03 ऐकशास्त्र्यसमर्थनवादः

॥ अथ ऐकशास्त्र्यसमर्थनवादस्तृतीयः ॥3॥
त्रय्यन्ताः कर्मभागेन सौहार्दं समधिश्रिताः ।
मुक्तिं यद्भजनादाहुस्तमनन्तमुपास्महे ॥
स्थितं तावदध्ययनविधिनाऽध्यापनविधिना वा प्रयुक्तमध्ययनं साङ्गसशिरस्ककृत्स्नस्वाध्याय विषयमिति ।
रागतो विधितो वा प्रयुक्तस्तदर्थविचारोऽपि कृत्स्नगोचरः, तयोस्सङ्कोचकाभावात् ।

ननु विधिप्रयुक्तौ माभूत्सङ्कोचः, रागप्रयुक्तौ तु स्यात्, यावद्रागं प्रवृत्त्युपपत्तेः, मैवम्; विकल्पासहत्वात् ।
किं ब्रह्मणि विचारसङ्कोचः किं वा कर्मणि? नाद्यः पुरुषस्य चतुर्ष्वपि पुरुषार्थेषु रागसम्भवात्, क्रमेण भोगसम्भवे विरोधाभावाच्च ।
सन्ति ह्युभयभावनास्तथाविधाः ।
यस्य तु क्वाचित्को रागः, तस्यैकदेशविचारे का विचिकित्सेति चेन्न, यस्य लोकायतोपप्लुतमतेर्द्विवर्गमात्रनिष्ठस्य वेदोदितेषु चतुर्ष्वप्यनास्था, यस्य चाशक्तिरापद्वा तस्य केति प्रसङ्गात् ।
अस्त्वनर्हस्यानधिकारः, स्वार्हं प्रति प्रवृत्ता मीमांसेति चेत्, तुल्यं त्रिकाण्ड्यामपि ।
तिष्ठतु पुरुषार्थरागः, कृत्स्नप्रवचनादिरागादपि कृत्स्नविचारस्समस्ति, तेन न ब्रह्ममात्रे विचारसङ्कोचः ।
कर्ममात्रे च विचारं सङ्कोचयन् कबन्धमीमांसकस्तु राहुमीमांसकैरपि प्रतिवक्तव्यः, सिद्धेऽपि व्युत्पत्तिसम्भवात् ।
अप्राप्ते स्वतः पुमर्थे च विषये प्रवृत्त्यनङ्गत्वेऽपि, श्रवणादियोगादर्थज्ञानस्य स्वतन्त्रत्वे उपायानुष्ठानशेषत्वेऽपि, तदुपयोगिसिद्धार्थबाधायोगाच्चेति ।
कर्मशेषभूतस्यात्मनः शास्त्रान्तराद्विचार इति वदताऽपि शारीरकं शास्त्रैकदेश इति स्वीकर्तव्यम्, अन्यतस्तदयोगात् ।
तेनैव दन्तिभुक्तकपित्थन्यायेन निस्सार एव वेदान्त इति नास्तिकानां वचनमवधूयते ।

अस्तु तर्हि ब्रह्मैकविषयतया विचारसङ्कोचः, अतिशयितपुरुषार्थप्रतीतौ “स्थितेऽरविन्दे ’ (स्तोत्ररत्नं 25) इति न्यायावतारादिति चेन्न, कर्मविचारस्य कैश्चिदप्यननुष्ठानप्रसङ्गात् ।
अस्त्विति चेन्न, प्रत्यक्षविरोधात् ।
अतिशयितपुरुषार्थप्रतीत्यभावात्कस्यचिदुपपत्तिरिति चेन्न; तदभावस्तस्य त्रय्यन्तभागानध्ययनाद्वा तत्सहकारिविरहाद्वा?
नाद्यः, विधेः कृत्स्नविषयत्वस्थापनात् ।
न द्वितीयः, साङ्गाध्ययनादेव तत्रापि तत्सिद्धेः ।
न हि साङ्गाध्ययनविधेस्तत्रैव सर्पमारः,
अन्यत्रापि तत्प्रसङ्गात् ।
तथात्वे वा क्व शास्त्रारम्भः? तत्सिद्धावप्यनादिदुर्वासनादार्ढ््यादपथे प्रवर्तन्ते कर्ममीमांसका इति चेन्न, त्वयाऽपि विविदिषासाधनाधिकारे कर्मणां सत्पथत्वस्वीकारात् ।
तथाऽपि तद्विचारश्शरीरकशेष इति चेत्, सिद्धं शास्त्रैक्यम् ।
कर्मस्वरूपादिविचारमन्तरेण विविदिषार्थविनियोगायोगात् ।
वेदनार्थविचारपक्षेऽपि किं पुनः ।
भवान्तरीयसुकृतविशेषमृदितकषायस्य कस्यचिदयत्नेन विविदिषोत्पत्तौ किं तदर्थकर्मविचारेणेति चेन्न, तथैव कस्यचिदत्यन्तमृदितकषायस्य जातिस्मरणादिवत्सिद्धज्ञानतया शारीरकेऽप्यनारम्भात् ।
तदर्हस्य तदारम्भ इति चेत्, एवमुभयार्हस्य उभयारम्भ इति तुल्यम् ।
न ह्यनधिकारिणं विधिरधिकुरुते; रागोऽपि तथा; “न ह्यशकनीयमर्थं वेदोऽपि विदधाती’‘ति न्यायात् ।
यदा न यावज्जीवमनुष्ठेयं ज्ञानमपवर्गोपाय इति सेत्स्यति, तदा तदुपचयार्थं तदर्थविविदिषानुवृत्त्यर्थं वा सत्कर्मणां नित्यानुष्ठेयत्वेन विचारोऽवश्यम्भावी ।
न च जन्मान्तरकर्मबलाद्यावज्जीवं विविदिषा स्यादिति निश्चेतुं शक्यम्, प्राक्तनैरद्यतनैर्वा प्रबलैर्विरोधिकर्मभिः तत्प्रतिबन्धशङ्कयाऽपि नित्यं सत्कर्मणां सङ्ग्राह्यत्वात् ।
अन्यथा प्राक्तनैरेव कर्मभिर्वृष्टिस्स्यादिति कारीर्यादिकं नानुष्ठी्येत ।

नच नित्यनैमित्तिकविधिः विविदिषोत्पत्त्या निवर्तते, वर्णाश्रमादिनिबन्धनत्वात्तस्य ।
वर्णाश्रमाद्यभिमाननिवृत्त्या तन्निवृत्तिरिति चेत्, केयमभिमाननिवृत्तिः? किं तद्भ्रमस्य निवृत्तिः? उतस्वसमवेतत्वभ्रमस्य निवृत्तिः? किंवा देहात्मतादात्म्यभ्रमस्य निवृत्तिः? अथवा वर्णाश्रमाद्याश्रयपिण्डसम्बन्धभ्रान्तिनिवृत्तिः? अथवा पिण्डस्यैव निवृत्तिः? नाद्यः, असिद्धेः ।
न द्वितीयः, कर्ममीमांसकानामपि पारलौकिकात्मविदां वर्णादेस्स्वसमवेतत्बभ्रमाभावेन कर्मणामधिकार्यभावप्रसङ्गात् ।
नहि देहात्मभ्रमवन्तं प्रति धर्मोपदेशः ।
न तृतीयः, भ्रमनिवृत्तिर्हि देहातिरिक्तात्मविसं्रभौपयिकतया पारलौकिककर्मानुष्ठानयोग्यतामेवावहेदिति कथं तथा सा निवर्तते? न चतुर्थः, तत्सम्बन्धस्य सत्यत्वेन भ्रमत्वासिद्धेः।
न पञ्चमः, ब्रह्मविचारस्याप्यनारम्भप्रसङ्गात् प्रत्यक्षादिविरोधाच्च ।
वास्तवनिवृत्तिमात्रविवक्षायामविरोध इति चेन्न, तस्य कर्माधिकारदशायामपि भवता स्वीकारात् ।
किञ्च यावता कर्माधिकारो निवर्तत इति मनुषे, तावता वेदान्तश्रवणाद्यधिकारोऽपि निवर्तत इति ब्रह्ममीमांसैव न स्यात् ।
नचायमिष्टप्रसङ्गः, तत्त्वज्ञानोदयात्पूर्वं तदनभ्युपगमात् ।

ननु कर्ममीमांसाया वेदान्तविचारानुपयुक्तत्वान्न तया सहास्यैकशास्त्र्यमितिचेन्न, अनुपयोगासिद्धेः ।
कोऽसावुपयोग इति चेत्, न्यायोपजीवनं तावत् ।
तथाहि -बाह्यान्तरनिमित्ताप्रामाण्यनिराकरणेन प्रमाणलक्षणं तावत्कृत्स्नोपयुक्तम् ।
भेदलक्षणोपजीवी च गुणोपसंहारपादः ।
तार्तीयाश्च श्रुतिलिङ्गादयस्सार्वत्रिकाः ।
प्रयुक्तिश्च वर्णाश्रमादिधर्माणां विद्याप्रयुक्तत्वाश्रमप्रयुक्तत्वादिविमर्शे निविशते ।
गतिचिन्तायां च पाञ्चमिकः क्रमः ।
कर्ताविद्याधिकारिचिन्तने विशेष्यते ।
अतिदेशादयश्च “तदेव रूपं यदमुप्य रूपम्’’ (छां-2-6-6) इत्यादिषु ।
अतः कर्ममीमांसानिरूपितस्वरूपैस्तत्तन्नयायैरेव हि वेदान्तार्थो विचार्यते ।
अपूर्वास्तत्र कतिपये न्यायाः विद्याङ्गभूतयज्ञादिस्वरूपशिक्षणं च ।
अन्यथा “यज्ञेने’त्यादिवाक्यार्थानवबोधप्रसङ्गात् ।
न ह्यविदितपदार्थविशेषो वाक्यार्थावसायी स्यात्।
यज्ञादिकल्पनं च तत्र तत्र क्रियते; तदपि यज्ञादिस्वरूपनिरूपणसापेक्षम् ।

यच्चातिशयितपुरुषार्थप्रतीत्या तदर्थो वेदान्तभाग एव प्रवर्ततामिति, तत्रेयं प्रतीतिः किमापातसम्भवा? उत निर्णयात्मिका? न प्रथमः “अपाम सोमममृता अभूम’’ (कृष्ण यजुः तै.सं.3-2-7 अनु) “अक्ष्यय्यं ह वै चातुर्मास्ययाजिनस्सुकृतं भवति’’ (आप.श्रौत.8-2-2) इति कर्मभागेऽप्यक्षयफलापातोपलम्भात्, ब्रह्मभागेऽपि “न प्रेत्य सञ्ज्ञाऽस्ती’’ (बृ.4-4-22) त्यादिभिर पुरुषार्थापातोपलम्भात् ।
ननु पूर्वापरवाक्यानुगुण्यात्तेषां स्तुतिमात्रपरत्वम्, अस्य तु वाक्यस्य तस्मादेवपरमपुरुषार्थ एव तात्पर्यमिति वैषम्यमस्तीति चेत्; किं तेन, अप्रमितत्वेन विचारनियमं प्रत्यनुपकारकत्वात् ।
न द्वितीयः, मीमांसया विना तदसिद्धेः ।
तत्त्वविदुपदेशात्तत्सिद्धिस्सम्भवतीतिचेत्, तर्हि ब्रह्ममीमांसाया अप्यनारम्भस्स्यात्; तदुपदेशत एव ब्रह्मस्वरूपसिद्धेः, तत एव भ्रमनिवृत्तेश्च ।
अत एकस्यैव पुरुषस्य वेदोदितसर्वपुरुषार्थयोग्यतामाश्रित्य एकव्याख्येयव्याख्यानात्मनाविंशतिलक्षणमेकं शास्त्रमिति ।

एतेनार्थप्रयोजनाधिकारिभेदाच्छास्त्र भेद इति निरस्तम्, सामान्यतो वेदार्थपुरुषार्थतदर्थित्वरूपेणतेषां भेदासिद्धेः, अवान्तरार्थभेदादेश्शास्त्रैक्येऽप्यविरोधात् ।
अन्यथा षट्काध्यायादिभेदेऽपि भिन्नशास्त्रत्वप्रसङ्गात् ।
नचैवं वेदार्थानुबन्धित्वाविशेषाद्धिद्यास्थानभेद विलयप्रसङ्ग इति वाच्यम्,उपकारभेदेन तद्भेदव्यवस्थापनात् ।
अत एव
हीतिहासपुराणयोरदूरविप्रकर्षादेकविद्यास्थानत्वनियमः ।
नच धर्मशास्त्रस्येवात्र महर्षिभिः पृथक्परिसङ्ख्यानम् ।
तथाऽपि भिन्नकर्तृकयोः कथमेकप्रबन्धत्वमिति चेन्न; एकेनापि कर्त्राऽनेककार्यारम्भदर्शनात्, अनेकैरप्येक
रथगोपुरप्राकारादिनिर्माणदर्शनाच्च ।
निबन्धनेष्वयं विशेष इति चेन्न; तत्राप्येकेन विदुषाऽनेकप्रबन्ध करणदर्शनात्, पाणिनीयवृत्तिकादम्बरीप्रभृतिषु चानेककर्तृकत्वेऽप्येकप्रबन्धत्वसम्प्रतिपत्तेश्च ।
तत्र कर्तृभेदे किं प्रमाणमिति चेत्, कर्मब्रह्ममीमांसयोरपि वा किम्? उपदेशपारम्पर्यमिति चेत्, तुल्यम् ।

अस्तु तर्ह्यर्थविरोधाद्भेद इति चेत्; कोऽसौ विरोधः? द्वैताद्वैतगोचरत्वमिति चेन्न, तयोरेकनिष्ठत्वासिद्धेः।
न हि कर्मकाण्डनिरूपितफलकरणेतिकर्तव्यतादीनामैक्यं ब्रह्मैक्यादिविषयेषु वेदान्तेष्वभिधीयते ।
तत्सत्यत्वमिथ्यात्वप्रतिपादनाद्विरोध इति चेन्न, वेदान्तभागस्य प्रपञ्चमिथ्यात्वतात्पर्याभ्युपगमे कर्मभागस्य तत्सत्यत्वप्रतिपादनतात्पर्यासिद्धेः ।
सत्यत्वाभावेऽपि हि त्वदुक्तव्यावहारिकमर्यादया फलकरणभावादिकं निरूपयितुं शक्यते ।
अन्यथा वेदान्तविचारस्यापि प्रमाणतर्कादिभेदसापेक्षत्वेन स्वव्याघातप्रसङ्गः ।
सगुणब्रह्मोपासनतत्फलादिचिन्तनमपि शास्त्रान्तरसाध्यं स्यात् ।

यदा त्वस्मदुक्तन्यायेन सकलकर्मसमाराध्यमनन्तगुणविभूतिकं ब्रह्म वेदान्तवेद्यम्, तदा तु न विरोध गन्धोऽपि ।
निरीश्वरत्वसेश्वरत्वाभ्यां विरोध इति चेन्न; जैमिनिसूत्रेष्वीश्वरप्रतिक्षेपादर्शनात्, अर्वाचीनव्याख्यातृजल्पितानां तु अनादरणीयत्वात् ।
अत एव सेश्वरमीमांसापक्षोऽपि नातीव विच्छिन्नः; परैरनूद्यते च ।
देवताकाण्डं च कर्मकाण्डशेषतया भाष्यकारैः परिगृहीतम् ।
“तदुक्तं सङ्कर्ष’’ (सङ्कर्ष काण्ड) इति तत्रत्यसूत्राणि चोदाहरन्ति ।
तस्य च काण्डस्योपसंहारे “अन्ते हरौ तद्दर्शनात् ’’ (सङ्कर्षकाण्ड) इति देवताकाष्ठां प्रदर्श्य “स विष्णुराह हि’’ (सङ्कर्षकाण्ड) इति सर्वदेवताराधनानां तत्पर्यवसानाय तस्य सर्वान्तरात्मत्वेन व्याप्तिं प्रतिपाद्य “तं ब्रह्मेत्याचक्षते तं ब्रह्मेत्याचक्षते’’ इति तस्यैव वेदान्तवेद्यपरब्रह्मत्वोपक्षेपेणोपसंहारात्, सामान्यतोऽपि विशेषतश्चेश्वरः प्रस्तुत इति तत्त्वविदां सम्प्रदायः।
अत एव कर्मकाण्डदेवताधिकरणमपि कर्मप्राशस्त्यमात्रपरम्; किमलौकिकदेवता विग्रहादिसमर्थनप्रयासेन? यथाश्रुतकर्मण एव फलप्रदत्वशक्तिरित्येतावतैवोक्तेन परप्रतिक्षेपात्, अश्रुतवेदान्तानां प्ररोचनासिद्धेश्च, सहसा च गुह्यार्थानामवचनीयत्वात् ।
एवं सति ब्रह्मकाण्डदेवताधिकरणैकरस्यसिद्धेः ।

द्रव्यदेवतयोर्द्रव्यबलीयस्त्ववर्णनमपि न देवताविग्रहाद्यपारमार्थ्यलिङ्गम्, प्रतीतिसन्नि कर्षविप्रकर्षाभ्यामेव प्राबल्यदौर्बल्यसिद्धेः।
यद्यपि द्रव्यस्यापि धर्मत्वं परोक्षम्, अथापि स्वरूपतः प्रत्यक्षतया विशेषोऽस्त्येव ।
एवं सर्वत्राविरोधः सेश्वरमीमांसायामनुसन्धातव्यः ।
तथाऽपि “मध्वादिष्वसम्भवादनधिकारं जैमिनिः “(ब्र.सू.1-3-30)’’ धर्मं जैमिनिरत एव “(ब्र.सू.3-2-35)’’ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः’’ (ब्र.सू.3.4.2) “परामर्शं जैमिनिरचोदनाच्चापवदति हि’’ (ब्र.सू.3-4-18) “परं जैमिनिर्मुख्यत्वात्’’ (ब्र.सू.4-3-22) “ब्राह्मेण जैमिनिरुपन्यासादिभ्यः’’ (ब्र.सू.4-4-5) “भावं जैमिनिर्विकल्पामननात्’’ (ब्र.सू.4-4-22) इति सूत्रेषु जैमिनिमतस्य पूर्वपक्षत्वेनोपादनाद्विरोधस्सिद्ध इति चेन्न; अत्यल्पतराप्रधानार्थविवादस्य प्रधानभेदकत्वाभावात् ।
अत एव हि शास्त्रेषु वार्तिकावतारः ।
किम्पूर्वकृतप्रासादखण्डविषमांशापनयने शेषनिर्माणे तदैक्यं नास्ति? अतः प्रतिसंस्कारेणात्रापि सन्धानम् ।
यद्वा वैभवोक्तेषु तत्त्वभ्रमो मन्दधियां माभूदिति तदनुवादप्रतिक्षेपौ ।
“तदुक्तं तदुक्त’‘मिति जैमिनिपरिग्रह एव बहुशो दृश्यते ।
विशेषतश्च “साक्षादप्यविरोधं जैमिनिः’’ (ब्र.सू.2-2-25) “सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति’’, (ब्र.सू.2-2-22) “अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके’’ (ब्र.सू.2-7-28) “तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः’’ (ब्र.सू.3-4-40) इति सूत्रेषु भगवता बादरायणेन स्वाभिमतार्थस्थापनाय जैमिनिस्स्वनाम्नैवोपात्तः ।
स च भगवान् जैमिनिः “आैत्पत्तिकस्तु शब्दस्यार्थेन सग्बन्धस्तस्य ज्ञानमुपदेशो व्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं वादरायणस्यानपेक्षत्वात्’ (पू.मी.सू.1-1-7) इति स्वोक्तार्थसम्प्रतिपत्तये स्वाचार्यं बादरायणमेव पुरस्करोति ।
जैमिनेर्बादरायणशिष्यत्वं च महाभारतादिषु प्रसिद्धम्- “सुमन्तुं जैमिनिं बैल्वं वैशम्पायनमेव च “(श्री महा भा) इत्यादिना ।
नत्वत्र व्यासशिष्यो जैमिनिरित्युक्तम्, सत्यं व्यास एवात्र बादरायणः’’-“द्वीपे बदरिकामिश्रे बादरायण मच्युतम् ।
पराशरत्सत्यवती पुत्रं लेभे परन्तपम्’’ ॥ (श्री महा भा) इति हि स्मर्यते ।
व्यासव्यतिरिक्तेऽपिबादरायणसञ्ज्ञा प्रयुक्तेतिचेत्, तथाऽपि"तपोविशिष्टादपि वैवसिष्ठान्मुनिसत्तमात् ।
मन्ये ज्येष्ठतमं त्वाऽद्य रहस्यज्ञानवेदने’’ (श्री.महा.भा) इति रहस्यतमार्थज्ञापकत्वेन प्रसिद्धिप्रकर्षादेः सम्प्रदायादत्र व्यास एव स्वीक्रियते ।
अत एव हि युष्मद्भूमिकामाश्रिताः
वाचस्पतिप्रभृतयोऽपि व्यासमेव ब्रह्मासूत्रकृतमाचरव्युः ।
येषु च सूत्रेषु पूर्वपक्षतया जैमिनिमतमुक्तं शारीरके तेष्वपि देवतासद्भावः परब्रह्मसद्भावो मुक्तस्य परब्रह्मसाम्यापत्तिर्विग्रहादिसद्भावश्च प्रतीयते, तदपि च तत्प्रणीत कर्मकाण्डदेवताधिकरणादेरन्यपरत्वं स्थिरीकरोति ।
न ह्यर्वाचीनवज्जैमिनिहृदयानभिज्ञस्तदाचार्यो बादरायणः, अतः परस्परसम्मत्या कार्यान्तरेष्विवात्रापि यथांशकरणमपि युक्तम् ।

तदेतदखिलमभिप्रेत्योक्तं भगवता बोधायनेन-“संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धिः’’ (बोधायन वृत्ति) इति ।
तदेतदुपादाय व्यस्तृणीत च भाष्यकारः ।
नन्वेतावताऽपि कर्मब्रह्ममीमांसयोरैकशास्त्र्ये प्रबन्धैक्ये वा किम्प्रमाणमुपन्यस्तमिति चेत्, किं वा कर्मकाण्डद्वादशाध्यायादौ शारीकचतुरध्याय्यां च प्रत्येकमैकशास्त्र्ये त्वया निर्णीतम् ? क्रमविशेषनि यामकसङ्गतिविशेषविशिष्टाविरुद्धावान्तरार्थशास्त्रान्तरव्यावृत्तासाधारणोपकारार्हसप्रकारैकप्रधानार्थत्वमिति चेत् इदं तु किम्प्रमाणमिति निपुणो भूत्वा त्वमेव निरूपय, त्यज वा सर्वत्रैक्यम् ।
तस्मात् “अथातो धर्मजिज्ञासा’’ (पू.मी.सू.1-1-1) इत्यारभ्य “अनावृत्तिश्शब्दादनावृत्तिश्शब्दात्’’ (ब्र.सू.4-4-22) इत्येवमन्तं कर्मदेवतापरदेवतागोचरतया विभक्तकाण्डत्रयं विंशतिलक्षणमेकं शास्त्रमिति तदिदं-मीमांसाशास्त्रमित्यादिना भाष्येण दर्शितमिति ॥
॥ इति श्रीकवितार्किक सिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
शतदूषण्व्याम् ऐकशास्त्र्यसमर्थनवादस्तृतीयः ॥3॥

नृसिंहराजीया

ब्रह्मशब्दविचारानन्तरं तद्वाक््यार्थविचारः कृतः । इदानीं तद्वाक््यगताथशब्दार्थावधिविचारः क्रियत इति सङ्गतिं दर्शयन् वादार्थं सङ्ग्रहेण दर्शयति त्रय्यन्ता इति । एकार्थत्वलक्षणहेतुसूचनमुखेन एऐकशास्त्र्यहेतुभूतार्थविरोधाभावं सूचयन् एऐकशास्त्र्यप्रयोजकैकग्रन्थत्वमाह सौहार्दं समधिश्रिता इति । एकग्रन्थत्व एवैकदेशत्वमिति व्याख्येयैक्यरूपहेतुमाह त्रय्यन्ता इति । ननु ““स्वाध्यायोध्येतव्य’’ (तै - आ 2 - 27) इति विधेरर्थज्ञानपर्यन्तत्वपक्षे विचारशास्त्रं कृत्स्नं गोचरमस्तु । रागप्रयुक्तिपक्षे कथं कृत्स्नगोचरमिति कथमैकशास्त्र्यमित्यतशाह स्थितं तावदिति । रागप्रयुक्तिपक्षेपि विचारप्रयोजिकाया आपातप्रतीतेः कृत्स्नविषयत्वात् तदधीनविचारोपि कृत्स्नगोचर इति तच्छास्त्रमपि कृत्स्नगोचरमेव मन्तव्यमिति भावः । ननु स्वाध्यायाध्ययनविधेः कृत्स्नस्वाध्यायगोचरत्ववदङ्गगोचरत्वादङ्ग विचारशास्त्रस्याप्यैकशास्त्र्यापत्तिः । प्रयोजकस्याविशेषादिति चेत् सत्यं स्वाध्यायत्वरूपोपाधिना प्रवृत्तो विचार एक एव । पूर्वोत्तरभागयोः स्वाध्यायावयवयोः कर्मब्रह्मपरयोरेकग्रन्थैकदेशत्वात् । अङ्गानां तु वेदोपकारकत्वेपि ज्यौतिषत्वादिभिन्नभिन्नोपाधिना विचारस्य प्रवृत्तत्वात् । न च ज्यौतिषादीनाम् एकावयवत्वं नास्ति येन तद्विचारशास्त्र्यैक्यं शङ्क्येत । नचैवं वेदानामपि ऋगादिभेदेन भिन्नत्वात् ऋग्यजुषोश्चैकावयत्वाभावात् कथं तद्विचारैक्यम् । वेदत्वरूपैणैक्येत्वङ्गत्वरूपेण विद्यास्थानत्वेन वा सर्वेषामैक््यप्रसङ्गादिति वाच्यम् । वेदानां भिन्नानां सशिरस्कानामेव प्रत्येकं तन्त्रेण व्याख्यानं सम्भवदिदं तत्पूर्वोत्तरभागव्याख्यानं सदेकमेव भवति । यथा ज्यौतिषादीन्यङ्गानि प्रत्येकं वेदानां तथाप्येकमेव ज्यौतिषादिशास्त्रं यथा वा प्रयाजादीनि प्रत्येकमङ्गत्वेप्याग्नेयादीनामङ्गानि सकृदनुष्ठितानि भवन्तीति । ननु तर्हि साङ्गसशिरस्कस्वाध्यायविषयमिति साङ्गग्रहणं किमर्थमिति चेत् साङ्गग्रहणं विचारप्रयोजकापातप्रतीतिसिध्यर्थमिति गृहाण । ननु स्वविधिप्रयुक्तिपक्षे “स्वाध्यायोध्येतव्य’ (तै - आ 2 - 27) इति स्वाध्यायशब्दस्य सङ्कोचकाभावादध्ययनस्य कृत्स्नविषयतया विचारस्य कृत्स्नविषयत्व सिद्धिरस्तु । अध्यापनविधिप्रयुक्तिपक्षे कथं कृत्स्नविषयत्वमिति चेन्न ““अष्टवर्ष ब्राह्मणमुपनयीत तमध्यापयीत’’ (शतपथ ब्रा) इति अध्यापनविधिना अध्ययनविधिसिद्ध व्रतनियमविशेषयुक्तस्य कृत्स्न विषयस्यैव अध्ययनस्य स्वाङ्गभूतोपनयनद्वारतया स्वीकारात् । अध्यापनविधिः कृत्स्न स्वाध्यायाध्ययनं प्रयुङ्क इति न दोषः । तयोरिति । तदर्थविचारे विधितो रागतो वा प्रवृत्तौ व्याख्यानं विना दुर्ज्ञानत्वात् तत्तत्प्रवृत्तपुरुषानुजिघृक्षया प्रवृत्तं मीमांसाशास्त्रं तद्व्याख्यनरूपं कृत्स्नगोचरमिति भावः । श्वननु विधि प्रयुक्तिपक्षे सङ्कोचकाभावात् सर्वगोचरो विचारः स्यात् । रागप्रयुक्तौतु विचारस्तत्साध्य निर्णयो वा न स्वतः पुरुषार्थ इति । यस्य यत्पुरुषार्थरागसम्भवः तस्य तन्निर्णयोपयोगिविचार एव इच्छा स्यादिति विचारस्सङ्कोचमर्हतीति शङ्कते नन्विति । यद्यपि पुरुषाणांरागस्सङ्कुचितोस्तु तथापि सर्वपुरुषार्थेषु प्रत्येकंरागिणामनुग्रहाय कृत्स्नगोचरत्वं विचारशास्त्रस्य युक्तम् ।यथा पश्वादिसर्वपुरुषार्थेषु एकस्येच्छाया अभावेपि प्रत्येकमिच्छावतामनुजिघृक्षयैव विचारशास्त्रमेकं यथा वा तत्तत्सर्गपिपठिषु भेदेपि रघुकाव्यादि व्याख्या तथैव मीमांसाशास्त्रमिति । परिहरति मैवमिति । परिहारान्तरमाह विकल्पेति । त्रिवर्गापवर्गयोः परस्परविरोधात् एकस्योभयत्र रागासम्भवमाशङ्क्याह क्रमेणेति । उभयभावनाः कर्मब्रह्मोभय पराश्चतुर्मुखादयः । ननु रागानुसारेण शास्त्रप्रवृत्तौ कस्यचित्कदाचिदेवेच्छा जायत इति तद्रागानुसारेणविशेषोद्देशेन मीमासाशास्त्रं प्रवतर्ते इति शङ्कते यस्यत्विति । द्विवर्गः अर्थकामौ।वेदोदितेषु वेदप्रतिपन्नसाधनकेषु । ननु तादृशपुरुषानुसारेण मीमांसाशास्त्रमेव न स्यादित्युक्तम् । दूषणबलाद्रागाधीनत्वं न स्यात् ।न तु मीमांसाशास्त्रानारम्भ इति चेन्मैवम् । तत्र त्वयापि हेत्वन्तरं यद्वक्तव्यं तत्तु पूर्वोत्तरभागसाधाराणमिति तात्पर्यम् । यदि रागशून्यस्यानधिकारःतदाप्रत्येकं रागाणामननुगतत्वात्तद्वतो नाधिकार इति सर्वगोचररागोधिकारी सिध्यतीति तमेवाधिकृत्य शास्त्रं प्रवर्तत इत्याह तुल्यमिति । त्रिकाण्डी - कर्मकाण्डं देवताकाण्डं ब्रह्मकाण्डं चेत्यर्थः । किञ्च कृत्स्नवेदार्थजिज्ञासोरभावेपि कृत्स्नप्रविविक्षुरूपाधिकारिसम्भवात् कृत्स्नगोचरशास्त्रं प्रवर्तत इत्याह तिष्ठत्विति । ननु पूर्वोत्तरभागसाधारणरागासम्भवः । सिद्धेव्युत्पत्त्यभावेन रागप्रयोजिकायाः आपातप्रतीतेरसम्भवात् । भावेपि सिद्धस्य प्रवृत्तिनिवृत्त्यविषयस्य विचारे प्रयोजनाभावादुपासनाविधिशेषार्थवादतया स्वार्थविवक्षाविरहाच्च तद्विचारे रागाभावात्पूर्वभाग एव विचारसङ्कोच इति मीमांसकैराशङ्किते सति सिद्धेव्युत्पत्यसम्भवादिना राहुमीमांसकैरैकशास्त्र्यमनभ्युपगच्छद्भिरप्युत्तरभागेपि रागादिस्समर्थनीय इति पूर्वोत्तरभागसाधारण्यं रागस्येत्याह कर्ममात्र इत्यादिना ।असाध्यत्वेपि प्राप्यत्व सम्भवाद्विचारस्सम्भवतीत्याह अप्राप्त इति । ननु यदि श्रवणादेव प्रीत्यर्थं ब्रह्मबोधनं तदा बालोपच्छब्दनवाक्यवदयथार्थत्वेपि प्रीतिसम्भवान्नास्य प्रामाण्यम् । यद्युपासनानुष्ठानशेषत्वं तदाआरोपितेनाप्युपासनानुष्ठानविधेः । ब्रह्मणि वेदान्तानां न प्रामाण्यमित्यत्राह अर्थज्ञानस्येति । स्वातन्त्र्यम् उपायानुष्ठानमपेक्षय प्रयोजनपर्यवसानम् । तद्ज्ञानस्य प्रीतिहेतुत्वेपि कामिन्यादिदर्शनवद्बाधकाभावादु पायानुष्ठानशेषत्वपक्षेपि स्वर्गाद्यर्थवादवदुपासनापेक्षित फलसमर्पकतया प्रामाण्यं स्यादेव । नचविषयसमर्पकस्य वाग्धेनुवाक्यवदप्रामाण्यं बाधकाभावात् । अन्यथा धृवारुन्धतीदर्शन वाक्यस्याप्यप्रामाण्यप्रसङ्गादिति भावः ।प्रसङ्गात् कर्ममीमांसैकदेशिनापि नेयं शङ्का कार्येत्याह कर्मशेषेति ।अन्यत इति । शास्त्रैकदेशादन्यत इत्यर्थः । तेनैवेति । मीमींसकेनेवेत्यर्थः । अतस्तन्निरासोऽपि नास्माकमेव भर इति भावः । पूर्वं कबन्धमीमांसकं कर्ममात्रसङ्कोचकं राहुमीमांसकेन निरस्य इदानीं ब्रह्ममात्र एव रागं सङ्कोच्य विचारमपि तन्मात्र एव सङ्कोचयन्तं कबन्धमीमांसकमुखेन निरासयितुमुपक्रमते । अस्तु तर्हीत्यादिना । स्थितेरविन्द इति न्यायादिति । ““स्थितेरविन्देमकरन्दनिर्भरे मघुव्रतो नेक्षुरकं हि वीक्षत’’ (स्तोत्ररत्नं) इतिन्यायादित्यर्थः । नेति ।कारणीभूतरागाभावादिति भावः । तत्सहकारीति ।व्युत्पत्त्यादिकं विवक्षितम्।तत्रापीति ।कर्मभाग इव ब्रह्मभागेपि व्युत्पत्त्यादिसहकारिसिद्धेरित्यर्थः ।तत्रैवेति।ब्रह्मभाग इत्यर्थः। सर्पेण मारो मरणम् । अन्यत्रापीति । कर्मभागेपीत्यर्थः । नचायमिष्टप्रसङ्ग इत्याह तथात्वेवेति । तत्सिद्धावपीति ।तथाच सत्पथवर्त्यनुग्रहाय ब्रह्मविचारार्थमेव शास्त्रप्रवृत्तिरिति नासत्पथवर्त्यनुग्राहकेणैक््यमिति भावः । त्वयापीति । कर्मविचारशास्त्रस्यापि सत्पथवर्त्यनुग्रहार्थप्रवृत्तत्वादैक्यं युक्तमिति भावः ।ननु विविदिषार्थत्वेन कर्मणां सत्यपथत्वमस्तु तानि तु प्रसिद्धयज्ञादिभ्यो भिन्नानि । तद्विचारश्च सर्वापेक्षा (ब्र.सू.3 - 4 - 26) इत्यादिना, शारीरकैकदेशतया, कृत एवेति शङ्कते तथापीति । हेतुमाह कर्मस्वरूपेति । विविदिषार्थानां कर्मणां स्वर्गार्थानां मासाग्निहोत्रनैयमिकाग्निहोत्रवद्भेदो वास्तु । नित्यकाम्यज्योतिष्टोमादिवद्विनियोगपृथक्त्वमात्रं वास्तु । सर्वथा कर्मस्वरूपविचारं विना विविदिषार्थतया विनियोगो न युक्तः । नच विविदिषार्थत्वविचार एव कर्मविचारः । तथा च कर्मस्वरूपविचारो जैमिनीय एवेति तेनैकशास्त्र्यमित्यर्थः । वेदनार्थत्वं वदतो विवरणकारस्य मते कर्मविचारशास्त्र्स्याङ्गविषय शास्त्रत्वादङ्गिशास्त्रेण सुतरामभिन्नत्वमिति भावः । भावान्तरीयेति । ब्रह्ममात्रे विचारसङ्कोचस्सम्भवतीति भावः । तथैवेति भावन्तरीय सुकृतवशात् धर्मरुचिजातिस्मरणादिकमिव स्वयमागतविज्ञानाः ( )इत्याद्यनुसारात् ज्ञानमपि सिद्धं चेत् ब्रह्ममीमांसाशास्त्रस्याप्यनारम्भप्रसङ्गादिति भावः । तदर्हस्य ब्रह्मजिज्ञासोः । उभयार्हस्येति । कृत्स्नवेदार्थजिज्ञासूनां सम्भवात् तदर्थं कृत्स्नमीमांसाशास्त्रमारम्भणीय मेव । कस्यचिदुभयजिज्ञासाविरहस्त्वप्रयोजकेति भावः । ननूभयार्हं प्रति कृत्स्नविचारार्थं शास्त्रमिति कुतः । एकैकार्हं प्रत्येकैकविचारशास्त्रारम्भः कुतो न स्यादित्यत्राह । नह््यनधिकारिणमिति । अध्ययनविधेरर्थज्ञानकामाधिकारत्वपक्षे स्वाध्यायमात्रार्थज्ञानकामनाया एव अधिकारिकोटिप्रवेशात् एकदेशार्थज्ञानकामस्याधिकाराभावान्न तमुद्धिश्य विचारशास्त्रप्रवृत्तिः । रागप्रयुक्तिपक्षेपि साङ्गाध्ययन विधेः कृत्स्नागोचरतया तदधीनापातप्रतीत्युत्थापितरागोपि कृत्स्नार्थगोचरो युक्त इति तदधीनोपायविचारगोचरो रागोपि कृत्स्नगोचर इति तदर्थशास्त्रारम्भस्यापि कृत्स्नगोचरत्वादेकदेश विचारकामं नाधिकरोति शास्त्रमित्यर्थः । न हीति । अशकनीयविधायकत्वं यथा शास्त्रस्य न सम्भवति तथा विधिरागयोरप्यनधिकारिप्रवर्तकत्वं न सम्भवतीत्यर्थः । एवं ब्रह्मसूत्रविचारसङ्कोचं पुरुषविशेषेभ्युपगम्य तदन्यपुरुषविशेषमादाय सर्वविचारस्समर्थितः । वस्तुतः सत्कर्मणां ज्ञानार्थत्वे विविदिषार्थत्वे वा ब्रह्ममात्रविचारसङ्कोचः क्वापि पुरुषे न सम्भवतीत्याह यदा चेति । यद्यपि वेदनार्थत्वम्उपचयार्थं कर्मापेक्षा विविदिषार्थत्वपक्षे तूत्पन्नायास्स्वयमेवानुवृत्तेः कथं तदपेक्षेत्यत्राह न च जन्मान्तरेति ।हेत्वभावादिति भावः । किञ्च प्रतिबन्धकवशाद्विविदिषाविच्छेदशङ्कया तन्निरासमुखेनविविदिषोपचयार्थतयाप्युपयोग इत्याह प्राक्तनैरिति । प्रतिबन्धशङ्कयेत्यनन्तरम् उक्तनिश्चयाभावेनेति शेषः ।सङ्ग्राह्यत्वादित्यत्र तद्विचारोवश्यम्भावीतिशेषः । कस्यचिदुक्तनिश्चयसम्भवेपि कर्मापेक्षामुपपादयति नचेति । ततश्च न विचारसङ्कोच इति भावः ।ननुवर्णाश्रमादेरात्मन्यभावात्तदभिमान निबन्धनः कर्मविधिर्नित्यानित्यविवेकेन निवृत्ताभिमानतया निवर्तते ।जन्मान्तरकर्मसिद्धं विविदिषस्य तदर्थं कर्मविचारापेक्षाभावाच्च ब्रह्ममात्रे विचारसङ्कोच इत्याशयेन शङ्कते वर्णाश्रमेति । तद्भ्रमस्येति । तत्स्वरूपाध्यासस्येत्यर्थः । किंवा देहात्मेति । वर्णाश्रम शब्देन तद्विशिष्टदेहः अभिमानशब्देन तादात्म्याभिमानश्च विवक्षित इति भावः । पिण्डस्यैवेति । वर्णाश्रमादिशब्दस्य देहपरत्वादभि मानशब्दस्याभिमन्यमानपरत्वादिति भावः । सर्वसपक्षसाधारणं दूषणमाह असिद्धेरिति । मोक्षदशायामेवतदध्यासनिवृत्तेरिति भावः । ननु कर्ममीमांसकानां न देहात्मविवेकोस्तीत्यत आह न हीति । तथा सति देहस्य वर्तमानस्य विनाशेन देहान्तरानुभाव्यफलकर्मानुष्ठानं न स्यादित्यर्थः । भ्रमत्वासिद्धेरिति । प्रातिभासिकभ्रमत्वासिद्धेरित्यर्थः । व्यावहारिकस्यामोक्षमनुवृत्तेरिति भावः । ब्रह्मविचारस्यापीति । देहरूपपिण्डसाध्यत्वादितिभावः । वास्तवनिवृतीति । पारमार्थिकात्यन्ताभावस्य व्यावहारिकप्रतियोगिना विरोधाभावादिति भावः । सर्वपक्षसाधारणं दूषणमाह किञ्चेति । श्रवणविधिरपि त्रैवणिकाद्यधिकारिकः । तथा चानिवृत्ताभिमानेषु कर्मविचारः सम्भवति ब्रह्मविचारस्तु नित्यानित्यविवेकाधिकारकत्वान्निवृत्ताभि मानस्यैवेति वैषम्यं नास्तीति भावः । नन्वस्तूक्तरीत्या विचारसङ्कोचाभावः । तथापि पूर्वोत्तरशास्त्रयोःपरस्पराकाङ्क्षा विरहात्कथमैकशास्त्र्यमितिचोदयति नन्विति । न्यायेत्यादि । उपयोग इत्यनुषङ्गः बाह््येति ।बाह्यहेतूत्था प्रामाण्यं प्रथमपादे निराक्रियते ।आभ्यान्तरहेतूत्थाप्रामाण्यं त्रिपाद्यामिति भावः । कृत्स्नेति पूर्वोत्तरभाग विचारात्मके कृत्स्नशास्त्रे उपयुक्तम् ।भेदेति । ““सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्’’ (ब्र.सू.3 - 3 - 2) इत्यत्र तावत् ““एकंवा संयोगचोदनाख्याऽविशेषात्’’ (जै.मी.सू.2 - 4 - 7) इति शाखान्तराधिकरणन्यायः व्युत्पादनमुपजीव्यते । नचेदमेव तद्व्युत्पादनमिति वाच्यम् । चेदनाद्यविशेषादित्यादिशब्दस्य संयोगरूपचोदनाख्याविशेषादिति पाठापेक्षत्वात् एकमिति साध्य निर्देशश्च तन्नयायोपजीवनेन तत्साध्यलाभादेव ।तथा ““गुणश्चापूर्वसंयोगे वाक्ययोस्समत्वात् ’’ (जै.मी.सू.2 - 2 - 23) इत्यधिकरणव्युत्पादितो गुणाद्भेदो ““न वा प्रकारणभेदात् परोवरीयस्त्वादिवदि’’ (ब्र - सू - 3.3.7)ति छान्दोग्य बृहदारण्यकोद्गीथयोर्भेदार्थमुपजीव्यते । तथा ““नानाशब्दादि भेदात्’’ (ब्र.सू.3.3.56) इत्यत्र शब्दान्तराभ्यासादिभेदव्युत्पादनमादिशब्दादपेक्ष्यते । ““श्रुत्यादिबलीयस्त्वाच्च न बाधः ’’ (ब्र.सू.3.3.41) ““लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि’’ (ब्र.सू.3.3.43) इत्यादिना तार्तियन्यायानामेवोपजीवनमित्याह तार्तीया इति । ““विहितत्वाच्चाश्रमकर्मापि’’ (ब्र.सू.3.4) इत्यादिनाविद्याङ्गत्वाश्रमाङ्गत्वनिर्णये कृते चातुर्थन्यायेन प्रयुक्तिःसिद्धयतीत्याह प्रयुक्तिश्चेति । विमर्शो विचारः । ““वायुमब्दादविशेषविशेषाभ्यां’’ (ब्र.सू.4.3.2) इत्याधिकरणे अर्थस्य क्रमनियामकत्वं श्रौतक्रमस्य पाठक्रमाद्बलीयस्त्वं च पञ्चमसिद्धमुपजीव्याब्दादित्ययोरन्तराले वायुदेवलोकशब्दार्थ निवेशं सिद्धं कृत्वा वायुदेवलोकशब्दयोर्भिन्नार्थत्वं पूर्वपक्षीकृत्य एऐकार्थ्यं प्रसाध्यते । एवं ““तटितोधिवरुणस्सम्बन्धात्’’ (ब्र.सू.4.3.3) इत्यधिकरणेपि पाञ्चमिकन्याय उपजीव्यत इत्याह गतिचिन्तायामिति । ““फलार्थत्वात्कर्मणश्शास्त्रं सर्वाधिकारं स्यात्’’ (जै.मी.सू.6.2.4) इत्यधिकरणे समर्थानामेवाधिकारस्स्यान्नशक्याङ्गोपसंहारेणान्येषामिति षाष्ठनिर्णय उपजीव्यते । अत्र विधुरादीनां देवादीनां च किं सामर्थ्यमस्ति उत नेत्यादिचिन्तयाधिकारिविशेषनिर्णयः क्रियते । नैष्ठिकादिभ्रष्टानां पातित्यात्कर्ममात्रानधिकारेणासामर्थ्यात् ब्रह्मविद्यानधिकारश्च प्रतिपाद्यते । तथा स्वर्गकामाधिकरणेफलकामाधिकारे सिद्धे मोक्षकामानां देवादीनामप्यधिकारोऽस्तीति चिन्त्यत इत्याह कर्मविद्याधिकारीति ।अतिदेशादयश्चेति । ““य एषोन्तरादित्ये हिरण्मयः पुरुषो दृश्यते’’ (छां.2.6.6) आप्रणखात्सर्व एवसुवर्णः (छां.2.6.6) ““कप्यासं पुण्डरीकमेवाक्षिणी तस्योदितिनाम स एष सर्वेभ्यः पाप्मभ्य उदितः’’ (छां.2.6.7) इत्यन्तरादित्ये श्रुतानां धर्माणां ““य एषोऽन्तरक्षिणि पुरुषो दृश्यते’’ (छां.4.15.1) इत्यक्षिपुरुषेपि ““यदेवरूपं तदमुष्यरूपं’’ - इति श्रौतातिदेशेन विग्रहादीनां ““यन्नाम तन्नामेति’’ (छां.2.6.7)ति श्रौतातिदिष्टनाम्नामपहतपाप्मत्वादितद्धर्माणां च ““एककपालानां वैश्वदेविकःप्रकृति’’(जै.मी.सू.7.2.23) रित्यादि पूर्वतन्त्रन्यायेन प्राप्तिमुपजीव्य अक्षिपुरुषेपि(1)तद्धर्मोपदेशादित्युक्तम् । आदिशब्देनऊहादयोविवक्षिताः ।तथाहि ““सर्वापेक्षा च यज्ञादिश्रुतेश्ववत्’’(ब्र.सू.3.4.26) इति कर्मणां विद्यार्थत्वे सिद्धे ““अगन्म सुवस्सुवरगन्मे’’ (तै.यजु.सं 2.2.6) तिमन्त्रस्य सौर्यादौ ““अगन्म ब्रह्मवर्चसं ब्रह्मवर्चसमगन्मे’’ तिवद्विद्यार्थत्वानुष्ठाने ““अगन्म विद्यां विद्यामगन्मे’’ त्यूहस्यापि नावमिक ““फलदेवतयोश्चे’’ (2) त्याद्यधिकरणसिद्धत्वात् । तथा ““हानौतूपायनशब्दशेषत्वात्कुशाच्छब्दस्तुत्युप (गूह) गानवत्तदुक्तं’’ (ब्र.सू.3.3.26) इत्यत्र शाखान्तराम्नातोपायनवाक्यस्य हानिवाक्यशेषत्वं कुशादि दृष्टान्तेनोपपाद्य सम्भवत्येकवाक्यत्वे हान्युपायनयोश्चिन्तने विकल्पापादकवाक्यभेदो न न्याय इत्यत्र ““प्रतिषेधः प्रदेशेनारभ्य विधानेच प्राप्तप्रतिषिद्धत्वाद्विकल्पः स्यात्’’ (जै.मी.सू.20.8.2) ““अपितु वाक्यशेषस्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यादिति (जै.मी.सू.20.8.4) पूर्वोत्तर पक्षसूत्राभ्यां ““नार्षेयं वृणीतें’’ ( ) ““यजतिषु ये यजामहं करोति नानूयाजेषिति’’ ( ) चानारभ्याधीतमहापितृयज्ञ प्रकरणाधीतवाक्ययोर्निणीतमेकवाक्यत्वं “तदुक्त’ (ब्र.सू.3.3.26) मितिसूत्रखण्डेनानूद्यत इति तन्नाय उपजीव्यते । तथा ““न स्थानतोपि परस्य’’ (ब्र.सू.3.2.22) इत्यधिकरणे ““दर्शयति चाथो अपि स्मर्यते’’ (ब्र.सू.3.2.27) इत्यादिसूत्रेषु श्रुतिदर्शयति गुणमित्युक्तिः पदाहवनीयन्यायेन विशेषनिषेधस्य विहितविशेषेतरविषयत्वमभिप्रेत्य । सच न्यायो दाशमिकः । तथा अहीनसत्रयोर्लक्षणतो भेदे तदुपजीवनेन ““द्वादशहवदुभयविधं बादरायण’’ (ब्र.सू.4.4.22) इत्युक्तम् । एवं ““पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत्’’ (ब्र.सू.3.3.44) इति विद्यामयमनश्चिदादीनां विद्यामयकत्वङ्गत्वसाधनार्थेधिकरणे पूर्वपक्षे विद्यामयस्यापि क्रियामयक्रत्वङ्गत्वे मानसग्रहो निदर्शितः । तस्य च द्वादशाहाङ्गत्वं दाशमिके ““मानसमहरन्तरं स्यात् भेदव्यपदेशात्’’ ( जै.मी.स.10 - 6 - 34) इत्यधिकरणसिद्धमुपजीव्यते । एवं तन्त्रन्यायोपि ““विहितत्वाच्चाश्रमकर्मापि’’(ब्र.सू.3.4.32) इत्यत्रापेक्ष्यते । तत्रहि कर्मणामाश्रमाङ्गत्वविद्याङ्गत्वसाधनमुखेन तन्त्रानुष्ठानं फलमित्युक्तम् । पृथक्प्रयुक्तिशक्तिमदुभयगोचरत्वेदेशकालाद्यैक्येन सकृत्करणं तन्त्रम् । तच्चैकादशसिद्धम् । विद्यार्थकर्मणैव प्रसङ्गान्नित्यसिद्धिरिति विहितत्वाच्चे ।(ब्र.सू.3.4.32) त्यधिकरणस्य प्रसङ्गः फलमिति केचित् । ननु कर्ममीमांसा निरूपितन्यायैर्वेदान्तार्थो विचार्यते चेत् तद्विचारसिद्धत्वाद्विचारवैयर्थ्यमित्यत आह अपूर्वास्त्विति । विभाषा जसी (अष्टा - 2.2.32) ति सर्वनामसञ्ज्ञा विकल्पः । उपयोगान्तरमाह विद्येति । अङ्गाङ्गिविचारत्वाद्दर्शपूर्णमासप्रयाजादिशास्त्राणामिव शास्त्र्यैक्यमवर्जनीयमिति भावः । कर्मकाण्डस्य शारीरकतृतीयाध्यायेनैक्यमाह अन्यथेति । तत्रहेतुमाह नहीति । ““तस्यैवंविदुषो यज्ञस्य’’(तै.ना.10अनु) इत्यादिना विद्याया यज्ञत्वनिरूपणं च कर्मनिरूपणसापेक्षमित्याह यज्ञादीति । पूर्वोक्तातिशयितपुरुषार्थप्रतीतिरूपहेतुत्वंशं दूषयितुमनुवदति यच्चातिशयितेति । ननु कर्मभागे क्षयिष्णुफलापातप्रतीतिरप्यस्तीतिचेत् तत्राह ब्रह्मभागेपीति । ““न प्रेत्य सञ्ज्ञास्ति’’(बृ.4.4.22) प्रेत्यसुखानुभवो नास्तीत्यर्थः । ननुपूर्वापरेति । कर्मफलस्य वस्तुतः क्षयिष्णुत्वमेवेति भावः । किं तेनेति।निश्चितनियामकत्वं न तु वास्तवस्य ।तन्निश्चयस्तु विचारात्प्राङ् नास्तीति भावः । निर्णयात्मिकेति पक्षं दूषयति नद्वितीय इति । ब्रह्मस्वरूप सिद्धेरिति । ब्रह्मनिर्णयसिद्धेरित्यर्थः । ननु साक्षात्कारस्य भ्रमनिवर्तकत्वात् तस्य च श्रवणादि क्रमेण सम्भवात्तदर्थं शास्त्रमित्यत्राह तत एवेति । स्वतो परोक्षे विषये विचारं विनाप्यपरोक्षसम्भवाद्विचारवैफल्यमिति भावः । उक्तमुपसंहरति अत इति । आत्मनेत्यनन्तरं प्रवृत्तमितिशेषः । ननु किञ्चित्प्रयोजनसिद्ध्यर्थं तदर्थिनं प्रति तत्साधनार्थविशेषप्रतिपादनार्थं प्रवर्तमानं शास्त्रम् । अर्थप्रयोजनाधिकार्यैक्ये एकं तद्भेदाद्भिन्नमेवस्यात् । यथान्यायशास्त्रशब्दशास्त्रे प्रत्येकमर्थाद्यभेदभिन्ने परस्परं तद्भेदाच्च भिन्ने । इहच कर्मब्रह्मलक्षणार्थभेदाद्भोगमोक्षरूपप्रयोजनभेदात्तदर्थिरूपाधिकारिभेदात्कथं शास्त्र्यैक्यमित्याशङ्कामनूद्य परिहरति एतेनेति । अर्थो वेदार्थप्रतिपादनम् ।प्रयोजनमपि वेदार्थनिर्णयः । अधिकार्यपि वेदार्थनिर्णयार्थी । तदेकमेवेति न शास्त्र्यैक्यविरोध इति भावः ।ननूक्तरूपेणैक्येप्यवान्तरार्थप्रयोजनादिभेदाच्छास्त्रभेदः स्यादित्यत्राह अवान्तरेति । अन्यथेति । पूर्वमीमांसाशास्त्रस्याप्यैक्यं न स्यादिति भावः । ननु येन केनचिदाकारेण क्रोडीकारमात्रेणैक्ये वेदार्थानु बन्धित्वात् लौकिकार्थानुबन्धित्वादिरूपेणैक्यसम्भवाच्छन्दश्शिक्षाप्रभृतीनामप्यैक्यं स्यादिति शङ्कते नचैवमिति । उपकारेति । यद्रूपेण प्रयोजनमुद्दिश्यशास्त्रं प्रवर्तते तद्रूपभेदाभेदाभ्यां शास्त्रभेदाभेदौ । तथा च शिक्षादीनां वर्णशिक्षणादिरूपभिन्नप्रयोजनरूपेणैव प्रवृत्तत्वान्नविद्यास्थानैक्यं नैकग्रन्थत्वं वा । न तुवस्तुत एकधर्मक्रोडीकारमात्रेण विद्यास्थानैक्यम्। अन्यथा प्रमेयत्वरूपधर्ममात्रेण सर्वशास्त्रभेदविलय प्रसङ्गात्।मीमांसाशास्त्रं तु वेदार्थविशदीकरणरूपैकधर्मेणेति विद्यास्थानैक्यमितिभावः।अत एव हीति । अदूरविप्रकर्षः - तत्वनिर्णयप्राधान्यम् । नन्विह वेदार्थविशदीकरणादेकविद्यास्थानत्वे स्मृतेरपि इतिहासपुराणाभ्यां सहैकविद्यास्थानत्वप्रसङ्गः । तत्वाचारविशदीकरणरूपावान्तरभेदविवक्षायां कर्मब्रह्मविवक्षया मीमांसायामपि विद्यास्थानभेदप्रसङ्गादित्यत्राह नचेति । तत्तत्प्रवृत्तिप्रयोजकोपकार विशेषमालोच्य विद्यास्थानभेदान् परिगणयद्भिः तत्तत्प्रबन्धाभिप्रायविद्भिर्महर्षिभिरेकविद्यास्थनत्वेन कीर्तनान्मीमांसाया एकोद्देशेन प्रवृत्तिरवगम्यते नतु स्मृत्यादाविति भावः । नन्वेकप्रयोजनोद्देशेन प्रवृत्तेरितिहासपुराणयोर्नैकप्रबन्धत्वं किमुत भिन्नकर्तृकयोर्मीमांसाशास्त्रयोरितिशङ्कते तथापीति । किं कर्तृभेदाभेदौ कार्याभेदाभेदयोः प्रयोजकौ यद्वा प्रबन्धभेदाभेदयोः । नाद्य इत्याह एकेनापीति । द्वितीयं शङ्कते निबन्धेष्विति । एकेन विदुषेति । कालिदासादिभिःरघुकाव्यमेघसन्देशादिकरणदर्शनादिति भावः पाणिनीयेत्यादि । जयादित्यवामनाभ्यां काशिकावृत्ताख्यप्रबन्धकरणदर्शनात् पितृसुताभ्यां भट्टबाणतत्सुताभ्यां कादम्बरीकरणदर्शनात् । भोजादिभिश्चम्पूकाव्यकरणदर्शनादिति भावः। तत्रेति । पाणिनीयवृत्त्यादिष्वित्यर्थः । ननु मा भून्नामकर्तृभेदादिकं बाधकम् । साधकं किमिति चेत्कर्तृसङ्कल्पएव। तदवगमश्च मीमांसाशास्त्रं पूर्वोत्तरमीमांसेतिव्यवहारात् । विंशतिलक्षण्येकंशास्त्रमिति कर्तभिप्रायज्ञवृत्तिकर्तृबोधायनव्यवहाराश्च । ननु तथा सति कर्मब्रह्मकाण्डयोरध्यायपरिगणने पूर्वोत्तरषट्कयोरिव सप्तदशोध्ययोष्टादशोध्याय इति परिगणनापत्तिरिति चेत्पुराणेष्वंशभेदेनाध्याय सङ्ख्याव्यवहारवत्काव्ये काण्डपर्वभेदेन सर्गाध्यायव्यवहारवद्व्यवहारोपपत्तेः । नन्वर्थविरोधो भेदकोस्त्विति शङ्कते अस्तु तर्हीति । कर्ममीमांसाया द्वैतगोचरत्वं ब्रह्ममीमांसाया अद्वैत गोचरत्वमित्यर्थविरोधस्य भेदकत्वे पूर्वोत्तरभागात्मकवेदस्यापि तथा विरोधादेकप्रबन्धत्वं नस्यादित्यभि प्रायेण परिहरति नेति । हेतुरप्यसिद्ध इत्याह तयोरिति । एकनिष्ठतया विरोधं शङ्कते तत्सत्यत्वेति ।असिद्धिमुपपादयति सत्यत्वाभावेपीति । पूर्वकाण्डे सत्यत्वस्यानिरूपणादिति भावः । अन्यथेति । फलकरणेतिकर्तव्यतादिनिरूपणार्थं तत्सत्यत्वतात्पर्याभ्युपगमे वेदान्तभागेपि प्रमाणतर्कादिव्युत्पादनार्थं तत्सत्यत्वतात्पर्याभ्युपगमप्रसङ्गाद्व्याधात इत्यर्थः । सगुणेति । त्वयापि सगुणोपासन विचाराङ्गी कारात्तत्रापि सत्यत्वतात्पर्यभ्युपगमप्रसङ्गेनार्थविरोधात् ब्रह्मकाण्डस्यापि भेदा भेद प्रसङ्ग इति भावः । किञ्च वयं सगुणनिरूपकशास्त्र्यैक्यं ब्रूमः । यदीदमेव शास्त्रं सगुणनिरूपकं सिद्धं तर्हि विरोधाभावादैक्यमित्याह यदात्विति । निरीश्वरत्वेति । प्रतिपाद्याभ्यामिति शेषः । असिद्ध्या परिहरतिनेति । नन्वसिद्धिर्नास्ति व्याख्यानतो विशेषप्रतिपत्तेरित्यत आह अर्वाचीनेति । असूत्रार्थत्वादिति भावः ।यत एवार्वाचीनजल्पितानां न सूत्रार्थत्वम् अत एव केचन सेश्वरमीमांसापरतयापि व्याख्यातवन्त इति । ईश्वरनिराकरणं न सूत्रकृदभिप्रेतमित्याह अतएवेति । ईश्वरनिराकरणस्यासूत्रार्थत्वं परसम्मत्यापि दर्शयति परैरनूद्यते चेति । देवताकाण्डं चेति । शाबरभाष्यकारादिभिरित्येके । अन्ये तु भाष्यपदं वृत्तिपरम् उपवर्षादिभिरित्यर्थ इत्याहुः । ननु देवताकाण्डमेवासत् तत्कथं कर्मशेषत्वमित्यत्राह तत्रत्येति । अद्य यावदुपदेशपरम्परया निबन्धपरम्परया कोशपरम्परया चोपलम्भादित्यर्थः । तत्र सूत्राक्षरपर्यालोचनया पूर्वोत्तरमीमांसयोरैकशास्त्र्यं देवताविशेषनिर्धारणं च सिध्यतीत्याह तस्य च काण्डस्येत्यादिना । तत्ववादिनः तत्वविदः इत्याहुः । ““अथातो ब्रह्मजिज्ञासा’’ (ब्र.सू.1.1.1) इति शास्त्रस्यसङ्गतिकथनसमये ““जयतीर्थेन’’ ““सविष्णुराहहि’’ (सङ्कर्षकाण्ड) इत्यादिना माध्वास्तत्ववादिन इत्याहुः ।ननु पूर्वकाण्डे ““देवतावा प्रयोजयेदतिथिवद्भोजन स्य तदर्थत्वात्’’ ““आर्थापत्यात्’’ ““ततश्च तेन सम्बन्धः’’ (जै.मी.सू.9.1.6.7.8) इति सूत्रैर्देवतायाः प्रयोजकत्वं पूर्वपक्षीकृत्य ““अपि वा शब्दपूर्वत्वाद्यज्ञकर्मप्रधानं स्यात्’’ ““गुणत्वेन देवताश्रुतिः’’ (जै.मी.सू.9.1.9) ““अतिथौ तत्प्रधानत्वमभावः कर्मणिस्यात्तस्य प्रतिविधानत्वात्’’ (जै.मी.सू.9.1.9) इति सूत्रैर्देवतानिराकरणं कथं क्रियत इत्यत्राह अत एवेति । देवताकाण्डे नैकशास्त्र्यादित्यर्थः । ननु यदि प्राशस्त्यमात्रपरं तर्हिपूर्वपक्षनिराक्रिया न स्यात् । प्राशस्त्यपरत्वं चायुक्तं न्यायनिबन्धनत्वाच्छास्त्रस्येत्यत्राह किमलौकिकेति ।अन्वारुह््यवादेन परपक्षप्रतिक्षेपः । न्यायनिबन्धत्वेऽपि प्ररोचनालक्षणप्रयोजनसामान्यात्प्राशस्त्य परत्वोक्तिरिति भावः । प्ररोचनार्थत्वमुपपादयति अश्रुतेति । फलप्रदत्वाभिमतेन्द्रादिदेवतानां प्रलये सत्यनन्तरसर्गे तत्फलावाप्तिर्नस्यात् । अताभ्यागमश्चस्यादिति बुद्धया कर्मण्यश्रद्धा स्यादिति कर्मणः फलप्रदत्वोक्तौ तु कर्मणि श्रद्धोत्पादकतया प्ररोचनासिद्धिरिति भावः । ननु किमर्थमन्वारोहेण चित्तसङ्क्षोभः क्रियते यावता परमात्मसमर्थनादेव प्ररोचनासिद्धिरित्यत्राह सहसा चेति । निर्धारितकर्मस्वरूपस्यैव ब्रह्मविचाराधिकार इति भावः । अन्वारुह््यवादत्वे हेतुमाह एवं सतीति । ननु ““विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपाख्यत्वात् ‘’( ) इत्यधिकरणे ““एऐन्द्रमेकादशकमालं निर्वपेदि’’ ( ) ति विकृतियागे द्रव्यत आग्नेयसाम्याद्देवतातस्सन्नाय्यसाम्याच्च कस्य धर्मा ग्राह््या इति विचारे द्रव्यसाम्यस्य बलवत्वात्तेनप्रकृतिनियम इति समर्थितम् । तत्र प्राबल्यदौर्बल्ये सत्वासत्वनिबन्धने एवेति विरोध इत्यत्राह द्रव्यदेवतयोरिति । देवतायाः स्वरूपं देवतात्वं चाप्रत्यक्षं द्रव्य तंु प्रत्यक्षमिति प्रतीतिशैघ्र्यविलम्बाभ्यामेव प्राबल्यदौर्बल्ये । नतु सत्वासत्वाभ्यामिति भावः । धर्मत्वमिति । अलौकिकश्रेयस्साधनत्वमित्यर्थः एवं सर्वत्रेति । तत्रेत्थं व्याख्यातं ““देवतावा प्रयोजयेदतिथि वद्भोजनस्य तदर्थत्वात् ’’ इत्यादौ देवतायाः प्रधानत्वं कर्म प्रति पूर्वपक्षीकृत्य “अपिवे ’ (जै.मी.सू.9.2.9) ति राद्धान्तः उक्तःतस्यायमर्थः ““अपिवेति’’ सार्धाङ्गीकारं परपक्षव्यावर्तनं यद्यपि देवताया विग्रहहविरादानयुगपत्कर्मसन्निधिप्रीतिफलप्रदान रूपविग्रहपञ्चकं दुर्निषेधं, द्रव्यापेक्षया सम्प्रदानस्य प्राधान्यं, यजेश्च देवताराधनवाचितया यागस्य तादर्थ्यं सिद्धपरवाक्येषु च परावरदेवतयोः स्वरूपादिकमन्यार्थमामनामः ।तथापि कर्तव्योपदेशेषु यज्ञादिरूपकर्म स्वर्गादिफलसाधनतया चोदितत्वात्प्रधानंसत् साध्यतया बुद्ध्यारोहेण पुरुषं प्रवर्तयति । कृत्स्नञ्च देवतादिकं क्रियाशेषभूतम् इत्यादि द्रष्टव्यम् । मध्वादिष्विति । मधुविद्यादिषु वस्वादीनामनधिकारं जैमिनिराचार्योमन्यते कुतः असम्भवात् तत्र हि विद्यायां वस्वादयः उपास्याः । नच तत्र त एव कर्तारस्सम्भवन्ति कर्मकर्तृविरोधात् इत्यर्थः । धर्ममिति । धर्ममेव फलप्रदं जैमिनिराचार्योमन्यते । अत एव स्वर्गसाधनताबोधकश्रुतेरुपपत्तेरित्यर्थः । शेषत्वादित।ि ““तत्वमसि’’ इत्यादिसामानाधिकरण्येन कर्मसु कर्तुरेव ब्रह्मत्वावगमात्तद्वेनस्य संस्कारतया कर्मशेषत्वाद्द्रव्यादिष्विव फलश्रुतिरर्थवाद इति जैमिनिर्मन्यत इत्यर्थः । परामर्शमिति ।““त्रयो धर्मस्कन्धाः’’ (छां - 2 - 238) इत्यत्र चोदनाभावादुपासनस्तुत्यर्थमनुवादमेव जैमिनिर्मेने । ““वीरहावा एष देवानां योग्निमुद्वासयते’’ (यजुःसं.2.5.2) इत्यत्रापवदति चाश्रमान्तरमित्यर्थः । परमिति । परमेव ब्रह्मोपासीनानर्चिरादिर्नयतीति जैमिनिर्मन्यते ““ब्रह्म गमयती’‘ति मुख्यत्वादित्यर्थः। ब्राह्मेणेति । अस्य स्वरूपाविर्भावो ब्राह्मेण अपहतपाप्मत्वादिस्वरूपेण । तेहि स्वरूपगुणाः प्रत्यगात्मनोपि स्वाभाविका इति ““य आत्मापहतपाप्मा’’(छां.8.7) इत्यारभ्य उपन्यासादिभ्योवगम्यते । न तु ज्ञानस्वरूपेणाविर्भाव इति जैमिनिर्मन्यत इत्यर्थः ।भावमिति । ““स एकधा भवति’’ (छां - 7 - 26 - 2)इत्यादिना देहेन्द्रियादिभिर्विविधताश्रुतेर्देहादीनां भावमेव जैमिनिर्मेने । न कदाचिच्चितोऽशरीरत्वमित्यर्थः ।यद्यपि नै ते पूर्वकाण्डे प्रतिपादिता इति न पूर्वकाण्डभेदकाः तथापि भिन्नमतस्थत्वमात्रेण शङ्केयमिति ध्येयम् । प्रौढिवादेन परिहरति अत्यल्पतरेति । अत्यल्पतरविवादस्याप्रधानार्थविवादस्य चेत्यर्थः । अत एवेति । अत्यल्पतराप्रधानार्थविरोधस्य भेदकत्वाभावादेव वार्तिकस्य सूत्रविरुद्धस्यापि व्याकरणैकदेशत्वमिति भावः । वार्तिकस्य सूत्रैकदेशत्वे दृष्टान्तमाह किं पूर्वकृतेति । एवं च जैमिन्युक्तविरुद्धांशशिक्षणेष्वैकशास्त्र्यं न विरुद्धमित्याह अत इति । विरुद्धांशापनयनस्य दोषत्वाभावादित्यर्थः । तात्विकपरिहारमाह यद्वेत।ि गुरुशिष्ययोरैककण्ठ्यं वैभवोक्तिहेतुरिति तयोरैककण्ठ्यम्मुपपादयतितदुक्तमित्यादिना । ““तदुक्तमिति ।सञ्ज्ञातश्चेत्तदुक्तं (ब्र.सू.3.3.1) ““अक्षारधियान्त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तं ’’ (ब्र.सू.3.3.24) ““प्रदानवदेव तदुक्तं’’ (ब्र.सू.3.3.42) इत्यादिषु जैमित्युक्तस्यैव स्वग्रन्थोक्तत्वमभ्युपगम्य तदुक्तमित्यभिप्रायाच्छिष्याचार्यसङ्कल्पाभ्यामैकग्रन्थत्वमित्यर्थः । अन्यथा सामान्यत उक्तमित्युक््ययोगादिति भावः । किं च क्वचित् जैमिनिमतस्यैव बादरायणेन सिद्धान्ततया स्वीकारात् जैमिनिनापि क्वचिद्बादरायणमतस्य सिद्धान्ततयास्वीकारात् परस्परव्यतिरेकेण निर्देशेनैवैक्यं सिद्धयतीत्याह विशेषतश्चेति । साक्षादिति ।अग्रनयनादियोगेन परमात्मन्येवाग्निशब्दस्य साक्षाद्वृत्तेः तत्सामानाधिकरण्याविरोधं जैमिनिर्मन्यत इत्यर्थः ।सम्पत्तेरिति । ““लोमानि बर्हिर्हृदयं गार्हपत्यं’’ (छां - 5 - 18 - 2 ) इत्यादिना उपासकहृदयादीनां यद्वैश्वानरविद्यायां वेदित्वादिकल्पनं तद्विद्याङ्गभूतायाः प्राणाहुतेरग्निहोत्रत्वसम्पादनार्थम् । दर्शयति च श्रुतिः ““य एतदेवं विद्वानग्निहोत्रं जुहोति इति’’ (छां - 5 - 24 - 2) । अन्यार्थन्त्विति । ““तौह सुप्तं पुरुषमाजम्मतुः’’ (कौषी - 4.30) इत्यादौ यद्देहातिरिक्त जीवसद्भावप्रतिबोधनं ““यो वै बालाके एतेषां पुरुषाणां कर्ता यस्य वेतत्कर्म सवेदितव्यः’’ (कौषी) इति वेद्यतयोक्तब्रह्मप्रतिपाद (बोध)नार्थमिति ““क्वैष बालाके पुरुषोरायिष्ट’’ (कौषी) इति प्रश्नात् ““अथास्मिन् प्राण एवैकधाभवति’’ (कौषी - 4.28) इति प्रतिवचनाच्चावगम्यते । एके वाचसनेयिनोपि एतत्प्रतिवचन समानार्थं प्रश्नं क्वैष एत ( ) दित्यादिप्रश्नपूर्वकं ““य एषोन्तर्हृदयकाशकशस्तस्तिमन् शेत (बृह.4 - 1 - 17) इत्यन्तमधीयत इत्यर्थः । तद्भूतस्यत्विति । तद्भूतस्य (ब्र.सू.3.8.20) नैष्ठिकाद्याश्रमं प्राप्तस्य नातद्भावः अतद्भावः अतथाभावः अनाश्रमित्वेनावस्थानं न सम्भवति । कुतः तद्रूपाभावेभ्यः तेषां नैष्ठिकवैखानसपरिव्राजकानां रूपाणि धर्माः तन्निवृत्तिभ्यो नियमात् ब्रह्मचार्याचार्यकुलवासीतृतीयोत्यन्तमात्मनमाचार्यकुलेवसादयन् (छां - 2 - 23 - 2) इति ““इति “सन्यस्यग्नीन्नपुनरावर्तयेत्’’ इति च शास्त्राणि हि नियच्छन्ति । जैमिनेरप्येवमेव मतमित्यर्थः । जैमिनेरप्यभिप्रायं दर्शयति सच भगवानिति । उत्पत्तिः जन्म स्वभाव इत्यर्थः । आैत्पत्तिकः नित्य इति यावत् । नित्यश्शब्दार्थसम्बन्धो न साङ्केतिकः । येन प्रमाणं न स्यात् । नित्यत्वात्तस्यधर्मस्य । उपदेशो ज्ञानं ज्ञापकः । तच्च ज्ञानं न व्यतिरेकः न विपर्ययः संशयस्याप्युपलक्षणमेतत् । तथानुपलब्द्येर्थे प्रवतर् मानत्वान्नानुवादकोपि तस्मादनपेक्षत्वादनधिगतार्थबोधकत्वाच्चोदना धर्मे प्रमाणं भवत्येव । बाद रायणस्याचार्यस्य मतेनेति सूत्रार्थः । स्वाचार्यमिति । तत्पुरस्कारप्रवृत्ते शास्त्रे न तद्विरुद्धाभिधानं सम्भवतीति भावः । नन्वाचर्यत्वान्न ब्रह्मसूत्रकृत्पुरस्कारः । तत्र मानाभावात् ।किन्त्यैतिकायनादिवत्तद्ग्रहणङ्क्वचित्सम्मतिमात्रादित्यन्यत्र तद्विरुद्धाभिधाने नानुपत्तिरित्यत्राह जैमिनेरिति । ननु न व्यास एवबादरायणः । बादरायणशब्दस्यैतिकायनादिवत्बादरिशब्दादपत्यप्रत्ययान्तत्वेन व्युत्पन्नत्वादिति शङ्कते नन्वत्रेति ।द्वीपइत्यनेन बदराणां समूहो बादरं तदयनं यस्येति व्युत्पत्तिस्सूचिता । बादरायणसञ्ज्ञा बादरायणशब्दइत्यर्थः । तथापीति । ज्ञानपदस्य कर्मणिव्युत्पत्त्या ““ज्ञान वेदन’’ इति वेदनशब्दस्य णिजन्तव्युत्पन्नतया रहस्यार्थोपादेशरूपसूत्रकर्तृत्वं व्यासस्यैवयुक्तमित्यर्थः । ““अवतीर्णोमहायोगी सत्यवत्यां पराशरात्’’ (स्कान्दं) इत्यारभ्य ““चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा’’(स्कान्दं) इत्यादि स्कान्दवचनादिकण्ठोक्तिरादिशब्दार्थः । कर्मकाण्डे देवतानिराकरणं नाभिप्रेतमित्यत्र हेत्वन्तरमाह येषु चेति । ननु जैमिनीयसूत्राणां देवतानिराकरणपरतया व्याख्यानात् तदभिप्रायापरिज्ञानाद्वेदान्ते तथा तथा जैमिनिमतोपन्यासो व्यासस्येत्यत्राह नहीति । आचार्यबादरायणशब्दाभ्यां तदभिप्रायापरिज्ञानाभावे हेतुरुच्यते अत इति । व्याख्येयैक््यात्सामान्येन वेदार्थनिर्णयोद्देशेनैव विचारशास्त्रचिकीर्षोदयस्य युक्तत्वात्परस्परविरोधाभावाच्चेत्यर्थः । शास्त्रैकत्वसिद्धिरिति ।एकग्रन्थत्वसिद्धिरित्यर्थः । परमुखेनैव प्रमाणयितुमाशङ्कते । नन्विति । एऐकशास्त्र्य इत्येकग्रन्थस्याप्युपलक्षणम् । क्रमविशेषनियामक सङ्गतिविशेषविशिष्टत्वादीनां हेतुतयोपन्यासात् शास्त्रान्तरेति । न्यायविद्यादि विद्यास्थानान्तरसाध्य विलक्षणकर्मभाग तात्पर्यरूपोपकारजननार्हत्वात्कर्ममीमांसाया इति भावः किम्प्रमाणमिति । कस्य प्रमाणमिति समासः। तथा च विंशतिलक्षण्यैकशास्त्रस्य प्रमाणं किं द्वादशलक्षण्यैकशास्त्रस्य वेति निपुणं निरूपणेविंशतिलक्षण्या एव प्रमाणं भवेदिति वेदार्थनिरूपणोपकारार्हतया विंशतिलक्षणीसाधारण्यादिति भावः ।सर्वत्र पूर्वषट्कादावपीत्यर्थः । उक्तार्थे भाष्यार्थं संवादयन्नुपसंहरति तस्मादित्यादिना । । वत्सकुलजलधिकौस्तुभनृसिंहगुरुसुतेन सिंहदेवेन कृतायांशतदूषणीटीकायां तृतीयो वादस्समाप्तः ॥