॥ अथ जिज्ञासानुपपत्तिवादो द्वितीयः ॥2॥
अथ स्वात्मैकभासस्य निर्विशेषस्य दुष्यतः ।
विशुद्धस्यापि जिज्ञासा परेष्टा प्रतिषिध्यते ॥
यदाहुः -ब्रह्मशब्दनिर्दिष्टं विचार्यम्, अनुदितानस्तमितस्वरूपैकप्रकाशमशेषविशेषशून्यमनाद्य विद्यान्धकारितं नित्युशुद्धं चेति ।
तत्र विचित्रो व्याघातः ।
यद्धि न वित्तिकर्म, कथं तत्र जिज्ञासा सामान्यतो विदिते विशेषतश्च वेदितव्ये तत्प्रवृत्तेः ।
अन्यथा हेतुप्रयोजनविरहे तदयोगात् ।
नच ब्रह्मणि तथाविधवेदनद्वयविषयत्वं परैरिष्यते ।
जिज्ञासापूर्वकं परीक्षणमत्र प्रक्रम्यते ।
तच्च तत्र प्रमाणोपक्षेपेण ।
प्रमाणं च निर्विषयं न निरूप्यम् ।
सविषयत्वे तु तद्विषयत्वाद्दृश्यत्वमिथ्यात्वजडत्वादिस्वोक्तानिष्टापत्तिः ।
स्वरूपप्रकाश एव हेतुः फलं च जिज्ञासाया इति चेन्न, तस्यास्तदुभयसामानाधिकरण्यनियमदृष्टेः ।
स्वरूपप्रकाशस्य च
तदेकाधारताभावात् ।
अनादेः प्रकाशस्य च निरपेक्षहेतुत्वे जिज्ञासानादित्वप्रसक्तेः ।
सापेक्षत्वे यथादर्शनंस्वविषयवेदनापेक्षणात् ।
प्रागसिद्धस्य तुच्छत्वकार्यत्वयोरन्यतरप्रसङ्गात् प्राक्सिद्धस्य फलत्वायोगात् ।
फलत्वे चानादित्वभङ्गात् ।
उपहितरूपेण वेदनद्वयविषयत्वाज्जिज्ञासा स्यादिति चेन्न; हेतोरुपहितविषयत्वाभ्युपगमेऽपि फलस्य तथात्वे भ्रान्तित्वापातात् ।
भ्रान्तेश्चासम्पाद्यत्वान्न तदर्थं प्रेक्षावतां प्रारम्भः ।
भ्रान्तिमेव प्रमितिं मन्यमानैस्सा सम्पाद्येति चेन्न; परीक्षकेभ्योऽपि प्राथमिकभ्रान्तिप्रमात्वव्यवसायिनामेव प्रागल्भ्यप्रसङ्गात् ।
स्वरूपव्यतिक्तिं कृत्स्नं मिथ्येति प्रयोजकशिक्षणविरोधाच्च ।
नित्यभूतेऽपि समाधिवत् स्वमात्रसाक्षित्वं वैशद्यमात्रं वा साध्यमिति चेन्न, तयोरपि तत्स्वरूपत्वे सिद्धत्वात् ।
धर्मत्वे सत्यत्वमिथ्यात्वविकल्पक्षोभात् ।
अतिरिक्ताकारप्रकाश एव चेद्वैशद्यम्, तस्मिन्नप्याकारे स एव विकल्पः ।
नित्यस्वसाक्षिणि निरंशे निर्विशेषे च क इदानीं प्रकाश्य आकारः ।
कथं च जिज्ञासा इदं किमिति वा कथमिति वा सा स्यात्, सर्वत्र यथायथं विदिताविदिताकारभेदो दुस्त्यजः, कृत्स्नावगत्यनवगत्योर्नैष्फल्यनिर्हेतुकत्वाभ्यां तदयोगात्, किं कथमित्यत्र का गतिरितिचेत्, न, तत्रापि सामान्यतः प्रतीतसमुदायान्तर्गतविशेषनिर्धारणार्थत्वात्किमादेः ।
एतेषु किं कथमित्येव हि तत्राकाङ्क्षा ।
यः पुनर्ज्ञाताज्ञातांशविकल्पेन जिज्ञासास्वरूपमेव खण्डयेत् स ब्रह्मजिज्ञासामपि जिघांसतीति कःप्रकृतोपयोगः ।
इष्टा च सा यथालोकमिहापि, अन्यथाऽनारम्भेण शास्त्रोच्छितेः ।
अस्त्विहापि सामान्यतः स्वरूपज्ञप्तिः; अध्यासविरोधिरूपेण विशेषतश्च जिज्ञासा ।
मैवम्, निर्विशेषे सामान्यासिद्धेः निस्सामान्ये च विशेषायोगात् ।
कल्पनया तदुपपत्तिरिति चेन्न, सामान्यरूपस्य कल्पितत्वे स्वरूपोच्छित्तेः विशेषासम्भवाच्च ।
न ह्यकिञ्चिद्भूतो विशेषतः कश्चित् स्यात्; न खलु खरश्रृङ्गे कुण्ठत्वादिः ।
नच “अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरिति’’ (तै.आ.6-3) श्रावयन्ती श्रुतिः ब्रह्मणस्सामान्यधीबाधं सहेत ।
अत एव कल्पितास्तित्वरूपसामान्याकारभ्रमाद्विशेषबुभुत्सेति प्रत्युक्तम्, अपसिद्धान्ताच्च ।
विशेषस्य तु कल्पितत्वे तज्जिज्ञासावैफल्यम् ।
न हिब्रह्मण्यसदपूर्वाकारकल्पनार्थं पूर्वकल्पितमिथ्याकारप्रतीत्यर्थं वा शारीरकमित्यवेदबाह्यः कश्चिदपि क्षमते ।
कल्पिताकारमिथ्यात्वबोधनार्थमिति तु स्यात्, न तर्हि ब्रह्म जिज्ञास्यम्,अपि त्वयमाकारस्सत्यो मिथ्यावेति ।
ततः किमिति चेत्, श्रुतिसूत्रस्वरसार्थभङ्गस्तावत् ।
“ब्रह्मात्मैक्यं शास्त्रवेद्य’‘मिति स्वमतव्याहतिश्च ।
कल्पितभेदमिथ्यात्वधीरेव तद्धीरिति चेत्, न; माध्यमिकमतेऽपि तद्भावेनत्वदिष्टैक्यलाभे तद्विवादविलयापातात् ।
यच्च मन्यसे कल्पिताकारमिथ्यात्वबुद्ध्याऽपि ब्रह्मणस्तच्छून्यत्वमवसेयमिति तज्जिज्ञासाद्युपपत्तिरिति, तदपि यदि सामान्यबुद्धिक्रोडीकृतं तदा न जिज्ञास्यम्; बहिष्ठस्य तु सत्यत्वे सद्वितीयता ।
मिथ्यात्वे प्रतियोगिसाहित्यसत्यता ।
साहित्यराहित्ययोस्सहजसङ्घर्षात् ।
परस्परविरोधे च प्रकारान्तरस्थित्ययोगात् ।
यदि राहित्यमपि कल्पितं कथं तदा कल्पिताकारराहित्यनिवृत्तिः? यत्किञ्चिन्निवृत्तिमात्रं तु प्रागपि सुलभमिति कृतं तदर्थविचारव्यसनेन ।
अतस्स्वीकुरु वा सतस्सत्याकारद्वयवैशिष्ट्यम्, परिहर वा तज्जिज्ञासामिति ।
किञ्च यद्यशुद्धं ब्रह्म जिज्ञासोर्वेदितव्यं तर्हि दुस्त्यजं नैष्फल्यम्, तथा प्रकाशस्य संसारभेषजत्वानभ्युपगमात् ।
अन्यथा प्रागेव मुक्तिसिद्धौ किमर्था जिज्ञासा? कथञ्च अशुद्धतत्त्वोपदेशिनश्शास्त्रस्य तत्त्वावेदकत्वम्? कथन्तरामतत्त्वज्ञानेन भ्रान्तिविलयः? ननुभूरन्ध्रभ्रमेणदामदर्वीकरभ्रमनिवृत्तिवत्स्यात्, न स्यात् तद्वदेव भ्रान्त्यन्तरस्थितावात्यन्तिकत्वासिद्धेः ।
तद्विलापकतत्त्वज्ञानदेरुक्तक्रमेणात्रासम्भवात् ।
अहेतुकविनाशादेश्च निरसिप्यमाणत्वात् ।
शुद्धं तर्हि जिज्ञास्यमपि न ते स्यात् ज्ञप्त्या तत्स्वरूपस्पर्शानभ्युपगमात् ।
शाखाचन्द्रन्यायेन स्वरूपस्पर्श इवेति मतमिति चेत्, कथं तदधीनबोधविषयतामन्तरेण दृष्टान्तदार्ष्टान्तिकयोयस्तदुपलक्ष्यत्वं तद्विषयत्वे च कथं तत्प्रयुक्तदोषातिक्रमः सोऽपि बोधः स्ववेद्यतायाभ्रान्तिर सत्यश्चेत्यदोष इति चेत्, विलीनं तत्त्वावेदकवाक्यैः ।
वेद्यमिथ्यात्वमन्तरेण भ्रान्तित्वायोगात् ।
उपलक्षणपर्वावलम्बननैष्फल्याच्च ।
शुद्धिश्चास्य नित्याऽनित्या वा आद्ये किमर्था जिज्ञासा, अन्ततस्तस्यास्तादर्थ्यात् ।
शुद्धताध्यवसायार्थं सा स्यात्, न तु शुद्ध्यर्थमिति चेन्न, तदध्यवसायेनापि तत्सिद्ध्यर्थेन भवितव्यम्, अन्यथा नैष्फल्यात् ।
आरोपितशुद्धिनिरसनात्साफल्यमिति चेन्न, आरोपसम्भवे नित्यशुद्ध्ययोगात् ।
उपरक्तेऽपि स्फटिके शुभ्रत्ववत्तत्सम्भव इति चेन्न, भावानभिज्ञानात् ।
नहि वयमारोप्यदोषत्वेनाशुद्धिं प्रसञ्जयामः, ब्रह्मण्येव कुदृष्टिकल्पितविविधदोषदृष्टेरभ्युपगमात्, किन्तु भ्रमाद्याधारतया ।
न तथा स्फटिकस्स्वयं स्वात्मनि रागमध्यस्यति ।
नच तत्कर्तृकोऽन्यकर्तृको वा रक्तताध्यासस्तच्छ्वेतिमाख्यशुद्धिविरोधी ।
इह तु स्वदोषेण ब्रह्मणि स्वयमेव बम्भ्रम्यमाणे कथं भ्रान्त्यादिप्रत्यनीकतामयी
शुद्धिः ।
नित्या भ्रान्तिरपि स्फटिकरागादिवत्तत्त्वतो
नास्तीति निस्तार इति चेत्, स्थितं तर्हि विचारनैष्फल्यम् ।
असत्येव भ्रान्तिस्सतीव भातीति तन्निवर्तनं फलमिति चेत् न, तत्सत्त्वभ्रमसत्यत्वमिथ्यात्वविकल्पे सद्वितीयत्वानवस्थयोरन्यतरापातात् ।
स्वरूपेण ब्रह्म न भ्राम्यति, किन्तु जीवेश्वररूपाभ्यामिति चेत्, हन्त एकां व्याहतिं परिहर्तुमनेकामुपादत्से, कथमभ्रान्तस्य तस्य तद्भावः कथं सर्वज्ञोऽपि भ्राम्यतीति विवक्षाऽप्युत्तिष्ठेत? कथं चैक आत्मा युगपत्सर्वज्ञमज्ञं चात्मानमनुसन्दधीत प्रपञ्चयिप्यते (36 वादे) चैतत् ।
उत्तरत्र तु नित्यशुद्धत्वश्रुत्यादिविरोधः ।
किञ्चोभयावधिमत्तया तदनित्यत्वम् उत्तरैकावधिमत्तया वा पूर्वैकावधिमत्तया वा नाद्यः, त्रिवर्गापवर्गयोरैकराश्यप्रसङ्गात्, वैराग्योपदेशादिवैयर्थ्यात्, अपुनरावृत्तिश्रुत्यादिविरोधाच्च ।
अत एव न द्वितीयः -बन्धमोक्षयोर्व्युत्क्रमताप्रसङ्गात्, शुद्धेरसाध्यत्वेन विचारादिनैष्फल्याच्च ।
तृतीयस्तु न शुद्धेर्नित्यस्वरूपैक्ये स्यात् ।
निरवधित्वसावधित्वयोर्नित्यवैरात् ।
अतिरेके च स एव सत्यासत्यविकल्पावतार इति ।
यद्यप्यस्मन्मते नित्यशुद्ध ईश्वरः, साध्यशुद्धिः क्षेत्रज्ञश्च जिज्ञास्येते, तथाऽपि न प्रतिबन्दी, ईश्वरशुद्धेरसाध्यत्वात् ।
जीवशुद्धेस्साध्याया अपि स्वरूपान्यत्वात्सत्यत्वाच्च ।
उदारगुणसागरः परमपुरुषः स्वाराधनात्मकशास्त्रार्थसम्प्रीतस्त्रिवर्गमपवर्गं च प्रयच्छतीति हि प्राची मर्यादा ।
स यदि स्वयमेव भ्राम्येत् स्वाश्रितत्राणौपयिकगुणहीनो वा, न तर्हि जिज्ञास्यः, स्वरक्षणेऽप्यशक्तस्येति न्यायात् ।
कल्पितसार्वज्ञ््यादियोगात् तदभावेऽपि तीर्थादिवद्वा तस्य भजनं स्यादिति चेन्न, कल्पितस्य सार्व ज्ञ््यादेर्जिनादिष्वपि सिद्धेः तदुपसत्तिप्रसङ्गात् ।
सर्वैस्तेषु न तत्कॢप्तिरिति चेन्न, अविशेषात् ।
महाजनपरिग्रहाद्विशेष इति चेन्न, सर्वेषां सर्वतस्सम्मूढत्वमिच्छतां क्वचिदपि प्रामाणिकत्वादिलक्षण महत्त्वस्यासिद्धेः, प्राचुर्यस्य विगानादप्रयोजकत्वाच्च ।
यत्तु तीर्थादिवदिति तत्तदा सह्येत, यदि तत्सेवयेव तदुपसत्त्या प्रसाद्योऽन्यः ।
न हि क्रियातच्छक्त्यपूर्वाण्येव फलन्तीति नैगमः पन्थाः ।
उक्तन्यायेन जैनगन्धिवेदान्तिमतेऽपि जिज्ञासानुपपत्तिर्द्रष्टव्या ।
तदेतदखिलमन्तर्निधाय ब्रह्मशब्दाभिधेयमुभयलिङ्गं सर्वेश्वरं प्रस्तुत्य तस्यैवारम्भसूत्रे विवक्षितत्वमाह -“तापत्रयातुरैरमृतत्वाय स एव जिज्ञास्य’’ (श्री भाष्य.जि ज्ञा) इति ॥
इति श्री कवितार्किक सिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां जिज्ञासानुपपत्तिवादो द्वितीयः ॥ 2 ॥
नृसिंहराजीया
पदार्थदूषणानन्तरं वाक्यार्थदूषणमिति क्रमं सूचयन् वादार्थं सङ्गृह्णाति अथेति । विचारानुपत्तिर्वा जिज्ञासानुपपत्तिर्वा वादार्थः । अन्यतरस्य वादार्थत्वेऽन्यतरस्य गुणभावो द्रष्टव्यः। विषयाधीना जिज्ञासाधीना कारणाधीना चानुपपत्तिः । प्रथमं विषयाधीनानुपपत्तिमाह स्वात्मेति । सामान्य विशेषधीकर्मत्वाभावाज्जिज्ञासा नोपपद्यत इत्यर्थः । जिज्ञासास्वरूपप्रयुक्तानुपपत्तिमाह निर्विशेषस्येति । विशेषविषयिणी हि सर्वत्र जिज्ञासेति भावः । उभाभ्यां विशेषणाभ्यामेव कारणाधीनानुपपत्तिश्चाभिप्रेता । समानाधिकरणसामान्यज्ञानस्य विशेषनिश्चयफलकस्याभावात्। अत्र ब्रह्मण इत्यध्याहार्यम् । दुष्यतो वा विशुद्धस्य वा ब्रह्मणो जिज्ञासा प्रतिषिध्यत इत्यन्वयः । पक्षान्तरे जिज्ञासापदं विचारपरम् । अनुक्तो पालम्भपरिहारार्थं परकीयं वचनमाह यदाहुरिति । अनुदितेत्यादिपदचतुष्टयेन स्वात्मैकभासस्येत्यादि श्लोकगतपदचतुष्ट्यं क्रमाद्विवृतम् । स्वरूपैकप्रकाशत्वोक्त््या प्रकाशान्तराकर्मत्वसिद्धेः तत्प्रयुक्तव्याघातं दर्शयति यद्धीति । अन्यथा सामान्यतो विदितत्वस्य विशेषतो वेदितव्यस्यचाभावे, सामान्यवेदनस्य जिज्ञासाहेतुत्वात् विशेषतो ज्ञानस्य च तत्फलत्वादिति भावः । स्वप्रकाशतया वित्तिकर्मत्वाभावपुरस्सरं दूषणमुक्तम् । मिथ्यात्वादिप्रसङ्गेन वित्तिकर्मत्वाभावपुरस्सरं दूषणमाह जिज्ञासा पूर्वकमिति । जिज्ञासायाः कारणत्वं विचारस्य कार्यत्वं विचारानुपपत्तिपक्षे कारणाभावाद्विचारानुपपत्तिः । जिज्ञासानुपपत्तिपक्षे फलरूपविचाराभावाज्जिज्ञानानुपपत्तिरित्यर्थः । विचारानुपपत्तौ हेतुमाह तच्चेति । ननु मा भूद्वित्तिकर्मत्वं स्वरूपप्रकाश एव स्वसामान्यप्रकाशः । सविशेषप्रकाशश्चेति । हेतुफलभावाज्जिज्ञासा सम्भवतीति शङ्कते स्वरूपेति । नेति । अन्यथा यज्ञदत्तीयज्ञानाद्देवदत्तीयजिज्ञासा स्यादिति भावः । यद्यप्यहमिति स्वप्रकाशादेव नित्यत्वादिजिज्ञासा दृश्यत इति जिज्ञासानधिकरणवृत्तिज्ञानान्यज्ञानत्वेन हेतुत्वान्नाति प्रसङ्गः । तथापि फलभूत ज्ञानसमानाधिकरणजिज्ञासापूर्वकत्वेन कार्यत्वान्नेतादृशज्ञानासम्भवः इति भावः । केचित्तु अहमिति जिज्ञासाजनकं ज्ञानं न स्वप्रकाशम् । अपितु मानसिकमित्याहुः । हेतुफलत्वयोस्सामान्यतो दूषणमुक्तवा प्रातिस्विकं दूषणमाह अनादेरिति । अनादेः प्रकाशस्येति । स्वरूपप्रकाशो निरपेक्ष एव हेतुः उतागन्तुकसहकारिसापेक्ष इति विकल्पमभिप्रेत्याह अनादेरिति । अत्र जिज्ञासा यदि निरपेक्षानादिप्रकाशजन्या स्यात् अनादिस्स्यादित्यर्थः । यस्मिन्काले कार्योत्पत्तिरभिमता ततः प्रागपि कार्यं स्यादिति क्रमेण पूर्वकालेप्यापादित कारणाभावेन कार्याभावस्य वक्तुमशक्यतयानादित्वे सिद्धे जन्यत्वमेव न सम्भवतीत्यर्थः । द्वितीये दूषणमाह सापेक्षत्व इति । जिज्ञासायास्समानाधिकरण धर्मिज्ञान जन्यत्वस्य साधित्वाल्लोके दर्शनादिति भावः । फलत्वे दूषणमाह प्राक्सिद्धस्येति । प्राक्सिद्धस्योत्तरकालमप्यसत्वे तुच्छत्वं सत्वे तु कार्यत्वमिति भावः । प्राक्सिद्धत्वे फलत्वव्याघात इत्याह प्राक्सिद्धस्येत्यादिना । फलस्य सादित्वादनादित्वं न स्यादित्याह फलत्वे चेति । एतेनानुदितपदसूचितव्याघातो दर्शितः । नन्वनुपहितस्वरूपमात्रगोचरयोर्जिज्ञासाहेतुफलभूतयोरसम्भवेप्युपहितगोचरयोस्तथात्वमस्त्वित्याशङ्कते उपहितेति ।अविद्योपहितरूपे ब्रह्मणि मुमुक्षूपास्यत्वरूपेण सामान्यवेदनस्य जगत्कारणत्वादिना विशेषवेदनस्य सम्भवादिति भावः । एवमपि निर्विशेषस्य जिज्ञास्यत्वं न सिद्धमित्याह नेति । हेतोरूपहितविषयत्वेपि फलस्योपहितविषयत्वमयुक्तमिति भावः । फलस्याप्युपहितविषयत्वे दोषमाह फलस्येति । आरोपितविषयत्वादिति भावः । इष्टापत्तिं परिहरति भ्रान्तिश्चेति । तत्वज्ञानसाध्यत्वान्मोक्षस्य मुमुक्षूणां भ्रमार्थं शास्त्रारम्भो न स्यादित्यर्थः । ननु तत्वज्ञानत्वभ्रमात्प्रवृत्तिरस्त्विति शङ्कते भ्रान्तिमिति । एवं तर्हि शास्त्रस्य न केवलं वैयर्थ्यमेवप्रत्युतानर्थहेतुत्वमपीति परिहरति नेति । परीक्षकाः विचारशास्त्राधिकृताः । प्राथमिकभ्रान्तिः - प्रपञ्च भ्रमः ।तथा च शास्त्रधिकारिणां प्रपञ्चभ्रमस्य पूर्वमेव सत्वात् शास्त्रजन्याधिकभ्रमवत्वाच्च पामराणां च शास्त्रजन्यभ्रमाभावात् परीक्षकेभ्यः पामराः श्रेष्ठा इत्यर्थः । किञ्च भ्रान्तिमेव प्रमितिमन्न्यमानैरित्ययुक्तं श्रवणात्प्रानित्यानित्यविवेकादिसमये स्वरूपव्यतिरिक्तं मिथ्येति निश्चिततया प्रमात्वभ्रमायोगात् । यदि प्रयोजकशिक्षणं श्रवणमेवेति मतं तथापि मनननिधिध्यासनादौ प्रवृत्तिर्नस्यादित्याह स्वरूपेति । स्वरूपस्यैव फलत्वे प्राक्सिद्धस्य फलत्वायोगादिति यद्दूषणमुक्तं तत्र परिहारमाशङ्कते नित्येति । ज्ञानस्य सिद्धत्वेपि स्वमात्रसाक्षित्वाच्छिन्नस्यासिद्धत्वाज्जिज्ञासायाः फलत्वं सम्भवतीति भावः । एवं तर्हि प्राप्ताप्राप्तविवेकेन धर्मस्यैवेच्छा । सा च न जिज्ञासा ज्ञानगतधर्मविषयिण्याः ज्ञानेच्छाभावात् । समाधातुः तादृशज्ञानस्यैवासिद्धतया तज्जिज्ञासेति विषमो दृष्टान्त इत्याह नेति । ननुप्राप्ताप्राप्तविवेकेन धर्मगोचरत्वेपि धर्मिगोचरत्वाज्जिज्ञासात्वं युक्तमित्यत्राह तयोरपीति । सिद्धत्वादिति ।इच्छाविषयत्वायोगात्फलत्वं न स्यादिति भावः । विकल्पक्षोभादिति । सत्यत्वेऽद्वैत हानिः । मिथ्यात्वे प्रेक्षावतां तदर्थं प्रवृत्यनुपपत्तिरित्यर्थः । वैशद्यपक्षे दूषणान्तरमाह अतिरिक्ताकारेति । ज्ञनगतं धर्ममादाय पूर्वदूषणम् इह विषयमादायेति न पौनरुक्त््यम् । स्वरूपपक्षेपि कालभेदमादायाज्ञातता उतांशभेदमुतधर्म भेदमिति विकल्पमभिप्रेत्य प्रथमे दोषमाह नित्येति । कालविशेषेणाज्ञातत्वं न सम्भवतीति भावः । द्वितीये दूषणमाह निरंश इति । धर्मपक्षे दोषमाह निर्विशेष इति । मिथ्याभूतविशेषस्तु भ्रान्तित्वापातेन निरस्त इति भावः । जिज्ञासास्वरूपप्रयुक्तानुपपत्तिमाह कथं च जिज्ञासेति । इदं किमिति प्रश्नप्रयोजिका इदं कथमिति प्रश्नप्रयोजिका वा स्यादित्यर्थः । ननु विदिताविदिताकारभेदाभावेपि इदं किमित्यादि जिज्ञासास्यादित्यत्राह कृत्स्नेति । कृत्स्नावगतौ ज्ञातव्यांशाभावेन सिद्धे इच्छाविरहादनवगतौ कारणाभावाज्जिज्ञासा नोपपद्यत इत्यर्थः । ननु कृत्स्नाज्ञानेपि जिज्ञासा सम्भवत्येव अन्यथा किं कथमिति जिज्ञासानुपपत्तेः । किञ्चिदाकार ज्ञाने धर्मिणोपि ज्ञाततया धर्मिप्रश्नानुपपत्तेः । धर्मिणं विना धर्मज्ञानाभावादिति शङ्कते किं कथमिति । पदार्थत्वादिना सामान्येन ज्ञातेषु किं कथमिति जिज्ञासाविशेषविषयिण्येव भवति । नतु सर्वात्मना ज्ञानाभावादिति परिहरति न तत्रापीति । ननु ज्ञाताज्ञातधर्मवति जिज्ञासेत्ययुक्तं किं ज्ञानांश एव जिज्ञासा उताज्ञातांशे । नाद्यः वैयर्थ्यात् । नद्वितीयः कारणाभावात् । इच्छायास्समानविषयकज्ञान साध्यत्वादित्याशङ्क््य सर्वथा च ज्ञाते जिज्ञासायामतिप्रसङ्गात् व्यावहारिकमर्यादयाजिज्ञासायास्त्वयापि व्यवस्थाप्यत्वात् । तत्र सामान्याकारज्ञानातिरिक्तकारणस्य दुर्वचतया सामान्याकारज्ञानमेव तद्वता विदितविशेषाकारजिज्ञासाया हेतुरिति कल्पनीयमिति । इदं जिज्ञासामात्रखण्डनं न ब्रह्मजिज्ञासा समर्थनमित्याह यः पुनरित्यादिना । इष्टापत्तौ दोषमाह अन्यथेति । जिज्ञासानङ्गीकारे आरम्भहेत्वभावाच्छास्त्रमुच्छिद्येतेति भावः । निर्विशेष इति - सामान्यविशेषयोः परस्पर सापेक्षत्वादिति भावः । ननु कल्पितधर्ममादाय सामान्यविशेषोपपत्तिरिति शङ्कते कल्पनयेति । किं सामान्येन शब्देन सत्स्वरूपं विवक्षितम् उत सत्वसामान्यम् । नाद्य इत्याह सामान्य रूपस्येति । तदेवोपपादयति न ह्यकिञ्चिद्भूत इति । अकिञ्चिद्भूतःस्वरूपशून्यः । खरश्रृङ्गं यथा कुण्ठत्वधर्मवत्तीक्षणत्वधर्मवद्वा न भवति तथा विशेषरूपोपि न भवतीत्यर्थः । शून्यवादाभ्युपगमं परिहरति न चेति । सामान्यधीबाधः स्वरूपाधीनः । द्वितीयं पक्षं दूषयति अत एवेति । श्रुतिविरोधादिर्त्थः । अपसिद्धान्तादिति । सत्वस्य ब्रह्मस्वरूपानन्योक्तेरिति भावः । विशेषस्य त्विति । कल्पितगोचरज्ञानस्य भ्रमत्वेन प्रपञ्चभ्रमानिवर्तकतया इष्यमाणत्वायोगादिति भावः । ननु कथं वैफल्यं कल्पितविषयकज्ञानस्यैव फलत्वादित्याशङ्क्य एवं सति वैदिकत्वभूमिकाकञ्चुकप्रच्छादितं बौद्धत्वमेवाविष्कृतं स्यात् । वेदान्तानां मिथ्यार्थबोधकत्वेनातत्वावेदकत्वाङ्गीकारादित्याह नहीति । ननु कल्पितप्रपञ्चरूपकार्यस्य मिथ्यात्वबोधनाच्छास्त्रस्य प्रामाण्यमिति न वेदबाह््यत्वमिति शङ्कते कल्पिताकारेति । प्रपञ्चमिथ्यात्वस्यैव जिज्ञास्यतया ब्रह्मणो जिज्ञास्यत्वं न स्यादित्याह न तर्हीति । ननु रजतमिथ्यात्वज्ञानस्य रजतनिवर्तकत्ववत् प्रपञ्चमिथ्यात्वज्ञानमपि प्रपञ्चनिवर्तकमेवेति मिथ्यात्वजिज्ञासैवास्त्विति शङ्कते ततः किमिति । ““तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्,’’ ““प्रोवाच तां तत्वतो ब्रह्मविद्यां"“ं (मुं - 1 - 2 - 12) ““तद्विजिज्ञासस्व तद्ब्रह्मेति’’ (तै - भृ 1) ““अथातो ब्रह्मजिज्ञासा’’ (ब्र.सू.1 - 1 - 1) इत्यादिश्रुति सूत्रविरोधः । नच तेषां प्रपञ्चमिथ्यात्वजिज्ञासापरत्वम् । तथा सति लक्षणादोषइत्याह श्रुतीति । किञ्च ““अत्मैकत्वप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्तत’’ (शं.भा) इति स्वोक्तिविरोधश्चेत्याह ब्रह्मेति । ननु कल्पिताकाराः कल्पितभेदाः तन्मिथ्यात्वंहि तदभावः तदेव ब्रह्मात्म्यैक्यमिति न विरोध इति शङ्कते कंल्पितभेदेति । तर्हि माध्यमिकेनापि सकलप्रपञ्चमिथ्यात्वस्याभ्युपगमात् तन्मतेपि त्वदुक्तब्रह्मात्मैक्यधीरस्तीतितस्मात्तव भेदो नस्यादित्याह न माध्यमिकमतेपीति । ननु प्रपञ्च मिथ्यात्वमेव यदि ब्रह्मात्मैक्यं स्यात् तदा तेन विवादविलयस्यात् । किन्तु तद्बुध्यवसेयं ततोन्यदेव ब्रह्मत्मैक्यमिति तेन विवादो युज्यत इति शङ्कामनुवदति यच्च मन्यस इति । ब्रह्मणस्तच्छून्यत्वं कल्पिताकारशून्यत्वमेवे(मपी)त्यर्थः । सामान्यबुध्या क्रोडीकृतं धर्मिज्ञानेन विषयीकृतमित्यर्थः । बहीष्ठस्य - धर्मिज्ञानाविषयीकृतस्य । मिथ्यत्व इति । आकारशून्यत्वस्य मिथ्यात्वमाकाराभावाभावः । एवं चाकारस्य सत्यतास्यादित्यर्थः। प्रतियोगिसाहित्यसत्यता प्रतियोगिसाहित्यसहिता सत्यतेति मध्यमपदलोपी समासः । प्रतियोगिसत्वं तत्सत्यत्वं चेत्यर्थः । सहजसङ्घर्षः स्वतो विरोधः भावाभावरूपेति यावत् । नन्वेवमप्यन्यतर सत्वे अन्यतराभावोस्तु अन्यतराभावे इतरसत्वनियमः कुत इत्यत्राह परस्परविरोध इति । भावाभावयोस्तथानियमात् । अन्यथा ““द्वौ नञौ प्रकृतमर्थ सूचयत’’ इत्यादि तान्त्रिकव्यवाहारोच्छेद श्चेति भावः । दूषणान्तरमाह यदीति । कल्पिताकारराहित्यस्यापि कल्पिताकारतया तत्सत्वे कल्पिताकारत्वावच्छिन्ननिवृत्तिरूपामुक्तिः कथं स्यादित्यर्थः । ननु तद्व्यतिरिक्तनिवृत्तिरेव मुक्तिरस्त्वित्यत्राह यत्किञ्चिन्निवृत्तिमात्रमिति । कल्पिताकारनिवृत्तिरूपकल्पिताकारसत्वेपिइतरनिवृत्तिमात्रामुक्तिश्चेत् अविशेषाद्घटादिकल्पिताकारसत्वे यत्किञ्चिन्निवृत्तिमात्रामुक्तिः स्यादित्यर्थः ।अशेषविशेषशून्यमिति सूचितं व्याघातमुपसंहरति अत इति । उक्तविधया जिज्ञासानुपत्तेरित्यर्थः । अनाद्यविद्यान्धकारितमित्यनेन सूचितं व्याघातं दर्शयितुमुपक्रमते किञ्चेति । किमविद्याश्रयो ब्रह्मजिज्ञास्यमुत शुद्धमितिविकल्पमभिप्रेत्याद्ये दोषमाह यद्यशुद्धमिति । यद्यपि प्रागुपहितस्य जिज्ञास्यत्माशङ्क्य निरस्तमेव । तथापि पूर्वत्र यत्किञ्चित्कल्पितधर्मोपधानं विवक्षितम् । इहतु अशुद्धिरूपाविद्योपधानमिति भेदः । अविद्याविशिष्टप्रकाशस्य संसारनिवर्तकत्वे अनादि संसारनिवृत्तिस्स्यादित्याह अन्यथेति । अशुद्धेर्मिथ्यात्वात्तद्विशिष्टोपदेशिशास्त्रं चाप्रमाणं स्यादित्याह कथन्तरामिति । नन्वतत्वज्ञानादपि संसारनिवृत्तिस्यादेव । रज्जौ सर्पभ्रमस्य तस्यामेव भूरङ्घ्रभ्रमेण निवृत्ति दर्शनादित्याशङ्कते नन्विति । सत्यं भ्रान्तेरपि भ्रान्तिनिवर्तकत्वमस्त्येवेति । तथापि निवर्तकभ्रान्तेर्निवृत्यभावात् सर्वभ्रमनिवृत्तिलक्षणामुक्तिर्न स्यादित्याह नस्यादिति । ननु तत्वज्ञानादेवनिवर्तक भ्रान्तिरपि निवर्ततामित्यत्राह तद्विलापकेति । तद्विलापकं भ्रान्त्यन्तरनिवर्तकमित्यर्थः । उक्तक्रमेणेति ।सत्यमिथ्यात्वविकल्पक्षोभादिरूपोक्तक्रमेणेत्यर्थः । चरमभ्रान्तिरहेतुकमेव नश्यत्वित्यत्राह अहेतुकेति ।ननूपादाननिवृत्त्या तन्निवृत्तिरस्त्विति चेन्न।तथा सति ज्ञाननिवर्त्यत्वाभावान्मिथ्यात्वं न स्यादिति भावः । नित्यशुद्धमित्यनेन दर्शितं व्याघातं दर्शयितुं द्वितीयं विकल्पमाशङ्कते शुद्धं तर्हीति । शुद्धस्य ज्ञानविषयत्वायोगाज्जिज्ञास्यत्वं नोपपद्यते कुतस्तु तद्ज्ञानान्मुक्तिरित्याह जिज्ञास्यमपीति । ननु यथा शाखायाश्चन्द्रसम्बन्धाभावेपि तद्भ्रमाच्छाखायां चन्द्रमा इति चन्द्र उपलक्ष्यते तथा इष्यमाणेन ज्ञानेन तद्विषयत्वरूपसम्बन्धाभावेपि तदुपलक्ष्यतया जिज्ञास्यत्वमस्त्विति शङ्कते शाखाचन्द्रेति । यथा चन्द्रस्योपलक्षणीभूतशाखाधीनज्ञानविषयत्वं तथोपलक्षणीभूतेष्यमाणज्ञानाधीनज्ञानविषयत्वं ब्रह्मणो नास्तीति कथमुपलक्ष्यत्वमित्याह कथं तदधीनेति । नन्वस्तु तदधीनज्ञानविषयत्वमित्याशङ्क्य तथात्वे जडत्वमिथ्यात्वादिदोषप्रसङ्ग इत्याह तद्विषयत्वे चेति । ननूपलक्षणाधीनज्ञानविषयत्वमभ्युपगम्यत एव । नच तत्प्रयुक्तदोषापत्तिः मिथ्याभूतज्ञानविषयत्वस्याप्यसत्यत्वत्वात् । नचासत्यत्वं भ्रान्तिसिद्धत्वमिति तदर्थं भ्रान्त्यन्तराङ्गीकारे तद्विषयताप्रयुक्तदोषापत्त्या तस्यापि भ्रान्त्यन्तरसिद्धत्वं वाच्यमित्यनवस्थेति वाच्यम् । उपलक्षणाधीनज्ञानस्यैव स्वविषयताभ्रान्तित्वेनानवस्थाविरहादिति शङ्कते सोपि बोध इति । तत्र किं ज्ञानस्यत्सत्वाद्दोषाभावः उत भ्रान्तित्वादिति विकल्प्य पक्षद्वयेपि प्रमाजनकत्वा भावात्प्रमाजनकत्वरूपं प्रमाण्यं नस्यादित्याह विलीनमिति । किञ्च ज्ञानविषयत्वस्योक्तविधया दोषत्वाभावे प्राथमिकज्ञानविषयत्वमेवाभ्युपगम्यतामित्याह उपलक्षणेति । फलाभावाज्जिज्ञासानोपपद्यत इत्याह शुद्धिश्चास्येति । किमर्थेति । शुद्ध्यतिरेकेणाविद्यानिवृत्तेरभावादिति भावः । नन्वस्तु ब्रह्माभेदार्थजिज्ञासा ““ब्रह्मवेद ब्रह्मैव भवती’’ (मु - 3 - 2 - 9) ति ब्रह्माभेदस्यापि फलतया श्रवणादिति तत्राह अन्तत इति । अभेदस्य नित्यसिद्धतया साध्यत्वायोगात्तत्साध्यतोक्तिरपि शुद्धावेव पर्यवस्यतीति भावः । ननु शुद्धताध्यवसायस्य साध्यत्वात्तदर्थं जिज्ञासेति शङ्कते शुद्धतेति । शुद्धताध्यवसायस्य स्वतः पुरुषार्थत्वा योगाच्छुद्ध्यर्थतयापुरुषार्थत्वं वाच्यम् । तच्च न सम्भवति शुद्धेरसाध्यत्वादित्याह न तदध्यवसायेनापि । ननु पुरुषार्थान्तरार्थतया सार्थत्वमस्त्वित्याशङ्क्य तदेव नास्तीत्याह अन्यथेति । ननु नित्यशुद्ध्यवसाये सति प्रतीयमानकर्तृकत्वादिरूपाशुद्धेर्मिथ्यात्वज्ञानेन तन्निवृत्तेस्साफल्यमिति शङ्कते आरोपितेति । तथासति आरोपरूपाशुद्धिमत्तया तद्दशायां शुद्ध्यभावान्न नित्यत्वं शुद्धेरिति परिहरति आरोपसम्भव इति । ननु नित्यशुद्धेः परमार्थत्वान्नारोपिताशुद्ध्या विरोधः । यथा स्फटिकरक्तात्वारोपेपि श्वैत्यस्य न विरोध इति शङ्कते उपरक्तेपीति । ब्रह्मण्येवेति । शुक्तिरजतादाविव परोक्षभ्रमस्थलेपि प्रातिभासिकमुत्पद्यत इतीदमुक्तमिति ध्येयम् । किन्त्विति । भ्रमसुखदुःखाद्यनर्थाधारतयाऽशुद्धिं प्रसञ्जयाम इत्यर्थः । एवञ्च विषमो दृष्टान्त इत्याह न तथेति । तथा च भ्रान्तिविषयत्वं न दोषः अपितु भ्रान्त्यादिप्रत्यनीकस्वरूपस्य भ्रान्त्याश्रयत्वम् । तद्धेतुदोषाश्रयत्वं च दोष इत्यर्थः । भ्रान्तिरपीति । तद्धेतुभूतदोषादिरपीत्यर्थः । एवं तर्हि भ्रान्त्यादिदोषस्य स्वत एव निवृत्ततया नारोपितदोषनिवर्तकतयापि सार्थक्यमित्याह स्थितं तर्हीति । ननु भ्रमादेरसत्वेपि तत्सत्वभ्रमनिवृत्तिः प्रयोजनमिति शङ्कते असत्येवेति । तत्सत्वभ्रमस्य सत्यत्वे चाद्वैतहानेः मिथ्यात्वे च स्वत एव निवृत्तस्य निवर्त्यत्वाभावेन नैष्फल्यात् तत्सत्यता भ्रमादिनिवर्त्यत्वोक्तौ चउत्तरोत्तरं तथेत्यनवस्थास्यादित्ययुक्तमित्याह न तत्सत्वेति । ननु ब्रह्म न निर्विशेषस्वरूपेण भ्रान्याश्रयः ।किन्तु विशिष्टजीवेश्वररूपाभ्यामिति न नित्यशुद्धिविरोध इति शङ्कते स्वरूपेणेति । जीवेश्वरयोरपि कल्पितत्वात्कल्पकान्तराभावात् नित्यशुद्धं ब्रह्मैव भ्राम्यतीति वक्तव्यमिति स्वरूपेपि भ्रान्तिरूपा शुद्धिरनिवार्येति भावः । तद्भावः स्वात्मनि जीवेश्वररूपेण भ्रान्तिः । किञ्चेश्वररूपेण कल्पना हि स्वस्मिन् सार्वज्ञम् । तच्च सर्वविषयकत्वान्निर्विशेषात्मकशुद्धिगोचरमपीति शुक्तिज्ञानं रजतज्ञानमिव कथमितर विषयकज्ञानं सहेत तथा च स्वयमेव स्वात्मानं मारयेदिति व्याघातप्रसङ्ग इत्याह कथं सर्वज्ञोपीति । यदि सर्वज्ञत्वं तद्ज्ञानस्य कथं भ्रान्तित्वमित्यर्थः । किञ्चेश्वरभावः सार्वज्ञं जीवभावस्तदभावः । तथा च विरुद्धयोः कथमेकत्र रजतत्वतदभावयोरिवारोप इत्याह कथञ्चैक आत्मेति । प्रपञ्चयिष्यत इति । जीवब्रह्म भेदसमर्थनावसर इत्यर्थः । उत्तरत्रेति । शुद्धिर्नित्यानित्यावेति विकल्पे अनित्येत्यत्रेत्यर्थः । पूर्वं संसार इव उत्तरत्रापि संसारप्रसङ्ग इत्याह। त्रिवर्गेति । अस्तु को दोष इत्यत्राह वैराग्येति । वैराग्योपदेशादिवैयर्थ््यादेव। द्वितीयोपि नेत्याह अत एवेति । हेत्वन्तरमाह बन्धेति । शुद्धेर्विनाशेसंसारोत्थानाच्छुद्धिकाले विरोधेन संसारासम्भवादिति भावः । किञ्च शुद्ध्यर्थं हि तत्वज्ञानं वाच्यंशुद्धिश्चेत्पूर्वावधिरहिता तदा तदर्थं श्रवणनिदिध्यासनादिवैयर्थ्यमित्याह शुद्धेरसाध्यत्वेनेति । तृतीयस्त्विति ।पूर्वा वधि (उभया)मत्वमित्यर्थः ।विकल्पावतार इति । सत्यत्वे चाद्वैत हानिः मिथ्यात्वे च न मुक्तिरिति विकल्पपूर्वकं दूषणावतार इत्यर्थः । नन्वनित्यशुद्धियोगिनो नित्यशुद्धियोगिनश्च जीवेश्वरयोः जिज्ञासतायाः सिद्धान्तेपिसत्वात् कथमेवं विकल्प्य दूषणाभिधानमित्यत्राह यद्यपीत।ि शुद्ध्यशुद्धयोर्नयौगपद्यविरोधः आश्रयभेदात् ।साध्यत्वेनाभिमतायाः शुद्धेः जीवस्वरूपादन्यत्वेन न साध्यता विरोधः । सत्यत्वान्न मिथ्यात्वप्रयुक्तजिज्ञास्यत्वविरोधश्चेति भावः ।शास्त्रार्थसम्प्रीतः - अनुष्ठितेन शास्त्रार्थेन सम्प्रीतः।प्राची - वैदिकी । उन्मादिनो वा ज्ञानादिरहितस्य वा रक्षकत्वं दूरे । स्वरक्षणेपि शक्तिरहितत्वादित्याह स्वरक्षण इति । ननु कल्पितसार्वज्ञमादाय फलप्रदानोपयोगि भूताराधनाराधकतदिष्टपरिज्ञानसम्भवात्तदभावेऽपि तद्ध्यानादेः पुण्यतीर्थस्नानादिवददृष्टार्थत्वसम्भवाच्च कथं ब्रह्मणोन जिज्ञास्यत्वमिति शङ्कते कल्पितेति ।आदिशब्देन दयादि गृहयते । सर्वैरिति । तथा च तत्र न कल्पितं सार्वज्ञयमिति भावः । अविशेषादिति । कैश्चिद्ब्रह्मण एवानभ्युपगमादिति भावः । महत्वं किं प्रामाणिकत्वम् उत प्राचुर्यं नाद्य इत्याह सर्वेषामिति । सर्वे सर्वत्र भ्रान्ता इति युष्मन्मतस्थितिः सर्वस्य मिथ्यात्वाङ्गीकारात् । तथाच युष्मन्मते कस्यापि तत्वदर्शित्वतत्वोपदेष्द्दत्वलक्षणं महत्वं न सिध्यतीत्यर्थः । न द्वितीय इत्याह प्राचुर्यस्येति । ““शतमप्यन्धानां न पश्यतीति’’ न्यायेन प्राचुर्यमप्रयोजकमित्याह अप्रयोजकत्वाच्चेति । यदीति । यथा तीर्थादिसेवया तीर्थादेरन्यः ईश्वरः प्रसाद्यः स्यात् तथा ईश्वरस्य सेवया अन्यः प्रसाद्यः स्यात् स्यात्तीर्थादितुल्यतेत्यर्थः । कर्मणोहि स्वभावः किञ्चित्कर्माव्यहितोत्तरकालमेव फलं जनयति । किञ्चिद्विनष्टमपि कालान्तरे तथास्वभावात् । क्रियैव फलं जनयतीति कर्ममीमांसावृत्तिकारान्तरपक्षम् । शक्त्यात्मनावस्थितायाः क्रियायाःफलजनकत्वमिति भट्टपक्षम् । तज्जन्यापूर्वमवेफलं जनयतीति गुरुपक्षं दूषयति नहीति । ““सएवैनं भूतिं गमयति स एनं प्रीतः प्रीणाति अन्नादो वसुदानः’’(बृ - 6 - 4 - 24)’’ इत्यादि श्रुतिभिः ““लभते च ततः कामान्मयैव विहितान् हि तान्’’ (श्री.भग.गी.7 - 22) इत्यादि स्मृतिभिः ““फलमत उपपत्तेः’’ (ब्र सू.3.2.37) इत्यादिसूत्रैः ““फलसम्भित्सया कर्मभिरात्मानं पिप्रीषति स प्रीतोऽलं फलाये’‘त्यादि द्रमिडभाष्य कारादिमहर्षिवचनैश्च ईश्वरस्यैव फलप्रदत्वावगमादिति भावः । जैनवद्भेदाभेदात्मकानेकान्तवादिनो भास्करस्य मतेपि जिज्ञासानुपपत्तिस्समानेत्याह उक्तेति ।ब्रह्मणस्सर्वज्ञत्वात् तदभिन्नस्य जीवस्यापि सर्वज्ञत्वेन विदिताविदिताकारा भावात् जिज्ञासा न सम्भवति ।ब्रह्मणो नित्यशुद्धत्वे तदभिन्नस्यापि जीवस्य नित्यमुक्त्वाक्तत्वात्तदर्था जिज्ञासा न सम्भवति । जीवाशुद्ध्या तदभिन्नस्य ब्रह्मणोप्यशुद्धत्वात् ““स्वरक्षणेप्यशक्तस्ये’‘ति न्यायाज्जिज्ञास्यता न सम्भवतीति भेदसत्वेप्यभेदप्रयुक्तानां दोषाणां दुष्परिहरत्वादिति द्रष्टव्यम् । अयमर्थो भाष्याभिप्रेतश्चेत्याह तदेतदिति । एतेन सत्वविशिष्टं ज्ञानं हेतुः अखण्डविषय साक्षात्कारो जिज्ञासायाः फलं तदिच्छैव जिज्ञासेत्येकम्मतं, प्रथमोत्पन्नोऽद्वैतसाक्षात्कारः प्रतिबध्दत्वान्नाविद्यानिवर्तकः स एव जिज्ञासा हेतुः अप्रतिबद्धज्ञानं फलं तदिच्छैव जिज्ञासेति द्वितीयं, प्राथमिकज्ञानमनवधारणं जिज्ञासा हेतुः अवधारणं ज्ञानं तत्फलं तदिच्छैव जिज्ञासा हेतुरिति तृतीयम् । एवं च हेतुफलभावसत्वात् जिज्ञासायां नानुपत्तिरिति नवीनोक्तं निरस्तम् । प्राथमिकज्ञानस्यापि समानविषयत्वेनाविद्यानिवर्तकत्वसम्भवे अखण्डविषयकज्ञाने जिज्ञासायोगात् समानविषयत्वस्यैवाज्ञाननिवर्तकत्वे तन्त्रत्वात् । अन्यथा रूप्यादिगोचर शुक्त्यादिज्ञानस्यापि रजतादिभ्रमानिवर्तकत्वप्रसङ्गात् ।नापि ज्ञानस्य प्रतिबन्धकत्वं तीरस्थवृक्षादिगोचरोर्ध्वाग्रत्वज्ञानस्य अधोग्रत्वभ्रमानिवर्तकत्वात् । विशेषदर्शनत्वाभावात् । तद् भ्रमस्योपाधिनिवृत्यैव निवर्त्यतया ज्ञाननिवर्त्यत्वाभावात् ।नाप्यनवधारणत्वं प्राथमिकज्ञानस्यैककोटिकत्वेन संशयरूपानवधारणत्वायोगात्।अन्यादृशानवधारणत्वस्याविद्यानिवर्तकत्वे बाधकत्वाभावात् । अन्यथा अयं घट इति ज्ञानान्तरमपि प्रामाण्यसंशयं विनापि संशयापत्तेरिति ॥ । वत्सकुलजलधिकौस्तुभनृसिंहगुरुसुतेन सिंहदेवेन कृतायांशतदूषणीटीकायां द्वितीयो वादस्समाप्तः ।