०० मङ्गलम्

नृसिंहराजीया

श्रीः । नृसिंहराजीयटीका । श्रीहयवदनपरब्रह्मणे नमः । श्रियै नमः ॥। शुभमस्तु ॥

श्रियै सततमस्तु मे भुजगराजशैलाधिपः
श्रियं वहति वक्षसा श्रितजनैक-रक्षाकरः।
दया-सह-चरस् सदा विहित-वाजि-वक्त्राकृतिः
जगज्-जनन-रक्षण-क्षपण-केलि-दीक्षा-गुरुः ॥

ऋषीणां सप्तानां सुकृत-परिपाकेन महता
समाविर्भूतो यो महति घटिका-शैल-शिखरे ।
महाचार्याद्यार्यैर् अमरगुरु-कल्पैर् अधिगतः ।
स नः श्रेयो देयाद् अमृत-फल-वल्ली-सहचरः ॥

विश्वास-प्रस्तुतिः

समाहारस् साम्नां, प्रतिपदम् ऋचां, धाम यजुषां
लयः प्रत्यूहानां, लहरि-विततिर् बोध-जलधेः ।
कथा-दर्प-क्षुभ्यत्–कलि-कथक–कोलाहल-भवं
हरत्व् अन्तर्-ध्वान्तं हय-वदन-हेषा–हल-हलः ॥1॥

नृसिंहराजीया

प्रारिप्सितस्य ग्रन्थस्याविघ्न-परिसमाप्ति-प्रचय-गमनाय शिष्टाचार-प्राप्तम् इष्टदेवता-प्रार्थनात्मकं मङ्गलं शिष्य-शिक्षायै निबध्नाति समाहार इति । हयवदन-हेषा-हलहलोर् अन्तर्ध्वातं हरत्व् इति सम्बन्धः । अज्ञान-रूप-स्वान्त-ध्वान्तस्य हरणं प्रमा-करणत्वे सत्य् एव भवतीति प्रमा-करणत्वम् आह साम्नां समाहार इत्यादिना । ऋचां प्रतिपदं प्रतिनिधिर् इत्थः । यजुषां यजुषां धाम स्थानम् । ननु प्रमाणस्याप्यज्ञान-निवर्तकत्वं ज्ञान-द्वारेति वक्तव्यम् । ज्ञानं च प्रतिबन्धान् न सम्भवतीत्य् अत्राह लयः प्रत्यूहानाम् इति । नन्व् एवम् अप्य् अज्ञानस्य निवृत्तिस् सम्भवति चेत् विस्मरणे सति पुनः प्रसङ्ग इत्य् अत्राह लहरि-विततिर् बोध-जलधेर् इति । उत्तरोत्तर-ज्ञान-सन्तानकर इत्यर्थः । अज्ञान-कारणम् आह कथेति । वादेषु क्षुभ्यन्तः उध्दताः । कलि-कथकाः कलिकाल-विद्वांसः । केवलं नास्तिका इति यावत् ॥

मूलम्

समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः ।
कथादर्पक्षुभ्यत्कलिकथककोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ॥1॥

विश्वास-टिप्पनी

इदम्-प्रथम-सम्भवत्-कुमति-जाल-कूलङ्-कषा–
मृषा-मत-विषानल-ज्वलित-जीव-जीवातवः ।
क्षरन्त्य् अमृतम् अक्षरं यति-पुरन्दरस्योक्तयश्
चिरन्तन-सरस्वती-चिकुर-बन्ध-सैरन्ध्रिकाः ॥ +++(५)+++

नृसिंहराजीया

ननु पूर्वतन-कलि-कथक-कोलाहलस्य निरासे ऽपि
भावि-कलि-कथक-कोलाहलाद् अन्तर्ध्वात-सम्भवे
स्वकृति-वैयर्थ्यम्

इत्य् आशङ्क्याह इदं प्रथमेति । यतिपुरन्दरोक्तीनाम् एवात्र ग्रन्थे सन्निवेशात् ताभिः प्रसाधित-वेदान्तैर् एव तन्-निरास इति भावः ।

मूलम्

इदम्प्रथमसम्भवत्कुमतिजालकूलङ्कषा मृषामतविषानलज्वलितजीवजीवातवः ।
क्षरन्त्यमृतमक्षरं यतिपुरन्दरस्योक्तयश्चिरन्तनसरस्वतीचिकुरबन्धसैरन्ध्रिकाः ॥

विश्वास-प्रस्तुतिः

प्राचीम् उपेत्य पदवीं यति-राज-दृष्टां
तत्-सन्निकृष्टम् अपि वा मतम् आश्रयन्तः । प्राज्ञा! यथोदितम् इदं शुकवत् पठन्तः,
प्रच्छन्न-बौद्ध-विजये परितो यतध्वम् ॥3॥ +++(४)+++

नृसिंहराजीया

चिकीर्षितस्य ग्रन्थस्य प्रयोजनं दर्शयति प्राचीम् इति ।
एतद्-ग्रन्थाध्येतृणां परमत-निरसनं सुकरम् इत्य् आह वादाहवेष्व् इति । तत्र शतदूषण्याख्ये ग्रन्थे, तावत् प्रथम-वादे निरस्यत इति सम्बध्यते । शास्त्रारम्भ इत्य् एतद् असूत्रयद् इत्यनेन ।

मूलम्

प्राचीमुपेत्य पदवीं यतिराजदृष्टां तत्सन्निकृष्टमपि वा मतमाश्रयन्तः ।
प्राज्ञा यथोदितमिदं शुकवत्पठन्तः प्रच्छन्नबौद्धविजये परितो यतध्वम् ॥3॥

विश्वास-प्रस्तुतिः

वादाहवेषु निर्भेत्तुं
वेद-मार्ग-विदूषकान्
प्रयुज्यतां शर-श्रेणी
निशिता शत-दूषणी ॥4॥

मूलम्

वादाहवेषु निर्भेत्तुं वेदमार्गविदूषकान् ।
प्रयुज्यतां शरश्रेणी निशिता शतदूषणी ॥4॥