06 विविदिषासाधनत्वभङ्गवादः

॥अथ विविदिषासाधनत्वभङ्गवादः षष्ठः ॥6॥
दृष्टानुश्रविकार्थजातविमुखान् पुंसोऽधिकृत्य श्रुतौ
यज्ञादिर्यदुपास्तिसाधनतया साक्षाद्विधिं प्राप्नुते
लीलाभोगविभूतियुग्मभरितस्वात्मप्रदानोन्मुखः
श्रीमानस्तु स मे समस्तदुरितोत्ताराय नारायणः ॥
यदुच्यते, “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’’ (बृह-6-4-22) इत्यत्र यज्ञादिकं विविदिषासाधनत्वेन विधीयते, न तु वेदनसाधनत्वेन, वस्तुविरोधात्; श्रुत्यक्षरपर्यालोचनाच्च ।
विविदिषन्तीति हि श्रूयते; न पुनः विदन्तीति ।
तत्र ब्रूमः,कोऽसौ वस्तुविरोधस्तावत्? किं ज्ञानस्य यज्ञादिभिस्साधयितुमशक्यत्वम्? उत तेषां ज्ञानाङ्गभूतशमादिप्रत्यनीकात्मत्वम्? यद्वा तत्त्वज्ञानफलापवर्गप्रत्यनीकत्रिवर्गसाधकत्वम्? यद्वा आश्रमाङ्गतया विहितानां विद्याङ्गत्वे नित्यानित्यसंयोगविरोधः? अन्यो वा कश्चिदिति ।

न प्रथमः ।
स हि यज्ञादिकमन्तरेण उत्पत्तिदर्शनाद्वा, यज्ञादिसन्निधावप्यनुत्पत्तिदर्शनाद्वा? आद्ये त्वसिद्धिः प्राचीनेष्वर्वाचीनेषु वाधिकारिष्वननुष्ठित शुद्धधर्मेषु विद्योत्पत्तेरसिद्धत्वात् ।
द्वितीयेत्वप्रयोजकता सामग्र्यैवहि कार्योत्पत्तिः न पुनर्हेतुमात्रात् सम्भवति च प्रायशः कर्म कर्तृसाधनवैगुण्यम् ।
अन्यथा चित्रापशुफलत्वादावपि कस्ते समाश्वासः? ।
तस्यास्तत्साधनत्वं विदधाति श्रुतिरिति चेत्, अत्रापि यदि श्रुतिर्विदधाति, तदा तद्वदेव समाश्वसिहि ।

अन्यथा विविदिषासाधनत्वेऽपि त्वया न समाश्वसितव्यम्; तत्रापि साध्यसाधनभावस्य श्रुत्येकावसेयत्वात् ।
"
कुर्वद्वाऽयमकुर्वद्वा’’ (चार्वाकाः) इत्यादिचार्वाकदुर्वादस्य त्वयाऽप्यस्मर्तव्यत्वात् ।
व्यभिचारस्य च समत्वात् ।
एतेन वाक्यजन्यप्रमितिरूपस्य संस्कारजन्यस्मृतिसन्ततिरूपस्य वा वेदनस्य किं कर्मापक्षयेति निरस्तम्; इच्छाया अप्यनुकूलताबोधाधीनोत्पत्तेःकिं कर्मापेक्षयेति समत्वात् ।
अन्तःकरणनैर्मल्यद्वारेणेति चेत्, तुल्यम्, “यत्रोभयोस्समो दोषः’’ (श्लोकवार्तिकं) इत्यभियुक्तवचनं किमर्थमित्थं विस्मरसि ।
“कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते’’ (महा भा-शान्ति-276-35) इत्यादिवाचनिकार्थातिलङ्घनं तवाधिकम् ।

नापि द्वितीयः; शमादेरविहिताप्रतिषिद्धनिषिद्धविषयत्वेन विद्याङ्गतया विहितेभ्यः कर्मभ्यो व्यतिरिक्तविषयत्वात् ।
विहितस्य च, “धर्मेण पापमपनुदति’’(तै-उ.महाना 75) कषायपक्तिःकर्माणिज्ञानं तु परमागतिः’’(महा भा-शान्ति 276-35) इत्यादिभिर्विद्योपकारकत्वस्यैव श्रुतत्वात् ।

न च तृतीयः; फलाभिसन्धिविरहादेव त्रिवर्गानारम्भात्, अनेकफलसाधनस्यापि ज्योतिष्टोमादेरभिसन्धिविशेषेण फलं प्रति नियमस्य सर्वैरभ्युपगन्तव्यत्वात् ।

अत एव न चतुर्थः; तत्रापि विनियोगपृथक्त्वेन नित्यानित्यसंयोगविरोधाभावात् ।
तदेतत् सर्वं सूत्रकारैरेव विस्पष्टमुक्तम् - “सर्वापेक्षा च यज्ञादिश्रुतेरश्वत्’’ (ब्र.सू-3-4-26) “शमदमाद्युपेतस्स्या त्तथाऽपि तु तद्विधेः तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात्’’ (ब्र.सू.3-4-27) ““विहितत्वाच्चाश्रमकर्मापि’’ (ब्र.सू.3-4-32) “सहकारित्वेन च’’
(ब्र.सू.3-4-33) “अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्’’ (ब्र.सू.4-2-26) इत्यादिभिः ।

या च ते श्रुत्यक्षरपर्यालोचना, सोऽपि हस्तसमालोचः; “सोऽन्वेष्टव्यः, स विजिज्ञासितव्यः’’,(छां-दहर) “तद्विजिज्ञासितव्यम्’’, (छां.8-7-1) “श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’’ (बृ.6-4-6) इत्यादिश्रुतिशीलापरामर्शात् ।
न हि तेषु सन्प्रत्ययार्थविधिपरत्वं भवताऽपि स्वीकृतम् ।
विधिबलावसितपुरुषार्थसाधनत्वार्थसिद्धेच्छानुवादरूपत्वात् प्रत्ययस्य ।
ध्यायीतेत्यादिविध्यन्तरैकार्थ्यात् ; तत्र शाब्दं प्रत्ययार्थप्राधान्यमनादृत्य, इच्छाया इष्यमाणप्रधान त्वादार्थं प्रकृत्यर्थप्राधान्यं स्वीक्रियत इति चेत्-तर्हि, “क्रियावानेष ब्रह्मविदां वरिष्ठः’’,(मुण्ड-3-2-4) “कर्मणैव हि संसिद्धिम्’ (गीता-3-20) “कषाये कर्मभिः पक्वे ततो ज्ञानं प्रर्वतते’’ (महा-शान्ति 276-35) इत्यादिप्रमाणसहस्रैकार्थ्यादत्रापि वेदनपरत्वमङ्गीकुरुष्व ।

लोके च, “असिना जिघांसति’’, “अश्वेन जिगमिषति’’ इत्यादिषु प्रकृत्यर्थे करणान्वयो बहुलमुपलभ्यते ।
अत्र असेरश्वस्य
वा हननगमनेच्छासाधनत्वयोगात् हननादिसाधनत्वस्यान्वयव्यतिरेक सिद्धत्वाच्च अगत्या प्रकृत्यर्थसाधनत्वाश्रयणम् ।
इह तु न तथा; अन्तः करणनैर्मल्यद्वारेण सत्त्वविवृद्ध्योपकारकत्वस्य ज्ञानतदिच्छयोरविशेषादिति चेन्न; अनन्यपरत्वस्योपपादितत्वात् ।
अयोगस्य चात्राप्यविशेषात् ।

तथा हि योऽयं विविदिषाकामो यज्ञादिष्वधिकरोति, स किं तदानीं वेदनमिच्छति, उत न? आद्ये, विविदिषा सिद्धैवेति न तस्या यज्ञादिसाध्यत्वम् ।
तथा च चक्रकम् ।
वेदनेच्छायां जातायामेव विविदिषेच्छा जायते, तस्यां जातायां कर्मानुष्ठानम्, ततो विविदिषेति ।
अत्रैकैकोभयपर्वसङ्कोचेनाऽऽत्माश्रयान्योन्याश्रयावप्यन्तर्भाव्यौ ।
द्वितीयेऽपि, वेदनस्यानिष्टत्वे विविदिषाऽप्यनिष्टैव स्यात्, तद्विषयत्वात् तस्याः ।
विविदिषा हि वेदनं साधयेत्; तच्चापवर्गादिकमिति मत्वैव हि तस्यामभिलाषसम्भवः ।
ननु वेदनौन्मुख्यलक्षणविविदिषा पूर्वं संवृत्ता ।
तदर्थप्रवृत्तिपर्यन्तातु साध्यतयाऽभिमतेति चेन्न; तादृशतीव्रेच्छाया एव उत्पत्त्यनुत्पत्तिविकल्पे प्रागुक्तदोषानतिलङ्घनात् ।
न हि वेदने तीव्रेच्छायामसम्भवन्त्यां तादृशीमपि तामिच्छेत्, तदुपायवर्गानुष्ठानक्लेशं वा सहेत ।
ननु दृष्टमेतत् यद्बुभुक्षापिपासादिकामनया भेषजमुपदिश्यते ।
तत्रापि भोजनादेरिष्टत्वानिष्टत्वविकल्पेन प्रागुक्तप्रसङ्गोदुर्वारः ।
तत्र यः परिहारस्ते, स नोऽत्रापि भविष्यतीति चेत्-तन्न; भोजनादेः सामान्यतोऽनुकूलत्वज्ञानादेवेष्टत्वसिद्धेः, तथापि दोषवशात्तदातनमनारोग्यात्मकं प्रातिकूल्यमप नेतव्यमिति तावन्मात्रार्थं भेषजोपदेशः; न पुनरिच्छास्वरूपनिष्पत्तये ।
अत्रापि तर्हि तथाऽस्तु; सामान्यतो वेदनस्येष्टत्वेऽपि तादात्विकतत्प्रातिकूल्यापादकरजस्तमोनिबर्हणेन अन्तःकरणशुद्ध्यर्थङ्कर्मणां विनियोग इति चेत्, तर्हि विविदिषासाधनत्वश्रुतिः परित्यक्तैव ।
अवान्तरव्यापरत्वादविरोध इति चेत् वेदनसाधनत्वमप्यनुमन्यताम्, तत्पूर्वभाविनः सर्वस्यापि यज्ञादिकर्मावान्तरव्यापारत्वोपपत्तेः ।
एवञ्च सति, “क्रियावानेष ब्रह्मविदां वरिष्ठः’’,(मुण्डक 3-2-4) “कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते’’ (महा-भा-शान्ति 276-31) “पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनःपुनः’’(महा-भा-उद्यो-34-75) इत्यादिभिरैकार्थ्यं च ।
अतो यज्ञादिकर्म वेदनसाधनमेव ।

ननु विविदिषासाधनत्वे यत् चोद्यं यज्ञादेः, तत् भक्तिसाधनत्वेऽपि समानं तथा हि ।
किं भगवति भक्तिमान् भक्तिं कामयते, उत तद्विधुरः? न प्रथमः, भक्तेर्निष्पन्नत्वेन साध्यत्वायोगात् ।
न द्वितीयः, भगवद्भक्तिविधुरस्य तद्भक्तावपि नैरपेक्षयात्; भक्त्यवस्थाभेदान्निर्वाहेऽपि प्राग्वदेव दोष इति ।
तन्न ।
प्रीतिरूपज्ञानविशेषो हि भक्तिः; प्रीतिश्च तारतम्यवती ।
विषयस्वभावविशेषाभिमानाभ्यास भेषजादिभिः प्रेमवृद्धिः कामशास्त्रादिष्वपि सम्मता ।
पुरुषस्य तत्कामना सम्भवति न वेत्येतावदेव चिन्तनीयम् ।
तत्र यदि सञ्जातमात्रादतिशयितस्य प्रेम्णः फलान्तरं प्रमाणतः सिद्ध्येत्, तदा तथाविधन्तस्यातिशयमभिवाञ्छेदेव ।
न च तावता तथाविधस्यातिशयस्यापि निष्पन्नत्वप्रसङ्गः; ज्ञानवदुपपत्तेः ।
सामान्यतोऽवगते हि विशेषतो ज्ञानाय व्याप्रियते ।
अन्यथा जिज्ञासैव सर्वत्र न स्यात् ।
नन्वेवं विविदिषायामप्येवमस्त्विति चेन्न; विशेषेच्छाया एव प्रागेवोदयात्; न हि, “पूर्वें सामान्यतो ज्ञानामिच्छति;पश्चाद्विशेषतः’’ इति सम्भवति ।
न च विषयविशेषावच्छेदमन्तरेण इच्छाजातिविशेषः कश्चित् सम्भवति ।
भक्तौ तु भोग्याकाराविर्भावतारतम्यवशात् तारतम्यमुक्तमिति ।
इहापि तत एव तारतम्यमिति चेत्; अस्तु तत्, तथाऽपि काम्यत्वं दुर्वचम्; तथाविधविषयविशेषितस्य वेदनस्य काम्यत्वमन्तरेण तदसिद्धेः, तत्काम्यतायाश्च सिद्धौ, सिद्धा तथाविधवेदनेच्छेति कथं सा काम्या? अतः सिद्धं यज्ञादिकर्म विविदिषासाधनत्वेन न विहितमिति ।
तदेतत् सर्वमभिसन्धायाह - “एवंरूपायाः ध्रुवानुस्मृतेःसाधनानि यज्ञादीनि कर्माणीति “यज्ञादिश्रुतेरश्वत्’’ (श्री भाष्यं जिज्ञा) इत्यभिधास्यते इति ।

॥ इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य कृतिषु शतदूषण्यां विविदिषासाधनत्वभङ्गवादः षष्ठः

नृसिंहराजीया

पूर्ववादे वेदनाङ्गत्वात्कर्मणां साङ्गवेदनविचारात्मकं शास्त्रमेकमित्युक्तम् । तदयुक्तम् । विविदिषार्थत्वेन वेदनाङ्गत्वाभावादित्याक्षेपसङ्गतिमभिप्रेत्य वादार्थं सङ्गृहणाति । दृष्टेति । आनुश्रविकार्थः स्वर्गादिपुरुषार्थः तत्र दृष्टशब्देन अर्थकामावभिप्रेतौ । त्रिवर्गनिरपेक्षानित्यर्थः । साक्षाद्युपास्तिसाधनतयेत्यन्वयः । स्वात्मप्रदानोन्मुख इति । अनुभाव्यतयेति शेषः । वस्तुविरोधादिति । कर्मणां “विद्याञ्चाविद्यां’ (ईश - 11) चेत्यविद्यात्मकतया विद्यात्मकवेदनविरोध इत्यर्थः । विविदिषन्तीति सन्नन्तप्रकृतिधात्वर्थस्योपसर्जनतया तेन नान्वयः अपितु प्रधानभूत प्रत्ययार्थभूतेच्छयेति भावः । साधयितुमशक्यत्वमिति । अकारणत्वादिति भावः । यद्वेति विरुद्धफलकत्वमित्यर्थः । आश्रमाङ्गतयेति आश्रमप्रयोज्यतयानुष्ठानं, विद्याङ्गत्वे विद्यार्थिन इति विद्यार्थत्वरहितस्यानुष्ठानविरहात्सर्वपुरुषानुष्ठेयत्वतदभावाभ्यां विरोध इति भावः । स हीति । किं व्यतिरेकव्यभिचारादसाधनत्वमुतान्वय व्यभिचारादित्यर्थः । शुक्लधर्मेष्विति । फलान्तराभिसन्धिरहिततयानुष्ठितधर्मेषु विद्योत्पत्तेरदर्शनान्न व्यतिरेक व्यभिचार इति भावः ।अन्वयव्यभिचारः किंसामग्र्याः उत कारणस्येति विकल्प्य आद्यस्यासिद्धेर्द्वितीये दोषमाह अप्रयोजकतेति ।अन्वयव्यभिचारो न दोषायेति भावः । ननु विहितकर्मनुष्ठाने फलावश्यम्भावादन्वव्यभिचारो दोषायेत्यत्राह सम्भवति चेति । अङ्गरूपकर्मवैगुण्यात्साधनरूपप्रधानस्य वाऽनिष्पत्तेर्नविद्याहेतुकर्मस्वरूप सत्वमिति नान्वयव्यभिचार इति भावः । यदि कर्मकर्तृसाधनवैगुण्येप्यन्वय व्यभिचारः तदा दोषमाह अन्यथेति । चित्रायाः - चित्रायागस्य , पशुफलत्वादावित्यर्थः । तस्या इति । श्रुतिबलात्कारणत्वे सिद्धे फलाभावस्थले कर्मवैकल्यं कल्प्यमिति भावः । अत्रापीति । तथा च श्रुत्यक्षरपर्यालोचनैव कार्या नोक्तार्थविरोध इत्यर्थः । अन्यथा श्रुत्या समाश्वासाभावे । कुर्वद्वेति । चार्वाको हि कारणताखण्डनार्थमेवमाह । साधनत्वेनाभिमतानां यदि कुर्वद्रूप स्वभावत्वमङ्गीक्रियते सर्वदा कार्यजनकत्वं स्यात् । अकुर्वत्स्वभावत्वे कदाचिदपि न जनकत्वं स्यात् । कुर्वत्स्वभावत्वाकुर्वत्स्वभावत्वयोर्विरोधात् । अन्यथा सिकतास्यस्तैलं स्यात् । जलाद्वा दाह इतिकारणत्वखण्डनस्य (दुस्त्यजत्वा) तदा सम्मतत्वादिति भावः । विस्मरणशीलं स्मारयति व्यभिचारस्यचेति ।एतेन वक्ष्यमाणेन किं कर्मापेक्षयेति । घटमानयेति वाक्यजन्यज्ञाने तज्जन्यस्मरणे वा कर्मानपेक्षणादिति भावः । इच्छाया इति अनुकूलताबोधः इष्टसाधनताज्ञानम् । यदीच्छाविशेषे कर्मापेक्षा तदा प्रकृतेपि तुल्यमिति भावः । ननु तर्हि इच्छां प्रत्येव साधनत्वमस्तु तुल्यत्वादित्यत्राह कषाय इति । शमादेरिति भिन्नविषयत्वान्नविरोध इति भावः । शमादेस्तावन्मात्रविषयत्वे नियामकमाह विहितस्य चेति । ननु फलाभिसन्धिविरहेपि तद्योग्यस्य कथं तदनारम्भकत्वं नहि दाहार्थं स्पृष्ट एव वह्निर्दहतीति नियमोस्तीत्यत्राह अनेकेति । ““सर्वेभ्यः कामेभ्यो ज्योतिष्टोमः’’ ““सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ’’ इतिविहितज्योतिष्टोमादेस्तत्तत्कामानामेव तत्तत्फलाङ्गीकारादिति भावः । अत एवेत्येतद्विवृणोति अत्रापीति ।एकमेववाक्यमुभयत्र विनियोजकं चेन्नित्यानित्यसंयोगविरोधः । विनियोजकवाक्यभेदेतु न विरोधः । अन्यथा यावज्जीवं दर्शपूर्णमासाभ्यां यजेत ( ) दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत ( ) ““वसन्ते वसन्तेज्योतिषायजेत’’ (आ.श्रौ.10 - 2 - 17) ““ज्योतिष्टोमेन स्वर्गकामो यजेत’’ (तै.यजु.2.5.5.) इत्यादावपि विरोध प्रसङ्ग इति भावः । सर्वापेक्षा चेति (ब्र.सू.3 - 4) ““यज्ञेन दानेनेति’’ विनियोजक वाक्यबलात्सर्वकर्माण्यपेक्षन्ते विद्याः ।यथा स्वतो गमनसाधनीभूतोप्यश्वो बन्धनादिपरिकरापेक्षस्तद्वदित्यर्थः । शमदमादीति । ““शान्तोन्दान्त उपरतस्तिति क्षुस्समाहितो भूत्वात्मन्येवात्मानं पश्येत्’’ (बृह - 6 - 4 - 23) इति विद्यार्थं शमदमाद्युपेतो भवेदित्यर्थः । नच तथा सति कर्मभिर्विरोधः । व्यर्थकर्मविषयतया शमादेर्विरोधाभावात् । भिन्नविषयत्वे हेतुः तदङ्गतयेति । भिन्न विषयत्वे हेत्वन्तरं दर्शयति विहितत्वाच्चेति । आश्रमकर्मणामवश्यानुष्ठेयतया शमदमादयो भिन्नविषया इति भावः । हेत्वन्तरमाह अग्निहोत्रादित्विति । अग्निहोत्राद्याश्रमधर्मस्य तु विद्योत्पत्तिरेवकार्यमित्याप्रयाणादहरहराधेयातिशयवत्तया विद्यारूपकार्यार्थ मवश्यानुष्ठेयमित्यर्थः । हस्तसमालोच इति । एक हस्तदर्शनात्तदन्य हस्त एतादृश इति निश्चय तुल्य इत्यर्थः । तदेव दर्शयति सोन्वेष्टव्य इति । आदि शब्देन ““तद्विजिज्ञासस्व’’ (भृगुवल्ली) इत्यादेस्सङ्ग्रहः । प्रकृत्यर्थस्यैव वाक्यार्थान्वयेपिइच्छानुवादः श्रुतेश्शीलम् । तथा चोपसर्जनेनापि प्रकृत्यर्थेन विध्यन्वयवत् करणान्वयो युज्यतेहीति भावः ।तेष्विति । ““विजिज्ञासितव्यः’’ इत्यादिष्वित्यर्थः । अत्र वाक्येष्विति विशेष्यमध्याहार्यम् । शङ्कते विधिबलेत्यादिनाचेदित्यन्तेन । अनुवादरूपत्वे हेत्वन्तरमाह ध्यायीतेति । प्रत्ययार्थादरे हेतुमाह इच्छाया इति । तर्हीति । ध्यायीतेत्याद्यैकार्थ्यावत् ““क्रियावानेषः’’ (मुण्ड - 3 - 2 - 4) इत्यादि वाक्यैकार्थ्याद्विविदिषन्तीत्यादावपि प्रकृत्यर्थ एवान्वय इति भावः । उपसर्जनेन प्रकृत्यर्थेनान्वयो लोकेपि सिद्ध इत्याह लोके चेति । नन्वत्रास्यादीनामिच्छान्वयायोग्यत्वादस्तु प्रकृत्यर्थान्वयः । कर्मणान्तु विविदिषान्वये बाधकाभावात्कथं प्रधानत्याग इत्याशङ्कते अत्रासेरित्यादिना । अनन्यपरत्वस्येति । ““क्रियावानेषब्रह्मविदां वरिष्ठः’’ (मुण्ड - 3.2.4) इत्यादि वेदनसाधनत्वश्रुतिबलात्प्रत्ययार्थ परित्याग इति भावः। अयोगस्यचेति।इच्छान्वयायोगस्येत्यर्थः । तथाचेति यज्ञादिसाध्यत्व इत्यर्थः। वेदनेच्छायामिति । विविदिषायाः स्वतः प्रयोजनत्वाभावेन वेदनार्थतयैवोद्देश्यत्वादिति भावः । वेदनस्येति । वेदनस्योद्देश्यत्वाभावे तद्विषयायां विविदिषायामपि पुरुषार्थसाधनत्वाभावादिच्छा न स्यादित्यर्थः । तद्विषयत्वात्तस्या इति । वेदनार्थतयैव पुरुषार्थत्वादिति भावः । अपवर्गः - अविद्यानिवृत्तिः । अखण्डब्रह्मानुभवःआदिशब्दार्थः। तदर्थेति । वेदनार्थश्रवणाद्यनुष्ठानपर्यन्तेत्यर्थः । प्रागुक्तेति तीव्रविविदिषाहेतुभूत यज्ञाद्यधिकारिणस्तीव्रवेदनेच्छाभावेवेदनौन्मुख्यमात्राद्वेदनसाधनश्रवणादाविव ततोऽपि व्यवहितायां श्रवणादिहेतुतीव्रविविदिषायामिच्छा न स्यात् । तीव्रविविदिषाङ्गीकारे तु यज्ञाद्यसाध्यत्व चक्रकयोः प्रसङ्ग इत्यर्थः । न हीति । वेदनस्य तीव्रेच्छाविषयत्वाभावे तत्सम्पादनार्थं तत्साधनभूत तदिच्छायामिच्छा न स्यादित्यर्थः । तादृशीं - तदृशवेदनगोचराम् । अतादृशीमिति वा पाठः । तदुपायवर्गेति तादृशकर्मानुष्ठानक्लेशमित्यर्थः । नन्विति । भेषजमुपदिश्यत इति यत्तत् दृष्टमित्यन्वयः । तत्रापीति । भोजनस्य यदीच्छा सैव बुभुक्षेति सिद्धत्वाद्भेषजासाध्यत्वं चक्रकादिप्रसङ्गः । यद्यनिच्छा तदा तादृश बुभुक्षायाअनुद्देश्यतेति तदर्थं भेषजादावप्रवृत्तिरित्यर्थः । ननु भविष्यद्भोजनमिष्टसाधनं भोजनत्वादिति सामान्यतइष्टसाधनताज्ञानाद्यदीच्छा तर्हि सैव बुभुक्षेति किमर्थं भेषजाद्युपदेष इत्यत आह तथापीति । सिद्धेपीच्छा हेतुभूते रोगविशेषाद्द्वेषो भोजने जायते । तेन न प्रवृत्तिः तादृशरोगनिवृत्तये भेषजोपदेश इति भावः । प्रातिकूल्यं - भोजन प्रतिकूलम् । स्वार्थेष्ञ् प्रातिकूल्येति । वेदनेच्छायां सत्यामपि रजस्तमोभिभूतत्वात्तत्साधन श्रवणादौ दुःखमिश्रगुरुशुश्रूषादि साध्ये प्रातिकूल्यबुद्धिर्भवतीति रजस्तमोनिबर्हणार्थं कर्मानुष्ठानमित्यर्थः । तर्हीति । विविदिषायाः पूर्वं सिद्धत्वाद्रजस्तमोनिबर्हणार्थमेवकर्मानुष्ठानमिति विविदिषार्थतया यागादिकं श्रुतिप्रतिपाद्यं न स्यादित्यर्थः । ननु गुरुशुश्रूषादिदुःखसाध्येपि श्रवणादौ प्रातिकूल्यबुद्धिविरोधिनीच्छा रजस्तमोनिबर्हणमन्तरेण न भवतीति यज्ञादिभिस्तादृशेच्छायां जननीयायां रजस्तमोनिबर्हणस्यावान्तरव्यापारत्वाद्यज्ञादेर्विविदिषार्थतया श्रुतिप्रतिपाद्यत्वं न विरुद्धमिति शङ्कते अवान्तरेति । यद्यप्येवं सति पूर्वोक्तान्योन्याश्रयः स्थिरएव । तथापि दूषणान्तरमाह तर्हीति । एवं व्यापरत्वेनाव्यवधायकत्वेरजस्तमोनिबर्हणप्रतिकूल्यनिवृत्तिविविदिषा श्रवणादीन् द्वारीकृत्य वेदनसाधनत्वमेवाङ्गीकर्तुं युक्तमिति भावः ।अस्मिन्नर्थे श्रुत्यन्तरानुगुण्यं पक्षान्तरे तद्विरोधश्चेत्याह एवं च सतीति । भगवद्भक्तिविधुरस्येति । भक्तेः प्रीतिरूपत्वेन तदुद्देश्यत्वघटित्वात्तदुद्देश्यत्वाभावेतद्भक्तेरप्युद्देश्यत्वाभावादिभावः । प्राग्वदेव - विविदिषास्थलवदेवेत्यर्थः । भक्तिविधुरस्यापि भक्तेर्मोक्षसाधनत्वं ज्ञातवतो भक्तीच्छासम्भवत्येव । तथापि प्रथमकोटिमस्युपेत्याह तन्नप्रीतिरूपेति ।विषयस्वभावविशेषात्कामित्यादौ अभिमानाद्वायसप्तोतन्यायेन कुरूपेपि स्वपुत्रादौ अभ्यासाल्लशुन भक्षणादौ भेषजात् कार्पासाथिचूर्णाद्योषधाद्भोजनादौ । आदिशब्देन सुकृतविशेषग्रहः । ““कलाविशेषविज्ञाता देवतामपिमोहयेत्’’ इति कामशास्त्रसिद्धञ्चेत्याह प्रेमवृद्धिरिति । आदिशब्देन ““रोचनालक्ष्मणामूलकल्कलिप्ततनूर्बधूः । ऋतौ प्राप्नोति सौभाग्यं दयितप्रियतामपि’’ इत्युक्तायुर्वेदसङ्ग्रहः । सत्र्जातमात्रात् प्रथमोत्पन्नात् । सामान्यप्रेममात्रात् फलस्यासिद्धेः तदपेक्षयाऽतिशययुक्तादेव फलसिद्धिरिति तादृशप्रेमकामनायामपि नोक्तदोषइत्याह तत्र यदीति । ज्ञानवदिति । विशेषतो ज्ञानेच्छायामपि सत्यां ज्ञानभावादिति भावः । व्याप्रियत इति न तु विशेषतो ज्ञात इति शेषः । अन्यथेति । विशेषतोऽपि ज्ञाते ज्ञातव्यान्तराभावादिति भावः । ननु यथा जिज्ञासाकारणतया पूर्वं ज्ञानसत्वेपि ज्ञानान्तरविषयिणी जिज्ञासातथा वेदनेच्छाया विविदिषेच्छाकारणतया पूर्वं सत्वेपि विविदिषान्तरविषयिणीच्छास्तिवतिशङ्कते नन्विति ।कारणीभूताया अपि वेदनेच्छाया इष्यमाणतयाऽभिमतेच्छासजातीयत्वात्सापि प्रथमं न सम्भवतीत्याह नेति ।विशेषविषयाया इच्छाया इत्यर्थः । ननु भिन्नविषयत्वेनेच्छाया विशेष उत समानविषयत्वेपीति विकल्पमभिप्रेत्य आद्य आह न हीति । अन्यविषयकेच्छाया अन्येच्छाजनकत्वे मानाभावादिति भावः । द्वितीयं दूषयति नच विषयेति । यद्यपि विषयैक्येपि इच्छाया उत्कटत्वरूपविशेषो लोकसिद्धः तथापि तादृशोत्कटवेदनेच्छाया असिद्धौ उत्कटविविदिषाविषयकेच्छाया असम्भव इति भावः । ननु भक्तावपीष्यमाणायां कथं जातिविशेषसम्भव इत्याकाङ्क्षायां प्रीतिश्च तारतम्यवतीत्यादिनोक्तं स्मारयति भक्तौ त्विति । भोग्यस्याकारो भोग्याकारः प्रियत्वमिति यावत् । आविर्भावो - निष्पत्तिः । प्रियत्वतारतम्यस्य प्रीतितारतम्याधीनत्वात्प्रीतिरूपभक्तितारतम्यमेव भक्तिविषये कामनायां हेतुरित्यर्थः । ननु यादृशीभक्तिस्त्वयेष्यमाणतयाभिमता तद्रूपवेदनविषयत्वमेव इष्यमाणायां विविदिषायां विशेषोस्त्वित्याशङ्कते इहापीति । विविदिषायामपीत्यर्थः । काम्यत्वमिति । विविदिषाया इति शेषः । दुर्वचत्वमुपपादयति तथाविधेति । अतिशयप्रीतिरूपत्वात्मको य इष्यमाण विविदिषायाः प्रकारतया विषयः तद्विशेषितं यद्वेदनं तत्कामनामन्तरेण तद्विषयविविदिषायाः कामनापि न सम्भवतीत्यर्थः ।नन्विच्छार्थं कर्मानुष्ठानस्यात्माश्रयग्रस्तत्वे क्वचिदपीच्छा न सम्भवेत् इच्छाहेतुभूतकर्मानुष्ठानभावात् । नचेच्छाविषयवैलक्ष्ण्यादेव जायत इति वाच्यम् । वैलक्षण्यज्ञानेपि कस्यचिदिच्छानुत्पत्तिदर्शनात् । अतः कर्महेतुकत्वमावश्यकमित्यत आह अतसिद्धमिति । यथा स्वर्गार्थमनुष्ठितकर्मबलादेव स्वर्गादिशरीरसिद्धिः तथा भोगादृष्टोद्बोधित पूर्ववासनासचिवाद्वैलक्ष्ण्यज्ञानादिच्छोत्पत्तेर्वेदनार्थविहितयज्ञादिभिरेव विविदिषापि सिध्यतीति भावः । विविदिषन्तीत्यस्यसन्निधौ ““मनसैवानुद्रष्टव्य’‘मिति विशदवेदनं विधाय ““एतमेवविदित्वा मुनिर्भवति (बृह.6 - 22) इति स्तुतत्वाद्वेदनस्यैव प्राकरणिकतया विध्यन्तराकाङ्क्षितत्वात्तत्रैव यज्ञादिकंविधातुं युक्तं, अपेक्षितविधेः । न तु तदुभयरहितः । विविदिषायाम् अनपेक्षितविधिप्रसङ्गादित्याह यज्ञादिकर्मेति ।उक्तार्थं भाष्येण सङ्गमयति तदेतदिति । ॥वत्सकुलजलधिकौस्तुभनृसिंहगुरुसुतेन सिहन्देवेन कृतायां शतदूषणीटीकायां षष्ठो वादस्समाप्तः ॥