्री भाष्यं -जिज्ञा) इत्यादिकम् ।
नापि चतुर्थः; निर्गुणवादस्याखण्डवाक्यार्थस्य च विस्तरेण निराकरिष्यमाणत्वात् ।
सामान्यतोऽपि पश्यामः-शब्दः किं पदरूपेण स्थित्वा निर्विशेषं बोधयति, वाक्यरूपेण वा? नाद्यः; अन्विताभिधानवादे तु केवलपदस्यावाचकत्वात् ।
यथोक्तम्-“पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् ।
न्यायसम्पादितव्यक्ति पश्चात् वाक्यार्थबोधकम्’’ ॥ (प्रकरणपञ्चिका
-वाक्यपरिच्छेदः) इति ।
अभिहितान्वयवादेऽपि प्रत्येकं पदानां प्रमाणत्वाभावात्; यथाऽऽहुः-“पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते’’ ॥ (श्लोकवार्तिकं-1-1-5)इति ।
प्रत्येकपदशक्तिचिन्तायामपि प्रकृतिप्रत्ययरूपेण स्थितस्य पदस्य क्वचित् प्रकृत्यर्थविशिष्टः क्वचित्प्रत्ययार्थविशिष्टः प्रतिपाद्य इति कथं निर्विशेषबोधकता? स्वार्थिकप्रत्ययविशिष्टेऽपि पदे पुनः प्रकृत्यर्थविशेषस्य प्रत्ययान्तरेण विशिष्टविषयत्वमेष्टव्यम् ।
अव्ययान्यपि विशिष्टमर्थमेव द्योतयन्ति अभिदधति वा ।
निर्विशेषमिति पदेन किं बोध्यत इति चेत्, किं केवलेन, उत वाक्यस्थेन ।
पूर्वत्र वस्तुतो न किञ्चित्, अव्युत्पन्नभ्रान्तोक्त्योरर्थविशेषानपेक्षणात् ।
प्रतीतिमात्रमपि जायमानं मनसा किञ्चिदुल्लिख्य तन्निर्विशेषमिति परामृशेत् ।
तत्रापि वाक्यच्छायया वैशिष्ट्यमेवोल्लिख्येत ।
वाक्यस्थेन तु तेन पदान्तरोपस्थापितविशेषाविरोधेन तद्विवक्षितविशेषनिषेध एव कि्रयते; यथा नरपतिरद्वितीयः, नगरी निर्विशेषेत्यादिषु ।
संवित् समस्तविशेषशून्येति भवत्कल्पितवाक्यं तु भ्रान्तिमात्रजनकमिति न ततोऽर्थनिष्कर्षः ।
नापि द्वितीयः; तत्तत्पदोपस्थापितानेकपदार्थविशेषसंसर्गस्य, संसृष्टस्य वा बोधेन निर्विशेषप्रसङ्गाभावात् ।
तदेतदखिलमभिसन्धायाह - “शब्दस्य तु विशेषेण सविशेष एव वस्तुन्यभिधानसामर्थ्यमि’‘त्यादि ।
अतः प्रतीत्यभावात् निष्कर्षकलिङ्गशब्दाद्ययोगाच्च न निर्विशेषस्वप्रकाशत्वसिद्धिरिति ॥
॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां निर्विशेषस्वप्रकाशभङ्गवादः दशमः ॥
नृसिंहराजीया
पूर्वं निर्विशेषस्य सौत्री जिज्ञासानिराकृता । इदानीं निर्विशेषमेव वस्तु नास्तीति वादार्थं सङ्गृह्णातिविचित्रमिति। लोकविलक्षणमित्यर्थः । विषयाधाराभ्यामुपाधिभ्यां विधुरं रहितम् । भिदुरमिति पाठे कल्पितभेदवदित्यर्थः । यत्स्वेन स्फुरति तदेवैकं ब्रह्म विगुणं - निर्गुणमपि साक्षात्कृतमिति वदन्तो विधूयन्त इत्यर्थः । तत्र हेतुःबहुविभूतीति। विभूतयो व्याघाताः सिद्धान्ते वक्ष्यमाणाः । व्याघातमात्रमेव न भवत्यपितु वेदान्तविरोधोपीत्याहश्रुतीति। स एष मन्त्रवाद इति। वक्ष्यमाणो यः पूर्वपक्षः स एष मन्त्र जपवन्नदृष्टमुखेनार्थसाधक इत्यर्थः । ननु पूर्वपक्षोत्थानमेव नास्ति सर्वेषां प्रत्यक्षादिप्रमाणानां सविशेषविषयत्वादिति वदतः प्रत्याहयद्यपीति ।अन्यथेति। स्वप्रकारसिद्धेपि विमतौ प्रत्यक्षादिप्रमाणसिद्धेपि अनाश्वासात्सर्वापह्नवस्स्यादित्यर्थः ।किञ्चेति।निर्विशेषविषयत्वे विवाद इत्यर्थः ।ततः किमित्यत्राहतत्रेति। किञ्जडधर्मविषयतया सविशेषत्वमुताजडविषयतयेति विकल्पाभिप्रायेणाद्ये दोषमाहतत्रेति। संवित्स्वावच्छिन्नमेव वस्तुप्रकाशयति । तस्य मिथ्यात्वेन स्वावच्छिन्नत्वाभावं न स्वरूपनिबन्धनप्रकाश इति भावः । द्वितीयम्प्रतिवक्तिप्रकाशात्मका इति। तेषां तेषां संविदां भेद एव स्यादित्यर्थःअन्यथेति। संविदपेक्षया भेद इत्यर्थः ।ननु वादादिप्रकाशस्य सविशेषविषयत्वदर्शनात् स्वप्रकाशतया सिद्धे प्रकाशे विशेषस्यापि विषयत्वमस्त्वित्यत्राहन च स्वरूपमात्रस्वप्रकाश इति। विषयतयेति शेषः ।तत्प्रतीतिविषयत्वेनानुपलभ्यमानस्य तत्प्रतीतिविषयत्वसाधनादपि तत्प्रतीत्यविषयत्वाभावाङ्गीकार एव उचितः ।प्रतीतेरधिकविषयत्वकल्पने गौरवात्प्रकाशत्वहेतुश्च प्रतिकूलतर्कपराहत इति भावः । नन्वेवमपि स्वप्रकाशत्वं न निर्विशेषसाधने प्रभवति । प्रकाशमानत्वादिना निर्विशेषाभावस्यैव साधनादित्यत्राहनिर्विशेषत्वेति । व्याघातादिति। बाधादित्यर्थः । नन्वाश्रयविषयकृता विशेषास्संविदि प्रत्यक्षमेवानुभूयन्त इत्यत्राहसविशेषेति। दौर्बल्यमेवोपपादयतिते हीति। तेहि वृत्यात्मनोऽनुभवा जडतया मिथ्याभूता एवेति सा नसत्ताका । अतः प्राथमिकेनस्वोपजीव्येन स्पर्धितुं नार्हन्तीति भावः । तद्विषयतयैव लब्धसत्ताकत्वमाहसर्वसाक्षिणेति। यद्यप्यनादिनोपि साक्षिणो विषयप्रकाशनांशे दोषापेक्षा तथापि स्वरूपादिभिः निर्विशेष प्रकाशांशे न तदपेक्षा । जन्यप्रत्यक्षे च तदपेक्षैव अतस्सविशेषानु भवः स्वप्रकाशेन बाध्यत इत्यर्थः । ननु साक्षिविषयत्वे पूर्वोक्तविरोध इति चेन्न । अध्यासस्यैव विवक्षिततया न विषयत्वमितिन विरोधः । ननु स्वप्रकाश एव भ्रान्तिरित्यत्राहतादृशेति। बाधकमुक्त्वासाधकाभावमप्याहन चेति। ननु निर्विशेषस्वरूपस्य अनुभवाभावेऽनुपलब्ध्या बाध्य इत्यत्राहन चेति।उपपादयति न चात्रेति चेत्यर्थः । न ह््यनुपलम्भमात्रेण बाधः किन्तु योग्यानुपलब्ध्या । तत्र किङ्करणतज्जन्यज्ञानयोग्यता विवक्षिताउतस्वयोग्यता । आद्येदोषमाहकरणेति ।द्वितीये दोषमाहस्वयोग्यत्वेपीति। आभासमानयोगक्षेमतामाशङ्क््य निराचष्टेन च न तेति।अन्यतस्सिद्धिरत्विति शङ्कतेअन्यत इति। परिहरतितदसिद्धेरिति। साधकस्यान्यस्यासिद्धेरित्यर्थः । ननु नरविषाणसाधकं पादवत्वादिकमसतीत्यत्राहसाधने चेति। ननु लोके संविदः सविशेषत्वोपलम्भात्कथं निर्विशेषविषयत्वोक्तिरित्यत्राहयद्यपीति। तद्विवक्तावभासः - विचित्रबाह्यार्थाविधुरावभासः । विमुक्तावस्थामुक्तावस्था । आदिशब्देन प्रलयाद्यवस्था गृह््यते ।तस्यैव - निर्विशेषविषयसंविद एव । इष्टप्रसङ्गमुपपादयतिएतावन्तमिति। ननु स्वत एव निर्विशेष विषयसंविदस्सिद्धौ किमनुमानागमयोः बाद्यकैरूपन्यास इत्यत्राहतदेवमिति। वस्तुतस्तदादर एव नास्तीत्याहस्वयमिति। संविदेव स्वात्मानं प्रतिपादयतीत्यर्थः । ततोन्यस्संविदोन्यःअन्यथेति। तस्यास्तादृश संरम्भे प्रतिपाद्यभूतविषयेण प्रतिपादकेन शब्देन प्रतिपादनसम्प्रदानभूतप्रतिवादिना च विषयतया वैशिष्ट्यं वाच्यम् । अन्यथा प्रतिपादनाऽसम्भवात् । ततश्च निर्विशेषोक्ति रलीकवाद एवेत्यर्थः ।विशेषाणानामिति। परमार्थतो निर्विशेषात्वादित्यर्थः । विषयादीनामुल्लेखोस्ति वा न वा । आद्ये दोषमाहतदनुल्लेख इतिविषयाद्यनुल्लेखाभावे तन्निरासयासो व्यर्थः । तत्सम्बन्धस्याप्रतीतेः द्वितीय आह ।तदुल्लेखे त्विति। तथा च स्वप्रकाशेन निर्विशेषसिद्धिः । सविशेषतयैव प्रकाशादित्यर्थःततोऽन्यायेति। निर्विशेषसंविदन्यायाः तद्बोचरया उत निर्विशेषसंविदैवोपलम्भस्यापीत्यर्थः ।पूर्वत्रेति। स्वभिन्नसंवित्प्रकाश्यत्वस्यैव वेद्यत्वादित्यर्थःउपलभत इति।निर्विशेषतयेति । शेषः ।आद्य इतीति। सविशेषायां तस्यां निर्विशेषज्ञानस्य भ्रमत्वादिति भावः । न च विषयादीनां मिथ्यात्वान्न दोष इत्यत्राह ।न च तदिति। तत्प्रकाशत्वस्य मिथ्यात्वायोगादिति भावः । ननु यागाद्वा देवताप्रसादाद्वा प्रसिद्धसंविद एव निर्विशेषविषयत्वगोचरा प्रतीतिर्जायत इति तत्संवादान्नास्यास्संविदो भ्रान्तित्वप्रसङ्ग इत्याशङ्क््याहनचेति । योगस्येति। योगजज्ञानस्येत्यर्थः । तत्र हेतुमाहन चेति। ननु तदुक्तावविस्रम्भेपि पुलकोद्गमनादिना हर्षादिवच्चेतनवादिलिङ्गेन हर्षोऽनुमीयताम् इत्यत्राहपुलकेति। किमयमुपदेशः स्वानुभवनिह्नुवानं प्रति उत स्वस्मिन् तादृशानुभवाभावमुपलब्धमानं प्रति । नाद्य इत्याहन हीति। वैयर्थ्यादिति भावः । द्वितीय आहनापीति। तदभावनिश्चयवतः कथं वाक्यात्तद्बोधः ।अयोग्यताज्ञानेन प्रतिबन्धादिति भावः । अत इति। स्वस्माएव स्वसुखादिवत्सिध्यति परस्मा उपदिशति ।उत प्रतिवादिनोपि सिद्धामित्युक्त विकल्पानवकाश इत्यर्थः ।सा तर्हीति। संवित्स्वरूपसिद्धिरेव न स्यादित्यर्थः । व्यवहारानुपपत्त्या सिध्यतीत्यत्राहसिध्यन्तीवेति। ननु सर्वोऽपि वादार्थः कस्यचिदेवेति न नियमोस्ति उत्पन्नविनष्टघटादौव्यभिचारादिति शङ्कतेसिद्धिमात्रामिति । कस्येति। सिद्धेः कर्मसापेक्षत्वम् आश्रयसापेक्षत्वं च नियतमित्यर्थः ।उभयमप्यसिद्धमिति शङ्कतेन कस्यचिदिति । न तर्हीति। आश्रयकर्मवत्वेनैव प्रसिद्धेरूपलम्भान्न तद्रहितायाःप्रतीतिरिति भावः ।स्वस्या एवेति। स्वकर्मिका स्वाश्रया स्वार्था चेत्यर्थः । तथाच (न) नियमभङ्ग इति भावः ।इदं त्विति। पूर्वदोषानतिवृत्तिरिति भावः । प्रागुक्तदोषानतिवृत्तिं दर्शयति ।कथमसाविति।तन्मयीभूत्वा - अतत्स्वरूपत्वादित्यर्थः।प्रागेवेति। स्वायथात्म्यप्रतिपादनातिसंरम्भवैमुख्यादित्युक्तत्वादित्यर्थः । कथमित्यस्य प्रश्नार्थत्वमभिप्रेत्याहतर्हीति। सम्बुद्धिः - तत्वबुभुत्सुःविशेषमेवेति। सागरतरणे साधनं भवतीत्यर्थः । किं स्वरूपप्रकाशमात्रेण जपविषयत्वाभावस्साध्यते उतस्वरूपप्रकाशनेतर विषयत्वाभावस्यापि विषयीकरणात् । नाद्यः । स्वरूपप्रकाशेऽपीतरप्रकाशाविरोधात् । नह््येकमेवप्राग्यमितिनियमः क्वापि तद्दर्शनादित्यभिप्रेत्य द्वितीयं दूषयतितदसिद्धस्येति। तदेवोपपादयतिकस्यचिदिति।घटमहं जानामीति किञ्चित्पुरुषाश्रयतया घटत्वाद्याश्रयविषयकतया प्रत्यक्षत्वादिविशेषरूपेण च स्वतस्सिद्धेरित्यर्थः ।अत इति। उक्तरीत्या स्वविषत्वादीनां सिद्धानामपह्नवइत्यर्थः ।साजात्यमात्रेणेति। ज्ञानात्मक ज्ञातुर्भेदेन संविषदानुभवात् साजात्यमात्रेण अभेदानुमानं बाधितम् । तथापि साधने घटादीनामपि भेदो न स्यादित्यर्थः । यदि ज्ञानस्य ज्ञानाश्रयत्वमिष्यते धर्मभूतज्ञानस्यापि तत्प्रसङ्ग इत्यत्राहतद्वदिति। अन्यथा तेषामपि परप्रकाश्यतया प्रकाशात्मकत्वसिद्धेरित्युक्तं दूषयतिनचेति।सर्वासामपीति।““सत्यं ज्ञानमि’’(तै - उ - आनन्द 1)त्यादि श्रुतिजन्य संविद्विषयत्वस्य संवित्स्वप्रकाशेत्याद्यनुमानादि विषयत्वस्यचेत्यर्थः । यद्यनुपलभ्यमानस्य कल्पनामात्रमेव गुरु तदा दोषमाहतथापीति । चार्वाकसौहार्दमितिअनुमानादीनामनुपलभ्यमान विषयत्वात्तदविषयकत्वकल्पनस्य दोषत्वे अनुमानाद्युच्छेदेन प्रत्यक्षमात्रपरिशेषस्यादिति भावः ।नन्वधिक विषयत्वकल्पनं दोष इति चेत्तत्राहउपलभ्यते चेति। तथा च न कल्पनेति भावः । यदि द्वयोरिति।निर्विशेषानुभवस्य अद्याप्यसिद्धेः क्व तद्धर्मविचार इति भावः । प्रस्तुतप्रतीपमितिविषयाश्रयाविशेषित संविद्विषयकत्वेन प्रकाशात्मातामात्रत्वायोगाद्विषय मिथ्यात्वस्यासिद्धेर्नाभेदाध्यासो विषयाणामिति भावः ।अनुभूत्यन्तरविषयत्वस्येतितथाचयोग्यानुपलम्भः सम्भवतीति भावः। सविशेषतयेति। कर्त्रादिविशिष्टतयेत्यर्थः ।युक्तिबलान्निकृष्यत इति।सविशेषतयोपलभ्यमाना संविदेव संविन्निर्विशेषोपलम्भ इति न विशेष्यासिद्धिरिति भावः ।उपलम्भयुक्त्यन्यथात्वेपीति। उपलम्भयुक्त््यास्सविशेषविषयत्वेऽपि श्रुत्या तथेति प्रतिपाद्यत इत्यर्थः ।स्वगतविशेषैरिति। ज्ञानत्वापरोक्षादिभिरित्यर्थः । अत्र भाष्यमुदाहरतिअनुभवोस्तिचेदिति। तत्रापि सविशेषतयैव अनुभव इति भावः । उपपादनप्रकारं दर्शयतिअयमभिप्रायइति । अहमर्थप्रकाशस्त्विति।स्वापकालेअहङ्कारविलयाभ्युपगमादिति भावः। विशेषमेवदर्शयतिप्रत्यक्त्वेति। स्वापाधारत्वादिरादि शब्दार्थः ।अन्यथेति। सविशेषतयानुभवाभावे संविन्मात्रप्रकाश एव नस्यान्निर्विशेषस्य अस्फुरणादिति भावः । ननु सुषुप्तावहमर्थाभावाद्विषयसम्बन्न्धाभावाच्च संविन्मात्रप्रकाशोऽस्तीति शङ्कतेअथेति। संविन्मात्रप्रकाश सामग्र्यभावान्नसम्भवतीत्याहतदपिनेति। प्रकाशाभावेपि निर्विशेषसंविदस्तीत्यत्राहछेद्यादिति। छेद्याद्यभावे छेदनाभाववद्विषयादिप्रकाशाभावे संवित्प्रकाशो नास्तीति भावः । ननु भवद्भिर्ज्ञानस्य नित्यत्वाङ्गीकारात् स्वापादिषु विषयादिभानानभ्युपगमाद्विषयादिविधुरैव संवित्तदाप्रकाशत इति वाच्यम् इत्यत्राहयत्विति। ननु सुषुप्तौ कथमित्यत्राहयत इति। आदिशब्देन सुखित्वादि । एकदेशिमतेस्वविशेषैर्भासत इत्याहएकदेशिमतेनेति । ततश्चेति। सविशेषायाः संविदस्सुषुप्तावनुभवाभावे सुप्तोत्थितस्य सुखत्वविशिष्टतया च स्मृतिरूपपन्नेत्यर्थः । ननु निर्विशेषसंवित्परामर्शोपि अस्त्वित्यत्राहतव त्विति।तत्र किं सुषुप्तस्य परामर्शः । किं वा प्रबुद्धस्येति कल्पमभिप्रेत्याद्यं दूषयति ।नहीति। परामर्शशब्दौ ज्ञानपरौ । द्वितीयं प्रतिवक्तिनापीति। प्रत्युत ज्ञाना भावमेव परामृशतीत्याहअपित्विति। नन्वहङ्कारस्य सुषुप्तौ प्रलीनत्वात् नज्ञप्तिरूपेणाहमवस्थित इति परामर्शः । किं च स्वरूपप्रकाशे सत्यपि विषयानुभवा भावान्न सुप्तोत्थितस्य परामर्श इति शङ्कतेअहङ्कारविगमादिति। सुप्तोत्थितस्य परामर्शाभावोेप (+++) तादृशानुभवे मानाभावस्यैव उपन्यासात् न तदा तादृशानुभवसिद्धिः इति परिहरतिहन्तेति। किं च विषयस्याननुभवेऽहमर्थाभावे च माभूत्तयोः परामर्शः तदानीमनुभूतसंविदः प्रतिसन्धानं कुतः स्यात् । नह््यन्यस्याभावोननुभवश्च स्पष्टमनुभूतम् अत्र स्मृति प्रतिबन्धक इत्यत्राहकिञ्चेति।अन्यथेति । अन्याभावस्य - अन्याननु भवस्य च प्रतिबन्धकत्वे स्मृतिमात्रोच्छेदः । तयोस्सर्वत्र सुलभत्वादित्यर्थः । नन्वनुभवस्य स्मरणनियमाभावात् नानुभूतावपि संवित्स्मर्यत इत्यत्राहनचानुभूतस्येति। स्मर्तुं योग्यस्मरणाभावे प्रातर्गजाभाववदभाव एव स्यादित्याहप्रतिदिवसमिति। भावाभावपर्यवसानं भावस्य पदार्थस्य अभावपर्यवसानमभाव एव स्यादित्यर्थः ।ननु किञ्चिदहमवेदिषमिति। न ज्ञानाभावः परामृश्यते । तथा सति प्रागनुभवस्यावश्यकत्वे सुषुप्तिव्याघातप्रसङ्गाद्विषयप्रतियोग्यादीनामावश्यकत्वात् । तदभावे तु प्रागनुभवाभावात् स्मृतिलक्षणः परामर्श एव न स्यात् । न चानुभवलक्षणः । स तु परामर्शो जाग्रतो विषया भावादेवेति न ज्ञानाभावः परामृश्यते । अपितु भावरूपमज्ञानमित्यत्राहज्ञानाभावातिरिक्तन्त्विति। तस्यापि ज्ञानविरोधित्वरूपेण परामर्शः न स्वरूपेण । तथाच ज्ञानाभावपक्षोक्तदोषानतिक्रमः । किं चज्ञानाभावपरामर्शो न स्मृतिरूपः अपि तु प्रातर्गजाभावानुमितिवदनुभवरूप इति न कश्चिद्विरोध इति भावः ।रूपाज्ञानभङ्गे निरसिष्यत इति भावः । न केवलमानुकूल्याभाव एव अपितु प्रातिकूल्यमपीत्याहकिं चेति। सुखमहमस्वाप्सम् इति सुखरूपतयापि साक्षिणोपि भानात् कथमसाधकत्वमित्याशङ्क््याहमर्थ एव सुखित्वावगमात् नातिरिक्तसाक्षिभानमित्याहएवं सुखमहमिति। एवमिति सुषुप्त्यवस्थायामित्यर्थः । किं युक्त्या निरालम्बनतया निष्कृष्यते मिथ््यालम्म्बनतया । नाद्य इत्याहयुक्त््येति। द्वितीयं प्रतिवक्तिआलम्बनेति। संवित्सविशेषत्वसाधकं न निर्विशेषत्वमित्याहनिर्धर्मकत्वस्य चेति। संविन्निर्विशेषत्वसाधकं च व्याहतमित्याहकिञ्चेति। किं हेतुसाध्ययोः पक्षेऽन्वयउच्यते उत न । नाद्य इत्याहतत्रेति। हेतुसाध्यरूप धर्मान्वयाद्व्याघात इत्यर्थः । द्वितीयेपि हेत्वन्वये साध्याविशेषः स्वरूपासिद्धिः । साध्यानन्वये साध्याभाव इत्याहतदन्वयेत्विति। ननु हेतुसाध्यान्वयेपि न दोषः तर्योर्मिथ्यात्वादिति चेत् तत्राहतन्मिथ्यात्वेपीति। साध्याविशेषस्साध्याभावश्चेत्यर्थः । ननु हेतुसाध्ययोरन्वयोऽस्तु तयोस्सत्यत्वमस्तु ।न च सधर्मकत्वप्रसङ्गः तयोर्धर्मैक्यादित्यत्राहसंवित्यरूपैक्ये चेति। पक्षहेत्वोर्भेदाभावात् आश्रयाश्रया भावात् स्वरूपासिद्धिः । किं च पक्षसाध्ययोरभेदे पक्षस्य सिद्धत्वे सिद्धसाधनम् । असिद्धत्वे आश्रयासिद्धिः ।पक्षवृत्तित्वाभावाच्च बाध इति भावः । तत्र भाष्यमुदाहरतितदेतदिति। सत्तातिरेकिभिः धर्म्यतिरिक्तैरित्यर्थः । विस्तरेण वक्ष्यमाणत्वादितिअखण्डार्थत्वभङ्ग इत्यर्थः ।अन्विताभिधानवाद इति। पदान्तरसहितानामेव अन्विताभिदायकत्वेन वाक्यविधया साधकत्वात्पदजातस्य पदविधया वाचकत्वं नास्तीत्यर्थः । स्मारितानन्वितार्थकमनन्वितया स्मारकमित्यर्थः । पश्चात्पदार्थस्मरणानन्तरम् उपक्रमोपसंहारादिभिराकाङ्क्षादिविशिष्टैश्च व्यक्तिविशेषतात्पर्यं सद्वाक््यविधयामिढकमित्यर्थः ।अभिहितान्वयेति। पदानां पदार्थस्मरणं जनयित्वपर्यवसिततयानुभवरूपज्ञानजनकत्वं नास्तीत्यर्थः । अभ्यधिकावादेनुऽभवजनकत्वभावादित्यर्थः । प्रत्येकपदानामनुभवजनकत्वाङ्गीकारे निर्विशेषबोधइत्यत्राहप्रत्येकपदानामिति। ननु तृतीयमेव तार्तीयीकम् इत्यादिस्थले प्रत्ययादेरर्थाभावात् न प्रत्ययार्थ विशिष्टबोधकम् इत्यत्राहस्वार्थिकप्रत्ययेति। तत्रापि सुबविभक्त्यर्थान्वयसत्वादितिभावः नन्वव्ययानां विभक्त््यर्थाद्यन्वितार्थाभिधायकत्वाभावात् अविशिष्टाभिधानमित्यत्राहअव्ययानामपीति। तथाव्युत्पत्तेरिति भावः । अभिदधतीति मतभेदेन किञ्चिदिति किमिदमखण्डम् उत यौगिकम् । नाद्य इत्याहअव्युत्पन्नेति। तादृशवस्तुनोनुपलम्भाद् व्युत्पत्तिग्रहायोगादिति भावः । अव्युत्पन्नस्य भ्रान्तस्य वा तत्र योगो यदि तदापि न व्युत्पत्तिसिद्धिरिति भावः । द्वितीय आहप्रतीतिरिति। निरित्युपसर्गस्य विशेषस्य चप्रत्येकं व्युत्पन्नत्वात् मनसाज्ञाते वस्तुनि विशेषाभाव बोधकमिति वाक््यविधया सविशेषबोधकमित्यर्थः ।वाक्यस्थेन त्विति। विधेयसमर्थत्वादिति भावः । लोकव्युत्पत्तिविरोधश्चेत्याहयथेति। नहि तत्र गजतुरगपदातयो निषेध्यन्त इति भावः ।संविदस्तीति। विशेषणाद्धर्मित्वावच्छेदकस्यापि निषेध इति भावः ।वाक्यरूपेणेति। पक्षं न्दूषयति ।नापि द्वितीय इति। ननु घटो नास्तीत्यत्र प्राधान्येन पदान्तरोपस्थापितस्यापि निषेधो दृष्ट इत्यप्रधानतया उपस्थापित विशेषस्यापि निषेधोऽस्त्वित्यत्राहअत इति। युक्तं घटादिपदोपस्थापितानां निषेधः । तत्पदानां प्रतियोग्युपस्थापकत्वात् न वान्वयात् । इहतु भूतलत्वादिवदन्वयप्रतियोगितावच्छेदकतयैव अन्वयादन्यथा धर्मिप्रकाशोपि नस्यादिति प्रतीतिरेव न स्यादिति भावः ॥ वत्सजलधिकौस्तुभ नृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणीटीकायां दशमो वादस्समाप्तः ॥