॥अथ शब्दजन्यप्रत्यक्षभङ्गवादः सप्तमः ॥7 ॥
विभूत्यंशे यस्य स्फुरति जगतामक्षमखिलम् ।
श्रुतिर्जात्यन्धानामुपदिशति यं रूपमिव नः ।
निजाध्यक्षप्रेक्षाचुलकितसमस्तः स्वयमसौ ।
हृषीकेशो दिव्यं दिशतु मम चक्षुः स्वविषयम् ॥
यदूचिरे यद्यपि तत्त्वमस्यादिवाक्यश्रवणसमयसम्भवं परोक्षं ज्ञानमविद्यां न निवर्तयति, तथाऽपि
श्रवणादिभिर्निरस्तसमस्तभेदवासनामूलासम्भावनाविपरीतसम्भावनाख्यचित्तविक्षेपलक्षणप्रतिबन्धस्य तदेव वाक्यमविद्यानिवर्तकमपरोक्षं ज्ञानं जनयति ।
न च शब्दस्य कथमपरोक्षधीहेतुत्वमिति वाच्यम्, इन्द्रियस्यापि कथमिति प्रसङ्गात् ।
दर्शनादिति चेत्, तुल्यम् ।
क्व तद्दर्शनमिति चेत्, “संवित् स्वप्रकाशा’’, “दशमस्त्वमसि’’ इत्यादिषु ।
न ह्यत्र संविद्विषयः स्वविषयो वा प्रकाशो नास्ति, सन्नपि वा परोक्षः; स्वधीविरोधात् ।
प्रत्यक्षे च विषये परोक्षप्रकाशव्याघातात् ।
अन्यथा शुक्तितत्त्वप्रकाशेऽपि रजतावभासाविरोधप्रसङ्गात् ।
न चायं प्रकाश इन्द्रियजन्यः, वाक्यस्य तदानीमबोधकत्व प्रसङ्ङ्गात्;वाक्यमन्तरेणापि तत्प्रसङ्गाच्च ।
न च रत्नतत्त्वाधिगमवत् शब्दसम्भिन्नेन्द्रियजन्यः; अन्यतरेण तदुत्पत्त्युपपत्तौ कल्पनागौरवात् ।
अन्वयव्यतिरेकाविशेषे सति, इन्द्रियसहकृतशब्दजन्य इति विपरिवर्तप्रसङ्गाच्च ।
किन्नामेन्द्रियं तत्सहकारि स्यादिति चेत्, मनसः सर्वज्ञानकरणसाधारणसहकारित्वं किं न जानासि? ।
तथापि विनिगमनायां को हेतुरिति चेत्-न; अन्धस्यान्धतमसस्थितस्य वा वाक्यश्रवणात् दशमोऽस्मीति प्रत्यक्षप्रत्ययात् ।
न चात्रापरोक्षत्वमारोपितम्; बाधकाभावात् ।
न च सम्प्लवे भेदाग्रहात् तद्वयवहारः; कदाचिदपि तत्र धीभेदानुपलम्भात् ।
अतो वाक्यजातीयस्य क्वचित् प्रत्यक्षज्ञानजनकत्वसिद्धौ क्व विरोधावकाशः?
अन्यदपि वाक्यं किं न जनयतीति चेत् न; गोजातीयत्वे शाक्वरः किं न दुग्धे दुग्धमितिवत् उपहास्यत्वात् ।
अस्ति तत्रावान्तरोपाधिरिति चेत्, अस्त्वत्रापि कश्चित् ।
न च तदज्ञानं तत्कार्योत्पत्तिप्रतिबन्धि; तज्ज्ञानस्य तत्कारणत्वानभ्युपगमात् ।
अन्यथा अतिप्रसङ्गात् ।
यथाऽऽहुः-“न कारणपरिज्ञानं तत्कार्योत्पत्तिकारणम् ।
न हि बीजाद्यविज्ञानमङ्कुरोत्पत्तिवारणम्’’ इति ।
न चास्यात्यन्ताज्ञातता, स्वतोऽपरोक्षार्थगोचरत्वस्योपाधेरवधारणात् ।
न च “तत्त्वमस्या’’ दिवाक्यस्य प्रत्यक्षज्ञानजनकत्वे किं प्रमाणमिति वाच्यम्, निवर्त्यमिथ्यात्वान्यथानुपपत्त्यैव तत्सिद्धेः ।
स्वतःशुद्धेऽपि हि विश्वसाक्षिणि ब्रह्मणि स्फटिकमणिघटितदाडिमीकुसुमरागोपरागवत् अवभासमात्रसिद्धिरियमशुद्धिः ।
सा च ज्ञानमात्रनिवर्त्येति, “तरति शोकमात्मवित्’’ (मुण्ड-3-1-1) इत्यादिश्रुतिशतसिद्धम् ।
मिथ्याभूतस्य च धीमात्रनिवर्त्यत्वं युक्तम् ।
न च परोक्षं ज्ञानं निर्वतकं दृश्यते ।
अतः परिशेषादपरोक्षमेव ज्ञानं निवर्तकमिति स्थिते-न तावत् करण मिन्द्रियम्, बाह्येन्द्रियाणां प्रत्यक्पराङ्मुखत्वात्; मनसोऽपि सोऽहमस्मीत्यस्मिन्नर्थे स्वातन्त्र्येणाप्रवृत्तेः ।
शब्दसंस्कारादिपुरस्कारे तु तस्यैव करणत्वोपपत्तेः ।
मनसश्च नित्यशुद्धबुद्धमुक्तस्वभावब्रह्मगोचरसाक्षात्कारकरणत्वस्यादृष्टचरत्वेन शब्दस्य तत्सहकारित्वकल्पना योगात् ।
तथात्वे च श्रवणादिनैष्फल्यात् ।
“न चक्षुषा गृह्यते नापि वाचा’’ (मुण्ड-3-1-18), “मनसा तु विशुद्धेन’’ (मुण्ड-3-1-18), “मनसैवेदमाप्तव्यम्’’ इत्यादिश्रुतीनां चित्तैकाग्र्यस्यान्तरङ्गत्वबोधने तात्पर्यात् ।
अत एव, “अप्राप्य मनसा सह’’ (तै-उ-आनन्द) इत्यादेरनधिकृतमनोविषयत्व व्यवस्थापनानुपपत्तिः ।
न च मानसं प्रत्यक्षमस्ति; आत्मनः स्वप्रकाशत्वात्; सुखादेस्तु साक्षिवेद्यत्वात्, भावनासहकृतमनोजन्यसाक्षात्कारस्यापि पथिकपरिभावितप्रियतमा साक्षात्कारवत् भ्रान्तित्वात्; भ्रान्तिरूपसाक्षात्कारस्यापि साक्षिरूपत्वेनैव मानसत्वाभावात् ।
अनुमानादेस्त्वापरोक्ष्यविद्वेषशीलत्वात् ।
अतो वाक्यपरिशेषे तत्रापि भेदगर्भाणां वाक्यानां भेदभ्रमनिवर्तकत्वायोगात् अद्वैतवाक्यान्येवाविद्यानिवर्तकापरोक्षज्ञानं जनयन्तीति ।
किञ्च प्रत्यक्षस्य भेदभ्रमस्य परोक्षात्, ऐन्द्रियकप्रत्यक्षाद्वा न परिभवो युक्तः; न्यूनत्वात्; समत्वाच्च ।
शास्त्रमूलं तु प्रत्यक्षं साक्षात्कारत्वाविशेषेऽपि निर्दोषहेतुकत्वात् बाधक्षमम् ।
तच्चोक्तं “न्यूनत्वाच्च समत्वाच्चपरोक्षं नाक्षजं क्षमम् ।
निर्दोषहेतुजन्यत्वात् प्रत्यक्षं शास्त्रजं क्षमम्’’ इति ।
प्रत्यक्षभेदभ्रमनिवर्तन इति शेषः ।
साक्षात्कारस्य चाविद्यानिवर्तकत्वं तस्य च शब्दकरणत्वं शब्दादेव सिध्यति,“निचाय्य तं मृत्युमुखात्
प्रमुच्यते’’(कठ.1-3-15), “क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे’’ (मुण्ड-2-2-8)इत्यादिभिरपरोक्षज्ञानस्य अविद्यानिवर्तकत्वसिद्धेः ।
“तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः’ (छां-5-24-3) “वेदान्तविज्ञानसुनिश्चितार्थाः’’, (तै.महाना 12) “स्वाध्यायश्चक्षुरुतैकमस्य योगो द्वितीयमभिवीक्षणाय’ (?) “अध्ययनमनननयनोऽस्य द्रष्टा’,(?) “न मांसचक्षुरभिवीक्षते तम्’, (?) “पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम्’ (?) इत्यादेस्तस्य शब्दकारणकत्वसिद्धिः ।
प्रयोगश्च-विगीतं ज्ञानं साक्षात्कारि, तत्त्वमस्यादिवाक्यजन्यज्ञानत्वात्, तत्स्वरूपगोचरश्रावणज्ञानवत् ।
न च तत् तदजन्यम्; प्रत्यक्षे विषयस्य कारणत्वस्वीकारात् ।
तत्रैव प्रतिज्ञायाम्, अपरोक्षज्ञानविषयत्वात् सुखादिज्ञानवदिति वा प्रयोगः ।
तत्त्वमस्यादिवाक्यं वा स्वप्रतिपाद्यगोचरसाक्षात्कारजनकम्, स्वप्रकाशार्थोपदेशरूपत्वात्, स्वतोऽपरोक्षार्थविषयत्वाद्वा, “संवित् स्वप्रकाशा’’, “दशमस्त्वमसि’’ इत्यादिवाक्यवत् ।
अपरोक्षत्वं तत्त्वमस्यादिवाक्यजन्यज्ञानवृत्ति, अपरोक्षज्ञाननिष्ठात्यन्ताभावाप्रतियोगित्वात् ज्ञानत्ववदिति ।
न चात्र परोक्षत्वं तत्त्वमस्यादिवाक्यजन्यज्ञानवृत्ति, परोक्षनिष्ठात्यन्ताभावाप्रतियोगित्वात्, ज्ञानत्ववदितिसत्प्रतिपक्षसाधनता; सिद्धसाधनात् ।
तेषामेव हि वाक्यानामसम्भावनाविपरीतसम्भावनाप्रतिबद्धचेतसि पुरुषे परोक्षज्ञानजनकत्वमिष्यते ।
पूर्वोक्तश्रुतिविरुद्धतया कालात्ययापदेशाच्च ।
न च वाच्यम्-अग्निहोत्रादिवाक्यजन्यज्ञानेष्वप्येवं प्रयोक्तुं शक्यमित्याभाससमानयोगक्षेमतेति; तत्र विपक्षे बाधविरहात् ।
न हि तत्र प्रामाण्यस्यानुपपत्तिः; अनुमानादिवदुपपत्तेः ।
नाप्यनुष्ठानस्य; परोक्षनिश्चयादपि तदुपपत्तेः ।
नापि फलस्य; तत एव तत्सिद्धेः ।
नापि च फलकामनायाः; फलसम्बन्धनिश्चयादेव तस्या अप्युपपत्तेः ।
अत एव पुरुषप्रवृत्तिरपि सङ्गच्छते ।
इह तु प्रागुक्तार्थानुपपत्तिरेव विपक्षे बाधिका स्यात् ।
अतो नाऽऽभासतुल्यतेति ।
एवं पूर्वेष्वपि प्रयोगेष्वाभासतुल्यतोद्धारो द्रष्टव्यः ।
अतो विपक्षे बाधकस्यैव प्रतिबन्धरहस्यत्वात् उक्तार्थे महाविद्याजातयश्च यथावगाहं प्रयोक्तव्याः ।
स्वपरपक्षसाधारण्यं हि महाविद्यानां स्वभावः ।
तत्रानुकूलतर्कसदसद्भावाभ्यामेकत्रार्थासिद्धिः, इतरत्रार्थासिद्धिरिति निर्णयः ।
ननु तर्कपराहता इमे हेतवः; शब्दस्य प्रत्यक्षान्तर्भावप्रसङ्गादिति चेत् न; अप्रसङ्गात् ।
योगिमनसो बाह्यविषयप्रत्यक्षज्ञानजनकत्वेऽपि बाह्यप्रत्यक्षबहिर्भाववदुपपत्तेः ।
अथ चक्षुरादिपञ्चकान्यतमत्वं योगिमनोन्यत्वे सति बाह्यविषयापरोक्षप्रमितिकारणत्वं वा बाह्यप्रत्यक्षान्तर्भावे प्रयोजकमिष्येत, इहापि तर्हि स्वतोऽपरोक्षार्थब्रह्मात्मविषयशब्दान्यत्वे सति अपरोक्षप्रमितिकारणत्वं प्रत्यक्षान्तर्भावप्रयोजकमितिसमः समाधिः।
किञ्च प्रत्यक्षान्तर्भाव इति इन्द्रियान्तर्भावो वा,साक्षात्कारजनकवाक्यान्तर्भावो वा विवक्षितः स्यात् ।
पूर्वत्र मनसोऽपि बाह्यान्तर्भाववत् उपलम्भविरोधात्अशक्यः ।
उत्तरत्र त्विष्टप्रसङ्गता ।
ऐकराश्ये सिद्धे सति अवान्तरभेदाश्रयणाविरोधात् ।
तदेव तु कथमिति चेत्, न; दशमस्त्वमसीत्यादौ तद्दर्शनस्य समर्थितत्वात् ।
वाक्यस्यैवापरोक्षधीजनकत्वे मनननिदिध्यासनविध्यानार्थक्यम्, श्रुतवेदान्तानां संसारानुवृत्तिदर्शनविरोधश्चेति चेत् न; प्रागुक्तप्रतिबन्धनिरासनद्वारेण तयोः श्रवणं प्रति फलोदयकार्यङ्गतया विधानोपपत्तेः ।
संसारित्वोपलब्धेश्च प्रतिबन्धकवत्पुरुषविषयत्वात् ।
अतो बाधकापेतसानुग्राहकश्रुत्यादिसिद्धं तत्त्वमस्यादेः साक्षात्कारजनकत्वमिति ।
अत्र ब्रूमः-यत्तावदुक्तं-केषुचिद्वाक्येष्वपरोक्षधीहेतुत्वं दृश्यत इति, तत् नरविषाणाङ्कुरप्रसाधने खरविषाणाङ्कुरनिदर्शनमिति मन्यामहे ।
तथा हि-संवित् स्वप्रकाशेत्यत्र तावत् सामान्यतः स्वपरसमवेतत्रैकालिकसर्वसंवित्स्वप्रकाशत्वं वाक्यार्थः ।
तादात्विकी तु तज्जन्या संविदेका तदानीं स्वप्रकाशा; तत्र न सर्वसंविदां स्वप्रकाशत्वमिदानीमपरोक्षम्; यतो वाक्यस्य तदापरोक्ष्यहेतुता स्यात् ।
न च सर्वसंविदैक्यम्; तस्य दूषयिष्यमाणत्वात् ।
तदैक्येऽपि तत्तदुपहिताकारेण परोक्षापरोक्षविभागस्य दुरपह्नवत्वात् ।
वाक्यजन्यसंवित्स्वरूपापरोक्ष्ये तावत् वाक्यमेव कारणम्; विषयप्रकाशांशकारणव्यतिरेकेणस्वप्रकाशांशे कारणान्तरानुपलम्भादिति चेत्, तर्हि सिद्धमनुमानादेर्वाक््यान्तराणामप्य परोक्षधीजनकत्वम्; तत्तज्जन्यधियामपि स्वप्रकाशांशेऽपि तत्तत्कारणकत्वात् ।
सत्यम्; तथाऽपि संवित् स्वप्रकाशेत्यादिवाक्येषु विषयप्रकाशांशः स्वप्रकाशांशश्चैक एवेति विशेष इति चेन्न; सामान्यविशेषविषयतया तद्भेदस्य दर्शितत्वात् ।
एवम्, “दशमस्त्वमसि’’ इत्यादावपि यदि दशमत्वं स्वात्मनः पश्यत एवेदं वाक्यमुक्तम्; तदा घटं पश्यतः, “अयं घट’’ इतिवत् सिद्धानुवादपरमिदं वाक्यं स्यात् ।
तथाच प्रत्यक्षानुवादितामात्रेण प्रत्यक्षताभ्रमः, परोक्षविषयप्रयोग
इवापरोक्षविषयप्रयोगेऽपिशब्दशक्तेस्तदवस्थत्वात् ।
यदा पुनः अविदितस्वात्मदशमत्वं प्रत्युच्येत, तदा तु दशमत्वांशे परोक्षत्वं
स्पष्टम् ।
उद्देश्यांशस्य तु प्रागेव दृष्टत्वात् विशिष्टेऽपि प्रत्यक्षताभ्रमः, प्रतिपत्तिझाटित्यात् ।
न च तत्प्रत्यक्षत्वेनैवविशिष्टस्य प्रत्यक्षता, अयं पर्वतो बह्निमानित्यनुमानेऽपि तत्प्रसङ्गात् ।
गुरुत्वादेरतीन्द्रियत्वभङ्गप्रसङ्गाच्च ।
एवं क्षत्रियस्त्वमसीत्यादिष्वपि विकल्पोऽनुसन्धेयः ।
यत्तु प्रत्यक्षे विषये परोक्षप्रकाशव्याघात इति तदप्यसत् ।
आपरोक्ष्यादेः ज्ञानधर्मत्वे ज्ञानव्यक्तिभेदेन विषयैक््येऽपि परोक्षत्वापरोक्षत्वयोर्विरोधाभावात् ।
विषयधर्मत्वेऽपीन्द्रियेण तथाविधं ज्ञानं जायताम्, लिङ्गशब्दादिनात्वन्यथाभूतमिति पुरुषभेद इव एकस्मिन् पुरुषेऽपि करणभेदेन च एकस्यैव वस्तुनः प्रत्यक्षता परोक्षता च प्रागेव दर्शिता विपरीतवासनभूयस्त्वेऽपि करणशक्त्या तत्त्वज्ञानोदयस्योपपादनात् ।
यदि प्रत्यक्षेविषये परोक्षप्रकाशः स्यात्, तदा
शुक्तित्वप्रकाशेऽपि रजतावसायाविरोधप्रसङ्ग इति चेत्-किंशुक्तौ चक्षुर्व्यापारान्वयव्यतिरेकानुविधायी रजतभ्रमः परोक्षः? येनैवं ब्रवीषि ।
अथ पुनर्भ्रान्तिरेव प्रसञ्जनीया, तदा शुक्तित्वादिलक्षणविशेषग्रहस्य भ्रमोत्पत्तिप्रतिपक्षतया, विशेषाग्रहाख्यसहकारिविरहेण सामग्रीवैकल्याद्वा शुक्तौ रजतभ्रमानुदयः ।
इह तु अप्रतिबद्धपरोक्षज्ञानसामग्रीसिद्धौ कथं तदनुत्पत्तिः? तथाविधा च तत्सामग्री प्रागेव दर्शिता ।
अङ्गीक्रियते च भवताऽपि श्रवणदशायाम् ।
अत एव एवंविधप्रसङ्गस्य निर्मूलता ।
किञ्च, स्वानिष्टं प्रसञ्जकं परानिष्टं प्रसञ्जनीयमिति तुतर्कतत्त्वव्यवस्था ।
उक्तश्च श्रीपुण्डरीकाक्षाचार्यै ः
“प्रसञ्जकं तु स्वानिष्टं परानिष्टं प्रसज्यते ।
विपर्यये पराभीष्टं स्वाभीष्टे पर्यवस्यति ॥
प्रसञ्जके तु स्वाभीष्टे स्वानिष्टे पर्यवस्यति ।
स्वाभीष्टस्य त्वसिद्धिः स्यात् परेष्टस्य प्रसञ्जने ॥’’ इति ।
उभयमप्यत्र विपरीतम् ।
स्वतः प्रत्यक्षेऽपि ब्रह्मणि श्रवणदशायां वाक्यतः परोक्षज्ञानजननस्य भवदभिमतत्वात् ।
तेन मिथ्यैतदिति चेत्, पश्चात्तनप्रत्यक्षज्ञानजननमपि तथैवेति को विशेषः? शुक्तौ रजतत्वस्येवाविरोधापादकं च मिथ्यात्वमिह स्मर्तुमर्हसि ।
सत्यं विरोधाच्छुक्तित्वं बाधकत्वेन कथ्यते ।
मिथ्याभूतं च रजतं बाध्यत्वेनाभिधीयते ।
तेनमिथ्यैतदिति वचनं तवाविरोधापादकं न भवति ।
प्रसञ्जनीयं च क्वचिदस्मदिष्टम्; आप्तोपदेशादिभिः शुक्तित्वप्रकाशेऽपि दुष्टेन्द्रियादिना कस्यचित् क्वचिद्रजतावभासानुवृत्तेः ।
अन्यथा भवतां बाधितानुवृत्तेर्दृष्टान्तस्याप्यभाव प्रसङ्गात् ।
तथा प्रत्यक्षसिद्धेऽपि शुक्तेस्तत्त्वे भ्रान्तविप्रलम्भकवाक्यादिभिरपि रजतधीरुदेत्येव ।
सा च परोक्षैव ।
शीघ्रं तु बाध्यमानतया केषाञ्चित् तत्र तदनुत्पत्तिभ्रमः ।
किञ्च यदि प्रत्यक्षे विषये परोक्षप्रकाशो व्याहतः, तदा पर्वतो वह्निमानित्यादिषु विशेषतोदृष्टानुमानेषु तथाविधार्थगोचरवाक्येषु च परोक्षप्रकाशोन स्यात्।
योग्यतामात्रं तु तत्र; न तु तदानीं प्रत्यक्षतेति चेन्न; यस्यकस्यचिदारण्यक-योगीश्वरादेस्तद्दर्शनात् ।
तथाऽपि नानुमातुस्तथेति चेत्; तर्ह्यत्रापि दशमत्वादेर्वाक््यश्रवणात् पूर्वमदर्शनान्न वाक्यतस्साक्षात्कारसम्भवः ।
यत्पुनः स्वस्यैव द्रष्टुं योग्यतया अनन्तरं दर्शनाद्वा तत्र तत्सम्भव इष्येत, तर्हि सिद्धमनुमानादावपि तदुभयसम्भवात् तथात्वम् ।
यदा च अयं घट इति मन्यमानं प्रत्येव कश्चित्, अयं घट इति ब्रूयात्, तदा तस्यापि प्रत्यक्षार्थविषयत्वाविशेषात् साक्षात्कारजनकत्वप्रसङ्गः ।
इष्यत एवेदमपीति चेन्न; स्वतोऽपरोक्षार्थविषयत्वादिति हेतुविशेषणं प्रयुञ्जानस्य तदनिष्टम् ।
इष्यतां वा; तथाऽपि ज्योतिष्टोमादिवाक्यार्थस्यापि योगिप्रभृतीनां प्रत्यक्षत्वस्याऽऽवयोरविगीतत्वात् तान् प्रति केनचिदविदितमाहात्म्येन तत्प्रयोगे ततः साक्षात्कारसम्भवः स्यात् ।
तथाच सर्वमपि वाक्यं कस्यचित् साक्षात्कारकारणमिति स्थितौ, केषाञ्चिदेवेति व्यवस्थाभङ्गः ।
अस्त्वेवमपि; किं नश्छिन्नमिति चेत्, न; अनुमानादिष्वपि तत्प्रसङ्गस्योक्तत्वात् ।
तथाच तत्त्वमस्यादिवाक्यपरिशेषासिद्धिः ।
ततश्चापशूद्रनयविरोधादिप्रसङ्गः ।
किञ्च विश्वस्यापि ज्ञाततयाऽज्ञाततया वा साक्षिवेद्यत्वस्य भवदभिमतत्वात् सर्वैः प्रमाणैः साक्षात्कारसम्भवः सुलभ एव ।
यदि च स्वतोऽपरोक्षार्थविषयमेव वाक्यं तज्जनकमिति व्यवस्थाप्येत, तदा दशमस्त्वमसीत्यादिदृष्टान्तासिद्धिः ; यद्यपि त्वमंशस्य स्वतोऽपरोक्षता, तथाऽपि सङ्ख्यादिविशिष्टाकारेण स्वतोऽपरोक्षत्वाभावात् ।
अन्यथा वाक्यश्रवणात्पूर्वमेव तद्वैशिष्ट्यप्रकाशप्रसङ्गात् ।
अतोऽनुमानस्येव वाक्यजातीयस्य क्वचिदपि साक्षात्कारहेतुत्वदर्शनस्यासिद्धेः, अनुग्राहकतर्काभावाच्च स्वाभिमतस्यकस्यचिद्वाक्यस्य तद्धेतुत्वकल्पनं विरुद्धमेव ।
अत एव स्वतोऽपरोक्षार्थगोचरत्वलक्षणोपाधिरपि निरस्तः ।
यत्तु निवर्त्यमिथ्यात्वानुपपत्त्या पारम्पर्येणापरोक्ष्य-तज्जनकविशेषयोः परिशेष इति तदप्यसिद्ध्यन्यथासिद्धिभ्यामाक्रम्यते ।
सत्यमेव हि संसारमुपासनप्रीणितेश्वरसङ्कल्पविशेषनिवर्त्यं साधयिष्यामः ।
यत्तु “तरति शोकमात्मवित्’ (मुं-(3-2-3)इत्यादिभिर्ज्ञानमात्रनिवर्त्यत्वं
सिद्धमिति, एतदपि वेदनज्ञानादिशब्दानाम् उपासनाख्यविशेषपर्यवसानस्य प्रागेव दर्शितत्वान्निरस्तम् ।
यदाहुः
वेदनं ध्यानविश्रान्तं ध्यानं श्रान्तं ध्रुवस्मृतौ ।
सा च दृष्टित्वमभ्येति दृष्टिर्भक्तित्वमृच्छति ॥ इति ।
मिथ्याभूतस्य ज्ञानमात्रनिवर्त्यत्वं युक्तमित्येतच्च मिथ्याभूततया भवदभिमतस्य तिमिरादिदोषस्य प्रतिभटादेश्च भेषजशस्त्रादिनिवर्त्यत्वोदाहरणेन प्रागेव दत्तोतरम् ।
अस्तु च मिथ्यात्वे धीबाध्यत्वे युक्तिः; न चात्र मिथ्यात्वम् ।
“दृश्यत्वात् यदि मिथ्यात्वं प्रपञ्चस्याभिधीयते ।
ब्रह्मणोऽपि च मिथ्यात्वं तत एवाभिधास्यते ॥’’
“ब्रह्मणो यदि दृश्यत्वं व्यावहारिकमुच्यते ।
प्रपञ्चस्यापि दृश्यत्वं तात्त्विकं किं त्वयेष्यते’’ ॥
अपि च संसारमिथ्यात्वेऽपि, किं निवृत्तिशब्देन प्रतिभासमानमिथ्यार्थप्रध्वंसनमभिप्रेत्य तदर्थमपरोक्षधीगवेषणम्, उत तद्विषयज्ञानप्रध्वंसनम्, आहोस्वित् तत्कारणोच्छेदम्, अथवा तथाविधज्ञानान्तरानुत्पादम्, उत तद्विपरीतविषयावगाहरूपविषयापहारम्, यद्वा तद्विषयसत्यताध्यवसायशैथिल्यम्, अथान्यदेव किञ्चिदसांव्यवहारिकमिति ।
नाद्यः; क्वचिदपि मिथ्यार्थस्य प्रध्वंसाभावात्;
प्रध्वंसो हि स्वरूपस्य प्रच्युति; प्रतिपाद्यते ।
स्वरूपसत्यताऽभावे कस्य प्रच्युतिरुच्यते? ॥ सत्यपितस्मिन् तेन तदुच्छेदायोगात् ।
अन्यथा बाधकज्ञानात्पूर्वं सुषुप्ते द्रष्टरि पुरुषे शुक्तिरजताद्यवस्थितिप्रसङ्गात् ।
संविदधीनसत्ताकस्य तस्य तन्निवृत्तिरेव हि निवृत्तिः ।
आहुश्च
“आरोपस्य निवृत्तिः स्यात् आरोप(प्य)स्यापि सङ्क्षयः ।
तस्य स्वरूपशून्यस्य का निवृत्तिर्हि कथ्यते ’’ ॥इति ।
न द्वितीयः; तस्य बाधकज्ञानाभावेऽपि बाधकज्ञानवदेव स्वरसवाहिविनाशहेतुबलादेवाऽऽशुतर विनाशित्वात् ।
अन्यथा अनुदितबाधकज्ञानस्य भ्रान्तस्य सुषुप्त्याद्यभावप्रसङ्गात् ।
तथाऽऽहुः
“न भ्रान्तिर्बाधकज्ञानात् नियमेन विनश्यति ।
न स्याद्धि भ्रान्तचित्तस्य सुषुप्तौ भ्रान्तिसङ्क्षयः’‘इति ।
यद्यपि उत्तरज्ञानमात्रमपि संस्कारादिवत् पूर्वज्ञाननिवर्तकमिष्यते, तथाऽपि यत्किञ्चिद विरुद्धविषयात् ।
परोक्षज्ञानादपि पूर्वज्ञाननिवृत्त्युपपत्तौ विरुद्धविषयप्रत्यक्षज्ञानान्वेषणं निष्फलम् ।
न च तृतीयः; भ्रान्तिज्ञानकारणानुच्छेदे यथावस्थितप्रत्यक्षज्ञानानुदयात् ।
नह्यङ्गुल्यवष्टम्भतिमिरादिदोषेप्वनुवर्तमानेषु चन्द्रैकत्वसाक्षात्कारसम्भवः ।
सम्भवे वा किं तदुच्छेदेन ।
प्रत्यक्षानुवृत्त्यर्थं तदुच्छेद इति चेत्, न; तत्सामग्र्यनुवृत्तिमन्तरेण तदुच्छेदेऽपि तदसिद्धेः, तस्यां चानुवर्तमानायां तदवस्थानेऽपि विरोधाभावात् ॥ स्वाभाविकप्रत्यक्षप्रतिबन्धकतया तदुच्छेदकल्पनमिति चेत्; किमत्र स्वाभाविकत्वम्? किं सामग्र्यां सत्यां स्वरसवाहित्वम्, उत नित्यस्वाभाविकत्वम्? आद्ये प्रागपि कथं तदवस्थाने प्रत्यक्षोदयः? अन्योन्याश्रयणात् ।
द्वितीयेऽपि नित्यस्वाभाविकप्रत्यक्षस्य च किं नाम प्रतिबन्धकम्? अयमत्र सङ्ग्रहश्लोकः
“भ्रान्तिकारणसद्भावे प्रत्यक्षस्य ह्यसम्भवः ।
सम्भवे निष्फलैव स्यात् तदुच्छेदस्य कल्पना’’ ॥
“स्वानुवृत्त्यर्थमुच्छेदः सामग्र्यैवानुवर्तनात् ।
प्रतिबन्धनिवृत्त्यर्थमुच्छेदे प्रथमं कथम्’’ ॥
प्रत्यक्षं कारणोच्छेदे तदुच्छेदस्ततोऽपि चेत् ।
अन्योन्याश्रयणं तु स्यात् प्रतिबन्धो न चात्मनि ॥ इति ।
नापि चतुर्थः; प्रागभावस्यासाध्यत्वात् ।
तदनुवर्तनस्याप्यन्ततस्तत्प्रतियोगिकारणोच्छेद कोटिनिक्षेपात्, तस्य च निरस्तत्वात् ।
न पञ्चमषष्ठौ; परोक्षादपि तत्सिद्धेः ।
प्रत्यक्षमपि हि द्विचन्द्रादिज्ञानमनुवर्तमानं परोक्षेण चन्द्रैकत्वानुमानादिना बाध्यते ।
तावतैव चन्द्रद्वित्वाध्यवसायशैथिल्यं जायते ।
अन्यथा देहात्मभ्रमवता मनुमानेनाऽऽगमेन वा देहातिरिक्तात्मविस्रम्भो न स्यात् ।
परोक्षबाधे भ्रमोऽनुवर्तत इति चेन्न; तुल्यमेतदित्युक्तत्वात् ।
“सञ्जातेऽप्यपरोक्षेऽपि बाधे कारणसम्भवात् ।
अङ्गुल्याद्यैर्भवद्भ्रान्तिरुपष्टम्भनहेतुभिः’’ ॥
नापि सप्तमः; तस्यासांव्यवहारिकत्वेनैतदर्थोपायोपदेशायोगात्, अन्वयव्यतिरेकागोचरत्वेना परोक्षपक्षपातविरहाच्च ।
एवं सामान्येनापरोक्षज्ञानानपेक्षायां कुतस्तत्कारणविशेषचिन्तेति अनुत्थानमेव शब्दजन्यप्रत्यक्षवादस्येत्यभिप्रेत्य भाष्यकारैरिह न संरम्भःकृतः-“सत्यां सामग्र्यां ज्ञानानुत्पत्त्यनुपपत्तेः’’(श्री भाष्यं-जिज्ञा) इत्यादिना ।
“द्रष्टव्य’’ (बृह 6.7.6) इत्यादेर्दर्शनसमानाकारविधिपरत्वोक्तेश्चेदमपि दूषितममंस्त ।
समन्वयाधिकरणपूर्वपक्षे तु परोक्त्यैव दूषयिष्यति-“न च शब्द
एव प्रत्यक्षज्ञानं जनयतीति वक्तुं युक्तं; तस्यानिन्द्रियत्वात्’’ (श्री भाष्यं 1-1-4) इत्यादिना ।
अस्तु वा कथञ्चिदापरोक्ष्यपरिशेषः ।
तथाऽपि प्रत्यक्पराङ्मुखत्वादिलक्षणविरुद्धव्याप्त्या इन्द्रिय परित्यागे तुल्यन्यायतया वाक्यस्यापि परित्यागप्रसङ्गः ।
दर्शनादर्शनाभ्यां विशेष इति चेन्न; तदसिद्धेः ।
तत्सन्देहेऽपि न विरुद्धव्याप्तिरिति चेन्न; इन्द्रियादिष्वपि प्रसङ्गात् ।
अथ सत्यामेव विरुद्धव्याप्तौ गत्यन्तराभावात् तदनादरेण वाक्यस्यापरोक्षधीहेतुत्वं कल्प्येत, हन्त! तर्हि इन्द्रियादिष्वेव भक्तिरियं प्रयुज्यताम् ।
तथाच सिद्धे गत्यन्तरे किं वाक्येन? अयं तु निर्णयः-
“विरुद्धव्याप्तिसद्भावो वाक्यस्यापि तथा भवेत् ।
असद्भावो यदि भवेत्, सम एव द्वयोरपि’’ ॥
“दशमस्त्वमसीत्यादौ भवेत् वाक्यात् परोक्षधीः ।
सामग्र्युत्थापनात्पश्चात् प्रत्यक्षादपरोक्षधीः’’ ॥
न च प्रत्यक्षादेरद्वैतगोचरत्वविरोधः; तेषामपि त्वदभिमतकूटयुक्तिभिस्तत्त्वमस्यादेरिवाद्वैत गोचरत्वस्थापनस्य शक्यत्वात् ।
यत्तु-प्रत्यक्षस्य न परोक्षात्परिभव इति-तदपि ज्वालैक्यबाधकभेदानुमानादिदर्शनेन निरस्तमेव।
यदपि ऐन्द्रियकप्रत्यक्षाच्छास्त्रजन्यप्रत्यक्षस्य प्राबल्यमुक्तं तदप्यसत्, एकदोषप्रसूतत्वादेर्दर्शयिष्यमाणत्वात् ।
“प्रत्यक्षं ब्रह्म गृह्णाति यदि च ब्रह्मदृश्यता ।
अब्रह्मालम्बनत्वे तु कथं नु बलवत्तरम्’’ ॥
यत्पुनः अपरोक्षज्ञानस्य मोक्षहेतुत्वं श्रुतिसिद्धमितितावन्मात्राभ्युपगमेऽपि न नः काचित् क्षतिः ।
यत्तु शब्दादेव शब्दस्यापरोक्षधीहेतुत्वं दर्शितम्, तदपि हास्म्; अन्यपरत्वस्य आकुमारं प्रसिद्धेः ।
साक्षात्कारहेतोर्मनसस्सहायतया दृढव्यवसायहेतुतामात्रेण वा तदुपपत्तेः ।
यथाश्रुतग्रहणे चक्षुष्ट्वादेरपि स्वीकर्तव्यत्वात् ।
“श्रुतिस्मृती तु विप्राणां नयने द्वे’’ इति हि श्रूयते ।
“वेदान्तविज्ञानसुनिश्चितार्थाः’’ (तै.महा ना-12) इत्यादिषु परोक्षव्यवसायमात्रमेवोच्यते ।
यत्तु विज्ञानमिति विशेषणेन विशेष विषयत्व सिद्ध्या निश्चयहेतुत्वे सिद्धेऽपि सुशब्देन विशेषणादपरोक्षनिश्चयहेतुत्वं सिद्धमिति, तदप्यत्यन्तपरिहास्यम्; अकम्पनीयव्यवसायविवक्षया सुशब्दप्रयोगात् ।
यःपुनः, “तत्त्वमस्यादिवाक्यजन्यज्ञानत्वात्’’ इति प्रयोग; स तज्जन्यश्रावणज्ञानेऽनैकान्तिकः ।
अतिप्रसङ्गश्च, वाक्यान्तरेष्वप्येवं प्रयोक्तुं शक्यत्वात् ।
परिहारस्य च समत्वात् ।
विषयजन्येषु च व्याप्तेः सङ्कोचात् ।
“न वाक्यजन्यताहेतुःप्रत्यक्षत्वे तु, किं पुनः।
अर्थजन्यत्वमेव स्यात् ततः सोपाधिकस्त्वयम्’’॥
वाक्यविषयप्रत्यक्षेऽपि वाक्यस्यैवार्थत्वादर्थजन्यत्वोपाधेः साध्यव्यापकत्वाविरोधः ।
यश्च स्वप्रकाशार्थोपदेशरूपत्वात्, स्वतः प्रत्यक्षार्थविषयत्वाद्वेति, सोऽपि पूर्ववदेवानेकान्तः ।
दृष्टान्तस्य च साध्यविकलत्वं दर्शितमेवेति ।
प्रतिप्रयोगश्च-विगीतं वाक्यं न स्वार्थविषयप्रत्यक्षज्ञानजनकम्, वाक्यत्वात् ज्योतिष्टोमादिवाक्यवत् ।
तथा विगीता धीः न स्वविषये प्रत्यक्षा, वाक्यजन्यत्वे सति वाक्येतरविषयत्वात् स्वर्गयागादिसम्बन्धबुद्धिवत् ।
न चात्र श्रुतिविरुद्धतया कालात्ययापदेशः; श्रुतेरन्यपरत्वस्थापनात् ।
न चदशमस्त्वमसीत्यादिवाक्येन तज्जन्यज्ञानेन वाऽनैकान्तिकता; तत्र साक्षात्कारप्रसङ्गस्यापि निषिद्धत्वात् ।
न च पूर्वैरेव हेतुभिः सप्रतिसाधनता, उपलम्भानुरोधेनानतिप्रसञ्जकव्याप्तिमूलतया प्रबलत्वात्, समत्वेऽपि प्रकरणसमत्वापादनदशायामन्योन्यप्रतिरोधस्येष्टत्वेन तत्प्रसङ्गानुपपत्तेश्च ।
न च विपक्षे बाधकविरहादप्रयोजकता; अविशेषात् ।
शब्दान्तराणामपि प्रत्यक्षज्ञानजनकत्वस्य बाधकस्य च सत्त्वात् ।
न चाप्रत्यक्षार्थविषयतया तेषां तदनुत्पादकत्वमिति वाच्यम्; तथाऽपि अयं घटः, दशमोऽयमित्यादिवाक्यानां तत्प्रसङ्गात् ।
न चेह भवताऽपि शब्दस्य साक्षात्कारहेतुत्वमिष्यते ।
इष्यतां वा; तथाऽपि ज्योतिष्टोमादिवाक्यानां तत्प्रसङ्गो दुर्वारः ।
तत्रापि मनस्सहकृतशब्देनैव प्रत्यक्षज्ञानं जायत इति साहसस्य सुशकत्वात् ।
तावतैव तेषां प्रत्यक्षार्थविषयत्वस्यापि सिद्धेरवान्तरविशेषानिर्धारणादिति ।
अस्तु वा विपक्षे बाधकाभावः ।
स तु पूर्वेषामपि समान इति ।
तथाऽपि प्रतिरोधमात्रं सिद्धम् ।
नन्वस्ति पूर्वेषां विपक्षे बाधकं, आत्मविज्ञानस्य मोक्षसाधनत्वश्रुत्यन्यथानुपपत्तिः ।
तथा हि श्रुत्युपपत्तिभ्यां वाक्यार्थज्ञानादेव मिथ्याभूतसंसारनिवृत्तिरिति स्थिते, प्रत्यक्षस्य भ्रमस्य परोक्षबाध्यत्वायोगेन प्रत्यक्षपरिशेषे, ब्रह्मणि च सकलकरणागोचरे, अनुमानादिषु च साक्षात्कारवैदेशिकेषु, यदि वाक्यादप्यपरोक्षज्ञानं न स्यात्, अपवर्गोऽपि न स्यादेवेति ।
इदमपि दण्डघातसूदितदर्वीकरनर्तनम्, अस्याः परिपाटिकायाः आरम्भ एव निरस्तत्वात् ।
यः पुनरसावूहः,अपरोक्षत्वं तत्त्वमस्यादिवाक्यजन्यज्ञानवृत्ति, अपरोक्षनिष्ठात्यन्ताभावा प्रतियोगित्वात् ज्ञानत्ववदिति ।
अत्र तावत् वाक्यस्वरूपजन्यतद्विषयश्रावणसाक्षात्कारेण सिद्धसाधनता, प्रत्यक्षज्ञानहेताविन्द्रियार्थसन्निकर्षे अर्थस्येन्द्रियस्य च तुल्यकक्षयत्वात् ।
अथ पुनः तत्त्वमस्यादिवाक्य जन्यतदर्थविषयज्ञानवृत्तीति साध्यं विशेष्येत, तथाऽपि
परोक्षतद्वाक्यार्थानुभवसंस्कारसहकृतश्रवणजन्य तदर्थप्रतिपादकत्वविशिष्टवाक्यस्वरूपसाक्षात्कारेण सिद्धसाधनतैव ।
स हि
प्रत्यभिज्ञात्मा विशेषणतया अर्थं, विशेष्यतया वाक्यं च विषयीकरोति ।
अथ तदर्थैकविषयकज्ञानवृत्तीति विशेषयसि, तथाऽपि ब्रह्मेतरविषयत्वधर्मेण हेतोरनैकान्किता ।
तत् खलु सम्प्रतिपन्नेष्वपरोक्षेषु सर्वेष्वपि वर्तते, न पुनः संशयत्वविपर्ययत्वचाक्षुषत्वादिवत् कुतश्चिदपरोक्षान्निवर्तते; तत्त्वमस्यादिवाक्यजन्ये तु ज्ञाने नैव वर्तते ।
तत्त्वमस्यादिवाक्यव्यतिरिक्तजन्योऽपि ब्रह्मसाक्षात्कारोऽस्तीति चेत्, हन्त! तर्हि वाक्यैकपरिशेषप्रयासं विस्मृतवानसि ।
तथासति वाक्यजन्यसाक्षात्कारकल्पनावैयर्थ्यं च; तत एव तत्कार्यसिद्धेः ।
यत्तु परोक्षत्वं तत्त्वमस्यादिवाक्यजन्यज्ञानवृत्तीति प्रत्यनुमाने सिद्धसाधनत्वमुक्तम्, तत्र यदि तत्त्वमस्यादिवाक्यजन्यज्ञानाभिव्यापीति प्रयुञ्जीत, तदा किं ब्रूयाः ।
श्रुतिविरोधात् कालात्ययापदेशमेव ब्रूम इति चेत्-हन्त! अद्यापि त्वया श्रुतिस्तपस्विनी कूटसाक्षिणी कल्प्यते ।
सा तु यथार्थवादिनी न
किञ्चित् त्वदभिमतं ब्रवीति ।
यत्तु अपरोक्षत्वं ज्योतिष्टोमादिवाक्यजन्यज्ञानवृतीति प्रतिबन्द्यनुमाने विपक्षे बाधकाभावात् वैषम्यमुक्तं तदत्रापि समानमेव ।
अर्थापत्तेः कल्पकासिद्ध्यादिनिरस्तत्वात् ।
परोक्षादपि ज्ञानात् प्रत्यक्षोपमर्दादेः प्रागेव समर्थितत्वात् ।
प्रत्यक्षापेक्षायामपि तत्त्वमस्यादिवाक्यव्यतिरिक्तजन्येनापि प्रत्यक्षेण बाधोपपत्तावन्यथासिद्धेः ।
अस्ति च योगिप्रत्यक्षमदृष्टविशेषसहकृतान्तः करणजन्यम् आगमसमधिगम्यमास्तिकानाम् ।
श्रूयते हि रामायणे-“रहस्यं च प्रकाशं चयद्वृत्तन्तस्य धीमतः ।
तत् सर्वं धर्मवीर्येण यथावत् सम्प्रपश्यति’’(श्री.रामा.बा-2-33)इति ।
यत्तु भाष्ये दर्शनसमानाकारत्वमुच्यते, तत् मोक्षसाधनभूताया ध्रुवानुस्मृतेरेव; न पुनर्धर्मवीर्यफलभूतयोगिप्रत्यक्षं निषिध्यते, तस्यापि श्रुतत्वात् ।
त्वदभिमतस्य तु श्रुतत्वं प्रतिक्षिप्तमिति तस्यैवासम्भवः ।
यद्यपि योगिप्रत्यक्षं फलमात्रमित्यस्मन्मतम्, तथाऽपि तदधीनायाःपरिशेषासिद्धेरन्यथा सिद्धेश्चोपन्यासो नानुपपन्नः।
“क्लृप्तकल्प्यविरोधे तु युक्तः क्लृप्तपरिग्रहः’’ इति न्यायात् ।
यदि च यत्किञ्चिद्विपक्षे बाधकमित्यभिमानमात्रेण परिगृह्यानुमिनोषि, तदा ज्योतिष्टोमादिवाक्येऽपि भवादृशःकोऽपि तथा तदभिमत्याऽनुमिनुयादेव ।
एवं सिद्धसाधनत्वानैकान्तिकत्वातिप्रसञ्जकत्वाऽऽभाससमानयोगक्षेमत्वान्यथासिद्धत्वादि दोषदूषितत्वादनुमानविशेषोत्प्रेक्षणमेव निपुणधियां सिषाधयिषितस्य प्रामाणिकत्वानुमितिमन्तर्गतां सूचयति ।
अत एवामिस्मन्नर्थे महाविद्यादिप्रयोगान्तरमनोरथोऽपि भग्नः ।
यत्तु शब्दस्य प्रत्यक्षान्तर्भावप्रसङ्गेस्वतोऽपरोक्षब्रह्मात्मविषयशब्दान्यत्वे सति अपरोक्षप्रमितिकारणत्वं प्रत्यक्षान्तर्भावप्रयोजकमित्युक्तम्, तत् तत्त्वमस्यादेरपरोक्षधीजनकत्वे वक्तव्यम्; तत्तु नाद्यापि सिद्ध्यतीति तत्प्रसङ्गो दुर्वारः ।
तदेवं वाक्यजन्यसाक्षात्कार सिद्धेः परिशेषात् तज्जन्यपरोक्षज्ञानेनैवाप्रतिबद्धसामग्रीसमुद्भवेन बाध इति स्थितौ श्रवणादिविधिनैरर्थक्यं प्रागुक्तं सुस्थितमेव ।
ततश्च श्रुतवेदान्तानां संसारानुवृत्तिदर्शनविरोधो दुर्वारः ।
बाधितानुवृत्तिस्तु बाधिता(वाद-5) ।
जीवन्मुक्तिं च विस्तरेण दूषयिष्यामः(वाद-31) ।
तदेवम् अनुमानाऽऽगमार्थापत्तीनां प्रतिक्षेपात्, प्रत्यक्षोपमानादेश्च तत्रासम्भवात्, त्वयाऽप्यनङ्गीकृतत्वाच्चनिष्प्रमाणतया तत्त्वमस्यादेः साक्षात्कारजनकत्ववचनं प्राचामाचार्यवन्दकानाम्प्रलोभनमात्रमित्युत्पश्यामः ।
इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां शब्दजन्यप्रत्यक्षभङ्गवादः सप्तमः ॥7॥
नृसिंहराजीया
पूर्ववादे शब्दादपरोक्षज्ञानं नेति वक्ष्यत इत्युक्तं प्रपञ्चयन् वादार्थं सङ्ङ्गृह्णाति ।विभूत्यंश इति।वादार्थं सूचयतिश्रुतिर्जात्यन्धानामिति। जात्यन्धानांरूपादिज्ञानमिव श्रुतिजन्यज्ञानमपि परोक्षमेवेतिभावः ।स्वविषयं चक्षुः स्वगोचरापरोक्षज्ञानम् । यद्वा अप्राकृतं चक्षुः । चित्तविक्षेपः चित्तव्यापारः । ननु परोक्ष ज्ञान जनकश्शब्दो परोक्षजनको न भवतीत्यत्राहनचेति। अन्वयव्यतिरेकाभ्याङ्कारणत्वं तौ शब्देपि समाविति भावः । किन्तु दशमस्त्वमसीत्यादौ ज्ञानमात्राजनकत्वात्तदभावः शङ्क्यते ।यद्वा ज्ञाने सत्यपि परोक्षत्वान्नाद्य इत्याहनह््यत्रेति। द्वितीयं प्रतिवक्तिसन्नपिचेति। उभयत्र स्वानुभवं प्रमाणयतिस्वधीति। किञ्च परोक्षविषयकप्रमाणत्वेनैव परोक्षज्ञानजनकत्वादपरोक्षविषयक प्रमाणस्य परोक्षजनकत्वायोगात् पारिशेषाद(प्रवर्तक) प्यपरोक्षजनकत्व मित्याहप्रत्यक्षेचेति। प्रत्यक्षविषयप्रमाणस्यापि परोक्षज्ञानजनकत्वे चक्षुषा शुक्तित्वप्रकाशस्यापि परोक्षत्वाविरोधादपरोक्षप्रकाशस्यैव भ्रमनिवर्तकत्वाद्रजतभ्रमस्तस्मिन् सत्यपि स्यादित्याहअन्यथेति। केचित्तु प्रत्यक्षविषय शब्दस्य परोक्षज्ञानजनकत्वे रजतप्रत्यक्ष भ्रमवतः (++++++) वेशशाद्रजत भ्रमावृत्तिर्नस्यादित्याहअन्यथेतीत्याहुः। ननु निवर्तकज्ञानं परोक्षमस्तु तदिन्दियकरणत्वं चास्त्विति शङ्कतेनचायमिति। नन्वस्तु वाक्यादपि परोक्षज्ञानं तथापीन्द्रियजन्यमेव निवर्तकमस्त्वित्यत्राहवाक्यमन्तरेणापीति।दशमस्त्वमसीतिवाक्याभावे तादृशभ्रमनिवृत्त्यभावान्निवर्तकज्ञानं वाक्यादेवेत्यर्थः ।अन्यतरेणेति। वाक्येन्द्रिययोर्निरपेक्षकरणत्वेन क्लप्तयोरन्यतरसहकारित्वे मानाभावाद्रत्नतत्वाधिगमेपि शाब्दज्ञानस्य तज्जन्यसंस्कारस्य वासहकारित्वं न शब्दस्येति भावः । ननु चक्षुरादीनां प्रत्येकं व्यभिचारात् शाब्दज्ञाने च वैजात्यस्याक्लप्तत्वान्नेन्द्रियस्य वाक्यसहकारित्वं सम्भवति । कारणत्वं तु सम्भवति । प्रत्यक्षे चाक्षुषस्पार्शनादिवैजात्यस्य क्ल्प्तत्वादिति शङ्कतेकिन्नामेति। विपरिवर्तापादनेपि किं शब्दकरणकत्वनिर्धारकमिति पृच्छतितथापीति ।चक्षुरादेर्व्यापाराभावान्मनसश्च क्वापिकरणत्वानङ्गीकाराच्छब्दस्यैव करणत्वं वाच्यमित्याहअन्धस्येति। ननु प्रत्यक्षबाधाभावेपि कार्यभेदज्ञापकान्मनोघटितप्रत्यक्षसामग्रीशाब्दसामग्रीभेदात् यौक्तिकभेदोस्त्विति शङ्कतेन चेति। मनोमात्रघटिता न धीभेदसामग्री । किन्त्विद्रियादेस्सहकारिणीति न सामग्रीभेदरूपबाधकमित्याहकदाचिदपीति। अन्यथा अयं घट इत्यादावपि धीभेद प्रसङ्गादिति भावः । अस्ति स्त्रीत्वं दुग्धजननोपाधिरिति शङ्कतेअस्तीति । अन्यथेति ।चक्षुरादीनां ज्ञातानां रूपादिज्ञानजनकत्वं न स्यादिति कारणज्ञानमेव न कारणं किं पुनस्तद्विशेषज्ञानमिति भावः । उक्तार्थे सम्मतिं दर्शयतियथाहुरिति। नन्वत्यन्ताज्ञातत्वे यस्तु सत्ता नास्तीति कथं ज्ञातस्य कारणत्वमित्यत आहन चास्येति। स्वतो परोक्षार्थगोचरत्वेनैव प्रमाणस्यापरोक्षज्ञानजनकत्वा(त्व)निश्चयादित्यर्थः । मिथ्याभूतस्य वस्तुनो मिथ्यात्वं निवर्तकज्ञानापरोक्ष्यनियतमिति । तत्वमस्यादिवाक्यजन्यज्ञाननिवर्त्यप्रपञ्चमिथ्यात्वं तद्ज्ञानापरोक्ष्यं विनानुपपन्नमिति तर्केणाप्रयोजकत्वं निराकरोतिनिवर्त्येति। ननु मिथ्यात्वं प्रपञ्चस्यासिद्धं दूरे ज्ञानमत्र निवर्त्यत्वं चेत्यत्राहस्वत इति। स्फटिकमणौ सन्निहितबीजपूररागप्रतिभासवद्ब्रह्मणि प्रपञ्चावभासः प्रपञ्चस्यमिथ्यात्वेप्युपपन्नं मथ्यात्वं च ज्ञाननिवर्त्यत्वम् । तत्वं च श्रुतिसिद्धमित्यर्थः । ज्ञानमात्रनिवर्त्यत्वे युक्तिमप्याहमिथ्याभूतस्येति।मिथ्याभूतस्य ज्ञानमात्र निवर्त्यत्वं युक्त चेत्यन्वयः । ननु परोक्षत्वेपि निवर्तकत्वमस्त्वित्यत्राहन च परोक्षमिति। शुक्तिरजतादौ तथा दर्शनादिति भावः । मनसोपीति। सहकारि विशेषमनासाद्य मनसा सोऽहिमिति ज्ञानासम्भवादित्यर्थः ।तस्यैवेति। यदसाधारणमासाद्य मनो बहिर्गोचरप्रमां जनयति तस्य करणत्वनियमादिति भावः । युक्तयन्तरमाहमनसश्चेति। यद्यपि शब्दस्यापि तादृशसाक्षात्कारकारणत्वमसिद्धम् । तथापि तादृशज्ञानकारणत्वं सिद्धम् ।मनसस्तु तदुभयं चासिद्धं कल्पनीयमिति लाघवाच्छब्दस्यैव साक्षात्कारजनकत्वकल्पनं युक्तमिति भावः ।तथात्वे चेति। मनसस्तादृश साक्षात्कारकरणत्वस्य दृष्टचरत्वे श्रवणादि सापेक्षापरोक्षज्ञानेप्यन्यत्रक्लप्त मनस एव करणत्वेन शब्दस्य करणत्वाभावात्परोक्षज्ञानेतु श्रवणादि नैरपेक्षयात्तद्वै्यर्थ्यमिति भावः ।ननु मनोग्राह्यत्वं श्रुतिसिद्धं न कल्प्यमित्यत्राहन चक्षुषेति।अतएवेति। व्यवस्थानुपपत्तेरित्यनन्तरं मनोग्राह्यत्वं न सम्भवतीति शेषः। मनसः स्वतोऽपरोक्षजनकत्वमेव नास्ति दूरे ब्रह्मगोचरापरोक्षज्ञानजनकत्वमित्याहन चेति। अत्र किं मनोमात्रस्य जनकत्वम् उत भावनासहकृतस्य । आद्येपि ब्रह्मगोचरसाक्षात्कारजनकत्वं यद्वा सुखादिगोचरसाक्षात्कारजनकत्वमिति विकल्पमभिप्रेत्याद्ये आहआत्मन इति। न द्वितीय इत्याहसुखादेस्त्विति। प्रथमद्वितीयमाहभावनेति। भावना - संस्कारःभावनासहकृतमनोजन्यत्वेन पराभिमतस्येत्यर्थः ।पथिकेति। प्रोषितचिन्तायाः प्रियतमायाः साक्षात्कारवदित्यर्थः । ननु भ्रमरूपत्वेपि साक्षात्कारजनकत्वं सिद्धमित्यत्राहभ्रान्तिरूपेति। पूर्वपरोक्षज्ञानस्य निवर्तकत्वादर्शनात् अपरोक्षपरिशेषः प्रमाणान्तराणाम् अप्रवृत्तेः वाक्यपरिशेषश्चोक्तः । इदानीं परोक्षस्यापरोक्षस्य वा निवर्तकत्वासम्भवात् अपरोक्षत्वं शब्दजन्यत्वं च परिशेषयतिकिं चेति। न्यूनत्वात्परोक्षं न क्षमं समत्वादक्षजं च न क्षममित्यर्थः । श्रुतिरपि शब्दस्यापरोक्ष ज्ञानजनकत्वं तस्यैव निवर्तकत्वं चाह तत्साक्षात्कारस्य चेति।निचाय्य - साक्षात्कृत्य, चायृ - दर्शने इति घातुः । मृत्युः - संसारः तस्मै दर्शयति उपदेशेन - साक्षात्कारञ्जनयतीत्यर्थः ।वेदान्तेतिविज्ञानं - विशेषज्ञानसाधनम् । तेन वेदान्तेन सूपसर्गवशात् साक्षात्पदार्थः इत्यर्थः ।स्वाध्यायः चक्षुः । साक्षात्कार साधनमित्यर्थः ।न मांसचक्षुरितिमासञ्चक्षुर्निषेधात् श्रुतिचक्षुरनुमतमिति भावः । प्रयोगश्चेति। नन्वयमसिद्धो हेतुः । वाक्यार्थज्ञाने वाक्यस्यापि तत्वेनाजनकत्वात्तद्ज्ञानस्यैव जनकत्वादितिचेन्न । प्रयोज्यत्वस्य विवक्षितत्वात् । नच तत्प्रयोज्यनुमित्यादौ व्यभिचारः । तदन्यत्वस्यापि विवक्षणात्।तत्रैव प्रतिज्ञायामिति। विगीतं तत्वमस्यादि वाक्यजन्यज्ञानं पक्ष इत्यर्थः ।अपरोक्ष विषयत्वादिति। अपरोक्षविषयकज्ञानत्वादित्यर्थः तेन नेच्छादौ व्यभिचारः ।तत्वमस्यादि वाक्यमिति। साक्षात्कारजनकमित्युक्तेः सगोचर श्रावणज्ञानजनकत्वात् सिद्धसाधनम् अत उक्तंस्व प्रतिपाद्येतिवाक्यस्यापि लक्षणया स्वप्रतिपाद्यत्वं यदि तदा तदन्यत्वेन वा विशेषणं देयम् । स्वर्गकामादि वाक्ये व्यभिचारवारणाय हेतौ स्वप्रकाशार्थेति विशेषणं देयम् । यदाकदाचिदपरोक्षार्थगोचर गामानयेति वाक्ये व्यभिचारवारणायस्वत इति। ननु यज्ञदत्तं प्रति मम सुखमस्तीति देवदत्तोदीरित वाक्ये व्यभिचारः । श्रोतुरपरोक्षार्थविषयत्वादित्यर्थस्य विवक्षितत्वात् । नचासिद्धिः। तत्त्वं पदार्थयोरपि स्व प्रकाशतया तं प्रत्यपरोक्षत्वात् । अपरोक्षत्वमित्यावृत्त्या तत्वमस्यादि वाक्यजन्य ज्ञानवृत्तीत्यर्थः । यद्यप्यत्यन्तभावाप्रतियोगित्वमात्रस्यास्य ध्यातद्वारकविशेषणं व्यर्थम् । तथापि तादृशप्रतियोगित्वाभावरूपवशिष्टाभावेन विशेषणावैयर्थ्यमिति ध्येयम् । सप्रतिसाधनता सत्प्रतिपक्षत्वम् । किञ्चिद्ज्ञानवृत्तित्व विवक्षायां सिद्धसाधनमित्याहसिद्धसाधनादिति॥ सिद्धसाधनतामुपपादयतितेषामेवेति। अत एव प्रति बन्धनिरासाय श्रवणाद्यपेक्षेति भावः । यावद्ज्ञानविवक्षायां दोषमाहपूर्वोक्तेति। निचाय्य तम् इत्यादिनेत्यर्थः । चरमानुमानस्य आभाससाम्यमाहन चेति। अपरोक्षत्वम् अग्निहोत्रादि वाक्यजन्यज्ञानवृत्तीत्यपि प्रयोक्तुं शक्यमित्यर्थः । अपरोक्षत्वाभावे प्रामाण्यं न स्यादित्यत्राहनहीति। चार्वाकव्यतिरिक्तानां तन्नियमाभावादिति भावः । अनुष्ठानानुपत्तिरपि नेत्याहनापीति। अनुष्ठानमत्रक्रिया परोक्षादपि जन्यत इत्यर्थः ।तत एव। अनुष्ठितादेव ।फलकामनाया इति। अनेन इदं भूयादिति फलकामनायाइत्यर्थः । फलसम्बन्धः - फलसाधनत्वम्।अत एवेति। प्रवृत्तः क्रियाजनककृतीत्यपौनरुक्त्यमित्याहइहत्विति।स्वोक्तानु माने निवर्त्यमिथ्यात्वान्यथानुपपत्तिरित्यर्थः ।एवमिति। अग्निहोत्रादिवाक्यजन्यज्ञानमपरोक्षं तद्वाक््यजन्यत्वात् तद्वाक्यजन्य श्रावणवत् । तथा स्वप्रतिपाद्यापरोक्षजनकम् अग्निहोत्रावाक्यं दशमस्त्वमसीति वाक्यन्यतरत्वात्, दशमादि वाक्यवदिति प्रयोगो द्रष्टव्यः ।महाविद्याजातय इति । (1) ““तत्वमस्यादिवाक्यजन्यज्ञानं साक्षात्वातिरिक्तस्ववृत्तिधर्मातिरिक्तधर्माधिकरणं मेयत्वात् घटवत्’’ । (2) तत्वमस्यादिवाक्यं साक्षात्कारजनकत्वातिरिक्त स्ववृत्ति धर्मातिरिक्त धर्माधिकरणं मेयत्वात् घटवत् । (3) साक्षात्वं तत्वमस्यादिवाक्यजन्यज्ञानवृत्तित्वातिरिक्तस्वधर्मातिरिक्तधर्मवत् मेयत्वात् घटवदिति महाविद्याप्रयोगो द्रष्टव्यः । ननु महाविद्यानामेव विशिष्यतर्कापेक्षेति कुतः अनुमानमात्रस्य तर्कापेक्षितत्वादित्यत्राहस्वपरपक्षेति। स्वेनैव प्रति पक्षसम्भवाद्विशिष्योक्तिरिति भावः । यत्रानुकूलतर्कवत्वं न तत्साध्यसाधने सत्प्रतिपक्षत्वमित्याहतत्रेति। शब्दस्य पृथक्प्रमाणत्वेन परिगणनविरोधमाशङ्कतेनन्विति।योगिमनोन्यत्वे सतीति। ननूत्तानप्रत्यासत्या भाग्यगोचरापरोक्षजनकास्मदादिमनसोन्तर्भाव प्रसङ्ग इति चेन्मनोन्यत्वस्यैव विवक्षितत्वात् ।इहापीति। शब्दन्यत्वेसतीत्येव विवक्षितम् । इतरत्स्वरूपकथनार्थमितिद्रष्टव्यम् ।पूवत्रेति।यथा मनसः प्रत्यक्षजनकत्वेपि बाह््यप्रत्यक्ष प्रमाणान्तर्भावो बाधितत्वाद्यथा नास्ति तथेन्द्रियान्तर्भावोऽपि तथा नास्तीत्यर्थः । ननु कथमिष्टप्रसङ्गः चक्षुरादि विशेषान्तर्भावाभावे सा मानान्तर्भावायोगादित्यत्राहऐकराश्य इति। चक्षुराद्यवान्तर भेदाश्रयण वच्छाब्दरूपावान्न्तरभेदाश्रयणसम्भवान्नयावद्विशेषान्तर्भावा भाव इति भावः ।तदेतत्विति। ऐकराश्यमित्यर्थः । तद्दर्शनस्य - साक्षात्कारजनकत्वदर्शनस्य ।प्रागुक्तप्रतिबन्धेति। प्रागुक्तभेदवासना कृतप्रतिबन्धनिवर्तकत्वेनारादुपकारकत्वादन्यथा जातमपि, साक्षात्कारज्ञानं न भ्रमं निवर्तयतीत्यर्थः । यद्वा वाक्यं प्रतिबन्धान्नापरोक्षधीजनकमिति श्रवणादेव प्रतिबन्धनिवर्तकत्वं फलोपकारकत्वं साक्षात्काररूपफलजनने सहकारित्वमित्यर्थः । तदात्विकेत्विति। संवित्स्वप्रकाशेति वाक्यजन्यसर्वसंवित्स्व प्रकाशविषयिण्यास्संविदस्तदानीं वर्तमानत्वेपि तासां संविदामवर्तमानत्वात् सर्वसंवित्स्वप्रकाशत्वं ना परोक्षमिति तद्विषयिणी संविन्न प्रत्यक्षेत्यर्थः । तत्र हेतुमाहयतइति । अपरोक्षार्थविषयत्वप्रयुक्तत्वात् ज्ञानापरोक्षस्येत्यर्थः । नत्वेतत्संवित्स्वप्रकाशत्वम् एव । सर्वसंवित्स्वप्रकाशत्वम् एतच्चापरोक्षमेवेति तद्विषयत्वेना परोक्ष्यं स्यादित्याशङ्क्य निराकरोतिनचेति। वस्तुतस्संविदस्स्वप्रकाशत्वं न स्वतो परोक्षं तेन ज्ञानेन अप्रकाशादित्यपि ध्येयम् । सर्वसंविदामैक्येपि पारोक्ष्य व्यवहारानुसारेण भेदस्यावश्यकत्वे तद्रीत्या स्वप्रकाशत्वमपि नानेति नैकापरोक्ष्यमात्रेण सर्वापरोक्ष्यमित्याहतदैक्येपीति। ननु संवित्स्वप्रकाशेति स्ववाक्यजन्य ज्ञानस्य स्वप्रकाशत्वेनापरोक्षत्वात्वात् तज्जनकत्वेन अपरोक्षत्वा हेतुत्वं सिद्धमेव । नच प्रत्यक्षांशे जनकत्वमेव साध्यम् । अन्यथा सिद्धसाधनात् । वाक्यं च विषयांश एव हेतुः । न स्वजन्य ज्ञानांशेपीति । अतः प्रत्यक्ष जनकत्वं नास्त्येवेति वाच्यम् । तदंशेपि वाक्यातिरिक्तकारणादर्शनेन तस्यैव कारणत्वादिति शङ्कतेवाक्येति। एवं तर्हि सिद्धसाधनं हेतुविशेषण वैयर्थ्यञ्चेत्याहतर्हीति। ननु विषयप्रकाशांशात् भिन्नप्रत्यक्षांशजनकत्वं साध्यम् । अनुमानादिषु वह्निमानितिजानामीत्यत्र वह्निमानित्यंशो विषयांशः। संवित्स्वप्रकाशेत्यत्र तु तज्जन्यज्ञानस्यापि । संवित्वेन विषयान्त्तर्भावात्तत्वप्रकाशेनैव स्वव्यवहारोपपत्तौ जानामीत्यंशान्तर कल्पकाभावात्स्वप्रत्यक्षत्वरूपस्वात्म प्रकाशांशो विषयप्रकाशांश्चाभिन्न एवेत्यदोष इति शङ्कतेसत्यमिति। संविदित्यतीतानागत स्वपरसाधारण संविन्मात्रगोचरविषयप्रकाशांशमात्रेण जानामिति तदातन व्यक्तिमात्र गोचर तदाश्रयपुरुष विशेषसम्बन्धित्वादिविशिष्टव्यवहारस्य जानामीत्यंशान्तरेण । सम्भवात् ततश्च दृष्टान्तासिद्धिरिति परिहरतिनेति।यद्यपि विषयांशेऽपि स्वस्यान्तर्भावो अत्स्येव तथापि संविदं तरांश इव एतदंशेपि परोक्ष एवेति भावः । यद्यपि विषयांशेऽपि स्वस्यान्तर्भावोऽस्त्येव । तथापि संविदन्तरांश इव एतदंशेऽपि परोक्ष एवेति भावः ।दर्शितत्वादिति। दर्शितप्रायत्वादित्यर्थः । दशमस्त्वमसीत्यत्रापि असिद्धिं दर्शयतिएवमिति । सिद्धानुवादेति।प्रत्यक्षतो ज्ञातार्थविषयकमित्यर्थः । प्रमैव कुतो स्यादित्यत्राहपरोक्षेति। प्रागविदितस्वात्मदशमत्वस्य यदि तस्य चिद्विशिष्टगोचरज्ञानेऽपि प्रत्यक्षता धीः सभ्रान्तिरेवेत्याहउद्देशेति। प्राचीनोद्देशांश प्रत्यक्षभेदभ्रम इति भावः। अयं पर्वतो वह्निमानिति पर्वतस्य प्रत्यक्षत्वात् गुरुत्वाश्रयस्य प्रत्यक्षत्वादिति भावः । आपरोक्ष््यादिति। परोक्षत्वापरोक्षत्वयोर्ज्ञानधर्मतया तद्भेदेन प्रत्यक्षविषयो परोक्षप्रकाशस्य नव्याघात इति भावः ।विषयधर्मत्वेऽपीति। ज्ञाने परोक्ष्यापरोक्ष्येन विषयनिबन्धने । अपितु करणनिबन्धने ।इन्द्रियलिङ्गादिजन्यज्ञानेषु वैलक्षण्यानुभवात् । तथाच विषयधर्मत्वेपि करणद्वयप्रवृत्तौ तन्निबन्धन परोक्षापरोक्षरूपज्ञानद्वयमविरुद्धमिति भावः ।कालभेदेनेति। परोक्षे विविधैक्येपि तत्वमस्यादि वाक्यात् श्रवणात्प्राक्परोक्षज्ञानस्याश्रवणाद्यनन्तरं परोक्षज्ञानस्यङ्गीकारादितिभावः । विपरीतवासनासत्वे कथं परोक्षमपि ज्ञनमित्यत्राह। विपरीतेति। प्रत्यक्ष एव विपरीतवासनायाः प्रतिबन्धकत्वं नतु परोक्ष इति श्रवणात्प्राक्परोक्षज्ञानस्य त्वयाङ्गीकारादिति भावः ।यदि प्रत्यक्ष इति। शुक्तिप्रकाशोऽपि परोक्ष एव स्यादितिभावः ।किं शुक्ताविति। रजतत्वप्रकाशवत् शुक्तित्वप्रकाशोप्यपरोक्ष एवेति भावः ।नन्वपरोक्षेपिशुक्तित्वेन परोक्षप्रकाशं नापाद यामः । किन्तु विरुद्धयोरविरोधाङ्गीकारे शुक्तित्वेन भासमाने रजतभ्रमस्स्यादिति शङ्कतेअथेति। प्रतिबन्धकाभावस्य कारणत्वपक्ष आहविशेषाग्रहेति।इहत्वितिविषयगतमपरोक्षत्वं न परोक्षज्ञान प्रतिबन्धकम् । नापि तदभावः कारणमिति भावः ।तथाविधेति।परोक्षविषयप्रयोग इति वा परोक्षविषयप्रयोगेपि तच्छक्तेस्तदवस्थत्वादिति शब्दरूपसामग्रीदर्शितेत्यर्थः ।अत एवेति। परोक्षप्रत्यक्षस्यापरोक्ष विषयेप्यङ्गीकारेण व्याप्तिरूपाङ्गवैकल्यात्तर्का भासतेत्यर्थः । विपर्यय इति। यदि वह्णिर्नस्यात्तर्हि धूमोपि न स्यादित्यत्र तर्के तस्माद्वह्निमानिति विपर्ययपर्यवसाने धूमस्य पराभीष्टस्य स्वाभीष्ट वह्निसाधकत्वमित्यर्थः । स्वानिष्टं प्रसञ्जकमित्यत्र हेतुमाहप्रसञ्जकेत्विति। प्रसञ्जिकविपर्यय पर्यवसानात्प्रसञ्जिकस्येष्टत्वे तदभावस्यानिष्टत्वादनिष्टपर्यवसानमित्यर्थः । परानिष्टमेव प्रसञ्जनीयमित्यत्र हेतुमाहस्वाभीष्टेति। आपाद्यविपर्ययस्य इष्टसाधनत्वादापाद्यस्य तु पराभीष्टत्वे तदभावासिद्धेर्न स्वेष्टसिद्धिरित्यर्थः । उभयमिति। प्रसञ्जकं च स्वेष्टप्रसञ्जनीयं परेष्टमित्यर्थः । प्रसञ्जकस्य स्वेष्टत्वमुपपादयतिस्वत इति।मिथ्यैतदिति। परोक्षज्ञानस्य मिथ्यात्वेन तदभावस्य परमार्थत्वेनष्टेत्वात् इष्यमाणाभाव प्रतियोगित्वेनानिष्टत्वं युक्तमिति भावः ।पश्चात्तनेति। श्रवणाद्यनन्तरभाविप्रत्यक्षस्यापि मिथ्यात्वात्तदप्युक्तगत्यानिष्टमित्यनेन तर्केणानिष्टमेव सिध्यतीत्यर्थः । किञ्च परोक्षाभवस्तत्र न सम्भवति येन तस्यानिष्टत्वं स्यादित्याहशुक्ताविति। स्मर्तुमर्हसीत्यनन्तरं तन्न सम्भवतीति शेषः । असम्भवमेवाहसत्यमिति। यद्वा शुक्तावित्येत्पूर्वस्य उपपादकतया योज्यम् । किं चाभावस्य सत्यत्वादेवहि परोक्षज्ञानस्य प्रतियोगिनोनिष्टत्वं वाच्यम् । अभावस्य सत्वं च शुक्तिरजतयोरिव मिथ्यात्वस्याविरोधापादकत्वात् वाच्यं तच्च न सम्भवति । सत्यमिथ्यात्वयोर्विरुद्धत्वादन्यथा बाध्यबाधकभावानुपपत्तेः । तस्मात्परोक्षतद भावयोरविरोधासिद्धेः । परोक्ष प्रतियोगिकाभावासम्भवात् । न प्रसञ्जकस्यानिष्टत्वमित्याहसत्यं विरोधादिति। सत्यं शुक्तित्वमित्यन्वयः ।अविरोधापादकं न भवतीति। परोक्षतद भावयोरिति शेषः ।तर्कप्रसञ्जनीयस्य परेष्टत्वं दर्शयति ।प्रसञ्जनीयं दर्शयति ।प्रसञ्जनीयं चेति। परोक्षज्ञानस्या परोक्षभ्रमानिवर्तकत्वेपि शाब्दज्ञानसचिवेन्द्रियेण जातापरोक्षज्ञानादेव भ्रमनिवृत्तिस्यादित्यत्राहदुष्टेन्द्रियेति। दोषमाहात्म्याप्तोपदेशे सत्यपि क्वचिन्नतत्वापरोक्षमुत्पद्यते किन्तु भ्रम एवेत्यर्थः ।अन्यथेति।दोषमात्राद्भ्रमाभाव इत्यर्थः ।एवं विरुद्धयोस्सन्निपाते शुक्तित्वज्ञाने सत्यपि रजत भ्रमस्यादित्यापादनार्थम्मभिप्रेत्य तत्र दोष उक्तः । इदानीन्त्वपरोक्षेपि परोक्ष प्रवेशोस्तिचेच्छुक्तित्वेना परोक्षेऽपि रजतत्वेन परोक्षस्यादित्यापादनार्थमभिप्रेत्य दोषमाहतथेति। अयोग्यताज्ञानं प्रतिबन्धकन्नेति भावः।विशेषत इति। प्रत्यक्षयोग्यार्थविषयकं विशेषतोदृष्टम् । तदयोग्यार्थ विषयकं सामान्यतोदृष्टमभिप्रेतम्। तथाविधेति। प्रत्यक्षार्थगोचरेष्वित्यर्थः । ननुतदानीमपरोक्षे परोक्षप्रकाशोव्याहतः।अग्न्यादिर्नतथा । ब्रह्म तु नित्या परोक्षत्वात्तथैवेति शङ्कतेयोग्यतेति। तत्र किं तदानीं प्रत्यक्षत्वमात्रं विवक्षितम् उत तत्पुरुषस्येति विकल्पमभिप्रेत्याद्या आहयस्य कस्यचिदिति। आरण्यकानां योगिनामिवास्य हिरण्यगर्भादेश्च प्रत्यक्षत्वादित्यर्थः । द्वितीयं शङ्कतेतथापीति। प्रतिवक्तितर्हीति। तत्र परोक्षज्ञानस्य व्याघाताभाव इति भावः । ननु प्रत्यक्षयोग्यताह्यनन्तरभावि प्रत्यक्षत्वमविवक्षितमिति शङ्कतेयत्पुनरिति। ननु तदा प्रत्यक्षत्वमेव विवक्षितम् । यदा दशमत्वप्रत्यक्षं तदाह्यपरोक्षज्ञानसमर्थनमिति स एव दृष्टान्त इत्यत्राहयदाचेति। ननु स्वत इति न विशेषणम् । अपितु स्वरूपकथनमात्रम् इत्यत्राहइष्यतां वेति। अस्तु योगि प्रभृतीन्प्रति जनकत्वमित्यत्राहतथा चेति। अस्त्वनुमानादेरपि साक्षात्कारजनकत्वमित्यत्राह - तथाचेति। भवति को दोष इत्यत्राहततश्चेति। शूद्राणां त्रैवर्णिकत्वेप्यनुमानाधिकारस्य अनपायात् तेषामप्यानुमानिक ब्रह्म गोचरापरोक्षज्ञानत्वाद्ब्रह्म विद्याधिकारादिति भावः । श्रवणादिवैयर्थ्यमादि शब्दार्थः ।किं चेति। सुखदुःखादिष्विव सर्वेष्वपि साक्षिवेद्येषु साक्षात्वाविशेषादिति भावः । ननु दृष्टान्तासिद्धिः स्वतोपरोक्षार्थ विषयत्वं तदस्त्येव आत्मस्वरूपमादायेतिचोदयतियद्यपीति। किमयं हेतुः स्वतो आपरोक्षार्थांशे अपरोक्षजनकत्वसाधकः उततदर्थमात्रे । न द्वितीयः ।त्वं घटश्चतिष्ठतः इत्यत्र घटांशेप्यपरोक्षापत्तिरिति द्वितीयस्य निरस्तत्वाद्याभिप्रायेण दोषमाहतत्रापीति। सङ्ख्याविशिष्टापरोक्षज्ञानजनकत्वं न स्यादित्यसिद्धिरिति भावः ।अन्यथेति। सङ्ख्याविशिष्टाकारेणस्वतोऽपरोक्षत्वे वाक्यवैयर्थ्यमिति भावः ।अनुग्राहकतर्काभावादिति। उक्तरीत्या व्याप्त्यभावादिति भावः ।विरुद्धत्वादितिवाक्यत्वेन परोक्षजनकत्वादपरोक्षजनकत्वाभावव्याप्तेवाक्यस्येति भावः। अत एवेति।विरुद्धत्वादेव स्वतो परोक्षार्थ विषयत्वं नापरोक्षजनकत्वावच्छेदकमित्यर्थः । असिध्यन्यथासिद्धी उपपादयतिसत्यमेवेति। सत्यत्वसाधकं मिथ्यात्वस्यासिद्धिः । सिद्धासत्यत्वेवा मिथ्यात्वेवा भगवत्सङ्कल्प निवर्त्यत्वसाधनादन्यथासिद्धिरिति भावः । वेदनमिति प्रागेव व्याख्यातम् । मिथ्याभूतत्वेपि ज्ञानमात्र निवर्त्यत्वमपि नास्तीत्याहमिथ्याभूतस्यचेति। युक्तिः - युक्तता । मिथ्यात्वे हेतुदूषणं कारिकया वदतिदृश्यत्वादिति। प्रपञ्चस्य दृश्यत्वात् मिथ्यात्वमभिधीयतेयदीत्यन्वयःव्यावहारिकमितितथा चा हेत्वसिद्धेः न मिथ्यात्वमिति भावः । तर्हि प्रपञ्चस्यापि मिथ्यात्वं न स्यात् हेत्वसिद्धेरित्याहप्रपञ्चस्यापीति । तद्विपरीतेतितद्ज्ञानविषयविपरीतावगाहनमित्यर्थः । आसां व्यावहारिकं विविच्यवक्तुमावश्यकमित्यर्थः । किं मिथ्यार्थो नास्ति? उतास्ति आद्य आहप्रध्वंसो हीति। द्वितीयेदोषमाहसत्यपीति।मिथ्यार्थस्य सत्वेपि तदुच्छेदं प्रति तत्वसाक्षात्कारस्य अकारणत्वादिति भावः। अकारणत्वे हेतुरन्यथेति।तत्वज्ञानाभावेपि सुषुप्तौ तन्निवृत्तेर्व्यतिरेकव्यभिचारादिति भावः । इदमुपलक्षणम् । मुद्गरादिना शुक्तिनिवृत्तौ रजतस्य सत्वप्रसङ्गात्तत्सत्वे निरधिष्ठानाध्यास प्रसङ्ग इति । दूषणान्तरमाहसंविघीनेतितत्वज्ञानेनापि तन्निवृत्यभावो दृष्टः द्विचन्द्रादौ । तथापि संविन्निवृत्यावश्यकत्वे तथैवान्यथासिद्धत्वात् न तन्निवर्तकं ज्ञानमिति भावःतन्निवृत्तेरेव हि निवृत्तिरिति। तन्निवृत्यधीना निवृत्तिरित्यर्थः। आरोपस्येति। पूर्ववदेव विकल्पे द्वितीयपूर्वपक्षे पूर्वार्धं, प्रथमपक्षे द्वितीयार्धं दूषणं योज्यम् । न द्वितीय इति। भ्रान्तिज्ञानं हि प्रध्वंसं प्रत्ययमपि पक्षो नोपपद्यत इत्यर्थः । न भ्रान्तिरिति विरोध ज्ञानत्वेन निवर्तकं न भवतीत्यर्थः । भ्रान्तिज्ञानेति। दोषस्य तत्वज्ञानप्रतिबन्धकतया भ्रान्तिज्ञानकारणरूप दोषोच्छेदे तत्वज्ञानम् । तत्वज्ञाने सति तत्कारणदोषोच्छेद इति परस्पराश्रय इति भावः ।सम्भवे वेति। तत्वज्ञानोत्पत्यथर्न्तदुच्छेदकल्पनमिति तत्कल्पनं व्यर्थमिति भावः ।प्रत्यक्षानुवृत्यथर्ं - यथावस्थितप्रत्यक्षानुवृत्यर्थं द्वितीयप्रत्यक्षज्ञानोत्पत्तेः प्राक् तत्सामग््रयनुवर्तते न वा द्वितीय दोषमाहतत्सामग्रयनुवृत्तीति। साक्षात्कारसामग्र्यभावे भ्रमसामग्र्युुच्छेदेपि साक्षात्कारानुत्पत्त्यानुवृत्यनुपपत्तेरित्यर्थः ।आद्य (द्वितीये) आहतस्यां चेति। तत्व साक्षात्कारसामग्रीसत्वे भ्रमसामग्रीसत्वेपि प्राथमिकवद्वितीयादेरुत्पत्य ुपपत्तेरित्यर्थः आद्य इति। भ्रमकारणस्य प्रतिबन्धकत्वादिति भावः ।न द्वितीय इति। नित्यत्वं हि धारावाहित्वम् । यद्वा ध्वंसप्रागभावाप्रतियोगित्वमितिविकल्पमभिप्रेत्य आद्य आहअन्योन्याश्रयणादिति। भ्रान्तिकारणस्य प्रतिबन्धकतया प्रत्यक्षं प्रति तदुच्छेदापेक्षायां यद्युक्तप्रत्यक्षेण तदुच्छेदस्तदा तदुच्छेदे प्रत्यक्षं प्रत्यक्षेण तदुच्छेद इत्यन्योन्याश्रय इत्यर्थः । द्वितीये दोषमाहनित्येति। नित्यत्वरूपस्वाभाविकत्व इत्यर्थः । केचित्तु आद्ये कथं तदवस्थाने प्रत्यक्षोदय अन्योन्याश्रययादित्येव पाठस्साधुः । अत एव सङ्ग्रहकारिकायां प्रतिबन्ध निवृत्त्यर्थमुच्छेदे प्रथमं कथं प्रत्यक्षत्वमित्यादिना प्रथमकोटिदूषण एव अन्योन्याश्रयकथनमित्याहुः । यथाश्रुतपाठे सङ्ग्रहोपि तदनुसारेणयोज्यः । विकल्पे चतुर्थं दूषयतिन चतुर्थ इति।सत्या सामग्रयां कार्ये विलम्बायोगात्प्रतियोगिभूत भ्रमसामग्र्युच्छेदमुखेनैव तदनुत्पादरूपप्रागभाव परिपालनं वाच्यं तच्च तृतीयकोटि निरासेनैव निरस्तमित्याह ।तदनुवर्तनस्यापीति। चन्द्रैकत्वादिनेति। चन्द्रैकत्वज्ञानेन विषयापहाररूप बाधो भवतीत्यर्थः । द्वित्वाध्यवसाय शैथिल्यमिति। द्वित्वनिश्चये सत्यतायां प्रामाण्यनिश्चय शैथिल्यं तद्विरुद्धाप्रामाण्यनिश्चय इत्यर्थः ।अन्यथेति। देहात्मज्ञाने प्रामाण्यनिश्चयाभावे अतिरिक्तात्मनिश्चयेप्रामाण्यनिश्चयः। तन्मूलकपारलौकिककर्मानुष्ठानं वा न स्यादित्यर्थः । ननु भ्रमानुवृत्तिरेव सत्यताध्यवसायशैथिल्यम् । तच्च न परोक्षज्ञानादिति शङ्कतेपरोक्षेति। उक्तत्वादिति प्रत्यक्षसिद्धेपि शुक्तेस्तत्वे विप्रलम्भकवाक्याद्रजतधीरुदेतीत्युक्तत्वादित्यर्थः । अपरोक्षे सञ्जातेपि भ्रान्तिरपि सम्भवति कारणसम्भवात्सत्वादित्यर्थः । तत्र दृष्टान्तमाहअङ्गुल्यादेरिति। यथा चन्द्रैकत्वे प्रत्यक्षे सत्यपि अङ्गुल्यवष्टम्भादिकारणैर्द्विचन्द्रभ्रम इत्यर्थः ।एतदिति। अपरोक्षज्ञानद्वारा एतदर्थस्य श्रवाणाद्युपायद्वारा परिशेषायोगादित्यर्थः । तत्र हेतुमाहअन्वयेति। तत्स्वरूपस्यासाधारण धर्मत्वेनाज्ञानादित्यर्थः । ननु तर्हि भाष्येशब्दप्रत्यक्षनिराकरणं न कृतमित्यत्राहएवं सामान्येनेति। दूषित प्रायत्वाच्च न दूषितमित्याहसत्यामिति।हेत्वन्तरमाहसमन्वयेति। तु शब्दोवधारणे ।दूषयिष्यतीति। भाष्यकारोक्त्यपेक्षया द्रष्टव्यम् । प्रत्यक्षपरिशेषमभ्युपेत्य वाक्यपरिशेषं दूषयतिअस्तुवेति । प्रत्यगिति। बाह्येन्द्रियत्वस्य प्रत्यग्गोचरज्ञानकत्वाभावव्याप्तिः अनुमानत्वस्यापरोक्षज्ञानजनकत्वाभाव व्याप्तिः । साशब्दस्याप्यस्तीति वाक्यस्यापि परित्यागस्यादिति भावः ।दर्शनेति। दशमस्त्वमसीत्यादौ दृश्यत इत्यर्थः ।तदिति। तत्राप्यपरोक्षजनकत्वस्यासिद्धेरित्यर्थः ।तदितिदर्शनसन्देहे प्रत्यक्षजनकसन्देहात् विरुद्धव्याप्यताग्रह इति भावः ।इन्द्रियादिष्विति। मनसः प्रत्यक्षपराङ्मुरवत्वसन्न्देह दशायामिद्रियत्वादावपि विरुद्धव्याप्तिग्रहासम्भवः तथा शब्द इव अनुमानेपि तत्संशयान्न विरुद्ध व्याप्तिग्रहसम्भव इति भावः ।हन्तेति। इन्द्रियेप्रत्यक्षजनकत्वस्य क्लप्तत्वादिति भावः उक्तं कारिकया सङ्गृह्णातिअयं तु निर्णय इति। ननु दशमस्त्वमसीत्यत्र वाक्यस्य परोक्षधीजनकत्वेदशमोहमिति ज्ञाने साक्षात्कारानु भवो न स्यादित्यत आहसामग्र्युत्थापनादिति। शाब्दज्ञानोपनीतद शमत्वगोचरमानसज्ञाने प्रत्यक्षत्वादिति भावः । तेषामिति। यथा भेदवासनानिरासे वाक्यस्याप्यपरोक्षज्ञानजनकत्वं कल्प्यते तथेन्द्रियस्यैव कल्प्यतामित्यर्थः । परिभवोह्युक्तयुक्त्या नार्थ प्रतीत्योर्निवृत्तित्वप्रामाण्यबुद्धिरिति । ज्वालैक्यप्रत्यक्षस्य तद्भेदानुमानात्परिभवो दृष्ट इत्यर्थः । एकदोषेति। अविद्यारूपदोषजन्यत्वस्याविशेषादिति शास्त्रप्रत्यक्षबलाबलचिन्तायांवक्ष्यमाणत्वादिति भावः । कथन्त्विति। ब्रह्मणि द्वैतगोचरत्वा भावाद्विरोधाभावाद्बलाबलचिन्तैव कुत इत्यर्थः ।ततः काचित्क्षतिरिति। शब्दस्यापरोक्ष हेतुत्वसिद्धेरिति भावः । ननु लक्षणैव दोष इत्यत्राहयथा श्रुतग्रहणे चेति। दृशेश्चाक्षुषज्ञाने मुख्यत्वादिति भावः । चक्षुष्ट्वादिप्रसङ्गादित्युपलक्षणम् । चाक्षुषत्वप्रसङ्गोऽपि द्रष्टव्यः । तत्र हेतुमाहश्रुतिस्मृतीति।““श्रुतिस्मृतिपुराणानि धर्म द्रष्टुं सनातनम् । नयने द्वे मनुष्याणां’‘इति श्रुतिरित्यर्थः । अकम्पनीयेतिसुशब्देनशोभनत्वङ्गमयते। तेन प्रमाणत्वेन तस्याकम्पनीयत्वम् । नतु प्रत्यक्षत्वं भ्रमसाधारणादित्याहअकम्पनीयेति ।स तज्जन्येति। श्रोतव्य इति विहितं श्रवणं तज्जन्ये श्रावणे प्राथमिकपरोक्षज्ञाने व्यभिचार इत्यर्थः । वाक्यान्तरेष्विति।अग्निहोत्रादिवाक्यजन्यं ज्ञानम् अपरोक्षं तद्वाक्यजन्यत्वात् तद्गोचरप्रत्यक्षवदिति वक्तुं शक्यत्वादित्यर्थः ।ननु तस्याप्रयोजकत्वमित्यत्राहपरिहारस्य चेति। योगज धर्माद्यजन्य जन्यत्वावच्छिन्न साक्षात्कारित्वरूप पक्ष धर्मावच्छिन्न साध्यव्यापकविषयजन्यत्वमुपाधिस्यादित्याहविषयेति। शक्यस्य विषयतया जनकत्वादिति भावः । तत्वमस्यादि वाक्यव्यक्तीनां सर्वासां पक्षत्वेश्रवणात्प्राक्भाविनिषु बाधात्तद्बहिर्भावोपलक्षत्वं वक्तव्यम् । तथा च सति तत्र व्यभिचार इत्याहसोऽपीति।व्यभिचारमात्रेदृष्टान्तस्येति। इदमुपलक्षणम्। दशमस्यास्वप्रकाशत्वात्स्वतः प्रत्यक्षत्वाभावाच्चसाधनवैकल्यमपीति भावः ।विगीतमिति। ननु साध्ये स्वपदस्य समभिव्याहृतपरत्वे तत्वमसीति वाक्यार्थविषयप्रत्यक्षस्याप्रसिद्धेः तज्जनकस्याप्रसिद्ध्या तद्भेदसाधनमनुपपन्नं जनकत्वपरत्वे कस्यापि वाक्यस्य स्वार्थगोचर प्रत्यक्षजनकत्वाभावादप्रसिद्धिः । किं च स्वार्थपरत्वं यदि स्वजन्यज्ञानविषयत्वं चेद्बाधः । वाक्यस्यापि वाक्यजन्यज्ञानविषयत्वात् । स्ववृत्ति विषयत्वं चेदप्रसिद्धिः । शब्दो वर्तते इत्यादौ प्रसिद्धिश्चेत्तत्रैव व्यभिचार इति चेदुच्यते । स्वशब्दश्च प्रत्यक्षजनक परः । स्वार्थत्वं च स्वस्य धर्मेतरत्वम् । तद्गोचरसाक्षात्कारजनकमिन्द्रियं तदन्यत्वं तस्य साध्यमिति न दोषः । तत्वमस्यादिवाक्यस्यस्ववृत्तितावत्वादिसाक्षात्कारजनकत्वेऽपि न बाधः । यद्वा विषयत्वानच्छिन्नप्रत्यक्षजनकत्वाभावस्साध्यः ।शब्दो वर्तत इति ज्ञाने च प्रत्यक्षजनकत्वं विषयत्वेनेति व्यभिचारः । यद्वा प्रत्यक्षजनकतानवच्छेदक विषयतातिरिक्तयावत्स्वधर्मत्वं साध्यम् । बाधव्यभिचारवारणाय विषयातिरिक्तेति विशेषणमिति ध्येयम् ।विगीतेति। तत्वमस्यादिवाक्यगोचरा तज्जन्याधीः पक्षः । तेन न बाधः स्वप्रकाशतया स्वांशे प्रत्यक्षत्वाद्बाधवारणाय साध्ये स्वविषय इति । स्वविषयत्वं च स्ववृत्तिविषयत्वं घटप्रत्यक्षव्यभिचार परिहाराय वाक्यजन्यत्वे सतीति हेतुविशेषणम् । वाक्यप्रत्यक्ष व्यभिचारवारणाय विशेष्यम् । एवमपि वाक्यजन्यप्रत्यक्षे व्यभिचारः वाक्येतरतारत्वादिविषयत्वादिति चेत्, तत्वं च तन्मात्रविषयत्वम् । तेन वाक्याविषयत्वादित्यर्थः पर्यवस्यतीति न दोषः ।श्रुतेरन्यपरत्वस्येति। स्वाध्यायश्चक्षुरित्यादेर्दृढाध्य वसाय हेतुपरत्वस्य स्थापनादित्यर्थः ।अनतिप्रसञ्जकेति। अग्निहोत्रादिवाक्येषु त्वदुक्तव्याप्त्यादावतिप्रसङ्गवदिति प्रसङ्गाभावादिति भावः ।समत्वेपीति। स्थापनानुमानस्य हि प्रतिरोधोदोषः ।न प्रतिरोधानुमानस्य स्थापना प्रतिबन्धफलकस्येति भावः । अविशेषादिति। ज्योतिष्टोमादिव्यावृत्तौ अवान्तरोपाधेर भावादित्यर्थः । वस्तुतो विपक्षेबाधकमस्तीत्याहशब्दान्तरणामपीति। ननु तत्वमस्यादि वाक्ये प्रत्यक्षार्थ विषयत्वं विशेष इत्यत्राहनचेति।ननु कथं ज्योतिष्टोमादिवाक्ये तत्प्रसङ्गः । अपरोक्षादि विषयत्वरूपप्रयोजकस्य तत्राभावादित्यत्राहतत्रापीति। अपरोक्षाविषयत्वम्अपरोक्षार्थज्ञानविषयार्थ विषयत्वमपरोक्षज्ञाने आपाद्यमाने सहैवापरोक्षार्थविषयत्वमप्यापादितं भवतीति नावान्तरविशेष इत्यर्थः । पूर्वेषामनुमानानां प्रागुक्तार्थापत्तिरेव विपक्षे बाधकेत्युपक्षिपतिनन्विति।वाक्यार्थज्ञानादिति। वाक्यार्थे ब्रह्म तद्ज्ञानादित्यर्थः । उत्तरत्र ब्रह्मणि चेति करणपरिशेषणकथनादूहः ।अनुमानंवाक्येति। विषयतया वाक्यस्वरूपजन्ये श्रोतृजन्यवाक्यप्रत्यक्षे वृत्तितया सिद्धसाधनमित्यर्थः । नन्विन्द्रियासन्निकर्षो हेतुः अर्थस्तु तत्रान्यथासिद्ध इति न सिद्धसाधनमित्यत्राह ।प्रत्यक्षेति। इन्द्रियस्यापि तर्हि हेतुत्वं न स्यादिति भावः ।अथेति। तत्वमस्यादिवाक्यस्यापरोक्षज्ञानजनकत्व रूपोद्देश्यसिध्यर्थम् ईश्वरयोगिप्रत्यक्षवृत्तितया सिद्धसाधन वारणार्थं च साध्यं तत्वमस्यादित्यादिनाविशिष्य निर्दिश्यत इत्यर्थः ।प्रत्यभिज्ञात्मेति। पुनः प्रतिसन्धानरूपत्वात्प्रत्यभिज्ञात्वमिति भावः। अथेति।तत्वमस्यादिवाक्यजन्यतदर्थमात्रविषयक ज्ञानवृत्तीत्यर्थः । पूर्ववदुद्देश्यसिध्यर्थं तत्वमसीत्यादिविशेषणम्अतथापीति। ब्रह्मेतर विषयत्वे तत्वमस्यादिवाक्यजन्यज्ञानवृत्तित्वरूपसाध्याभावस्य निश्चितत्वाद्धेतोस्सन्दिग्धत्वात् संवित्वादिनैकान्त्यमित्यर्थः ।तत्वमस्यादिवाक्येति। मानसादिब्रह्मगोचरसाक्षात्कारावृत्तित्वाद्धेत्वभावाद्ब्रह्मेतरविषयत्वेन व्यभिचार इति भावः ।हन्तेति।भवन्मते मनसो अप्रमाणत्वात् वाक्यादन्यस्य ब्रह्मगोचरसाक्षात्कारजनकत्वादिति भावः । इदमुपलक्षणम् ।तत्वमस्यादिवाक्यजन्यज्ञानान्यज्ञानत्वेन व्यभिचारो द्रष्टव्यः ।तत्वमस्यादिवाक्यजन्यज्ञनाभिव्यापीति। तज्जन्य सर्वज्ञानवृत्तीत्यर्थः ।अद्यापीतिश्रुतेरान्यपर्यस्योक्तत्वेपीत्यर्थः। यत्वपरोक्षमिति। न च वाच्यमग्निहोत्रादित्यादिना पूर्वपक्षोक्तमित्यर्थः। श्रूयते हीति। ननु वाक्यस्यापि दर्शयतिभगवान् सनत्कुमार इति। परोक्षहेतुत्वं श्रूयत इति चेन्न वाक्यकरणस्य ज्ञानस्य चाक्षुषज्ञानवाचिं दृशिं प्रति मुख्यार्थत्वायोगात् क्लप्तशब्दप्रमाणशक्त्यनुरोधेन परोक्षज्ञान एव दर्शनवदनेकविशेषणविशिष्टावगाहनरूपगुणयोगाद्वृत्तिरभ्युपगम्यते । इह तु करणान्तरासम्भवायोगा त्तद्धर्मस्य अस्य च पृथक्करणत्व कल्पने गौरवान्मनस्सहकारित्वेनोपपत्तेः । पश्यतेश्च दर्शनवाचित्वेन न सादृश्यातिशयेन प्रत्यक्षपरत्वमिति भावः ।““द्रष्टव्यः श्रोतव्यः’’ (बृह.6 - 5 - 6) ““तस्मिन् दृष्टेपरावरे’’ (मु.2 - 2 - 1)इत्यत्र सादृश्यातिशयात् प्रत्यक्ष समानाकारपरत्ववर्णनं विरुध्येत । योगजप्रत्यक्ष परत्वस्य वक्तुं शक्यत्वादित्यत्राहयद्यपीति। मिथ्याभूतबन्धस्यापरोक्षज्ञाननिवृत्त्याद्योगि प्रत्यक्षमादायान्यथासिद्धिस्स्यादे वेति भावः । अत एवेति। आभासमानयोगक्षेमत्वादेरित्यर्थःतत्विति। अन्यत्र प्रत्यक्षान्तर्भाव प्रयोजकमपरोक्षधीजनकत्वमेव । न तु वाक्यान्यत्वविशेषितमिति तस्य तत्वमस्यादिवाक्येपि सत्वेपितदन्तर्भावस्यात् । नचैतद्वाक्यनिवृत्यर्थमेव न तदन्यत्वं विशेषणं युक्तम् । प्रत्यक्षजनकत्वस्य सन्दिग्धतया सन्दिग्धव्यर्थविशेषणत्वप्रसङ्गादिति भावः । ननु परोक्षज्ञानमेव संसारनिवर्तकमस्त्वित्यत्राहश्रुतवेदान्तानामिति।प्राचाम् आचार्यवन्दनकारणमिति।प्राञ्चः आचार्याः आचार्यवन्दकाः मनुष्याः आचार्यैः शिष्याणां वञ्चनं कृतमित्यवगम्यत इत्यर्थः ।““उभयप्राप्तौकर्मणी’’(अष्टा - 2 - 3 - 66)त्यत्र"“शेषेवेति वक्तव्यमि’’ (वार्तिक - 1713)ति वचनात् प्राचामित्यत्रापि षष्ठी । यत्तु ज्ञानस्याप्यपरोक्षार्थविषयतयार्थाधीन मापरोक्ष्यं नतु करणाधीनं विषयस्य च न ज्ञानाधीनमापरोक्ष्यं किन्त्वपरोक्ष ब्रह्मचैतन्याभेदेन । ब्रह्म चैतन्यं च"“यत्साक्षादपरोक्षात् ब्रह्मेति ‘’(बृह.5 - 4 - 2)श्रुत्या स्वतोऽपरोक्षम् । तदभेदश्च तत्सत्तातिरिक्त सत्ताकत्वाभावः । नच सर्ववस्त्वापरोक्ष्य प्रसङ्गः । यं प्रति यदुद्भूतमनावृतचैतन्याभिन्नं तं प्रति तदपरोक्षमिति विवक्षितत्वात् । न चार्थाधीनापरोक्ष्येऽनुमित्यादेरप्यापरोक्ष्य प्रसङ्गः ।इष्टत्वादिति। न विकल्पनं तदतित्वं च अभेदो हि तादात्म्यमेव । विषयाणां चैतन्याद्भेदाभावः एवाध्यासिकसम्बन्धोविषयविषयिभाव इति चैतन्यविषयताप्रयुक्तमेवार्थाऽपरोऽक्ष्यम् । ननु वृत्यधीनत्वाभाव एव अत्र विवक्षितः ।चैतन्याधीनत्वेपि विवक्षितोऽस्त्येवेति चेन्न । घटादीनां सर्वदाऽऽपरोक्ष्यप्रसङ्गात् । नच घटादीनां चैतन्या ध्यासेन तत्तादात्म्येप्यनावृत्तचैतन्या भावो नास्तीति वाच्यम् । तथा सति तदाऽऽपरोक्षमेव न स्यात् । आवरणस्य निवृत्तियोगात् । नच वृत्त्या निवृत्त्यन्तरानावृतचैन्यभेदेनापरोक्ष्यमिति वाच्यम् । तथा सत्यपरोक्षेर्थस्य तद्विषयकतया परोक्षवृत्याऽविद्यानिवृत्तिः । तन्निवृत्तावर्थाऽऽपरोक्ष्यमितरेतराश्रयात् । न चाऽपरोक्ष्यं विनापि तन्निवृत्तिः तदसत्यमिति प्रसङ्गात् । न च विषयसंसृष्टवृत्त्याविद्यानिवृत्तौ नातिप्रसङ्ग इति वाच्यम् । विषयसंसृष्टत्वमात्रस्य हृदयाद्यनुमितावतिप्रसक्त्या करणाधीन विषयसंसृष्टत्वं वाच्यम् । तथा च तदेव वृत्तावाऽऽपरोक्ष्यम् । तदतिरिक्तसत्वे मानाभावात् । किं च विषयसंसृष्टत्वमात्रदेव अविद्यानिवृत्तौ शाब्दापरोक्ष्यकल्पनं व्यर्थम् । नच विषयसंसृष्ट तत्वमसिवाक्यजन्यज्ञानादविद्यानिवृत्तौ वास्तवमपरोक्षार्थ विषयत्वमस्तीति तदुक्तिः । न तु अविद्यानिवृत्यर्थमिति वाच्यम् । यादृच्छिकविषयसंसृष्टवतः तद्ज्ञानस्य करणायत्तविषयसंसृष्टत्वाभावेनाविद्यानिवर्तकत्वायोगात् । किञ्च ज्ञाने चाक्षुषत्वादिकमेव अपरोक्षान्नचाननुगमस्तारत्वादिवदुपपत्तेरिति दिक् । ॥ वत्सजलधिकौस्तुभनृसिंहगुरुसुतेन सिंहदेवेन कृतायां शतदूषणीटीकयां सप्तमो वादस्समाप्तः ॥