09 कथानधिकारवादः

॥अथ कथानधिकारवादः नवमः ॥9॥
हयग्रीवसुधासिन्धुहर्षहेषारवोर्मयः ।

जयन्ति वादवेलान्तक्षिप्तबाह्यकुदृष्टयः ॥
विस्तरेण कुदृष्टिमतमनुभाष्य, “तदिदम्’‘इत्यादिना, “न्यायानुगृहीतवाक्यप्रत्यक्षादिसकल प्रमाणवृत्तयाथात्म्यविद्भिरनादरणीयम्’’ (श्रीभाष्यं-जिज्ञा) इत्यन्तेन शिष्यान् प्रत्युपदिशतो भाष्यकारस्यायं भावः, सौगतानामिव प्रच्छन्नसौगतानामपि कथायामनधिकार इति ।
वेदार्थसङ्ग्रहे च स्पष्टमाह, “सर्वशून्यवादिनो, ब्रह्मव्यतिरिक्तसर्ववस्तुमिथ्यात्ववादिनश्च स्वपक्षस्थापकप्रमाण पारमार्थ्यानभ्युपगमात् अभियुक्तैर्वादानधिकार एव प्रतिपादितः,
“अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः’’ (श्लोकवार्तिके निरालम्बनवादः125) इति ।

अयमाशयः,
“यदि प्रपञ्चमिथ्यात्ववादी वादाधिकारिताम् ।
भजेन्माध्यमिकस्यापि भवेत् वादाधिकारिता’’ ॥
“तथाच ब्रह्मतत्त्वं ते निर्गुणं निष्प्रमाणकम् ।
कथं मध्यमबौद्धस्य विवादैर्नापलप्यते’’ ॥
एतच्च विस्तरादुपपादयामः ।
तत्र यत्तावत्खण्डितम्, कथकयोः प्रमाणादिसत्ताभ्युपगमः कस्य हेतोः? किं तत्सत्ताभ्युपगमसाहित्यनियतस्य व्यवहारस्यान्यथा प्रवर्तयितुमशक्यत्वात्, उत तद्यवहारं प्रति तस्य हेतुत्वात्, लोकव्यवहारसिद्धत्वात्, तदनभ्युपगमास्य कथाफलातिप्रसञ्जकत्वाद्वा?
न प्रथमः; तमन्तरेण तत्तीर्थकरैस्तदनुसारिभिश्च व्यवहारस्य प्रवर्त्यमानत्वात् ।
अन्यथा भवतः तन्निरासप्रयासानुपपत्तेः ।
साधनबाधनक्षमो व्यवहारः प्रमाणादिसत्ताभ्युपगमसाहित्यनियत इति तमन्तरेण तत्क्षमत्वं न स्यादिति चेन्न; साधनबाधनक्षमत्वं प्रति सद्वचनाभासलक्षणयोगित्वस्यैव प्रयोजकत्वात् ।
सत्त्वाद्यभ्युपगमे सत्यपि आभासे तदक्षमत्वस्य सर्वसम्मतेः ।
अस्मद्वाक्ये चाऽऽभासत्वस्य दुरुपपादत्वात् ।
सत्तानभ्युपगममात्रेणाऽऽभासत्वोक्तौ सताभ्युपगमेन भवद्यवहार एवाऽऽभास इति विपरिवर्तप्रसङ्गात् ।
अस्ति च सत्ताभ्युपगमे सत्यपि असिद्धविरुद्धादेरभासत्वम् ।

ननु प्रमाणादिसत्ताभ्युपगमाभावेव्यवहारस्यैव धर्मिणोऽसिद्धौ तस्य कथमाभासत्वसाधनम्; कथं वा
सद्वचनाभासलक्षणयोगित्वादिप्रयोजकावधारणामुखेन दूषणदूष्यादिव्यवस्थापनम्; सर्वेषां स्थापनबाधनानां प्रमाणाधीनत्वात् ।
मैवम्; सत्ताभ्युपगममात्रेण प्रसिद्धिसिद्धैः प्रमाणादिभिरस्माकं व्यवहारोपपत्तेः ।
उक्तञ्च इष्टसिद्धिकारैः, “सत्यं प्रसिद्धिरस्ति, अत एव व्यवहरामः; किन्तु नास्या मूलं पश्यामः’’ इति ।
यथा प्रमाणादीनि सद्रूपाणि स्वीकुर्वता भवता, “प्रमाणं साधकम्,
न तदाभासः’ ’ इत्यादि व्यवह्नियते, तथा व्यवहारिभिरेव सर्वैः प्रमाणादिसत्त्वचिन्तायामुदासीनैःकथा प्रवर्त्यतामिति ह्यादिशामः ।
यदि चैवं नानुमन्यसे, तिष्ठामस्त्वयाऽस्मास्वारोपिते सत्तानभ्युपगमपक्षे ।
तथाऽपि मां प्रतित्वदुक्तमाश्रयासिद्ध्यादिदूषणं दुर्वचम् ।
दूषणं हीदं कथायां प्रवृत्तस्यैव वाच्यम्; न पुनराहरतो विहरतो वा ।
साच कथा कयाऽपि मर्यादया प्रवर्तनीया ।
तत्र वादिप्रतिवादिभ्यां सत्त्वाभ्युपगमे तादृक्पर्यनुयोगानवकाशः ।
उभाभ्यामसत्त्वाभ्युपगमे परस्येव स्वस्यापि प्रसङ्गः ।
एकेन सत्त्वम् इतरेण चासत्त्वमभयुपगम्य प्रवर्तितायामिदं दूषणमुच्यते चेत्, तद्वदेव कथान्तरस्यापि प्रसक्तिरनिवार्या; कथानियमस्य चोभयाभ्युपगमप्रकारानुरोधित्वात् ।
अन्यथा कस्य स्वेच्छया त्वदुक्तेऽपि, वाङ्मात्रेणापि दूषणप्रसङ्गेन जयपराजयव्यवस्थाभङ्गप्रसङ्गात् ।
यश्चैकस्तस्यां कथायां प्रमाणादिसत्त्वमिच्छति, तस्यैवैषा
नियमभरयन्त्रणा ।
अथोभाम्यामपि प्रमाणादिसत्त्वाभ्युपगमौदासीन्येन व्यवहारनियमे समयं बद्धवा प्रारब्धायां कथायां दूषणमिदमुच्यते तदा स्वाभ्युपगमविरोध एव त्वयैवाऽऽपादितः स्यात् ।

अथ दुर्वैतण्डिकेन कथां बद्धवा तस्यैव दूषणं न ब्रूमः; अपितु शिष्यादीन् प्रति तस्य कथानधिकारं दर्शयाम इति चेन्न; शिष्यादीन् प्रत्यपि चार्वाकसौगतमायावादिनामयं दोष इति वक्तव्यम्; स च दोषो निग्रहस्थानात्मा, तस्य कथाप्रवेशाप्रवेशयोः न तद्बाधक्षमः; न च कथामन्तरेण निग्रहः ।

नापि द्वितीयः; सत्ताभ्युपगममन्तरेणापि प्रमाणादीनां व्यवहारहेतुत्वस्य माध्यमिकादिषु प्रदर्शितत्वात् ।
अथ व्यवहारहेतुत्वादेव प्रमाणादीनां सत्त्वम्, सत्वाच्च तदभ्युपगमः असतोऽभ्युपगमायोगादित्युच्यते, तदपि न; अस्याप्यर्थस्य कयाऽपि नियमस्थित्या प्रवर्तितां कथामन्तरेण दुःसाधत्वात् ।
ततश्च सिद्धा सत्ताभ्युपगमात्पूर्वं कथाप्रवृत्तिः ।
न च साऽपि नियमस्थितिःसत्ताभ्युपगमगर्भेति वाच्यम्; तत्त्वावधारणपरपराजयौपयिकोभयसम्भावतिव्यवहारनियमसमयबन्धमात्रेण समीहितसिद्धेः ।
न च समयबन्धेऽपि सत्ताभ्युपगमगन्धः प्रमाणतर्काभ्यां व्यवहर्तव्यम्, परस्परं प्रतिज्ञाहान्याद्यन्यतमनिग्रहस्थानं प्रदर्शनीयम्, तद्व्युत्पादने तद्वतो भङ्गो व्यवहर्तव्यः, अन्यथा तद्व्युत्पादनासमर्थस्य अ(न्य)भग्नस्तु जेतेति व्यवहर्तव्यः, प्रामाणिकतया प्रतीतः पक्षः तत्त्वमिति व्यवहर्तव्य इत्येवमादिस्वरूपे नियमबन्धेपि सत्ताभ्युपगमप्रसङ्गाभावात् ।
न च समयबन्धोऽपि हेतुर्वाच्यः ।
स च कथाप्रवृत्तिमन्तरेण न वक्तुं शक्यः’’ इति सत्ताभ्युपगमहेतुत्वाभिधानविषयप्रत्यवस्थान प्रतिबन्द्यवतारः; तत्त्वनिर्णयविजयमूलत्वेन लोकसिद्धस्याविचारितरमणीयस्य व्यवहारनियमस्य हेतुमन्तरेण वादिभ्यां द्वाभ्यामपि स्वेच्छयैव ग्रहणात् ।
न चैवं प्रमाणमूलत्वाभावेन विचारतद्विषय तत्फलविप्लवप्रसङ्गः, अनादि पारम्पर्यागतस्य लोकव्युत्पत्तिसंवादिनस्तस्यासम्भवान्यथाभावा भावरूपस्वतश्शुद्धिसिद्धत्वात् ।
न च प्रमाणादिसत्ताऽपि स्वेच्छयैवाङ्गीकार्या; व्यवहारनियममात्रेणैवान्य व्यतिरेकवता निरपेक्षेण कथाप्रवृत्तितत्फलोपपत्तौ तादृशेतरनिरर्थकसत्ताभ्युपगमायोगात् ।

नापि तृतीयः लोकव्यवहार इति प्रमाणिकव्यवहारविवक्षायां तस्य विचारप्रवृत्तिमन्तरेण दुर्निरूपतया तदर्थमेव पूर्ववत् नियमस्य गवेषणात्; पामरादिव्यवहारविवक्षायां निर्मूलव्यवहारशरण्यस्य ते शरीरात्मत्वादयोऽपि स्वीकर्तव्यास्स्युः ।
पश्चात्तनबाधात् तत्परित्यागश्चेत्, प्रमाणादिसत्ताऽपि सामान्यतो विशेषश्चास्मदुक्ताभिर्युक्तिभिर्बाध्यमाना परित्याज्या ।
अथ बाधाभावात् तत्परिग्रहः, तथाऽपि न लोक व्यवहारस्य तत्परिग्राहकता ।
बाधाभावविचारे च पुनर्नियमान्वेषणावतारः ।

नापि चतुर्थः; प्रमाणादिसतामभ्युपगच्छता त्वयेव तत्सत्त्वासत्त्वानुसरणोदासीनेन मयाऽपि तथाविधस्यैव व्यवहारनियमस्यवलम्बनात् ।
तस्य च मां प्रति फलातिप्रसञ्जकत्वे त्वां प्रत्यपि तुल्यप्रसङ्गस्स्यात् ।
यथा चाभ्यवहारादिव्यापारेष्वपि सत्तामनिच्छतां माध्यमिकादीनां तत्फलनियमः, तथाऽत्रापि ।

ननु व्यवहारनियमसमयबन्ध एव सत्ताभ्युपगमोऽनुप्रविष्टः ।
व्यवहारोऽपि हि क्रिया ।
सा च निष्पादनात्मिका; तच्चासतस्सद्रूपताप्रापणम्; प्रमाणादिभिर्व्यवहर्तव्यमित्यत्र प्रमाणादेः करणत्वं नियमान्तर्गतम् ।
तच्च कारणत्वविशेषः ।
कारणत्वं तु नियतपूर्वकालसत्त्वम् ।
दूषणसत्त्वे भङ्गः, साधनाङ्गभूतव्याप्त्यादिसत्त्वे च तद्विषयस्तत्त्वमिति च नियम्यते ।
अतो व्यवहारनियमसमयबन्धादावेवव्यवहारक्रिया-तत्कारण-दूषण-साधनाङ्गादेः सत्त्वं कण्ठोक्तमिति कथं सत्तामनभ्युपगम्य
कथारम्भ इति ।
मैवम्; एभिरपि सत्तानभ्युपगमबाधकैः कथायां प्रवृत्तायामेव सत्ताभ्युपगमस्य प्रसाधनीयत्वात्; ततश्च पूर्वोक्तबाधाया दुस्तरत्वात् ॥
इति श्री कवितार्किकसिंस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां कथानधिकारवादः नवमः ॥9॥

नृसिंहराजीया

““अथातो ब्रह्मजिज्ञासेति’’(ब्र.सू.1 - 1 - 1)सूत्रानुबन्ध्यर्थाः परेषां प्रथमं दूषिताः । अतः परं प्रमेयदूषणानि वक्तव्यानि । तत्कथनं च न तैस्सहकथायां तेषामधिकाराभावात्किन्तु शिष्यान्प्र्रत्युपदेशरूपेणेति प्रथमं कथानधिकारं तेषां समर्थ्यत इति सङ्गतिमभिप्रेत्य वादार्थं सङ्गृह्णाति ।हयग्रीवेति।वादार्थं सूचयतिवादवेलान्तक्षिप्तबाह्यकुदृष्टय इति। बाह्याः बौद्धाः कुदृष्टयो मायिनो वादवेलान्तेक्षिप्ताः वादबाह्याः इति यावत् ।““पञ्चमीति’’ (अष्टा - 2 - 1 - 37)योगविभागात् तपरवत्समासः। बाह््यग्रहणं दृष्टान्तार्थम् । ननूपदेशमात्रेण कथमनधिकार इत्यत्राहअयमाशय इति।सौगतानामिवेति। प्रच्छन्न सौगता मायिनः । तेषामधिकारे सौगतानामप्यधिकारस्यादिति भावः । भाष्यग्रन्थस्यायमभिप्राय इत्यत्र किन्निदानमित्यत्राहवेदार्थ सङ्ग्रहे चेति। अभियुक्ताःपूर्वतन्त्रव्याख्यातारः । अभियुक्तवचनमुदाहरतिअधिकार इति। शून्यवादिनामनधिकारवचनस्य कथं प्रकृतसङ्गतिरित्यत्राहअयमाशय इति। मध्यमो - माध्यमिक स हि कथानधिकारात् निष्कासनीय्य इति मन्यसे तवापि तादृशत्वात् त्वया कथं निष्कासनमिति बन्द्युत्थापकत्वान्नासङ्गतिरिति भावः । नापलिप्यत इति अयमाशय इत्यन्वयः । ननु शून्यवादित्वमात्रात्कथानधिकारित्वोक्तौ अशून्यवादित्वादेव कथानधिकार इति किं न स्यादित्यत्राहएतच्चेति। पूर्वपक्षविस्तरमाश्रित्योपपादयामः इत्यर्थः । पूर्वपक्षमाहतत्रेति। यत्रवण्डितं तत्र तावदित्यन्वयः । कस्य हेतोःकिमर्थमित्यर्थः । साहित्यनियतस्य साहित्यव्याप्यस्य तद्व्यवहारमिति प्रमाणाधीत वाग्व्यवहारं प्रति सत्ताभ्युपगमस्य हेतुत्वादित्यर्था लोकव्यवहारसिद्धत्वादिति तस्येत्यनुषज्यते । लोके कथकाः प्रमाणादिसत्तामभ्युपगम्य कथायां प्रवर्तत इति कथकानुष्ठानादित्यर्थः।तदनभ्युपगमस्येति। अन्यतरजयादिकथाफलं प्रमाणादिसत्तानभ्युपगमे वादिवाद्यन्यतर विजय नियमोनस्यात् उभयोरविशेषादिति भावः । तत्तीर्थकरामायिनां गुरवो माध्यमिकाः । तदनु सारिणो मायिनः तदलापेबाधकमाहअन्यथेति। ननु प्रमाणतर्कयोरसत्वे साधन बाधन क्षमता न स्यात् । अर्थ क्रियाकारित्वासम्भवात् ।तन्निरासप्रयासश्च सिद्धान्तिनोधिकाराभ्युपगमादप्युपपद्यत इत्याशङ्कतेसाधनबाधनेति। साधनक्षमः साधकः । बाधकक्षमो बाध्य इत्यर्थः ।सद्वचनेति। उच्यतेऽने नेति। वचनं सत्प्रमाणलक्षणमित्यर्थः आभासयोगित्वम् आभासलक्षणयोगित्वमित्यर्थः । तत्र युक्तिमाहसत्वाभ्युपगमइति। आभासेति। आभासलक्षण इति ।अस्मद्वाक्य इति। अस्मद्वाक्यप्रतिपाद्य इत्यर्थः । नियामकाभावेप्युक्तदोषमाहसत्तेति। सतोप्याभासलक्षणयोगं दर्शयतिअस्तिचेति।आभासत्वमितिदृश्यत इति शेषः । ननु प्रमाणादिसत्तामनभ्युपगच्छन्तः कथं प्रमाणैर्व्यवहरेयुः । कथं व्यवहारासिद्धौ प्रतिवादिपूर्ववाद्युपन्यस्त प्रमाणादेरा भासत्वं साधयत्कथमेवन्त्वात् सल्लक्षणयोगि इदमेवं त्वादसल्लक्षणयोगि अत इदं दूषणेन दूष्यम् इदं नेति व्यवस्था स्यात् । स्थापनानां बाधनानां प्रमाणाधीनसिद्धत्वात् प्रमाणस्यैवासत्वे कथं लक्षणयोगादि निर्धारणमिति शङ्कतेप्रमाणादिति । प्रसिद्धिसिद्धैरिति ।प्रसिद्धिःव्यवहारः । तत्सिद्धेः व्यावहारिकैरितियावत् । व्यवहारे प्रमाणादीनां सत्व प्रयोजकमित्यभिप्रायेणइष्टसिद्धिग्रन्थं व्याचष्टेयथेति। तथा व्यवहारिभिरेवेति व्यवहर्तृपुरुषैः प्रमाणं प्रमाणाभास इति उपगतैस्तथा प्रवर्त्यताम् इत्युदासीनैः इत्यर्थः । यद्वा व्यावहारिकैरेव प्रमाणैः प्रमाणतदाभासाभ्युपगममात्रेण प्रवर्त्यतामित्यर्थः । सत्वासत्वसत्वौदसीनैरित्यनुपपन्नम् । भवन्मते सत्वाभावस्य सिद्धत्वादित्यत आहयदि चैवमिति। ननु सत्तानभ्युपगमे आश्रयासिद्धत्वादिदोषैः निग्रहस्यादित्यत्राहतथापीति। दुर्वचत्वमोवोपपादयतिदूषणं हीदमिति। कयापि मर्यादया प्रवर्तनीयेतिवादिप्रतिवादिभ्यामुभाभ्यां सत्वाभ्युपगमेन समयबन्धं कृत्वा कथाप्रवर्तनीया उतासत्वाभ्युपगमेन अथवा एकेन सत्वमितरेणासत्वमभ्युपगम्य आहोस्विदुभाभ्यामपि प्रमाणादिसत्वाभ्युपगमौदासीन्येनेत्यर्थः । तत्राद्यपक्षेतद्दूषणोद्भावनं न सम्भवतीत्याहतत्रवादिप्रतिवादिभ्यामिति। आश्रयासिद्ध्यादेरभावादिति भावः ।द्वितीये दोषमाहउभाभ्यामिति। स्वव्याघातादिति भावः । तृतीये दोषमाहएतेन सर्वमिति। तद्वदेवेति। यस्यां कथायां दूषणमुद्भाव्यते तद्वदेव कथान्तरस्यापि प्रवृत्तिः । अन्यथा आश्रयाभावाद्दूषणमेव नोद्भाव्यं स्यादित्युभयथापि दूषणोद्भावनमयुक्तमिति अर्थः । प्रतिबन्दिमुक्त्वा दोषान्तरमाहकथनीयस्य चेति।असत्वाभ्युपगन्तारं प्रतिवादित्वेनाभ्युपगम्य प्रवृत्तायां कथायाम् आश्रयासिद्ध्यादिना उद्भाव्यमिति भावः ।अन्यथा उभयाभ्युपगमानुरोधाभावे वाङ्मात्रेणापीति दूषणत्वेनानभ्युपगतस्यापि दूषणतयोद्भावन सम्भवादिति भावः । सत्वाभ्युपगमेऽनिष्टान्तरमाहयश्चैक इति। यङ्लुगन्तादिप्रयोगनियमाभ्युपगन्तुरिव तस्यैवाश्रयासिद्धयादिर्दोष इति भावः । चतुर्थे दूषणमाहअथोभाभ्यामपीति। तथाचासिद्ध्यादिदोषापादने स्वस्यैव पराजय इति भावः । ननु कथायां किल स्वव्याद्यातादिदोषः नात्र कथेति शङ्कतेअथेति।तस्य कथाप्रवेशेति। तथा प्रवेशे आश्रयासिद्ध्यादेरदोषतया न निग्रहः । तदनुप्रवेशे तदुद्भावनमेव नास्तीति भावः । नापि प्रमाणाधीनव्यवहारं प्रति सत्ताभ्युपमस्य हेतुत्व पक्षे इत्यर्थः । प्रदर्शितत्वादिति। तथा च व्यभिचाराहेतुत्वमित्यर्थः । ननु व्यवहारहेतुत्वं वदता त्वयैव प्रमाणाधीनां सत्वं समर्थितम् । हेतुत्वस्य नियतपूर्वसत्वरूपत्वात्तेन सर्वाभ्युपगमस्सिद्धः । असत्वस्य चोक्तासत्वतदभावयोर्व्याघात इति शङ्कतेअथेति । अस्याप्यर्थस्येति। सत्ताभ्युपगमाभावे व्यवहारादिकं नस्यादित्यादिव्याघातोद्भावनस्यतदनभ्युपगमपूर्वककथाव्यवहारप्रवृत्तिपूर्वकतया तद्वदेवेतरव्यवहारस्यापि सम्भवे व्याधाताभावादितिभावः । ननु प्रमाणादीन्येव समये निबन्ध्य तेन सत्वमिति कुत इति शङ्कामनुवदतिन चेति। तत्वावधारणेति।प्रयोजनवतामेव समयबन्धो वाच्योऽन्यथातिप्रसङ्गादितिभावः। सत्ताभ्युपगमस्य कथञ्चिदपि प्रयोजनाभावात् न समयबन्धान्तर्भाव इत्याहन चेति। सत्ताभ्युपग स्यान्तर्भावे हेतुः प्रयोजनाभावः । तमुपपादयतिप्रमाणतर्काभ्यामिति। तद्व्युत्पादने - तदुद्भावने । अन्यथा तदुद्भावन इत्यर्थः । ननु प्रमाणतर्कादि समयबन्धस्य कथायां हेतुत्वं, तदनभ्युपगमे कथा प्रवृत्तिर्नस्यादित्यापादनेन समर्थनीयम् । तदापादनं च कथायां प्रवृत्तायामिति प्रमाणादिनियमं विना प्रवृत्तकथावदन्यापि कथास्यादिति नियमाभ्युपगमस्यापि सत्ताभ्युपगमवद्वृत्तिचाराद्धेतुत्वं न स्यादिति शङ्कतेन चेति। प्रयोजनवद्व्यवहारं प्रति हेतुत्वाभावेपि प्रमाणानियमस्य स्वेच्छयैव वादिभ्यां ग्रहरतिं परिहरतितत्वनिर्णयेति।अनादि पारम्पर्यगतस्येति। अनादि परम्परया आगते जयादिफलवत्वेन लोकप्रमाणसंवादिनीव्यवहारनियमे च असम्भवात् । अन्यथा भावाभावरूपस्वतश्शुद्ध्या सिद्धे फलविप्लवादिप्रसङ्गो न सम्भवतीति भावः । अन्यथा स्वेच्छयैरपूर्वैर्नियमाङ्गीकारे वयमपि स्वेच्छया सत्ताभ्युपगमस्य हेतुत्वमङ्गीकुर्म इत्यत्राहनचेति । व्यवहारनियममात्रेणेति। अनादिव्यवहारसिद्धनियममात्रेणेत्यर्थः । अन्वयव्यतिरेकवता साधनबाधनैस्सहेति शेषः । निरपेक्षेण सत्ताभ्युपगमनिरपेक्षेणेत्यर्थः । तादृशेतरदन्वयव्यतिरेकवद्भिन्नम्पूर्ववदिति। ततश्च तद्विचारे न सत्ताप्रवेश इति भावः । ननु पामरव्यवहार एव गृह््यते । ननु शरीरात्मप्रति सम्बन्धि शास्त्रश्रवणानन्तरं तद्बाधात्परित्यज्य इत्याशङ्कतेपश्चात्तनेति । सामान्यत इति। प्रपञ्चो मिथ्या दृश्यत्वादिति पक्षे विवक्षितं विशेषत इतिखण्डनोक्तप्रमाणादिखण्डनं विवक्षितम् । उद्धवाभिप्रायेण शङ्कतेअथेति। तथा च सामान्यतो विशेषतश्च बोधाबाधित इति भावः। तथापीति । प्रतिज्ञाभङ्ग इति ।भावः । दोषान्तरमाह ।बाधाभावेति। तद्विचारे च नसत्ताप्रवेशावकाश इति भावः ।प्रमाणादिति। तथापि न सत्वाभ्युपगममात्रेणार्थनिर्णयः । किन्तु साधुहेतुनैव ततश्च सत्तानभ्युपगमेपि नाति प्रसङ्गः । एवमप्यति प्रसङ्गापादने सत्वाभ्युपगमवादेपि तथास्यदित्यर्थः । परिहारान्तरमाहयथाचेति। सत्ताभ्युपगमस्य अपरिहार्यत्वं शङ्कते नन्विति। निष्पादनं तच्चेति। निष्पादनमित्यर्थः । तद्विषयः साध््यादिः।एभिरपीति। सत्ताभ्युपगमं विना कथाप्रवृत्तिरावश्यकीति तथैव सर्वकथापीति भावः ।स्वरूपव्याक्रियैव निराक्रियेति।न्यायेन पूर्वपक्षोपन्यासादेवसिद्धान्तस्सिद्ध इति पृथक्सिद्धान्तानभिधानम्।तथाहि नहि कथानधिकारः कथा व्यवहारमात्रेण मायिनां कथाधिकारस्सिद्धः तस्याः पूर्वपक्षित्वात् । नहि कथा विषयत्वमात्रे पूर्वपक्षित्वमपशूद्राद्यधिकरणविषयाणां शूद्रादीनां तदभावात् । अपितु सिद्धान्तानुसार्येवात्र पूर्वपक्षे । अन्यथा शून्यवादिनोपि तत्प्रसङ्गेन त्वया तन्निरासायोगात् । नचप्रयोजनविरहात् न सत्तायाः प्रवेशः । कथाफलमनतिप्रसक्तमभ्युपगतस्तस्या अपि प्रवेशस्यावश्यकत्वात् ।नच सल्लक्षणाभासादिभिः तत्सम्भवः । तेषामपि सत्वभ्युपगमाभावे तथैवातिप्रसङ्गादारोपितानां तेषां सर्वत्र सुलभत्वात् । नच व्यावहारिक व्यवस्थया व्यवस्थावदुक्तरीत्या तादृश व्यवस्थाया अपि प्रवेशायोगात् । तस्माद्वास्तवानामेव वास्तवजयपराजयहेतुत्वमनतिप्रसङ्गायाभ्युपगन्तव्यमिति प्रमाणादिसत्वशून्यानां कथानधिकार एव । ननु तर्हि प्रपञ्चमिथ्यात्वादिकथायां का गतिः । तैरेव कथायाःप्रवर्तनीयत्वात्तेषां चानधिकारादिति चेत् तेष्वधिकारमारोप्य प्रमाणादीनां सत्वमभ्युपगमय्य वा प्रवृत्तेः ।यद्वा शिष्यान्् प्रत्युपदेशमात्रमेवास्तु । तावतापि दोषाभावादिति केचित्तु सिद्धान्तग्रन्थपातमाहुः ॥ ॥वत्सकुलजलधिकौस्तुभनृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणीटीकायां नवमो वादस्समाप्तः॥