01 ब्रह्मशब्दवृत्त्यनुपपत्तिवादः

॥ अथ ब्रह्मशब्दवृत्त्यनुपपत्तिवादः प्रथमः ॥1॥

प्रवेशः

तत्र तावच् शास्त्रारम्भे -

नृसिंहराजीया

शास्त्रारम्भः “अथातो ब्रह्मजिज्ञासा” (ब्र.सू 1-1-1) इति सूत्रम् +++(तद्-अग्रिमं च)+++।

विचार-विषयत्वेन
सूत्रकृद् यद् +++(→“यतो वा इमानि भूतानि जायन्ते …”)+++ असूत्रयत् +++(← “जन्माद्य् अस्य यतः”)+++।
परोक्ता ब्रह्म-शब्दस्य
+++(लक्षणा-)+++वृत्तिर् अत्र निरस्यते

नृसिंहराजीया

विचार-विषयत्वेन विचारस्य विषयतया
यद् वेदान्त-वाक्यं असूत्रयत् सूत्रेण व्याख्यात्
दात्रेण लुनाति दात्रयतीतिवत्
“प्रातिपदिकाद् धात्वर्थे बहुलम् इष्टवच् च” (अष्टा-वार्तिकं) इति णिच्,
“सूत्र विमोचन” इति वा । विमोचनं प्रतिपादनम् ।
अत्र सूत्र-विषय-भूते

“यतो वा इमानि भूतानि जायन्ते ।
येन जातानि जीवन्ति ।
यत् प्रयन्त्य् अभिसंविशन्ति ।
तद् विजिज्ञासस्व”
(तै-आ-आनन्दवल्ली)

इति वाक्ये ब्रह्म-शब्दस्य,
परोक्ता लक्षणा-वृत्तिर् इत्य् अर्थः ।

निर्विशेष-ब्रह्म-वादे
ब्रह्म-शब्दस्य क्वचिन् मुख्य-वृत्तत्वम् अस्ति न वा ?

मुख्य-वृत्त्य्-अभावे

न चेत् +++(मुख्य-वृत्तत्वम् अस्ति)+++ असाधुत्वापत्तिः ।

नृसिंहराजीया

असाधुत्वापत्तिर् इति ।
साधुत्वं हि शक्ति-मूलक-प्रयोग-विषयत्वम् ।
शक्त्य्-अभावे न सम्भवतीत्य् अर्थः ।
असाधुत्वं साधुत्वाभावः ।

व्यावहारिकं स्तरम्

साधुत्वस्य मिथ्यात्वम् अभ्युपगच्छताम्
असाधुत्वम् इष्टम्

इति चेत्
हन्त तर्हि सर्व-शब्दासाधुत्वम् ।

नृसिंहराजीया

हन्तेति ।
पारमार्थिक-साधुत्वाभावे ऽपि
व्यावहारिक-साधुत्वस्य त्वद्-इष्टत्वात्
तन् न स्याद्
इति भावः ।

साध्व्-असाधु-विवेकाभावे च कृतं साङ्गोपाङ्गैर् वेदैः ।

नृसिंहराजीया

साध्व् असाध्व् इति ।

“एकश् शब्दः सुष्ठुप्रयुक्तः स्वर्गे लोके कामधुग् भवति” (खिलश्रुतिः)

“आहिताग्निर् अपशब्दं प्रयुज्य
प्रायश्चित्तीयां सारस्वतीम् इष्टिं निर्वपेत्”
(याज्ञिकाः)

“ते ऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुः” ।

“तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषीतवै
म्लेच्छो ह वा एष यद् अपशब्दः”

इति साधु-शब्द-विधिः,

प्रायश्चित्त-विधिर्, अपशब्द-प्रयोग-निषेधो निन्दार्थवादश् च प्रमाणम्

इति तद्-अंशे
नित्यत्वादेः प्रामाण्यानुपपादकतया
अन्यत्रापि प्रामाण्यानुपपादकत्वात्
कृत्स्न-वेदाप्रामाण्ये वेदस्य व्यर्थत्वात् ।

तद्वैयर्थ्याद् एव तद्-अङ्गानां वैयर्थ्यम् ।
व्याकरणस्य अन्यत्रापि प्रामाण्यानुपपादकत्वात्
कृत्स्न-वेदाप्रामाण्ये वेदस्य व्यर्थत्वात्
तद्वैयर्थ्यादेव तद्-अङ्गानां वैयर्थ्यम् ।

व्याकरणस्य च सुतरां वैयर्थ्यं चेत्य् आह साध्व्-असाध्व् इति ।

लक्षणा-वृत्त्यै मुख्यार्थ-वृत्तिर् ग्राह्या

मुख्यार्थ-शून्यस्य तन्-मूल-वृत्त्य्-अन्तरे लिङ्गत्वे चासम्भवति
कथं क्वचिद् बोधकत्वम् अपि ?

नृसिंहराजीया

ननु वृत्तिमत्त्वं बोधकत्वं वा साधुत्वम् अस्तु
लक्षणया तत् सम्भवाद्

इत्य् अत आह मुख्यार्थ-शून्यस्येति ।
मुख्यार्थाभावे तत्-सम्बन्धादि-रूप–वृत्त्य्-अन्तरस्याप्य् अभावात्
वृत्ति-सामान्याभावे वृत्त्या स्मारितार्थ-संसर्ग-ज्ञान-पूर्वकत्व-रूप-साध्यस्य बाधाद्
आकाङ्क्षादीनां वृत्तिमत्त्वाधीनतया
तद्-अभावे आकाङ्क्षादिमत्–कदम्बकत्वादि-रूप-लिङ्गासिद्ध्या
स्वरूपासिद्धेः व्याप्ति-ग्रहायोगाच् च ।

व्याप्यत्वासिद्धेश् च
लिङ्ग-विधयापि बोधकत्वायोगाद् उक्तं साधुत्वं न सम्भवतीति भावः ।

न साङ्केतिको ऽपभ्रंशो वा

न च साङ्केतिको ऽयम् अपभ्रंशो वा
येन वाचकत्वाभिमानाद् बोधकत्वं स्यात् ।

नृसिंहराजीया

ननु ब्रह्म-शब्दस् साङ्केतिको ऽपभ्रंशो वा अस्तु ।
तस्यासाधुत्वम् इष्टम् एव ।
न च तर्हि “लक्षणाङ्गीकारो न स्याद्” इति वाच्यम् ।
शक्ति-भ्रमाद् वृत्ति-भ्रम-सम्भवाद्
भ्रान्ति-सिद्धा च वृत्तिर् एव लक्षणेति विवक्षितम्

इत्य् अत्राह न च साङ्केतिक इति ।
अपौरुषेयत्वान् न साङ्केतिकत्वम् अशक्त्यादि-प्रयुक्तापभ्रंशत्वं वेत्य् अर्थः ।

+++(संस्कृतस्य)+++ यस्यायम् अपभ्रंशश् शङ्क्येत
सो ऽपि तथा वृत्ति-विकल्पेन निर्धूयेत ।

नृसिंहराजीया

अपभ्रंशत्वे दूषणान्तरम् आह यस्येति ।
सो ऽप्य् अपभ्रंश इति वक्तुं शक्यत इत्यर्थः ।
वृत्ति-विकल्पेनेति ।

किम् अपभ्रंशस्य मूलभूतश् शब्दो मुख्यः
उत सो ऽप्य् अपभ्रंशः ।
आद्ये ब्रह्म-शब्देन किम् अपराद्धम् ?
अवाच्यत्व-वचन-विरोधश् चोभयत्र तुल्यः ।
मूल-मूलित्वयोर् वैपरीत्यापत्तिश् च द्वितीये
तस्यापि मूलभूतश् शब्दः
तस्यापि शब्दान्तरम्
इत्य् अनवस्थेत्य् अर्थः ।

न ब्रह्म-शब्दे ऽपि

ननु ब्रह्मशब्दस्यायं महिमा -
यन् मुख्यार्थविरहे ऽपि
नित्यं लक्षणया ब्रह्म बोधयतीति,

नृसिंहराजीया

नन्व् इति ।
वृत्तिमत्त्वात् साधुत्वं युज्यत इति भावः ।

तद् इदं वन्ध्यायाः पौत्रदर्शनम् ।+++(5)+++
मुख्यार्थ-सम्बन्धिन्य् अ-मुख्ये वृत्तिर् हि लक्षणा।

नृसिंहराजीया

वन्ध्यायाः पौत्र-दर्शनम् इति ।
यथा पुत्राभावे पौत्राभावः
तथा मुख्य-वृत्त्य्-अभावे मुख्यार्थ-सम्बन्ध-रूप-लक्षणा न सम्भवतीति भावः ।

तद्-अभावे ऽपि तद्-वृत्तिं भवान् +++(अज्ञ)+++ एव भाषेत ।

नृसिंहराजीया

भवान् एवेति । स्फुट-विरोधम् अप्य् अजानन्न् अत्यन्ताज्ञ इत्य् अर्थः ।

अव्यवस्था

किञ्चैवं मुख्यार्थ-शून्यास् सर्वे शब्दास्
तं तम् अर्थं लक्षयन्तीति स्वीक्रियेत महा-मीमांसकेन ।

नृसिंहराजीया

ननु मुख्यार्थ-सम्बन्धो लक्षणेति मा अस्तु
किन्त्व् अपरैव लक्षणा वृत्तिर् अस्त्व्

इत्य् अत्राह किञ्चैवम् इति ।
“तथा सति शक्ति-मात्रोच्छेदस् स्याद्” इति भावः ।

को हि त्वद्-उक्त-न्याय-वित्
कुत्रापि शक्ति-कॢप्ति-गौरवं मृष्येत्?

शून्यवादापत्तिः

“मुख्यार्थ-शून्येन ब्रह्म लक्ष्यम्” इति वदता
तद् अपि मुखान्तरेण संवृति+++(=शून्य-वाद)+++-मुखे निक्षिप्तम् ।

नृसिंहराजीया

किञ्च मुख्यार्थो यदि ब्रह्म-शब्दस्य स्यात्
तदा तत्-सम्बन्ध्य् अपि नास्त्य् एवेति
ब्रह्म तत्-सम्बन्धि लक्ष्यम् इति वदता
ब्रह्म नास्तीत्य् उक्तं स्याद्
इत्याह मुख्यार्थेति ।
संवृतिः- शून्य-वादः ।

अवाच्यता

अ-वाच्य-वादाश् च वाच्य-वादेन निरसिष्यन्ते ।

नृसिंहराजीया

ननु

“ब्रह्म-शब्दश् चान्यत्राशक्तः,
ब्रह्म चावाच्यम्”

इत्य् उक्तम् ।
तथा च विरोधं कथञ्चित् परिहृत्य
लक्ष्यत्वम् उच्यताम्

इत्य्-अत्राह - अवाच्य-वादाश् चेति ।
“तस्माद् उच्यते परं ब्रह्म” इत्यादयो वादाः ।

मुख्य-वृत्ति-सद्-भावे

+++(क्वचिद् मुख्यत्वम्)+++ अस्ति चेत् -
किम् अन्यस्मिन्, विचारविषये वा?

नृसिंहराजीया

अस्ति चेद् इति ।
क्वचिन् मुख्यत्वम् अस्तीति पक्ष इत्यर्थः ।

नान्यस्मिन्, निर्निमित्ततया

नाद्यः -
निर्निमित्तत्वे पुनर् असाधुत्वापातात् +++(पूर्वोक्त-रीत्या ऽव्यवस्थया)+++ ।

नृसिंहराजीया

आद्ये ऽपि प्रवृत्ति-निमित्तम् अस्ति न वेति विकल्प्य
द्वितीय-पक्षे दूषणम् आह - निर्निमित्तत्व इति ।
प्रवृत्ति-निमित्ताभावे शक्त्य्-अभावाद् इति भावः ।

यदृच्छा-शब्दो ऽपि हि
स्व-रूप–निमित्तकश् शास्त्र-ज्ञैश् शिक्षितः ।

नृसिंहराजीया

ननु डित्थ-डिबित्थादि-यदृच्छा-शब्दे व्यभिचार

इत्य् अत्राह । यदृच्छेति ।
प्रमेयत्व-विशेष्यक-प्रमेय-शब्दवत्
तत्-तत्-स्वरूप-प्रकारक– तत्-तद्-ज्ञान-जनकत्वं यदृच्छा-शब्दानाम्
इति भावः ।

न चायं सः; +++(व्यवहारे)+++ मानाभावात्, निरुक्ति-विरोधाच् च ।

नृसिंहराजीया

अस्तु वा यदृच्छा-शब्दे निर्निमित्तत्वं
तद्-अन्यत्र तन्-नियम

इत्य् आह - न चायं स इति ।
मानाभावाद् इति ।
यदृच्छा-शब्दत्वेन व्यवहाराभावाद् इत्यर्थः ।

“बृहति बृंहयति
तस्माद् उच्यते परं ब्रह्म” (अ.शिर-3.खं)

“बृहत्वाद् बृंहणत्वाच् च
तद् ब्रह्मेत्य् अभिधीयते” (वि.पु.20-20)

इति निरुक्ति-विरोधो ऽपीत्य् आह निरुक्तीति ।

नान्यस्मिन्, सनिमित्तत्वेन

+++(मुख्य-वृत्तेस्)+++ स-निमित्तत्वे च +++(→अपौरुषेयत्व-विरोधोऽपि)+++

नृसिंहराजीया

अपौरुषेयत्व-विरोधं समुच्चिनोति चेति ।

प्रवृत्ति-निमित्त-पक्षं दूषयति - सनिमित्तत्वे चेति ।
तथा च ब्रह्मणो ऽन्यत्र मुख्य-वृत्त्य्-अभाव इति सिद्धान्त-विरोधः ।

यः प्रकृत्य्-आदिष्व् अस्य प्रयोगः,
स ब्रह्म-गुण-लेश-योगाद् औपचारिक

इत्य् अभाषि,

नृसिंहराजीया

अन्यत्र मुख्य-वृत्त्य्-अभावं समर्थयति य इति ।
आदि-शब्देन वेद-तपः-प्रभृतयो गृह्यन्ते ।

अनुवृत्तस्याकृति-रूपस्य निमित्तस्यासिद्धेः,

नृसिंहराजीया

तत्र युक्तिम् आह - अनुवृत्तस्येति ।
प्रकृति-वेदादि-साधारणानुवृत्त-निमित्तम् एकं नास्तीत्य् अर्थः ।

बृहत्त्व-बृंहणत्व-मात्रस्य बृहद्-आदि-शब्दवद् अति-प्रसङ्गित्वात्,

नृसिंहराजीया

ननु बृहत्वम् अनुवृत्तं प्रवृत्ति-निमित्तम् अस्त्व्

इत्य् अत्राह बृहत्वेति ।
बृहत्त्वं यथा बृहदादि-शब्दे निमित्तं तथा ब्रह्म-शब्दे निमित्तं न भवति ।
तथा सति बृहच्-छब्दवद् ब्रह्म-शब्दस्यापि घटादौ प्रयोग-साधकतयातिप्रसञ्जकम् इत्य् अर्थः ।

अनेक-शक्ति-कल्पने गौरवात्,

नृसिंहराजीया

ननु बृहत्वं प्रवृत्ति-निमित्तं मा ऽस्तु
किं तु प्रकृतित्वादिम् एव नाना-प्रवृत्ति-निमित्तम् अस्तु ।
तेन नातिप्रसङ्ग

इत्य् अत्राह अनेक-शक्तीति ।
नानार्थादौ गत्यन्तराभावाद् अनेक-शक्ति-कल्पनम् इति भावः ।

लोकोत्तर-बृहत्त्वादि-मात्रस्य तु
भगवच्-छब्द-नयाद् उपचार-द्वारत्वात् ।

नृसिंहराजीया

ननु घटादि-व्यावृत्तं लोकोत्तर-बृहत्वं प्रवृत्ति-निमित्तम्

इत्य् अत्राह लोकोत्तरेति ।
सर्वतो व्यावृत्तं ब्रह्म-मात्र-गतं
प्रकृत्यादौ नास्त्य् एव ।
घटादि-व्यावृत्तं तु ब्रह्म-शब्द-प्रयोगाविषय-गगनादाव् अपि गतत्वान्
न प्रवृत्ति-निमित्तम्
इति भावः ।

भगवच्-छब्द-नयाद् इति ।

“उत्पत्तिं प्रलयं चैव
भूतानाम् आगतिं गतिम् ।
वेत्ति विद्याम् अविद्यां च
स वाच्यो भगवान् इति "
(वि.पु.6-7-78)

इत्य्-आद्य्-अलौकिकार्थ-साक्षात्कर्तृत्वं
प्रयोगाविषयेषु समाधि-निष्ठ-केशिध्वजादिषु गतत्वाद्
उपचार-द्वारम् एव
न तु प्रवृत्ति-निमित्तम्
इति निर्णीतम्
इति भावः ।

अन्यथा गौणवृत्तिर् लुप्येत ।

नृसिंहराजीया

ननु प्रयोग-बलात् प्रकृत्यादौ नाना-शक्ति-कल्पनम् अभ्युपगम्यतां
गौरवं चाकिञ्चित्करम्

इत्य् अत्राह - अन्यथेति ।
अन्यथासिद्ध-प्रयोग-बलाद् अपि शक्ति-कल्पन?? इत्यर्थः ।

श्रुत्यादि

“यत् साक्षाद् अपरोक्षाद् ब्रह्मेति” (बृह-3)

विशेषणं चान्यत्रामुख्यतां व्यनक्ति,

नृसिंहराजीया

श्रुतिर् अपि ब्रह्म-शब्दस्यान्यत्रामुख्यताम् आह - यत् साक्षाद् इति ।
अपरोक्षं वस्तु यत्
तत् साक्षात् मुख्यतया ब्रह्म-शब्द-वाच्यम्
इत्यर्थः ।

साक्षाद् अपत्यम् इत्यादौ साक्षाच्-छब्दस्य मुख्यार्थत्व-दर्शनाद् इति भावः ।

“तस्मिन्न् एव ब्रह्मशब्दो
मुख्यवृत्तो महामुने” (गारूडे)

इति च स्मर्यते ।

नृसिंहराजीया

“यत् साक्षात् तु परं ब्रह्म
विशन्ति ब्रह्मवादिनः”

इति स्मृतिर् अप्य् अन्यत्र मुख्यतां व्यनक्तीत्य् आह तस्मिन्न् एवेति ।

द्वे ब्रह्मणी

“द्वे ब्रह्मणी वेदितव्ये” (बृ.उ.4-5-1)

इत्यादिकम् अपि,
“त्रीणि तेजांसि न स्पृशेत्”
इत्य्-आदिवन् मुख्यामुख्य-समुच्चयाभिप्रायम् ।

नृसिंहराजीया

नन्व् अत्र मुख्य-वृत्तिर् नास्तीत्य् अनुपपन्नं -
“द्वे ब्रह्मणी वेदितव्ये” इत्यत्र परापरात्मनोः प्रयुक्तस्य ब्रह्म-शब्दस्य
एकत्र मुख्यत्वम् अपरत्रामुख्यत्वम् इत्यस्य
वृत्ति-द्वय-विरोधेनासम्भवाद्
उभयत्र मुख्य-वृत्त्य्-अवश्यम्भावाद्

इत्य् अत्राह द्वे ब्रह्मणी इति ।

“गाम् अग्निं ब्रह्माणं चैव
त्रीणि तेजांसि न स्पृशेत्”

इत्यत्र त्रिष्व् अपि तेजश्-शब्दस्य पवित्रत्व-सामान्याल् लक्षणा ।
तथा ज्ञानानन्दाद्यात्मकतया लक्षणा-वृत्तिर् एकैव नान्यत्र मुख्यतेत्य् अर्थः ।

विचार-विषये न निर्विशेषता

न द्वितीयः; शुद्धोपहित-विकल्पासहत्वात्।

विस्तारः (द्रष्टुं नोद्यम्)

विचार-विषय इति पक्षं दूषयति
न द्वितीय इति ।
शुद्धं = स्वरूपातिरिक्त-प्रवृत्ति-निमित्ताविशिष्टम् ।
उपहितं = स्वरूपातिरिक्त-प्रवृत्ति-निमित्त-विशिष्टम् ।
शुद्ध इत्य् एतद् विवरणं निर्विशेषतयेति । प्रवृत्ति-निमित्ताभावे वाच्यत्वायोगाद् इति भावः ।

न हि निर्विशेषतया ऽभिमते शुद्धे
“बृहति बृंहयतीति” श्रुत्य्-उक्तनिमित्तम् अस्ति ।

अधिष्ठानत्वेन सर्व-विवर्त-मूलतया च
तत् स्याद्

इति चेन् न;

विस्तारः (द्रष्टुं नोद्यम्)

नन्व् अधिष्ठानत्व– सर्व-विवर्त-मूलत्व-रूप– स्वरूपात्मक-प्रवृत्ति-निमित्तवत्त्वाद् वाच्यत्वम्

इति शङ्कते अधिष्ठानत्वेनेति ।
अधिष्ठानत्वं हि भ्रम-धर्मितया सर्व-तादात्म्यम् ।
विवर्त-मूलत्वं हि विवर्तोपादानत्वम् ।
तद् एव बृंहणत्वम् इत्यर्थः ।

तत्र तद् +++(बृहत्त्व-बृंहणत्व→)+++उभयानभ्युपगमात्,

विस्तारः (द्रष्टुं नोद्यम्)

तत्रेति ।
स्वरूपस्य बृहत्त्व-बृंहणत्वात्मकत्वानभ्युपगमाद् इत्यर्थः ।

अन्यथा मुक्ताव् अपि तद्-योगात्
+++(बृंहणात्मक-स्वरूपवतो)+++ मुक्तेर् एव +++(सर्व-निवृत्ति-रूपाया)+++ मुक्तेः ।

विस्तारः (द्रष्टुं नोद्यम्)

अन्यथेति ।
तयोः स्वरूपात्मकत्वात्
स्वरूपस्य मुक्ताव् अनपायात्
तयोश् च सर्वं विनानुपपत्तेः सर्वं स्याद्
इति सर्व-निवृत्ति-रूपा मुक्तिर् न स्याद् इत्यर्थः ।

“उपलक्षणार्थं निर्वचनम्” इति चेन् न,
विशेषणार्थत्वे बाधाभावात्,

“तस्माद् उच्यते परं ब्रह्मेति” प्रवृत्तिनिमित्ततयैव बृहत्त्वादिश्रुतेः, “बृहत्त्वाद् बृंहणत्वाच् च तद् ब्रह्मेत्य् अभिधीयते” (वि.पु.3-3-22) इति स्मृतेश् च; “गोत्वाभिसम्बन्धाद् गौः” (शाबर भाष्यं) इतिवत्।

अस्तु व्यावहारिकं तद्वैशिष्ट्यम्, कथं तर्हि शुद्धे वृत्तिः, तद् अपि तद् द्वारा गम्यते इति चेत्; तर्हि तन् न मुख्यम् ।
उपहितं मुख्यम् इति पक्षस् तु श्रुतिसिद्ध- [[स्वाभाविकर्सावज्ञ्याद्युपहितत्वविवक्षायां|स्वाभाविकसर्वज्ञाद्य्-उपहितत्वविवक्षायां]] स्वमतविरोधाद् अपास्तः ।
स्वाभिमताज्ञानादिदोषोपहितत्वं त्व् अनाक्षम् अलैङ्गम् अश्रौतम् अस्मार्तम् असौत्रं च इति स्थापयिष्यते ।
तत्र च शुद्धे परे ब्रह्मणि निर्दोषभव्यगुणविशिष्टविषय-भगवच्छब्द-मुख्यवृत्ति-निरुक्तिविरोधः, “परं ब्रह्म परं धाम पवित्रं परमं भवान् इति” (भ.गी.20-22) स्तुत्य्-अनुपपत्तिः, पवित्रं परमम् इत्य्-आदि-समभिव्याहार-वैघट्यं च ।
निर्विशेषलक्षणायां तु स्तुतिर् न कथञ्चिद् अपि सम्भवति; गुण्यवच्छिन्नगुणाभिधानरूपत्वात् तस्या इति ।
पूर्वापरादिविसंवादाच् च न कुत्रापि निर्गुणसिद्धिः ।
अपि च अविद्यानिवृत्त्यर्थम् इह ज्ञातव्यम् उपहितं निरुपाधिकं वा, आद्ये तत्त्वावेदक-तटस्थ-स्वरूप-लक्षणादिभिर् अपि तद्ग्रहाद् अविशिष्टब्रह्मणि वृत्त्य्-असिद्ध्या ऽस्मदिष्टसिद्धिस् स्यात् ।
स्याच् चातत्त्वज्ञानाद् एव मोक्षसिद्धिः, तस्य मिथ्यात्वेनैव युष्माभिर् अङ्गीकारात् ।
द्वितीये तु अतद् व्युत्पन्नेन तद् उक्त्य्-अयोग एव ।
तल् लक्षितं तज् जिज्ञास्यते शोध्यते चेति चेत्; तत एव निर्विशेषलक्षकब्रह्मशब्दात् ज्ञातत्व-लक्षितत्व-शोधितत्वसिद्ध्या जिज्ञासाद्य्-अनपेक्षा स्यात् न च जिज्ञासादौ विधिः, अदृष्टार्थत्वाभावात्, येन पिष्टपेषणं सहेम ।
निरुपाधिके ब्रह्मशब्दवृत्तिम् अविदुषः प्रतिबोधनेन सर्वं सार्थम् इति चेत्, किं मुख्याम् अमुख्यां वा, पूर्वत्र प्रस्तुतव्याघातः, सर्वस्योपहितमुख्यवृत्तिविषयबोधनोपक्षीणत्वात्, अनुपहिते हि लक्षणाम् एव वदसि, अभिधानाङ्गीकारे वा किं सार्वज्ञादिविशिष्टपरब्रह्माभिधानप्रद्वेषेण? उत्तरत्र अधीहीत्य्-आदिवैघट्यम्, ब्रह्मशब्दस्य मुख्यार्थम् अधीहीत्य् उक्ते लक्ष्यार्थलक्षणोपदेशस्यासङ्गतेः ।

लक्ष्यार्थम् अधीहीति तु निरुत्थानम्, कारणाभावात्, मुख्यार्थबाधादिनिश्चयपूर्वकत्वाद् अमुख्यवृत्तिविज्ञप्तेः तन् निश्चयस्य चात्र ततः प्राग् असिद्धेः, तद् सिद्धौ वा निर्विशेषावगमे किं प्रश्नेन प्रत्युक्त्या वा ।

मुख्यार्थबाधो निश्चितः, लक्ष्यार्थविशेषश् च न विदितः ।
अस्मिन् अवसरे प्रश्नाद्यस् तु माभूत् ।
किं प्रत्यक्षेण बाधः किं वा ऽनुमानेन अथ तर्केण अथवा तादृशेनागमेन? ।
नाद्यः, अतीन्द्रिये प्रत्यक्षबाधायोगात् ।
न द्वितीयतृतीयौ ।
अनुमानस्य तर्कमात्रस्य च नित्यागमैः स्पर्धितुम् अशक्तेः ।
न चतुर्थः, न बृहति न बृंहयति इति च वाक्यान्तराभावात् ।
निर्गुणादिवाक्यैस् तत्सिद्धिर् इति चेत् तथाऽपि निर्मूलः प्रश्नः, तैर् एव बुभुत्सितबोधात् ।
न च तैर् अपि तत्सिद्धिर् न्याय्या, अविरुद्धविषयसिद्ध्या तेषाम् अप्य् अन्यपर्यस्य वक्ष्यमाणत्वात् (वा-52) ।
आपातविदितार्थश्रुतिविप्रतिपत्त्या सन्दिहानः कीदृग् भूतं ब्रह्मशब्दविवक्षितम् इति पृच्छतीति चेत्, नैवम्, तटस्थस्वरूपलक्षणाभ्याम् अपि कारणत्ववैलक्षण्यविषयाभ्यां सन्देहस्यैव स्थापनप्रसङ्गात् ।
न च निर्विशेषं सविशेषं वेति विमृशतो जगत्कारणत्वोक्त्या निर्विशेषत्वनिश्चयस् सिध्येत् ।
अपि तु सर्वकारणत्वाद् आक्षिप्तं सर्वज्ञ-सर्वविदादिशब्द-कण्ठोक्तं च सर्वज्ञत्वादिकं बृहत्त्वम् एव निर्धार्येत ।

नन्व् अविदित-मुख्य-लक्षक-विभागः शिष्यो मुमुक्षुभिर् जिज्ञास्यं ब्रह्मेति सामान्यत उपश्रुत्य तल् लक्षणं पृच्छति ।
आचार्यस् तु कृत्स्नविद् ब्रह्मशब्दलक्ष्य-निर्विशेष-वस्तु-लक्षणम् उपदिशतु ।
तद् अपि न, मुमुक्षुभिर् जिज्ञास्यं निर्विशेषम् इत्यस्यैव निर्मूलत्वात्, प्रत्युत “तम् एवं विद्वान् इति” (तै.आ.3.पुरुष सूक्तं) इत्यादिभिर् विभूति-गुण-विग्रह-व्यापार-विशिष्ट-महापुरुष-वेदनस्यैव अमृतत्व-प्राप्त्य्-उपायत्व-श्रवणाद् अबाधाच् च ।
अतो यथाश्रुत एव ब्रह्म शब्दार्थः ।
निर्वक्ति च यास्कः - “ब्रह्म परिबृढं सर्वतः” (यास्कनिरुक्तिः) इति इदं सर्वम् अभिप्रेत्याभाष्यत -

ब्रह्मशब्देन च स्वभावतो निरस्तनिखिलदोषो ऽनवधिकातिशयासङ्ख्येयकल्याणगुणगणः पुरुषोत्तमो ऽभिधीयते (श्री.भा.जि) इति ।

अभिधीयते - मुख्यया वृत्त्या बोध्यते ।
अनेवं नामकम् अनेवं विधं च किम् अपि ब्रह्मेति वदतां सर्वेषाम् अप्य् अत्र निरासो भाव्यः ।
विशेषणद्वयेन च ब्रह्म-पुरुषोत्तमशब्दयोः निरुक्तिर् अपि व्यज्यते ॥
इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां ब्रह्मशब्द-वृत्त्य्-अनुपपत्ति-वादः प्रथमः ॥1॥

नृसिंहराजीया

ननु गवयत्व-प्रवृत्ति-निमित्तक-गवय-शब्द-वाच्योपलक्षक-सादृश्य-प्रतिपादक-गो-सदृशो गवय इति वाक्यवद् ब्रह्म-शब्द-वाच्योपलक्षक-धर्म-प्रदर्शनार्थम् इदं न तु प्रवृत्ति-निमित्त-प्रतिपादनार्थम् इति शङ्कते उपलक्षणार्थम् इति । प्रवृत्ति-निमित्ततयैव श्रुतत्वम् उपपादयति गोत्वाभिसम्बधाद् इति । गोत्व-सम्बन्धस्य निमित्तत्व-प्रतीतेर् इति भावः ।

अस्तु व्यावहारिकम् इति । तथा चाविद्या-निवृत्या निवृत्तेर् न मोक्षानुपपत्तिर् इति भावः । कथं तर्हीति । व्यावहारिक-तद्-विषस्योपहितत्वाद् इति भावः । ननु विशिष्टोपस्थिति-द्वारा शुद्धोपस्थितेर् भावाच् शुद्धस्यापि शक्ति-विषयत्वम् इति शङ्कते तद् अपीति । तर्हि मुख्योपस्थिति-द्वारा तीरोपस्थापक-गङ्गा-पदस्येव लक्षणैव न मुख्यत्वम् इत्य् आह तर्हीति । द्वितीयं पक्षं दूषयति उपहितम् इति । किं तत्रोपाधिः सत्यम् उत मिथ्या वेति विकल्प्य आद्ये दोषम् आह । श्रुतीति । अद्वैत-हानेर् इति भावः । द्वितीयं दूषयति स्वाभिमतेति । उपहिते तादृश-प्रमाणाभावाद् इति भावः । दोषान्तरम् आह तत्र चेति । ब्रह्म-शब्द-मुख्यार्थो न दोषोपहितः “शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते” (वि.पु.6-7-72) इति ब्रह्म-शब्द-वाच्यं शुद्धम् अनूद्य “मैत्रेय भगवच्-छब्दः सर्व-कारण-कारणे । सम्भर्तेति तथा भर्ता भकारो ऽर्थ-द्वयान्वितः । नेता गमयिता स्रष्टा गकारो ऽर्थ-त्रयान्वितः” (वि.पु.6-7-72-14 खं) इत्यादिना तत्र निर्दोषत्व-पुरस्कारेण भगवच्-छब्द-निर्वचन-विरोधात् । न च ब्रह्म-पद-लक्ष्ये तन्-निर्वचनं गुण-विशिष्ट-विषय-निर्वचनस्य भगवच्-छब्दस्य निर्विशेषे मुख्यत्वायोगाच् चेति भावः । परं ब्रह्मेति । “परं ब्रह्म परं धाम पवित्रं परमं भवान्” (श्री.भग.गी.2.22) इत्यत्र ब्रह्म-शब्दस्याज्ञानादि-दोष-विशिष्टाभिधायकत्वात् तद्-विशिष्टतयाभिधानस्य निन्दा-रूपतया न स्तुतित्वम् इत्यर्थः । पवित्रम् इति । दोषोपहितस्यापवित्रत्वाद् इति भावः । ननु परं ब्रह्मेत्य् अत्र ब्रह्म-पदेन शुद्धं लक्ष्यते । तत्र स्तुतिर् अस्त्व् इत्य् अत्राह निर्विशेषेति । तत्र हेतुम् आह गुण्य्-अवच्छिन्नेति । निर्विशेषे गुण-विशिष्टता-बोधासम्भवाद् इति भावः । ननु निर्दोषत्वेन स्तुतिर् अस्तु सा निर्विशेषे ऽपि सम्भवतीत्य् अत्राह पूर्वापरेति । प्रकरणस्य गीतागतस्य सविशेष-विषयतया निर्विशेष-सिद्धि-विरहाद् ब्रह्म-शब्देन तल् लक्षयित्वा तत्-स्तुतिर् इत्य् अनुपपन्नम् इति भावः । इयता ग्रन्थेन लक्षकत्वाभिमत-शब्द-स्वभाव-पर्यालोचनया निर्विशेष-लक्षणा निरस्ता । इदानीं लक्ष्यत्वाभिमत-जिज्ञास्य-स्वरूप-पर्यालोचनयापि लक्षणां निराकरोति अपि चेति । तत्त्वावेदकेति । तत्त्वावेदकतया त्वद्-अभिमतैः “सत्यं ज्ञानम् अनन्तं ब्रह्म” (तै आ 7) “यतो वा इमानि भूतानि जायन्ते” (तै आ 1 7) इत्यादि-तटस्थ-लक्षणादि-वाक्यैर् अप्य् उपहित-प्रतीतेर् एवापेक्षितत्वेन निर्विशेषस्याजिज्ञास्यतया तत्-प्रतिपत्त्य्-अर्थं ब्रह्म-शब्दस्य तल्-लक्षणा न वाच्या इति भावः । स्याच् चेति । तत्त्व-ज्ञानस्यानपेक्षितत्वाद् वेदान्त-जन्य-ज्ञानाद् अपि न मुक्तिस् स्याद् इति शास्त्र-वैयर्थ्यम् इति भावः । तस्य उपहित-गत-विशेषणस्य । द्वितीये त्व् इति । निरूपाधिक इत्य् अर्थः । अतद्-व्युत्पन्नेति । अनुपहिते व्युत्पत्त्य्-अभावाद् अव्युत्पन्नेन ब्रह्म-शब्देन तद्-बोधो न सम्भवतीति भावः । ननु शुद्धे व्युत्पत्त्य्-अभावे ऽपि विशिष्टे व्युत्पन्नेन ब्रह्म-शब्देन शुद्धं लक्ष्यत इति तत्र सर्वम् उपपद्यत इति शङ्कते तल्-लक्षितम् इति । “अथातो ब्रह्मजिज्ञासा” (ब्र सू 1-1-1) इति ज्ञातव्यत्वेन प्रतिज्ञायते । “जन्माद्यस्य यतः” (ब्र.सू 1-1-2) इत्यादि-लक्षण-वाक्येन लक्ष्यते । उत्तर-सूत्र-गणैश् च शोध्यत इत्यर्थः । तत एवेति । पदार्थ-प्रतिपत्ति-समये ब्रह्म-पदेनैव निर्णेतव्यस्य निर्विशेषस्य प्रतिज्ञा-लक्षण-परीक्षा-फलं सिद्धत्वात् तेषां वैयर्थ्यम् इत्यर्थः । ननु विलीनस्यापि घृतस्याज्यं विलाप्येति विधि-बलाद् विलापने प्रवृत्तिर् दृश्यत इति सिद्धे ऽपि फले प्रतिज्ञादौ प्रवृत्तिस् सम्भवतीत्य् आशङ्क्य निराकरोति न चेति । त्वयापि श्रवणादेर् दृष्ट-द्वारत्वम् उच्यते न तु केवलादृष्टार्थत्वम् इति भावः । येनेति । अदृष्टार्थत्वेनेत्य् अर्थः । सहेमेति । चक्षिज्ञो ज्ञित्-करणात् ज्ञापितं परस्मैपदम् । “आधृषाद् वेति” विकल्पित-णिचः परस्मैपदिनः सहेर् वा रूपम् । निरूपाधिक इति । प्रतिज्ञा-लक्षण-विचारास् सर्वे ऽपि निर्विशेषे वृत्ति-ज्ञानार्थम् इति न वैयर्थ्यम् इति भावः । पूर्वत्रेति । मुख्य-वृत्तेर् निर्विशेषे सम्भवाभावाद् उपहित-विषयं सर्व-शास्त्रं स्याद् इति निरूपाधिके वृत्ति-बोधनेन शास्त्रं सार्थकम् इत्य् एतद् व्याहतम् इत्यर्थः । ननूपहित-मुख्य-वृत्तिर् अस्त्व् इत्य् आशङ्क्यापसिद्धान्त-दोषम् आह अनुपहितेति । अभिधानाङ्गीकारे वेति । निर्विशेषस्य प्रवृत्ति-निमित्ताभावाच् छक्यत्वायोगात् विशिष्टस्य शक्यत्वे वाच्ये सार्वज्ञादि-विशिष्टम् एव शक्यं स्याद् इति भावः । उत्तरत्रेति । अन्यां वेति । विकल्प-कोटाव् इत्यर्थः । वैघट्यम् उपपादयति ब्रह्म-शब्दस्येति । घटं वदेत्यादौ सर्वत्र बाधकाभावे मुख्यार्थं वदेति प्रतीतेः “अधीहि भगवो ब्रह्म” (तै-भृः1) इत्य् अत्रापि ब्रह्म-शब्द-मुख्यार्थम् अधीहीत्य् औत्सर्गिक-प्रतीतिर् इत्य् अपृष्ट-प्रत्युक्त्य्-अयोग इत्यर्थः । ननु तत्र लक्ष्यार्थ-प्रश्न एवेति चेत् तत्राह लक्ष्यार्थम् अधीहीति । कारणाभावम् उपपादयति मुख्यार्थेति । इदं पदम् अत्र मुख्य-वृत्तम् इति निश्चयो लक्षणा-वृत्तिः कुत्रेति विशेष-प्रश्नस्य कारणं तत्र मुख्यार्थ-बाधादि-निश्चयो हेतुः । तद्-अभावात् तद्-अभाव इत्यर्थः । तत इति । उपदेशाद् इत्यर्थः । तत्-सिद्धाव् इति । उपदेशात् प्राग् इति शेषः । निर्विशेषावगम इति । जात इति शेषः ।

मुख्यार्थ-बाध इति । मुख्यार्थस्य बृहत्व (ब्रह्मत्व)-विशिष्टस्य मिथ्यात्वेन मुमुक्षु-वेद्यत्वस्याभावो निश्चित इति लक्ष्यार्थ-परत्वस्य सामान्यतो ऽवगमात् तद्-विशेष-प्रश्न उपपन्न इति भावः । परिहरति मा भूद् इति । मिथ्यात्वे प्रमाणाभावेन मुख्यार्थस्य मुमुक्षु-वेद्यत्वं न बाधितम् इति भावः । तथापीति । निर्गुणादि-वाक्यैर् एव निर्विशेषस्यैव सिद्धेः प्रश्नानुपपत्तिर् इति भावः । ननु यथाकथञ्चिन् निर्विशेष-सिद्धिर् अस्त्व् इत्य् अत्राह न च तैर् अपीति । छाग-पशु-न्याय-पवदाहवनीय-न्यायादिभिर् हेय-गुणाभाव-रूप-विषय-सिद्धेर् इति भावः । ननु निर्विशेष-निश्चयो नास्त्य् एव । सविशेष-निर्विशेष-श्रुति-द्वय-श्रवणेन सविशेषं निर्विशेषं वेति सन्दिहानस्य प्रश्न इति शङ्कते आपातेति । “यतो वे” (तै-भृ.1) त्यादि तटस्थ “सत्यं ज्ञान” (तै आनं 2) मित्यादि स्वरूप-लक्षण-वाक्याभ्यां कारणत्व-रूप-सविशेष-वैलक्षण्यात्मकानृतादि-व्यावृत्ति-रूप-निर्विशेष-विषयाभ्यां पूर्ववद् एव सन्देहस् स्याद् इत्याह नैवम् इति । वस्तुतः सत्यादि-वाक्यस्यापि विशिष्ट-परत्वम् एवेति निर्विशेष-सन्देह एव दुर्लभ इति बोध्यम् । किञ्च यदि निर्विशेषं ब्रह्म मुमुक्षु-वेद्यम् उपदेश्यं स्यात् तदा जगत्-कारणत्व-रूप-लक्षणोपदेशम् आचार्यो ऽनुन्मतः किम् अर्थम् उपदिशेद् इत्याह न चेति । सर्व-कारणत्वाक्षिप्तं कर्तृत्वाक्षिप्तम् इत्यर्थः । सर्वज्ञस् सर्वविद् आदीति । “यस् सर्वज्ञस् सर्ववित्” (मुं 2-2-1) “यस्य ज्ञानमयं तपः” (मु.2-2-9) इत्य् आद्य् उक्तम् इत्यर्थः । ज्ञानादीनाम् अपि गुणतो ऽपि बृहत्वे ऽन्तर्भावाद् बृहत्वम् एवेत्याद्य् उत्किः ।

नन्व् इति । पूर्वं वाक्य-द्वय-श्रवण-जनित-सन्देह-मूलक-प्रश्नः आशङ्क्य परिहृतः । इदानीं सामान्यत एव प्रश्न इति भेदः । यद्यप्य् अनुपहितस्य मुमुक्षु-जिज्ञास्यत्वे पूर्व-दूषणम् अस्त्य् एव तथाप्य् अनुपहितस्य जिज्ञास्यत्वं दूर इति न तत्र लक्षणा-वृत्तिर् इत्याह तद् अपि नेति । आदि-शब्देन “तम् एव विदित्वा” (श्वे 3-8) त्यादि विवक्षितं “तमसस् तु पारे” “सर्वाणि रूपाणि” (पु.सू.तै आ.3) इत्यादिभिर् विभूतिः “महान्तं” (क.2.22) इत्यादिभिर् गुणः “आदित्य-वर्णं” (पु.सू.तै आ.3) इति विग्रहः “विचित्य कृत्वा” इति व्यापारः प्रतिपाद्यते । इह च तम् एवम् इति तच्-छब्दैवं-शब्दाभ्यां प्रस्तुत-विभूत्यादि-गुण-विशिष्टस्य परामर्शाद् इति भावः । महापुरुषेति । “पुरुषं महान्तं” (पु.सू.तै आ) इति वाक्यार्थः उक्तः । एवं जिज्ञास्य-पर्यालोचनयापि न निर्विशेषे ब्रह्म-शब्द-लक्षणेति भावः । यतो ऽपलक्षकत्वाभिमत-ब्रह्म-शब्द-लक्ष्यत्वाभिमत-जिज्ञास्य-ब्रह्म-स्वरूप-पर्यालोचनया निर्विशेषे वृत्ति-निरासः । अतः श्रौत-बृहत्वादि-विशिष्ट एव विचार्य-ब्रह्म-शब्दस्य वृत्तिर् इत्याह अत इति । सर्वतः सर्वस्मात् निरवधिक-बृहद् इत्यर्थः । ननु यास्क-निरुक्तौ बृहत्वम् एव ब्रह्म-शब्द-प्रवृत्ति-निमित्तम् इति गम्यते । श्रौत-निरुक्तौ तु बृहत्वम् इव बृंहणत्वम् अपीति कथम् इदम् उपपद्यत इति चेत् बृंहणत्वस्यापि गुणतो बृहत्वान्तर्भावान् न विरोधः । श्रुतौ पृथग् उक्तिः बृंहणत्वम् अपि बृहत्वे ऽन्तर्भूतम् इति ज्ञापयितुम् इति द्रष्टव्यम् । एतद्-वाद-मूलभूत-भाष्यम् आह इदं सर्वम् अभिप्रेत्येति । नन्व् अन्यत्रापि प्रयोग-दर्शनात् कथं पुरुषोत्तम एवेत्य् अवधारणम् इत्य् अत्राह मुख्ययेति । “यस्मिन् प्रयुज्यमाने तु गुण-योगस् सुपुष्कलः तत्रैव मुख्य-वृत्तो ऽयम् अन्यत्र ह्य् उपचारतः” (गारुडे) इति न्यायेन निरतिशय-बृहत्वादेः पुरुषोत्तमाद् अन्यत्राभावेन गुण-पौष्कल्य-विरहान् न मुख्यत्वम् इति भावः । अनेवं-नामकं पुरुषोत्तमादि-नाम-रहितम् अनेवं-विधं बृहत्व-बृम्हणत्ववत् स्वभावतो निरस्त-निखिल-दोष इत्याद्य् उक्त-विधं च । शिव-विरिञ्चादि-निरासस् तु ब्रह्म-शब्द-प्रवृत्ति-निमित्ततया निरस्त-निर्दोष-निखिल-कल्याण-गुणाकरत्व-रूप-बृहत्व-बृंहणत्वाभावात् । तद्-अभावश् च यौगिक-पुरुषोत्तम-नामकत्वाभावेनावरतया सदोष-परिमित-गुणवत्त्वाद् इत्याह विशेषण-द्वयेन चेति । निरस्त-निखिल-दोषत्वं निरतिशयासङ्ख्येय-कल्याण-गुणवत्त्वं च विशेषण-द्वयम् । निरुक्तिः तत्-प्रवृत्ति-निमित्तकत्वोक्तिः । ननु पुरुषोत्तम-शब्दो न यौगिकः समासानुपपत्तेः । तथाहि न तावत् कर्मधारयः सन्-महद् इत्यादिना (अष्टा-2-2-3) उत्तम-शब्दस्य पूर्व-निपातापत्तेः । नापि षष्ठी-समासः । पुरुषाणाम् उत्तम इति न निर्धारण (अष्टा-2-2-3) इति निषेधात् । नापि सप्तमी-समासः षष्ठी-समास-निषेध-सामर्थ्याद् एव । अन्यथा अर्थ-रूपयोर् अविशेषेण द्विधा शब्दस्यावश्यकत्वेन निषेध-वैयर्थ्यात् । तत्-फलं हि समस्त-रूपाभावः नापि पञ्चमी-समासः “पञ्चमी भयेन” (अष्टा-2-1-37) “भय-भीत-भीभिर् इति” (अष्टा-2-1-3) नियत-विषयत्वात् । अत एव “रुढ्या तु कामं पुरुषोत्तमो ऽस्त्व् इत्य् उक्तम्” इति चेद् उच्यते । कर्मधारय एवास्तु । न चैवं पूर्व-निपात-प्रसङ्गः प्रशंसार्थ-विवक्षायां परत्वेन “प्रशंसा-वचनैश् चेति” (अष्टा-2-1-66) समास-सम्भवात् । वृत्तौ मतल्लिकाद्य्-उपादानस्य रुढि-परिग्रहार्थत्वात् । “प्रवेकानुत्तमोत्तमा” (अष्टा-2-2-3) इति प्रशंसायां रुढत्वात् । अस्तु वा निर्धारणार्थे सप्तमी-समासः । न च सामर्थ्यात् तस्यापि निषेधः अर्थ-रूप-भेदाभावे ऽपि तत्पुरुषे “तुल्यार्थ-तृतीया-सप्तम्य्-उपमानाव्यय-द्वितीया-कृत्या” इति पूर्व-पद-प्रकृति-स्वर-भेदस्य सत्त्वात् । षष्ठी-समासे तु समासा इत्य् अन्तोदात्तत्वम् । अत एव नगोत्तमो नागोत्तमः, अथ मुक्तिं पुरुषोत्तमाद् इत्यादीनाम् उपपत्तिः । अस्तु वा “यस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि चोत्तमः” (श्री भ.गी 24-27) इति निरुक्त्य्-अनुसारात् पञ्चमी-समासः । न च “पञ्चमी भयेन” (अष्टाध्यायी 2-1-3) इति परिगणन-विरोधः “तपरस् तत्कालस्य” (अष्टाध्यायी 1-1-70) इत्यत्रः ताद् अपि परः तपरः पञ्चमी इति योग-विभागात् समास इति शाब्द-वचनैस् समास-सिद्धेः ।

वत्सकुल-जलधि-कौस्तुभ-नृसिंह-गुरु-सुतेन सिंहदेवेन कृतायां शतदूषणी-टीकायां प्रथमो वादस् समाप्तः ।