08 साधनचतुष्टयपूर्ववृत्तत्वभङ्गवादः

॥अथ साधनचतुष्टयपूर्ववृत्तत्वभङ्गवादः अष्टमः ॥8॥
शास्त्रैक्ये विषयाद्यभेदनियते सङ्गत्यधीन क्रमे
कर्माऽऽलोच्य तदङ्गिकामथ परां विद्यामुपादित्सुभिः।

यस्तद्वेद्यतया स्वयम्फलतयाऽप्यारोहति ज्ञेयतां
कुर्वीतैष विभुः श्रिया सह मम स्वान्तं निजान्तः पुरम् ॥
इह तावत् आनन्तर्यार्थे प्रचुरप्रसिद्धिकम् अथशब्दमादौ प्रयुञ्जानस्य सूत्रकारस्य तत्सम्भवे तदर्थतैवाभिमतेत्यङ्गीकार्यम् ।
तत्सम्भवश्च यदि नियतपूर्ववृत्तमसाधारणं तथात्वज्ञापने स प्रयोजनं चकिमपि स्यात्, तदा स्यात् ।
अन्यथा न स्यात्।
यथा"अथ योगानुशासनम्’’(पा.योग.सू.1.1) इत्यादौ ।
न हि यदृच्छागतं यत्किञ्चिन्निमेषोन्मेषादिकं
मक्षिकासञ्चारादिकं वा पूर्ववृत्ततयाऽत्र वक्तुं युज्यते, तस्य सर्वत्र सम्भवात्; अभिधानप्रयोजनविरहाच्च ।
अत एव सर्वपुरुषव्यापार-साधारणापेक्षितभोजनादि पूर्ववृत्तत्वोक्तिरपि निरस्ता; विशेषनियमाभावात् ।

अवधान-आत्ममनस्संयोगादिकमपि न विचारविशेषं प्रति विशेषहेतुः, सर्वशास्त्रसाधारण्यात् ।
सामग्री तु तथा स्यात् ।
तदुक्तिरपि यदि सामग्रीत्ववेषेण, तदपिसर्वकार्यसाधारण्यात् तदभिधाननैरर्थक्याच्च निरस्तम् ।
तेन सामग्रीविशेषविशेषकं विशेषकारणमेव वाच्यम् ।
अतः सप्रयोजनाभिधानासाधारणनियतपूर्ववृत्तवस्तुगवेषणे- नित्यानित्यवस्तुविवेकादिसाधन चतुष्टयं पूर्ववृत्तम्; तस्यैव ब्रह्मजिज्ञासायां नियमेनापेक्षितत्वात्; तदुक्तेश्चाधिकारिविशेषप्रतिपादनार्थतया सप्रयोजनत्वाच्चेति यदुक्तम्, तत् परामृशामः ॥
तत्र नित्यानित्यवस्तुविवेकस्तावत् कथम्भूत इति ।
किम् “इदं वस्तु नित्यम्, इदं वस्त्वनित्यम्’’ इत्येवमात्मा; उत “नित्यानित्ययोर्वसतीति नित्यानित्यवस्तु, तच्च नित्यानित्ययोर्धर्मः, हेयत्वोपादेयत्वे इत्यर्थः’’ इति वाचस्पतिकल्पितप्रकार इति

तत्र न प्रथमः; तस्य वेदान्तश्रवणात्पूर्वमसिद्धत्वात् ।
तत्रैव ह्यात्मादेर्नित्यत्वं वियदादेश्चानित्यत्वं विविच्यते ।
तथाचान्योन्याश्रयणम्,
“वेदान्तश्रवणे सिद्धे नित्यानित्यविवेकधीः ।
नित्यानित्यविवेकेन वेदान्तश्रवणं त्विति’’ ॥
अथ यदि शास्त्रान्तरात् तद्विवेक इति मन्यसे, तदा विपरीतविवेकापत्तिः ।
वियदादयो वैशेषि कादिभिर्नित्या एव परिगृह्यन्ते ।
आत्मादयश्च सौगतादिभिरनित्याः,असन्तो वा ।
अथादूरविप्रकृष्ट साङ्ख्य-योगशीलनेन तद्विवेक इति चिन्तयसि, तर्हि तत्रैवाऽऽत्मानात्मविवेकसिद्धेः किं ब्रह्ममीमांसया? अनन्यलभ्यं हि शास्त्रफलम् ।
विशेषज्ञप्त्यर्थमिति चेन्न; निर्विशेषे तदयोगात् ।
आत्माद्वैतसिद्ध्यर्थमिति चेन्न; स्वात्मनो नित्यनिर्लेपत्वादिव्यवसायमात्रेण समीहितसिद्धौ स्वव्यतिरिक्तात्मसदसद्भाव चिन्तनस्य ध्वाङ्क्षदन्तपरीक्षायमाणत्वात् ।
आत्मव्यतिरिक्तमिथ्यात्वावसायार्थमित्येतदपि तत एव दत्तोतरम् ।
तस्य सौगतसमयेऽपि सुलभत्वाच्च ।
उक्तं हि योगाचारेण, “अविभागोऽपि वित्त्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते’’ ।
इति ।
अथ वेदविरुद्धतन्त्रत्वात् ततो न निश्चय इत्याशयः; तर्हि सूत्रकारैरेव तद्वन्निराकरिष्यमाणसाङ्ख्यादितन्त्रैरपि नाश्वसिहि ।
“न हि तद्वा तादृग्वेति कश्चिद्विशेषः’ ‘इति न्यायात् ।
अविरुद्धांशं स्वीकुर्म इति चेत्, कस्तर्हि सौगतेषु ते प्रद्वेषः? तेष्वपि भवदुपजीव्या बहवोऽर्थराशयः सन्ति ।
कथं च, अयमर्थो न विरुद्धः, अयं तु विरुद्ध इति वेदान्तश्रवणात् पूर्वमवगच्छसि? तथाच तत्राप्यन्योन्याश्रयणम् ।
हितोपदेशिपित्रादिवचनविस्रम्भादिति चेत्, तर्हि तत एव नित्यानित्यवस्तुविवेकोऽपि सिध्यति; किं साङ्ख्यादिकपोलजलकणिकाखादेन? अस्त्वेवमपि, का नो हानिरिति चेत्; वेदान्तश्रवणहानिः ।
तदुपदेशमात्रेणालसास्तिकवत् समस्तार्थविस्रम्भोपपत्तेः ।
सर्वस्यापिविवेकस्य आत्मानात्मविवेकार्थतया तत्सिद्धौ ज्ञातव्यान्तरपरिशेषाभावात् ।
परिशेषे च निर्गुणत्वव्याघाताच्च ।
ख्यातिलाभपूजार्थप्रवचनादिकौतुकात् स्वयं तत्परीक्षणमिति चेत्; हन्तैवं साधुशमादिसाधनसम्पत् सम्पादिता ।
कामक्रोधादेरेव वेदान्तश्रवणनिमित्तत्वेनोपादानात् ।
ख्यातिलाभाद्यर्थश्रवणे च नित्यानित्वस्तुविवेकादेः क्वोपयोगः?
अथ वैधत्वान्मीमांसाश्रवणस्य स्वयं विमर्श इति तदपि न; अर्थनिश्चयसिद्ध्यर्थत्वात् विमर्शस्य ।
निश्चयो यद्युपदेशात् सिध्यति, किं वृथा प्रयासेन? अन्यथा प्रदक्षिणनमस्कारादिवत् अदृष्टार्थत्वमेव स्यात् मीमांसाश्रवणस्य ।
न च मीमांसाश्रवणस्य वैधत्वमिति प्रागेव समर्थितम् ।
अस्तु च वैधत्वम्, तथाऽपि नित्यानित्यवस्तुविवेकस्यापि स्वेतिकर्तव्यताभूतमीमांसाधीनस्यैव विधिना स्वीकारात्, तथाविधस्य च तस्य अविरोधलक्षणसाध्यत्वान्न पूर्वत्वसिद्धिः ।

यदि च वैधं वेदान्तश्रवणमिच्छसि, तदा कर्ममीमांसायां कुतस्ते कोपः ।
श्रूयते हि “स्थाणुरयं भारवाहः किलाभूत् अधीत्य वेदं न विजानाति योऽर्थम्’’ (यास्कनिरुक्तिः) इति ।
तेन कर्मभागश्रवणपूर्वकमेव ब्रह्मभाग श्रवणमिति सिध्यति ।
न तावत् अनधीतवेदस्य वेदान्तश्रवणमुपपद्यते; अनधिकारात् ।
न चोपनिषन्मात्राध्ययनं कस्यचित् शास्त्रार्थः; “स्वाध्यायोऽध्येतव्यः’’ (तैत्तरीयारण्यकं) इत्यखण्डग्रहणात् ।
तन्मात्राध्ययनविध्यश्रवणाच्च ।
कृत्स्नाध्ययने च कृत्स्नार्थविचारमेव विधिः प्रयुङ्क्ते ।
तथाच ब्रह्मविचारात्पूर्वं पश्चाद्वा कर्मविचारोऽपि कर्तव्य एवेति पश्य ।
तथाच सति यदि साधनचतुष्टयसम्पतिपूर्वकमश्रूयन्त वेदान्ताः, कथमसौ पुनरनपेक्षितं विरुद्धत्वाभिमतं कर्म जिज्ञासेतेति परिशेषात् कर्मविचारस्य पूर्वत्वसिद्धिः ।
यदा तु कर्म पूर्वं विचारितम्, तदा, “परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्’’ (मुण्ड-1-2-12) इत्यादिश्रुतिसिद्धप्रकारेण
ब्रह्मबुभुत्सा सम्भवतीत्यतोऽपि क्रमनियम इति कर्मविचारस्य पूर्ववृत्तत्वमवश्याश्रयणीयम् ।

एवं रागप्राप्तश्रवणपक्षेऽपि क्रमसिद्धिः ।
रागोऽपि साङ्गाधीतसशिरस्कवेदस्याऽऽपातप्रतीत सर्ववेदभागार्थस्य कर्मब्रह्मभागयोरविशेषेण सातिशयनिरतिशयसमस्तपुरुषार्थप्रतीतौ उभयत्राप्यविशेषेण प्रवर्तने क्रममपेक्षमाणः, स्वाध्यायानां
सर्वेषां प्रायशः कर्मोपक्रमत्वात् सारस्वताङ्गवत् मुख्यक्रमानुरोधेनस्वाध्यायेतिकर्तव्यताभूतमीमांसाक्रमं प्रयुञ्जानः, “काङ्क्षन्तःकर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रंहि मानुषे लोके सिद्धिर्भवति कर्मजा।
‘’(श्री भ.गीता-4-12) इति न्यायेन त्रिवर्गे प्रथमप्रावण्यरूपमर्थ क्रमञ्चापेक्षमाणः, “यज्ञेन दानेन’’(बृह-6-10-22) इत्यादिना यज्ञाद्यङ्गकोपासनविधौ यज्ञादि दृष्टान्तेषु यज्ञादिकल्पने च पदार्थभूतयज्ञादि स्वरूपाधिगमसाकाङ्क्षतया पूर्वमेव कर्मविचारक्षेपं पश्यन्, ब्रह्मविद्याङ्गभूतकर्मसमृद्ध्यर्थतया ब्रह्मदृष्टिरूपतया च शारीरके मुख्यसङ्गतस्योद्गीथविद्यादेश्च कर्माङ्गा श्रयतया तदाश्रयाङ्गकर्मपरिज्ञानज्येष्ठतामालोचयन् कर्मब्रह्ममीमांसयोः क्रमेण पुरुषं प्रवर्तयति ।

किञ्च प्रसङ्गचिन्तितस्याप्यर्थस्य प्रकृते केनचिदुपयोगेन भवितव्यम् ।
तत्र यद्यपि विद्यारूपत्वाविशेषात् इहोद्गीथविद्यादीनां
प्रसङ्गः सम्भवति, तथाऽपि तच्चिन्तनस्यात्र क उपयोगः ।
कर्मिणां तदनुष्ठानेन कर्मसाद्गुण्यार्थमिह चिन्तेति चेन्न; कर्मनिष्ठस्यात्र शास्त्रे त्वयाऽधिकाराभावकथनात् ।
अथ यदि कर्मवित् मध्ये समागत्य स्वोपयुक्तांशं कञ्चिच्चिन्तयत्विति मन्यसे, तदसत्; अनिरूपितब्रह्मस्वरूपस्य ब्रह्मदृष्टिरूपासु तासु चिन्तनानवकाशात् ।
तदाह “उद्गीथाद्युपासनानि कर्मसमृद्ध्यर्थान्यपि ब्रह्मदृष्टिरूपाणि ब्रह्मज्ञानापेक्षाणि’’ (श्री भाष्यं -जिज्ञा) इत्यादि ।
अथ स एव कर्मार्थं ब्रह्मापि चिन्तयेत्, तर्हि तत एवैकशास्त्र्यं तावत् सिद्धम् ।
प्रागुक्तनयेन क्रमश्च ।
गुणप्रधानभाववैपरीत्यमेव तु भवता साधितम् ।
ब्रह्मविदस्तु तच्चिन्तया क्वोपयोगस्त्वन्मते? कर्मविद्भ्यस्तदुपदेश उपयोग इति चेत्, तर्हि कर्मापि चिन्तयेत् अविशेषात् ।
अथ विविदिषार्थकर्मसाद्गुण्यसिद्ध्यर्थमिति पश्यसि, तथाऽप्यनुपयोग एव; विविदिषायां जातायामेव श्रवणे प्रवृत्तेः तत्रापि पूर्ववत् परोपदेशार्थत्वायोगात् ।
कर्मणां च वेदनाङ्गत्वस्य प्रागेव स्थापितत्वात् न विविदिषाङ्गकर्मसिद्धिः ।
ब्रह्मविद्याभ्यः पृथक्करणमेव प्रयोजनमिति चेन्न;तस्यैकाधिकरणमात्रसाध्यत्वात् ।
तथाचात्र चिन्तस्यादर्शनात्, प्रकारान्तरैरेव तु बहुशोऽत्र तासां चिन्तनात् ।
एवं कर्मविन्निरूपणे ब्रह्मवेदनापेक्षणात् ब्रह्मनिरूपणे च कर्मवेदनसापेक्षत्वात् अन्यतरविदोऽशक्यनिरूपणासु उद्गीथविद्यासूभयविद एव चिन्तनावकाश इति फलितम् ।
शारीरके च ब्रह्मस्वरूपनिरूपणानन्तरमेव तच्चिन्तनं सूत्रितम् ।
तस्मादत्रैव साक्षात्सङ्गतस्य तच्चिन्तनस्य प्रधानोपयोगापेक्षायामङ्गभूतकर्मसमृद्धिद्वारा अङ्गिनो वेदनस्य शीघ्रनिष्पादनं नाम महान् उपयोगः ।
तदप्याह “तान्यपि कर्माण्यनभिसंहितफलानि ब्रह्मविद्योत्पादकानीति तत्साद्गुण्यापादकान्येतानि सुतरामिहैव सङ्गतानि’’ (श्री भाष्यं जिज्ञा) इति ।

किञ्च, “अत्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत्’’ ॥इति न्यायात् कर्ममात्रेण चेत् अमृतत्वं लभ्येत, कःपुनः कर्माङ्गकात् (मी.शाबर भाष्यं) कर्मसमुच्चिताद्वाज्ञानादमृतत्वं लिप्सेतेत्येतदप्युक्तं प्रागेव ।
अतोऽपि कर्मण्येव प्राक्प्रवृत्तिः ।
कर्मणि तु निरूपिते न्यायपरिश्रान्तचेतस्तया उत्तरोत्तरातिशयितकर्मविधानादिभिः कर्मणामल्पास्थिरफलत्वमवसाय, तत्संवादकानि च, “परीक्ष्य लोकान्’’ (मुं.1-2-12) इत्यादीनि वाक्यानि प्रागापातधीजनकान्यपि निरूपितसंवादात् यथाश्रुतार्थानि सामान्यतो निश्चित्य, अनन्तस्थिरफलस्य केवलकर्मभिरलभ्यतां मत्वा, प्राचीनकर्मोपस्कृतज्ञानसाध्यानन्तस्थिरफलाऽऽपातप्रतीत्या प्रतिबन्धकरहितया सञ्जातबुभुत्सातिशयः शारीरकशास्त्रमारभेतेति स्थितमेतत् ।

कथञ्च नित्यानित्यवस्तुविवेकसिद्धये शास्त्रान्तरावकाशः? प्रागुपनयनात् कामचारवादभक्षितया यथोपलब्धकुक्षिम्म्भरेर्बालस्य शास्त्रान्तरावतारशङ्काऽपि नास्ति ।
उपनीतस्य वेदाध्ययने नियुक्तत्वात्अधीतवेदस्यापि तदर्थविचारे विधिना रागेण वा प्रेरितत्वात् तयोश्च विंशतिलक्षणीश्रवणमन्तरेणानुपरमात् ।
अक्रमप्रवृत्तांस्तु न शास्त्राधिकारिण इति स्वीकुर्मः ।
अन्यथेदानीमेव अतव्रतस्य अनधिगताङ्गस्य लिखितपठितस्वाध्यायस्यैव मीमांसाधिकारप्रसङ्गात् ।
सौगतादीनामप्यस्मन्मतदूषणार्थिनां ब्रह्मविचाराधिकारप्रसङ्गाच्च ।
अतो हेत्वन्तरान्नित्यानित्यवस्तुविवेकोऽयमाशामोदकायते ।
तेनान्यस्मात् तदसिद्धौ न तद्वतो ब्रह्मविचारः, तेनैव तद्वतेति तु मिथस्संश्रयः पुनरुन्मज्जति ।
एतदभिप्रायेण भाष्यम्-“नित्यानित्यवस्तुविवेकादयश्च मीमांसाश्रवणमन्तरेण न सम्पत्स्यन्ते’’ इत्यादि ।

एतेनैव द्वितीयोऽपि कल्पो दूषित इति भाष्यकाराभिप्रायः ।
तथा हि-यदि नित्यानित्यौ पदार्थौ प्रमाणेन निश्चित्य तद्गते हेयोपादेयत्वे विविच्येते, तदा पूर्वोक्तमेवोत्तरम्, चक्रकापत्तेः ।
अथ नित्यमस्तिचेत्, तदुपादेयम्; अनित्यं चेत्,
अनुपादेयमित्येवमात्मविवेकः-तदपि मन्दम्; अपुरुषार्थत्वे नित्यस्यापि अनुपादेयत्वात्, अनित्यस्यापि पुरुषार्थतायामुपादेयत्वात् ।
अत एव ह्यनित्यस्वरूपस्य मोक्षसाधनस्य अनुष्ठानम् ।
अथ पुरुषार्थेषु नित्यमस्ति चेत्, तदेवोपादेयमिति विवेकः एवंविधसंशयात्मकविवेकस्तु शास्त्रान्तरे कर्मविचारेऽपि प्रवर्तयितुमलमिति नासाधारण्यम् ।
तत्रापि
हि, “अपाम सोमममृता अभूम’’ (तै.सं.3-2-5) “अक्षय्यँ ह वै चातुर्मास्ययाजिनः सुकृतं भवति’’ (आप श्रौत-8-2-2) इति नित्यफलापातप्रतीत्या संशय उपपद्यते ।
वस्तुतस्तत्र नित्यफलं नास्तीति चेत्, किमतः? अधिकुर्वाणस्य तदनिश्चयात् ।
आप्तवाक्यादेवाऽऽदौ निश्चिनोतीति चेत्; तर्ह्यत्रापि तत एव नित्यमस्तीति निश्चिनुयादिति, “नित्यमस्ति चेत्’’ इत्येवंरूपयद्युपनिबन्धनानुपपत्तेः तथा निश्चये च प्राग्वदेवोत्तरम् ।
यदि नित्यमस्तीति सामान्यतो विस्रम्भः, तर्हि इदं नित्यम्, इदमनित्यमिति विविच्योपदिष्टेऽपि शक्यं विश्वसितुम् ।
तथाच वृथा वेदान्तवाक्यविचारः इति ।

या च शमदमादिसाधनसम्पत्, सा किं श्रवणौपयिकतादात्विकावधानरूपा विवक्षिता, उत “शान्तो दान्तः’’ (बृह.6-4-23) इत्याद्युक्तजितेन्द्रियत्वरूपेति ।
पूर्वस्यास्तावत् हेतुत्वमिच्छामः तस्याः सर्वग्रन्थश्रवणसाधारण्यात् “नासौ वेदान्तश्रवणे
विशेषः’’ इति नात्र तद्विवक्षा युक्ता ।
साङ्ख्यादि श्रविणोऽपि हि तादृग्विधतादात्विकशान्त्यादिसम्पत् युक्तैव ।
द्वितीया तु न श्रवणं प्रति साधनम्, “शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत्’’ (बृह.6-4-23) इति दर्शनसाधनतया तच्छ्रुतेः ।
न च तद्दर्शनं श्रवणफलमिति दर्शनसाधनभूतश्रवणाङ्गत्वं शमादीनामिति वक्तुं युक्तम्; श्रुतहानाश्रुतक्लृप्त्यादिदोषप्रसङ्गात् ।
अविधेयज्ञानवाद-शब्दजन्यप्रत्यक्षयोश्च निरस्तत्वात्(वादौ - 4-7) ।
एषां च शमादीनां ब्रह्मविद्याङ्गतयोपादेयत्वं साधनलक्षणे शमदमाधिकरणे(ब्र.सू.3-4-21)ऽवगन्तव्यम् ।
अत एते शमादयः कथं शारीरकश्रवणात्पूर्वमुपात्ताः स्युः? अयमत्र सङ्ग्रहः-
“शान्त्यादयो विधास्यन्ते विद्याङ्गत्वेन संयुताः ।
शास्त्रारम्भे कथं तेषामुपयोगस्त्वयोच्यते’’ ॥
इदं चोक्तं भाष्ये “नित्यानित्यवस्तुविवेकादयश्च’’ इति आदिशब्देन सङ्ग्रहात् ।
तथा शमादीनां साधनत्वावगतेः कर्ममीमांसापेक्षतया कर्मविचारपूर्ववृत्तत्वस्य दुस्त्यजत्वमप्युक्तम्-“एषां साधनत्वंविनियोगावसेयं विनियोगश्च श्रुतिलिङ्गादिभ्यः ।
स च तार्तीयः’’ इति ।
यद्यपि शारीरकमीमांसायामेवापेक्षिताः श्रुतिलिङ्गादयोपि व्युत्पादयितुं शक््यन्ते तथाऽपि सङ्गतिविशेषात् सामान्यतस्तृतीयाध्याय एव तद्व्युत्पादनं प्राप्तमिति सिद्धोपयोगमात्रमत्र कर्तव्यम्; न पुनस्तद्व्युत्पादने प्रयतितव्यम् ।

इदं च तार्तीयश्रुत्यादिसापेक्षत्वाभिधानं प्रदर्शनार्थम्; कथं वेदप्रामाण्यस्थापनमन्तरेण तदर्थभूत ब्रह्मविचारोऽपि स्यात्? तत्प्रामाण्यं च प्रथमाध्यायसाध्यम् ।
कथं च सामान्यतः शास्त्राणां शास्त्रार्थानां वा द्वैतीयभेदाभावे दुरनुष्ठानतादुःस्थं प्रामाण्यं प्रतिष्ठितं भवेत्? कथं वा विद्याख्येषु शास्त्रार्थविशेषेषु भेदाभेदचिन्तावकाशः? तेन शब्दान्तरादयो द्वैतीयाः विशेषतश्चिन्त्याः ।
तार्तीयोपयोगस्तु दर्शितस्थलान्तरेभाव्यः श्रुतिलिङ्गादेस्सर्वत्रापेक्षणात् ।
उद्गीथविद्यादेः क्रत्वर्थत्वपुरुषार्थत्वादिविमर्शस्तु तौर्यप्रयुक्तिसापेक्षः ।
षोढाविभक्त-पाञ्चमिकक्रमप्रमाणापेक्षिणी च अर्चिराद्यातिवाहिकगणपौर्वापर्यव्यवस्था ।
कर्तृलक्षणन्यायोपजीविनी च ब्रह्मविद्याधिकारवर्णाश्रमादिधर्मविशेषस्थापना ।
एवम्, “तेषामेकैक एव तावान् यावानसौ पूर्वः’’ (?) इत्यादिष्वप्यतिदेशादिसापेक्षत्वमनुसन्धेयम् ।
सूत्रकारोऽपि तदुक्तमित्यादिना कर्ममीमांसायां सामान्यन्यायान् पृथक्सिद्धानुदाहरति (?) इति भवद्भिरपि व्याख्यातमेव ।
न चायं शारीरके वक्तव्यमेव तन्द्रालुतया परोपजीवनेन दर्शयतीति वाच्यम्; तत्र तत्रैव तत्सङ्गतेः स्थापितत्वात् ।
न च प्रसिद्धैर्न्यायैः स्वयमेव वेदप्रामाण्यादिकं विचारयामः, किं जैमिनीयेनेति वाच्यम्; तथाऽपि कर्मविचार पूर्ववृत्तत्वस्य दुष्प्रतिक्षेपत्वात् ।
तत्र विचारसागरे परिप्लवमानानां यदि जैमिनिना कर्णधारायितम्, स एष क्षम्यतामपराधः ।
एवं च लोकोत्तरप्रज्ञेन भवता बादरायणीयमपि नादरणीयम्; अविशेषात् ।
न चायं क्रमनियमोऽर्थस्वाभावादापतन् जैमिनीयो बादरायणीयो वा, येन तत्राभ्यसूयिष्यति ।
अतः कात्स्नर्येन कर्ममीमांसासापेक्षत्वप्रदर्शनार्थमेव शमादिसाधनत्वावगतेस्तार्तीयापेक्षाभाषणम् ।

यद्यपि इहामुत्रफलभोगविरागमुमुक्षुत्वे पूर्ववृत्तत्वेन भाषिते (यद्यपि इहामुत्रफलभोगविरागो मुमुक्षुत्वं चेत्युभयं नियतपूर्ववृत्तमसाधारणं सप्रयोजनाभिधानं चेत्यभ्युपगच्छामः, तथोक्तं भाष्ये-), “अधिगताल्पास्थिरफलकेवलकर्मज्ञानतया सञ्जातमोक्षाभिलाषस्य अनन्तस्थिरफलब्रह्मजिज्ञासा ह्यनन्तरभाविनी’‘ति (श्री-भाष्यं-जिज्ञा) तथाऽपि पुरुषप्रवृत्तिक्रमविशेषसूचनस्वारस्यात् कर्मविचारपूर्ववृत्तत्वोक्त््यैव तयोरप्यर्थलब्धत्वात्, अनन्तस्थिरफलतया प्रथममापातप्रतीतकर्माख्यप्रतिबन्धकनिवृत्तिसूचनेन निर्विघातब्रह्मविचारारम्भद्योतनात्, यज्ञादिवाक्यार्थापेक्षितपदार्थ
निश्चयवत्त्वव्यञ्जनात् यथावस्थितब्रह्मतदुपासनादितत्त्वावगमहेतुभूतन्यायकलापशीलनोद्भेदात् अपवर्गोपायभूतोपासनापेक्षितानभिसंहितफलसहकारिवर्गस्वरूपनिश्चयांशोपजीवनाभिप्रायाच्च कर्मविचारस्यैव पूर्ववृत्तत्वोक्तिः प्रयोजनवत्तामेतीति तामेवाद्रियामहे ।
अव्यवहित पूर्ववृत्ततया वक्तव्यमिति चेत्, तर्हि मुमुक्षुत्वमेकमेव त्वयाऽपि वक्तव्यम् ।

तदर्थतया पूर्वेषामुक्तिरिति चेत् तुल्यम् ।
प्रयोजनाधिक्यं मिथस्संश्रयाद्यभावश्च विशेषः ।

एतेन तापत्रयाभिहतिपूर्ववृत्तत्ववादिनोऽपि प्रत्युक्ताः, तापत्रयाभिहतिमात्रस्य मन्त्रौषधिनीतिशास्त्रादिप्रवृत्तिसाधारण्यात् ।
दृष्टानुश्रविकविषयवितृष्णापर्यन्तायास्तु तस्याः कर्मविचारसापेक्षत्वस्थापनात् ।
तथोक्तं साङ्ख्यैरपि,
“दुःखत्रयाभिधाताज्जिज्ञासा तदुपघातके हेतौ ।

4दृष्टे साऽपार्था चेत्-नैकान्तात्यन्ततोऽभावात् ’’ ।

“दृष्टवदानुश्रविकः स ह्यविशु शुद्धि क्षयातिशययुक्तः ।
(साङ्ख्यकारिके 1-2) इति ।

एवं कर्मपरीक्षोपबृंहितैव सा भाष्येऽप्युक्ता, “तापत्रयातुरैरमृतत्वाय स एव जिज्ञास्यः’’ (श्री भाष्यं जिज्ञा) इति ।
श्रुतिश्च,
“परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्’’ (मुण्ड-1-2-12) इत्यादिका ।

अतः, “अथातो ब्रह्मजिज्ञासा’’ (ब्र.सू.1-1-1) इत्यत्र न साधनचतुष्टयाद्यानन्तर्यं सूत्रकृदभिप्रेतम्, अपि तु कर्मविचारानन्तर्यमेव ।
तथा च वृत्तिकारः “वृत्तात् कर्माधिगमादनन्तरं ब्रह्मविविदिषा’’ (बोधायनवृत्तिः) इति ।
अयं च पक्षो भास्करैरप्यङ्गीकृतः ।
निरीश्वरमीमांसकैरपि, “कृत्स्नाध्येतुर्निश्शेषवेदार्थविज्ञानाय मीमांसारम्भः’’ (?) इति वदद्भिः कर्मोपक्रमं शास्त्रमर्थतो ब्रह्मविचारशिरस्कमित्यभ्युपगन्तव्यमेव ।
न च द्वादशाध्यायमात्रे शास्त्रं पर्यवसितम्; शबरस्वामिप्रभृतिभिः सङ्कर्षकाण्डांशस्थसूत्रोपादानात् ।
“शास्त्रान्तत्वादुपनिषद्भागचिन्ता’’ इति पक्षस्य च त्वदीयैः कैश्चित् परिग्रहात्’ इति ॥
इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां साधनचतुष्टयपूर्ववृत्तत्वभङ्गवादः अष्टमः ॥8॥

नृसिंहराजीया

अथ शब्दस्यानन्तर्यार्थकत्वे सत्येव शास्त्रयैक्यं निर्वहेदिति प्रासङ्गिकनिरूपणानन्तरं कर्मानन्तर्यं निरूपयितुं सङ्गतिं दर्शयन्वादार्थं सूचयन् शास्त्रैक्यं सयुक्तिकमनुवदतिशास्त्रयैक्य इति। वादार्थं कर्मविचारानन्तर्यमाह।कर्मालोच्येति। केचित्तु अपरोक्षार्थविषयतया आपरोक्षये अनुमानादीनामपि तथात्वप्रसङ्गेन ब्रह्मगोचरापरोक्षाज्ञानरूपाविद्यायां शूद्रस्याप्यधिकारसम्भवेऽपशूद्राधिकरणविरोध ः आपादितः । तत्रेष्टप्रसङ्गे कर्मविचारानन्तर्यप्रतिपादकसूत्रस्थाथशब्दविरोधप्रसङ्ग इति सूचयन् वादार्थं सङ्गृह्णाति । शास्त्रैक्य इत्याहुः । अथशब्दस्य कर्मविचारानन्तर्य साधयिष्यन् पूर्वपक्षिमुखेनान्तर्यार्थकत्वं प्रथमं साधयति ।इह तावदिति। ननु नित्या नित्यविधेयस्यैव पूर्ववृत्तित्वमिति कुतो निर्धायते । अन्यस्यापि सम्भवादित्यत्राहतत्सम्भवश्चेति। यत्र सप्रयोजनजनितपूर्ववृत्तस्य असम्भवः । तत्राथशब्दो अधिकारार्थत्वेन व्याख्यान इत्याहअथ योग इति। एवमपि कथमन्येषां निरास इत्यत्राहनहीति। तत्र किं पूर्ववृत्तम् । यदृच्छासिद्धमक्षिकासञ्चारादि । यद्वा निमेषोन्मेषादिकम् । नाद्य इत्याहसर्वत्रेति। नियतत्वाभावात् यदृच्छासिद्धानां तदानन्तये नाभिधेयमिति भावः । नद्वितीय इत्याहअभिधान इति । अत एवेति। प्रयोजनाभावादेवेत्यर्थः । दूषणान्तरमप्याहविशेषेति। व्यर्थव्यापारं प्रत्यपि पूर्वाभावेन वेदान्तविचारं प्रत्येव असाधरण्याभावादित्यर्थःअवधानेति। इन्द्रियाणां विषयान्तरासञ्चारोऽवधानम् । आदिशब्देन व्युत्पत्यादिकं गृह्यते । प्रयोजनाभावमप्याहतदभिधान इति। नियमेनापेक्षितत्वमाहतस्यैवेति। सप्रयोजनत्वं चाहतदुक्तेश्चेति। सिद्धान्तमारभतेतत्परामर्श इति । इत्येवमात्मेति। इत्येवं विवरणोक्तनिश्चयइत्यर्थः ।हेयत्वोपादेयत्वे इति। तन्निश्चय (जनकत्वं चाह - तदुक्तय श्चेति) इत्यर्थः । तत्रैवेति नात्माश्रुतेर्नित्यत्वाच्चताभ्यः (ब्र.सू.2 - 3 - 28) ““न वियदश्रुतेः’’ (ब्र.सू.2 - 3 - 2)रित्यादिभिरित्यर्थः । आदिशब्देन स्वमतेन कालादयो गृहन्ते । अन्योन्याश्रयं कारिकयोपपादयतिवेदान्तेति। विरुद्धनिश्चयमेव उपपादयतिवियदादय इति । आदिपदेन चार्वाकादयः । सौगताः क्षणिकसन्तानमाहुः ।चार्वाका आत्मनोऽभावमाहुः । माध्यमिकास्तु मिथ्याभूतमाहुरिति भावः ।अदूरेति। साङ्ख्ययोगयोः प्रकृत्यादिपृथिव्यन्तसृष्टयुपवर्णनसाम्याद्वेदान्तादूरविप्रकृष्टत्वम् ।तर्हीति। आत्मानात्मविवेकार्थेव ब्रह्ममीमांसा । तस्य च तत्रैव सद्धेर्ब्रह्ममीमांसायां प्रवृत्तिर्नस्यादित्यर्थः । अनयापि तत्सिद्धेरत्रापि प्रवृत्तिस्यादित्यत्राहअनन्यलभ्येति।नियतापेक्षिततेन शास्त्रान्तरेण विवेकसिद्धावेतस्य निष्फलत्वमेवस्यादित्यर्थंः । अनन्यलभ्यार्थत्वं शङ्कते विशेषेति। अद्वैतत्वमेवविशेष इति शङ्कतेआत्माद्वैतेतिमोक्षोपायाधिगमार्थं हि ब्रह्ममीमांसायां प्रवृत्तिः । साङ्ख्यशास्त्र एवात्मनो निर्लेपादिव्यवसायस्य मोक्षसाधनतया प्रतिपादनात् ब्रह्मणः स्वव्यतिरेकानतिरेकचिन्तायाः व्यर्थत्वात् ब्रह्ममीमासायां प्रवृत्तिर्नस्यादितीत्याहस्वात्मन इति। नन्वात्मव्यतिरिक्तमिथ्यात्वाध्यवसायस्यैवमोक्षहेतुत्वात्कथं निरस्तेत्यत्राहतस्येति। तथापि सौगतशास्त्रात्तदपि सुलभमिति भावःअविभागोपीति।ग्राह्यग्राहकभेदर हित ज्ञानस्वरूपमेव आत्मा । ततोऽतिरिक्तंवस्तु मिथ्यैव । तर्हि ग्राह्यत्वे ग्राहकत्वेन वस्तुप्रतीतिः कथमित्यत्राहविपर्यासितेति। भ्रान्तिज्ञानेन तथा गृह्यत इति न तत्सत्यतेति भावः। तर्हीति। सूत्रकारैर्निराकरिष्यमाणत्वात् । साङ्ख्यादिशास्त्रमपि वेदविरुद्धमेवेति तेनापि नित्यानित्यवस्तुनिर्धारणाश्वासः तव न सम्भवतीति भावः । ननु महर्षिप्रणीतत्वमित्यतिशयोस्तीत्यत्राहनहीतिवेदविरोधादेव सौगततन्त्रस्य अप्रामाण्यमुक्तम् । तच्च महर्षिप्रणीते साङ्ख्यतन्त्रे समानमित्यर्थः ।तेष्वपीति।ततश्च मिथ्यात्वाध्यवसायार्थं सौगतशास्त्रेपि प्रवृत्तिस्यादित्यर्थःकथं चेति। आत्मनित्यत्वमविरुद्धमिति वेदान्तैरात्मनित्यत्व निर्णयात्प्राक्कथं निश्चीयत इति भावः । इदमुपलक्षणम् । वेदान्तविचारात्प्राक् सौगततन्त्रस्य वेदविरुद्धत्वमप्यशक््य निर्णयमिति द्रष्टव्यम् ।तथा चेति। वेदान्तश्रवणानन्तरं वेद विरुद्दांश निर्णयः तन्निर्णये वेदान्तशास्त्र विचाराधिकार इत्यन्योन्याश्रय इत्यर्थः।हितेति।अविरुद्धांशनिर्णयनिर्णयाभावः ।तत एवेति। हितैषिवचनादे (ज्ञातत्वम् इत्यत्र)व आत्मानात्मविवेकोपि सिध्यतीत्यर्थः । समस्तार्थ विस्रम्भः - ज्ञातव्यार्थनिर्णयः ।ननु नित्यानित्यवस्तु विचारमात्रं हितैषिचनाज्जातम् अर्थान्तरनिरूपणार्थं शास्त्रं स्यात्सर्वस्यापि हितैषिवचनात् ज्ञातव्यमित्यत्र नियमाभावादित्यत्राह ।सर्वस्यापीति। विवेकविचारस्य सिद्धौ आत्मानात्मविवेकस्येति शेषः । नन्वगत्या ज्ञातव्यान्तरमिष्यतइत्यत्राहपरिशेषेचेति। मुमुक्षुज्ञातव्यस्य कल्पितत्वाभावात् सत्यत्वं वाच्यमिति विशेषत्वं स्यादिति भावः ।प्रवचनादित्यादिशब्देन कल्पशास्त्र प्रवर्तनादि गृह्यते। हन्तेति। शमदमादि पूर्ववृत्तं न स्यादिति भावः । क्रोधादेरित्यादिशब्देन पूजादिग्रहणम् । किमर्थं निश्चयार्थत्वेन विधिरुत अन्यार्थत्वेनेति विकल्प्याद्यं दूषयतिअर्थनिश्चयेति। विधिवैयर्थ्यम्मित्यर्थः । द्वितीये दोषमाहअन्यथेति। दृष्टार्थत्वे सम्भवत्यदृष्टार्थत्वायोगादिति भावः । फलस्य सिद्धत्वान्न तदर्थं श्रवणमित्युक्तम् । इदानीं रागप्राप्तत्वान्न विधिरिति पूर्वोक्तं स्मारयतिनचेति।तथापीति। मीमांसायाः विधिः स्वेतिकर्तव्यत्वेनातरङ्गत्वात् तज्जन्यमेव नित्यानित्यवस्तुविवेकं विचाराधिकारतया स्वीकरोति नतूपदेशसाध्यम् । तादृशमीमांसाधीनश्च नित्यानित्यविवेको द्वितीयाध्यायसाध्य इति न तस्य पूर्ववृत्तत्वमित्यर्थः । नन्वस्मादेवासम्भवात् वेदान्तशास्त्रबहिष्ठविचारादिसाध्य नित्यानित्यवस्तुविवेक एवाधिकारस्यात् । न द्वितीयाध्याये तन्निरूपणं व्यर्थं तस्य दार्ढ्यन्त्वादिति चेन्मैवम् । तद्दार्ढ्याभावे आपातप्रतीतिरूपतयापि शिष्य पूर्वोक्त््ययोगात् । दृढ तरं तु द्वितीयसाध्यमिति न पूर्ववृत्तत्वमिति भावः। ननु वेदान्तवाक्यस्य विधिरस्ति कर्मविचारस्येत्यत्राह ।श्रूयतेहीति। तस्य कर्मब्रह्मकाण्डसाधारणत्वादिति भावः । अस्तु को दोष इत्यत आहतेनेति। पूर्वोत्तर भागविधिनुष्ठाने क्रममाकाङ्क्षमाणः प्राजापत्यपशुपदार्थानुष्ठानक्रमवद्विचार्यस्य क्रमानुसारेण तदितिकर्तव्यतारूप विचारक्रममङ्गीकरोतीति पूर्वमीमांसायाः प्राथम्यमित्यर्थः। प्रकारान्तरेणापि क्रममुपपादयतिन तावदिति । अनधिकारादिति"“स्थाणुरयमिति’‘वाक्येऽधीतवेदस्तद्विचारये दिति विधिपर्यवसाने नाध्ययनस्य तदधिकारत्वादिति भावः नतूपनिषन्मात्राध्ययने विचारो युक्तः अधिकारस्य सत्वादित्यत्राहनचेति । कस्यचिदिति। कस्यापि मते अध्ययनविध्यर्थो न भवतीत्यर्थः। विहिताध्ययनस्यैव (अधिकारत्वाप्येकदेश) विचारविधावधिकारः कृत्स्नस्वाध्यायाध्यमनस्यैव विधानान्नैकदेशाध्यायिनो विचाराधिकार इति भावः । ननु कृत्स्नाध्ययनस्य अधिकारत्वेप्येकदेश विचारः कुतो न स्यादित्यत्राहकृत्स्नेति। ““अधीत्य वेदं विचारयेदि’‘त्यत्राधीतस्वाध्याय मात्रस्यैव विचारविषयतया प्रतीतेरिति भावः ।ननु भवतु विचारद्वयकर्तव्यत्वं तथापि कर्मविचारस्य पूर्ववृत्ततमित्यत्राहतथा च सतीति। विचारद्वय कर्तव्य तायां सिद्धायां ब्रह्मविचारानन्तरं ब्रह्मविचारापेक्षित शमदमादिविरुद्धस्य कर्मविचारस्यासम्भव एव स्यादिति ब्रह्मविचारात्प्रागेव कर्मविचार इति भावः । विचारद्वय कर्तव्यत्वे सिद्धे किं प्रथमं विचार्यमिति विशये त्रिवर्गे प्रथमप्रावण्यात्कर्मविचारमतिक्रम्य ब्रह्मबुभुत्साविरहात्तदर्थं तद्विचारासम्भवात्तद्विविदिषार्थं कर्मविचारः पूर्वं भविष्यतीत्याहयदात्विति। प्रसङ्गादाहएवमिति। तदेवोपपादयतिरागोपीति । स्वाध्यायेति।कर्तव्यताभूतेत । इदं च पञ्चमेचिन्तितं"“मुख्यक्रमेणचाङ्गानां तदर्थत्वा’’ (जै.मी.सू.5 - 7 - 2 - 1)दित्यधिकरणे"“सारस्वतौ होमौ भवतः’’(तै.सं.3)इति विहितयोरेतद्वैन्धव्यमिथुनमिति स्त्रीपुंसदैवत्यत्वं निश्चितम् । तत्र च याज्यापुरोनुवाक्यक्रमात् स्त्रीदेवत्यं पूर्वं पुन्देवत्यं पश्चादिति प्रधानयोः क्रमे सिद्धे तत्क्रमानुसारेण निर्वापादिक्रम इति निर्णीतम् ।तद्वत्क्रम इति। कर्तव्यतात्वं च स्वाध्यायं प्रति मीमांसायाः ““धर्मे प्रमीयमाणे ही’’ त्यादिनेति भावः ।अर्थ क्रमं चेति । ““अग्निहोत्रं जुहोति’’(तै.सं.1 - 7 - 5 - 2) ““यवागूं पचती’‘त्यत्रासामर्थ्यरूपोऽर्थः क्रमनियामकत्वेन स्वीकृतं"“अर्थाद्वेत्’‘यविधिकरणे इत्यर्थः । अत्रापि त्रिवर्गप्रावण्यनिवृत्तिं विना मोक्षकामना न सम्भवति । कर्मविचारस्य प्रतिबन्धकनिवृत्तिसंवादकतयापि प्राथम्यमिति भावः ।यज्ञाद्यङ्गकेति ।विद्यां प्रति कर्मणामङ्गत्वविधावित्यर्थः ।यज्ञादिदृष्टान्तेष्विति"“भूम्नः क्रतुवज्यायस्त्वं तथाच दर्शयति’’ (ब्र.सू.3 - 3 - 77) ““पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत्’’ (ब्र.सू.3 - 3 - 44) ““अक्षरधियान्त्ववरोद्यस्सामान्य तद्भावाभ्यामौपसदवत्तदुक्तं’’ (ब्र.सू.3 - 3 - 33)मित्यादावित्यर्थः ।यज्ञादिकल्पनेचेति"“तस्यैवं विदुषो यज्ञस्यात्मा यजमानश्रद्धापत्नी’’ (तै.ना.80 अनु)त्यादिनेत्यर्थः ।कर्मविचारापेक्षं पश्यन्निति। अनेनार्थक्रमो दर्शितः । कर्मज्ञानस्य विद्याज्ञानार्थमपेक्षितत्वात् । ननु प्रासङ्गिकोद्गीथविद्यापेक्षत्वमात्रेण न पूर्ववृत्तत्वं युक्तम् । सूत्र प्रतिज्ञानपेक्षितत्वादित्यत आहमुख्यसङ्गतस्येति। तत्र हेतुःब्रह्म विद्याङ्गेति। एवमप्युद्गीथ विद्यायाः कर्मकाण्ड एव विचारोऽस्त्वित्यत्राहब्रह्मदृष्टिरूपेति। एवं च कर्मविचारस्तृतीयसङ्गतोपि तत्र बहुतया ब्रह्मविचाराद्बहिःकर्तव्ये पूर्वमेव कर्तव्यमित्यर्थः । ब्रह्मविद्याङ्गकर्मसमृध्यर्थतया साक्षात्सङ्गतिरस्तीत्युक्तम् । इदानीं प्रसङ्गसङ्गतेरभावात् साक्षादेव सङ्गतिरित्याहकिञ्चेति। यद्यत्र प्रसङ्गतश्चिन्त्यते तस्य तत्रोपयोगेन भवितव्यम् अत इहाप्युपयोगो वाच्य इत्यर्थः । ननु विद्यारूपत्वेन साजात्यमेव प्रसङ्गः । सतूपयोगाभावेपि विद्यत इत्यर्थः इत्यत्राहयद्यपीति। नहि वयं साम्याभावं ब्रूमः किन्तु तेन न निरूपणमिति ब्रूम इत्यर्थः । ननूपयोगमात्रं विचारप्रयोजकं त्विहोपयोगोपीत्याशङ्कतेकर्मणामिति। नन्वत्र शास्त्रेऽधिकाराभावात्कृत्स्नविचारे मा प्रवर्तिष्ट तन्मात्रविचारे प्रवर्ततामिति शङ्कतेअथेति। परिहरतितदसदित्यादिना। अत्र भाष्यवाक्यं संवादयतितत एवेति । तदाहेति।यदि कर्मार्थमुद्गीथ विद्या निरूपणाय ब्रह्म चिन्तयेत् तर्हि ब्रह्मचिन्तायाः उद्गीथद्वाराकर्मार्थत्वात्कर्मब्रह्मशास्त्रयोरैकशास्त्र्यं सिध्यतीत्यर्थः । नैतावदेव अनिष्टान्तरमपि सिध्यतीत्याहप्रागिति।ऐकशास्त्र्ये सति क्रमाकाङ्क्षायां मुख्यक्रमानुरोधादित्याशयेन क्रमोऽपि सिध्यतीत्यर्थः । अनिष्टान्तरमप्याहगुणेति। ब्रह्मोपसर्जनतया हीतरेषां निरूपणमिति सिद्धान्तः । त्वया तु ब्रह्मण एव इतरोपसर्जनतया निरूपणं साधितमिति केवलमनिष्टप्राप्तिरेवेत्यर्थः । उपयोगमात्रेण सप्रयोजनत्वमङ्गीकृत्यैवोक्तम् ।इदानीमिहोपयोगाभावे एतदधिकारिणस्तत्रप्रवृत्त्यसम्भवादिह तन्निरूपणं न स्यादित्याहब्रह्मविदस्त्विति।कर्मापीति। ब्रह्मवित्कर्मापि चिन्तयेदित्यैकशास्त्र्यं स्यात् । यदि च मोक्षसाधनश्रवणादिव्यासक्तस्यमुमुक्षोस्तदसम्भवः तदा उद्गीथचिन्तापि न स्यादिति भावः ।तथापीति।ब्रह्मविद इति। शेषः । तदेवोपपादयति ।विविदिषायामपीति। ननु स्वस्य विविदिषायां जातायामपि परस्य विविदिषोत्पादनाय तदर्थकर्मसाद्गुण्यार्थं प्रत्युपदेशायोद्गीथादिचिन्तन मित्यत्राहतत्रापीति। कर्मणोऽपि विचारप्रसङ्गादित्यर्थः ।न विविदिषाङ्गेति।प्रासङ्गिकत्वे ब्रह्मविचारे उद्गीथविद्या न स्यादिति साक्षात्सङ्गतिरेव वाच्चेत्यर्थः । नच प्रसङ्गान्निरूपणोच्छेदः ।कर्मविचाराधिकाम्यतयैवोपयोगितयैव विशेषलक्षणे सङ्गतस्याद्योपादानिकशेषत्वस्य"“प्रयुक्तध्याये’’ चितन्नादिति भावः। तथाचात्रेति। उद्गीथविद्याब्रह्मविद्याचोदनेति विचाराभावादित्यर्थः । हेत्वन्तरेणापि साक्षात्सङ्गतिं साधयतिएवमिति। विचारद्वयसापेक्षतया पृथत्वेन निरूपणीयस्यास्य ब्रह्मचिन्तायां निरूपणम् । तत्रैव साक्षात्सङ्गतिं द्योतयतीति भावः । ननु प्रसङ्गादपि तत्र तन्निरूपणोपपत्तेः कथं साक्षात्सङ्गतिरित्याशङ्कामात्रं निराकरोतिब्रह्मस्वरूपनिरूपणानन्तरमिति। तथा ब्रह्मविद्यानिरूपणा नन्तरमेव तन्निरूपणं स्यात् न च तथा निरूप्यते । कन्तु ब्रह्मनिरूपणानन्तरमिति । साक्षात्सङ्गतमित्यर्थः । साक्षात्सङ्गता वा कथमुपयोग इत्यत्राहप्रधानेति।अत्र भाष्योक्तिं संवादयतितदाहेति। अनभिसंहितफलानिविद्यातिरिक्त फलकामनां विना कृतानि । नित्यफलेच्छायामपि कर्मविचारस्यैव पूर्ववृत्तत्वमित्याहकिञ्चेति।सिसित्साविति। अयत्नेनेति शेषः ।कर्ममात्रेणेति। आपातप्रतीतिदशायां तत्राप्यक्षयफलत्व प्रतीतेः ।“सर्वेभ्यः कामेभ्य’( जै.मी.सू.3 - 3 - 1) इत्यादिना सर्वान्तर्गतमोक्षफलत्वप्रतीतेश्चेति भावः ।प्रागेवेतिऐकशास्त्र्यसमर्थन स्थल इत्यर्थः । न्यायपरिश्रान्तचेतस्तथेति सम्यगभ्यस्तन्यायतयेत्यर्थःउत्तरोत्तरेतिप्रयत्नतारतम्यात्फलतार तम्यासिद्धिः । तच्च स्वरूपतःकालतोवा वाच्यम् । तथा आवृत्तिविधानादिभिरपि तत्सिद्धिरित्यर्थः ।तत्संवादकानीतिउत्तरोत्तरातिशयितादिस्थलेष्वनित्यत्वनिरूपकन्यायसंवादित्वाद शान्तरेपि यथाश्रुतानिति निश्चित्येत्यर्थः ।प्रतिबन्धकरहितयेति। उक्तरीत्याप्रथमभाविन्याः कर्मजिज्ञासायाः निवृत्तेरिति भावः ।सञ्जात बुभुत्सातिशय इति। कर्मफलानि नित्यत्वनिश्चयातिशय हेतुः । एवमौपदेशिकनित्यानित्यत्व पक्षो दूषितः । शास्त्र जन्यनित्यानित्यत्वपक्षे दोषान्तरमाहकथं वेति।कामचारेति(तथानिश्चयातिशय हेतुः) तथा चानुपनीतस्य यथेच्छाचारिणो भोजनमात्रप्रयोजनस्य अलौकिकपुरुषार्थेच्छाविरहेण तदर्थं शास्त्रान्तरे प्रवृत्तिर्न सम्भवतीत्यर्थः । विधिना रागेणवेति मतभेदेन तयोरिति विधिरागयोरित्यर्थः । नन्वध्ययनानन्तरम् अध्यापकाभावादिना ब्रह्मविचारप्रतिबन्धे सति ख्यतिलाभार्थं साङ्ख्यादिशास्त्रे प्रवृत्तिर्युज्यतैवेत्यत्राहअक्रमप्रवृत्ता सत्विति। अध्ययन विधिप्रयुक्तक्रमातिक्रमेणप्रवृत्तावित्यर्थः ।मीमांसाधिकारप्रसङ्गादिति। तथा च"“अथातो धर्मजिज्ञासे’’ (जै.मी.1.1.1)त्यत्र वेदाध्ययनानन्तर्यमथ शब्दाऽर्थो न स्यात् । एवं"“अथातश्शेषलक्षण’’(जै.मी.सू.3 - 1 - 1)मित्यादावपि पूर्वाध्यायार्थवृत्तत्वमर्थोत्व न स्यादिति भावः ।सौगतेति। तथा च साधनचतुष्टय पूर्ववृत्तत्वमसम्भवीति भावः ।तेनैवेति। वेदान्तशास्त्रादेव तन्निश्चये मिथस्संश्रय इत्यर्थः । हेयोपादेयत्वविकल्पो द्वितीयः कल्पः। तं दूषयति।एतेनेति । पूर्वोक्तमिति। अन्योन्याश्रयइत्यर्थः।चक्रकेति।श्रवणेन नित्यानित्यत्वनिश्चयः तेन हेयोपादेयताज्ञानमनेन श्रवणमिति चक्रकम् इत्यर्थः ।अपुरुषार्थत्व इति। पुरुषार्थशब्दः सुखादिपरः । उपादेयत्वशब्दः इच्छाविषयत्वपरः । विवेकिनामनित्यम् अनुपादेयमेवेत्यत्राहअत एवेति। सामान्यतो वेदान्ते नित्यमस्तीति निश्चये दोषान्तरमाहअथेति। कर्मकाण्डेऽपि यथोक्तविवेकसत्वे हेतुमाहतत्रापीति। तत्रापि नित्यमस्तिचेत्तदुपादेयमिति ज्ञानसम्भवादिति भावः ।वस्तुत इति। सोमचातुर्मास्य फलादेरनित्यत्वादिति भावः ।किं तत इति। आपात प्रतीतेरुक्तविवेकस्य सत्वे बाधकाभावादिति भावः ।आप्तवाक्यादिति - तथा च पूर्वकाण्डे आपात प्रतीतिरपि नास्तीति भावः ।आप्तवाक्यादिति। तथा च पूर्वकाण्डेआपातप्रतीतिरपिनास्तीति भावः।ननुयद्युपबन्धो सो(मा) स्तु निश्चय एवासत्वित्यत्राहतथा निश्चयेचेति। तदेव विवृणोतियदिति।तर्हि तन्नित्यमिति। ननु यस्य सामान्येन वेदान्तवाक्यानि नित्यपुरुषार्थप्रतिपादकानीत्युपदेशो विशिष्यतु नोपदेशः तं प्रति विचारः सार्थक इति चेन्न । नित्यविधि सम्भावनयापि प्रवृत्युपपत्तेः । तस्याश्च साङ्गाध्ययनादेव सिद्धत्वादौपदेशिकनित्यत्वावधारणस्य कल्पनानुपपत्तेरिति भावः। ननु यद्युक्तस्य पूर्ववृत्तत्वमिच्छसि भग्नं तर्हि कर्म विचारस्य पूर्ववृत्तत्वमित्यत्राहतस्याइति। साधारणस्य विशिष्य पूर्ववृत्तत्वं कथं नायोगादिति भावः । साधारण्यमुपपादयतिसाङ्ख्यादीति। शान्तिरन्तरिन्द्रियजयः । दान्तिर्बर्हिरिन्द्रियजयः। दर्शनसाधनतया दर्शनाङ्गतयेत्यर्थः । नच श्रवणद्वारादर्शनान्तरत्वं श्रुत्यर्थ इत्यत्राहनचेति । शान्तःपश्येदिति। समभिव्याहारात्साक्षाच्छृतस्याङ्गत्वस्य त्यागः ।अश्रुतस्य श्रवणद्वारकल्पनमिति दोषस्यादित्यत्राहमुख्याङ्गत्वे सम्भवति । श्रुतेति। ननु दर्शनस्या विधेयतया(त्वेन)तदङ्गस्यासम्भवेन मनननिधिध्यसनयोश्च श्रवणाङ्गत्वेन मुख्याङ्गत्वे सम्भवति तदङ्गत्वकल्पनायोगात् श्रवणं प्रत्येव अङ्गत्वमित्यत्राहअविधेयेति। मोक्षसाधनीभूत दर्शन समानाकारज्ञानस्य विधेयत्वात् तदङ्गत्वंयुक्तम् । शब्दजन्यप्रत्यक्षस्य निरस्तत्वाच्छ्रवणद्वारापि तदङ्गत्वं न युक्तम् । श्रवणाङ्गत्वेपिन पूर्वभावः फलोपकार्थङ्गत्वेन सन्निपत्योपकारित्वात् शमादीनामिति भावः । किं च वेदान्तश्रवणेनैव ब्रह्मविद्याङ्गत्वावगमः शमादीनामपि तदनन्तरमेव उपादेयानां न श्रवण पूर्वभावित्वमित्याहएषामिति।शमाद्युपेतस्यादि (ब्र.स्.3 - 4 - 21)त्यधिकरणे विधाङ्गतया निर्णयादित्यर्थः। अत एवेति। पूर्वं तदङ्गतया ज्ञानाभावादिति भावः। उक्तमर्थं कारिकया सङ्गृह्णाति ।शान्त्यादय इति। विधास्यन्ते ब्रह्मविद्याङ्गतया निरूपयिष्यन्तेत्यर्थः । सङ्ग्रहादिति। सङ्ग्रहं कृत्वेत्यर्थः । दुस्त्यजत्वमप्युक्तमिति भाष्य इत्यनुषङ्गः । भाष्यं चोदाहरतितेषामिति। शमादीनामित्यर्थः ।सङ्गतिविशेषादिति। शेषत्वनिरूपणायोपोद्घात रूपसङ्गति विशेषादित्यर्थः ।अत्र कर्तव्यमिति। वेदान्तविचार इत्यर्थः । भाष्ये सापेक्षत्वाभिधानं पूर्वतन्त्रनिरूपितानां सर्वेषां प्रदर्शनार्थमित्याह ।इदं चेति। अन्यानपिपूर्वतन्त्रसिद्धानाहकथं वेति। शास्त्राणां शास्त्रर्थानां वेति गुरुमते शास्त्रभेदोद्वैतीयः । भट्टमते शास्त्रार्थ भेदः ।तथाच द्वैतीयपूर्वपक्षे न्याये न सर्वशास्त्रर्थस्यैकत्वे तदनुष्ठानस्याशक्यतया अननुष्ठानलक्षणा प्रामाण्यं स्यादिति प्रामाण्यं प्रतिष्ठितं न स्यादिति भावः । उपयोगान्तरमप्याहकथं वा विद्याख्येष्विति। वशेषतःश्चिन्त्याइतिविशेषत उपजीव्यइत्यर्थः - तदधीत इति। एकशास्त्रत्वसमर्थने विशिष्य दर्शितस्तत्र द्रष्टव्य इत्यर्थः ।अत्रापि सङ्ग्रहेणाहश्रुतिलिङ्गादेरिति । यज्ञेन दानेनेति। कर्मादीनां श्रुत्यादिभिरेव विद्याङ्गत्व निर्णयादिति भावः ।क्रत्वर्थ पुरुषार्थत्वादिति। आदिशब्देन क्रतुप्रयुक्तत्वादित्यर्थः । तुर्यस्य - चतुर्था ध्यायस्यसम्बन्धितौर्यं षोढाविभक्तेति श्रुत्यर्थः । पदस्थानमुख्यप्रवृत्तिभेदेन क्रमप्रमाणानां षोढा भेदः।कर्तृलक्षणेति।षाष्ठन्यायोपजीवने च ब्रह्मविद्यायां"“तदुपर्यपीत्याद्यधिकरणे’’ (ब्र.सू.1 - 3 - 25) ष्वधिकारिचिन्तेत्यर्थः।तेषामिति। ब्रह्मविद्याभेदानुपदिश्योत्तरेषां विद्याभेदानां पूर्वविद्याधर्म"“एतद्ब्राह्मणानि’‘तिवदति दिश्यत इत्यर्थः ।अतिदेशादि त्यादिशब्देन ऊहादीनां ग्रहणम् ।सामान्यन्यायादिति।कर्मब्रह्मसाधारणानित्यर्थः। नचेति। तथाच न कर्मविचारस्य पूर्ववृत्तत्वमिति भावः ।तत्र तत्रैवेति। मुख्यक्रमाद्यनुसारेण कर्मविचारस्य पूर्ववृत्तत्वे सिद्धे तत्रापेक्षितत्वान्यायानां तत्रैव सङ्गत्या निरूपितानामेतदधिकारिणा ज्ञानत्वसम्भवान्नात्रनिरूपणं नतु तन्द्रालतयेति भावः । ननु न्यायज्ञानार्थं न कर्मविचारापेक्षेति शङ्कते। नचेति। महर्षिकल्पानामपि तदुत्पादनाय जैमिनीय शास्त्रापेक्षा वाच्या । यथान्यायानाम् उत्सर्गापवादस्यातिसूक्ष्मतया दुर्ज्ञानत्वादिति कर्म विचारस्य पूर्ववृत्तत्वं दुष्परिहारमिति भावः ।अन्यथा दोषमाहएवञ्चेति। तादृशबुद्धीनामुत्तरमीमांसापि न स्यादिति येषामुत्तरमीमांसाधिकारः तेषां कर्मविचार आवश्यक इति भावः ।नचायमिति। न क्रमो जैमिनिकृतो नापि बादरायणकृतः । पुरुषाधीनत्वाभावादिति भावः । पूर्वकाण्डे व्युत्पादितार्थसापेक्षत्वादपि कर्मविचारस्य पूर्ववृत्तत्वन्दुर्निवारमिति वक्तुं भाष्ये तार्तीय शेषिचिन्तानन्तरं शेषचिन्तनवत्न्यायापेक्षणमित्युक्तमित्याहकार्त्न्येनेति। ननु साधनचतुष्टयस्य पूर्ववृत्तत्वनिरसनमयुक्तं युष्मद्भाष्य एव नित्यानित्यवस्तुपूर्वकेहामुत्रफलभोगविरागादेः पूर्ववृत्तत्व कथनादित्याक्षिपति ।यद्यपीति। पूर्ववृत्तत्वमिहामुत्रफलभोगविरागादेरस्त्येव नचास्य नित्यानित्य विवेकसापेक्षता आपातप्रतीतिमात्रान्निर्णीता नित्यानित्यफलापेक्षाविरहात् । न चास्य अतश्शब्दार्थत्वमन्यलभ्यत्वात् न तस्य पूर्व वृत्तत्वमपि कथनीयमित्यर्थः । नन्वेवं सति कर्मविचारपूर्ववृत्तत्वं न कथनीयम् । मुमुक्षापूर्ववृत्तत्वमात्रादेव तल्लाभसम्भवादित्यत आह ।अनन्तस्थिरफलतयेति। कर्मनिरूपणपूवर्वृत्तत्वकथनस्य ब्रह्मविचारप्रवृत्यौपयिकत्वात्पूर्ववृत्त्वकथनमित्यर्थः ।तदेवाह।यज्ञादीति। वेदान्तविचारस्य यज्ञादिस्वरूपत्वात् तत्स्वरूपगत्यादिसूचनेनब्रह्मविचाराधिकार स्फूर्तिज्ञापनात् कर्मविचारपूर्ववृत्तत्वकथनंसप्रयोजकमित्यर्थः ॥न्यायकलापशिलोद्भेदनादिति। श्रुतिलिङ्गोपक्रमादिन्यायपरिशोधनसूचनादित्यर्थः ।अपवर्गोपायगतेति । अथातश्शेषलक्षणमिति। शेषचिन्तानन्तरं शेषचिन्तनवत्शेषिचिन्तेत्यर्थः। ननु कर्मविचारस्याव्यहित पूर्ववृत्तत्वाभावात् कथं तदभिधानमिति शङ्कते ।अव्यवहितेति।तर्हि त्वया नित्यानित्यविवेकादेः पूर्ववृत्तस्योक्तिरसङ्गतेति प्रतिबन्द्या परिहरति ।तर्हीति। उभयोः को विशेष इत्यत्र विशेषमाहप्रयोजनेति। अव्यवधानं पूर्ववृत्तत्वकथने, न प्रयोजकम् अपितु प्रयोजनवत्वं तच्च उपदर्शितमिति भावः । नित्यानित्यविवेकादिपक्षोक्तदोषाभावश्च विशेषमित्याहमिथः संश्रयेति। ये तु तापत्रयाभिहतानन्तर्य मथातश्शब्दार्थमाहुः । तं मतं प्रत्याचष्टेएतेनेति। एतच्छब्दार्थमाहतापत्रयाभिहतीति। आदि शब्देन स्त्र्यन्नपानान्दिकं गृह्यते । तथाचाध्यात्मिक तापाभिहत आैषधे प्रवर्तते ।मन्त्रेनेति ।शास्त्रे स्त्र्यन्न पानेच प्रवर्तत इति नासाधारण्यमित्यर्थः । ऐहिकामुष्मिकवैराग्य रसदुःखत्रयाभिहतेर्विवक्षितत्वादित्यत्राहदृष्टानुश्रविकेति। कर्मविचारानन्तरभावित्वात् तादृशदुःखत्रयाभिहतेरिति भावः । दुःखत्रयाभिघातादिति। आध्यात्मिकाधि भौतिकाधिदैविक दुःखत्रयानुभवभयात्तदपघातके - तन्निवर्तके हेतौ जिज्ञासा भवतीत्यर्थः । ननु तथापि आत्मानात्मविवेकादितत्वज्ञानेच्छा न भवति । नन्निवर्तकमन्त्रोषधादिदृष्टे वर्तमाने सतीत्याशङ्कतेदृष्टेसापार्था चेदिति। साजिज्ञासा दृष्टोपायमात्रेण जिज्ञासा निवृत्तिर्न भवतीति परिहरतिनेति। तत्र हेतुःएकान्ततोभावात्इति । एकान्तो दुःखनिवृत्तेरवश्यं भावः । निवृत्तस्य दुःखस्य पुनरनुत्पादोत्यन्तः दृष्टैरुपायैस्तयोरभावादित्यर्थः । षष्ठ्यर्थे तसिः । ननु माभूतदृष्टोपायः । वैदिकस्तु ““ज्योतिष्टोमादिस्तापत्रयमेकान्ततोत्यन्तमपनेष्यति। श्रूयतेहि’’ ज्योतिष्टोमेन स्वर्गकामोयजेत’’ (आप.श्रौ.10.2.1.) ““अपामसोममृता अभूमं’’( तै.सं.3 - 2 - 7) अनन्तमपारमक्षय्यं लोकं जयति (तै.ब्रा) ““योग्निन्नाचिकेतं चिनुते (काठक - 3)इति । तथा च वैदिकस्य तापत्रयप्रतीकार हेतोः मुहूर्तंयामाहोरात्रमासादि निर्वर्तनीयतया अनेक जन्मपरम्परासम्पादनीयात् विवेकज्ञानादिषट्कवत्वात्पुनरपि जिज्ञासा व्यर्थे त्याशङ्क््याहदृष्टवदानुश्रविक इति। आनुश्रविकमपि कर्म एकान्तात्यं तिकदुःखप्रतीकारानु पायत्वात् दृष्टतुल्यः । तत्र हेतुः ।सह्यविशुद्धिक्षयातिशययुक्त इति। सोमादियागस्य पशुवधगर्भतयाद्विशुद्धि दुःखहेतुपापत्वमशुद्धिःक्षयातिशयौ तत्फलस्यत्विति। त्वं च स्वर्गादेकोच्यत्वादनुमितमतिशययुक्तत्वं तु ज्योतिष्टोमादयः । स्वर्गसाधनानि राजसूयादयश्च स्वाराज्यस्यापीतिअपामसोममित्यादि च चिरकालावस्थायित्वपरमिति वाचस्पतिना व्याख्यातम् । तत्र कर्म विचारानन्तरमेव उक्तवैतृष्ण्यं जिज्ञासा चेति भावः । न तादृशवैतृष्णस्य वृत्तत्वाभिधाने सदुक्त एव पर्यवस्यतीत्याहएवमिति। अतश्शब्दार्थत्वं कर्मविचारस्यैव तत्ख्यापनस्य सप्रयोजनकत्वादित्युक्तं साधन चतुष्टय पूर्ववृत्तत्वकथनस्य सूत्रकृद्विशिष्टत्वात् वृत्तिकृद्बोधायनात् अवगतमित्याहतथाचेति।निश्शेष वेदार्थेति। पूर्वोत्तरभागयोश्शास्त्रयोरेकत्वं निश्शेषशब्देन सूचितमिति उत्तरभागविचारापेक्षया पूर्वभाग विचारस्य पूर्ववृत्तत्वमभिप्रेत मित्यर्थःन चेति। तथा च न कर्मविचारपूर्ववृत्तत्वमितिभावः ।उपादानादिति’’ ॥““नाना वा देवतापृथक्त्वात्’’ (सङ्कर्षणकाण्ड - 14 - 2 - 14) इति सूत्रोपादानादित्यर्थः ॥ द्वितीयैरपि कैश्चिदेक शास्त्र्यमभ्युपगम्यमित्युपसंहरतिशास्त्रान्तेति॥ ॥ वत्सजलधिकौस्तुभनृसिंहगुरु सुतेन सिंहदेवेन कृतायां शतदूषणीटीकायाम् अष्टमो वादस्समाप्तः ॥