05 बाधितानुवृत्तिभङ्गवादः

॥अथ बाधितानुवृत्तिभङ्गवादः पञ्चमः ॥ 5 ॥
नानुवर्तेत संसारो यत्प्रसादैकबाधितः ।

प्रसीदतु स मे देवः प्रथमाञ्जलिकिङ्करः ॥
यदुच्यते तत्त्वमस्यादि (छां-6-8-7)वाक्यात्तत्त्वज्ञाने जातेऽपि ब्रह्मविदां बाधितानुवृत्त्या भेदप्रतिभासादेराशरीरमनुवृत्तिः, तदनुवृत्तावपि छिन्नमूलतया दग्धपटादिवदबन्धकत्वं चेति; तत्र पृच्छामः, बाधितत्वे कथमनुवृत्तिर्भवता वक्तव्या ।
तस्यां वा तत् कथम्।
प्रमाणबलात् मिथ्यात्वाध्यवसायेऽपि द्विचन्द्रादिष्विव दोषमहिम्ना प्रतिभासानुवृत्तिरिति न विरोध इति चेत् समस्तद्वैतकुक्षिम्भरिणाऽप्यद्वैतज्ञानेनाबाधितः कोऽसौ दोषः ।
अविद्यैवेति चेत् कथं तर्ह्यविद्यानिवृत्तिः? न हि तन्निवृत्तावपर्यवसितः कश्चित् बाधो नाम ।
तन्निवृत्तावपि तन्मूलवासनाऽस्तीति चेत्-सा किं ब्रह्मवत्सत्यत्वात् तत्त्वज्ञानेनाबाधिता, उत मिथ्यात्वेऽपि तदविषयत्वात्? न प्रथमः; द्वैतापसिद्धान्तादिदोषप्रसङ्गात् ।
न च सा ब्रह्मस्वरूपानुप्रवेशिनी, भेदप्रतिभासानुवृत्तेरनिर्मोक्षप्रसङ्गात्।
ब्रह्मणः सावद्यत्वादिदोषप्रसङ्गाच्च ।
न चासत्याविद्योपात्ता वासना सत्येति सम्पद्यते ।
न चोपादानध्वंसे कार्यानुवृत्तिमुन्मत्तोऽप्यनुसन्धत्ते ।
नापि द्वितीयः; वासनाया अपि श्रवणसमयसमधिगत ब्रह्मव्यतिरेकलक्षणैकोपाधिक्रोडीकारात् ।
अन्यथात्वविद्याया अपि बाधकज्ञानाविषयत्वप्रसङ्गात् ।
“नेह नानास्ति’’ (बृह.6-4-29) इत्यादेरविशेषात् तद्विषयत्वमिति चेत्-तुल्यम् ।
यदि च वाक्यार्थज्ञानात्वासना न निर्वतते, कुतस्तर्हि तन्निवृत्तिः? न तावददृष्टादेः; तथा सति ज्ञानबाध्यत्वाभावेन सत्यत्वप्रसङ्गात् ।
अत एव न स्वतः; व्याघाताच्च ।
न हि वध्यघातकयोस्तादात्म्यं दृष्टम् ।
न च सहकार्यन्तरमन्तरेण घटादिष्वपि स्वप्रध्वंसहेतुता ।
अहेतुकविनाशवादे तु
सौगतचार्वाकादिसौहार्दोद्गारप्रसङ्गः ।
अविद्यायाश्च तद्वदेवाहेतुकनिवृत्त्यविरोधः स्यात् ।
न च दहनान्त्यशब्द-चरमसंस्कारादिवदिति वाच्यम्, तत्रापि तत्तदवस्थान्तर-कालविशेषादिसामग्री सहितपरमेश्वरसङ्कल्परूपस्य कारणस्यास्माभिरभ्युपगमात् ।
द्विचन्द्रादौ तु अङ्गुल्यवष्टम्भतिमिरादिदोषस्य चन्द्रैकत्वज्ञानाविषयत्वात्, तदुभयविषयैकज्ञानोदयेऽपि पार्श्वस्थतारकाप्रकाशस्येव दोषप्रकाशांशस्य चन्द्रैकत्वप्रकाशेन विरोधाभावात्, दोषो मिथ्येति तु ज्ञानस्य लौकिकानामनुदयात्; यौक्तिकमिथ्यात्वज्ञानस्यैव भ्रान्तित्वेन तत्सत्यत्वाच्चाबाध इति तन्मूलभ्रमपरम्परानुवृत्तिर्घटते ।
तद्विषयान्यथात्वाध्यवसायेन भयविस्मयादिकार्यनिवृत्तिश्च ।
तव तु नतथा, कारणभूताविद्यावत् कार्यभूतशोकादिवच्च, मध्यगतभेदवासनाभेदज्ञानयोरप्येकहेलयैव निवार्यत्वात् ।
अनुवृत्तावपि बाध्यबाधकयोराविद्यत्वेन वास्तवप्रामाण्याभावात्; विशेषेण बाधकबलासम्भवाच्चेति ।
तदेतत् सर्वमभिप्रेत्य सत्यपि “वाक्यार्थज्ञाने इत्यादि, भयादिकार्यं तु निवर्तते’’ (श्री भाष्यं
जिज्ञा) इत्यन्तं भाषितम् ॥5॥
॥ इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां बाधितानुवृत्तिभङ्गवादः पञ्चमः ॥ 5 ॥

नृसिंहराजीया

पूर्वत्र बाधितानुवृत्यसम्भवस्य वक्ष्यमाणत्वादित्युक्तबाधितानुवृत्तिं निराकुर्वन् वादार्थं सङ्गृह्णाति नानुवर्तेतेति । बाधितस्य संसारस्यानुवृत्तिर्नास्तीत्यर्थः । तत्र हेतुः यत्प्रसादेति । तत्प्रसादेन निश्शेषमेवनाशादित्यर्थः ““अञ्जलिः परमामुद्रा क्षिप्रं देवप्रसादिनी’’ ( ) इति वचनगतक्षिप्रशब्दार्थाभिप्रायेणाह प्रथमेति । ब्रह्मविदामिति । ब्रह्मविदां शरीरावस्थानपर्यन्तं भेदप्रतिभासादेरनुवृत्तिः (बाधितानुवृत्या)बाधितानुवृत्तिरूपा न तु पूर्ववदित्यर्थः । स्वार्थे तृतीया । तर्हि पूर्वानुवृत्तेः को भेदइत्यत्राह तदनुवृत्तावपीति ।निवृत्तकारणकत्वेन न कार्यकरत्वं दग्धपटवदिति भावः । छिन्नमूलत्वविरोधमजानानस्य शङ्कामनुवदति प्रमाणेति । समस्तद्वैतकुक्षिम्भरिः समस्त द्वैतनिवर्तकः । अबाधितः - अनिवृत्तः । ननु बाधो नाम मिथ्यात्वज्ञानं न निवृत्तिरिति चेत्तत्राह न हीति । मिथ्यात्वज्ञानं न बाधः अपितु निवृत्तिरेव । अन्यथा छिन्नमूलत्वोक्तिविरोधात् । त्वत्प्रकरणपाठकबालकानामप्यविद्याया बाधितत्वेन बाधितानुवृत्ति रूपजीवन्मुक्ति प्रसङ्गात् । अपित्वविद्यानिवृत्तावेव बाधस्य पर्यवसानं वक्तव्यमिति तदपर्यवसितःतदन्यो न बाध इत्यर्थः । शङ्कते तन्निवृत्तावपीति । तत्वज्ञानं ब्रह्मव्यतिरिक्तकृत्स्नमिथ्यात्वज्ञानम् । आदिपदेन तन्मूलभेदज्ञानसत्यत्वप्रमात्वादिगृह्यते । ननु वासनाया ब्रह्मस्वरूपात्मकत्वान्नदोष इत्यत्राह नचेति । भेदेति । नित्यस्य ब्रह्मण एव भेदप्रतिभासहेतुत्वादिति भावः । साध्यत्वादिति । वासनायाः अविद्याजन्यत्वादिति भावः । आदिशब्देन विनाशित्वादि गृह्यते । तस्यास्सत्यत्वमप्यसम्भवतीत्याहनचासत्येति । नचोपादानेति । भावकार्यत्वाद्वासनाया अविद्योपादानकत्वमिति भावः । वासनाया अपीति।ब्रह्मव्यतिरिक्तत्वेन वासनायास्तद्व्यतिरिक्तमिथ्यात्वज्ञानेन बाधितत्वादिति भावः अन्यथेति ।ब्रह्मव्यतिरिक्तं मिथ्येति ज्ञानविषयत्व इत्यर्थः । तद्विषयत्वं शङ्कते नेह नानेति । तथा सतीति । ज्ञानाबाध्यत्वं सत्यत्वमिति भावः । अत एव । सत्यत्वप्रसङ्गादेवेत्यर्थः । व्याघाताच्चेति । स्वस्यैव स्वध्वंसहेतुत्वे द्वितीयक्षण वृत्तिमत्वं व्याहतमित्यर्थः । ननु ध्वंसमात्रस्य प्रतियोगिजन्यत्वात् ध्वंसप्रतियोगिनि वध्यघातकभावो दृष्ट इत्यत्राह नच सहकारीति । आगन्तुकहेत्वन्तरसापेक्षत्वेन द्वितीयक्षण एव ध्वंसानुदयादित्यर्थः अहेतुकेति । किं कार्यस्याहेतुकत्वात् ध्वंसस्याप्यहेतुकत्वमुच्यते उत विनाशमात्रस्याहेतुकत्वादिति विकल्पे आद्ये चार्वाकमत प्रसङ्गः । द्वितीये क्षणिकत्वप्रसङ्गेन सौगतमतप्रसङ्ग इत्यर्थः । अविद्यायाश्चेति । श्रवणाद्यायासवैयर्थ्यमिति भावः ।ननु क्वचिदहेतुकनिवृत्यङ्गीकारो न दोषाय यथा दहनस्य दाह्यनाशानन्तरंस्वत एव नाशः तथा अन्त्यशब्दस्य मरणसमयानुभवजन्यसंस्कारस्य च स्वत एव नाश इत्यत्राह न चेति ।अहेतुक निवृत्तिरिति शेषः । दहननाशः दहनस्य सूक्ष्मावस्थान्तरापत्तिः तद्धेतुश्च दाह्यभस्मीभावावस्था ।अन्त्यशब्दनाशश्च तदातनो यत्किञ्चिद्द्रव्यसंयोगादिः तद्धेतुश्च प्रसिद्ध एव । संस्कारनाशावस्थानरकानुभवादिः । अतिरिक्ताभावपक्षेपि त एव आगन्तुकहेतवः । उपान्त्यशब्दस्तन्नाशो वाऽन्त्यशब्दनाशकः । ईश्वरसङ्कल्पोप्यागन्तुककारणमित्याह तत्रापीति । अतः स्वतो निवृत्ययोगाद् ज्ञानादेवाविद्ययासह निवृत्तौ बाधितानुवृत्यसम्भव इति भावः । ननु यदि मिथ्यात्वज्ञाने सति भेद प्रतिभासासम्भवः कथं तर्हि तस्मिन्सत्यपि चन्द्रभेदप्रतिभास इत्याशङ्क्य वैशम्यमाह द्विचन्द्रादाविति । द्विचन्द्रादौ तु दोषस्याबाध इति तन्मूलभ्रमपरम्परानुवृत्तिर्घटत इत्युत्तरेणान्वयः । चन्द्रैकत्वज्ञानं - चन्द्रभेदमिथ्यात्वज्ञानन्तदविषयत्वादित्यर्थः । तद्विषयत्वेपि किं स्वरूपेण विषयत्वम् उतमिथ्यात्वेन । नाद्य इत्याह तदुभयविषयेति ।विरोधाभावादिति । तत्र मिथ्यात्वानवगाहित्वादित्यर्थः । द्वितीयेपि किं लौकिकं प्रत्यक्षम् उत यौक्तिकं नाद्य इत्याह दोषो मिथ्येति । द्वितीय आह यौक्तिकेति । वासनाया व्यावहारिकत्वेन तदवच्छिन्नाभावसाधकलिङ्गाभासजन्यस्य परोक्षभ्रान्तित्वेन तस्य व्यावहारिकसत्यत्वात्तेन न बाध इति भावः । ननु यदि द्विचन्द्रादिभ्रमस्य बाधितमूलत्वं न स्यात् तर्हि तन्निबन्धनभयविस्मयादिप्रसङ्ग इत्यत आह तद्विषयेति । न तथेत्येतद्विवृणोति कारणेति । अविद्यानिवर्तकज्ञानस्य विरोधिविषयत्वेन निवर्तकत्वे तदानीमेवाविद्यावद्वासनाया अपि निवृत्तिप्रसङ्गात् बाध्यबाधकज्ञानयोर्मिथ्यात्वाविशेषेण वास्तवप्रामाण्यतदभावाभ्यामपि विशेषाभावाद्बाधकज्ञानस्य बाध्यप्रतिभासापेक्षयाऽविशेषेण बलाभावाच्च पश्चादप्यनिवृत्तिप्रसङ्गादेक हेलयैव निवार्यत्वं वाच्यमिति न बाधितानुवृत्तिरिति भावः ॥ ॥वत्सकुलजलधिकौस्तुभनृसिंहगुरुसुतेन सिहन्देवेन कृतायां शतदूषणीटीकायां पञ्चमो वादस्समाप्तः ॥