+सर्व-प्रस्तुतिः

विश्वास-टिप्पनी

रजस्य-विषया अलेख्या मता अपि,
तदा प्रवचन-धारायां विमताविर्भावम् अभिलक्ष्य लिलेखेमाम्।

इयं देशिकस्यान्तिमप्राया कृतिः - कृतेर् अन्ते स्वजीवन-वर्णने तथेङ्गितम् -

शेषायुष्य् अपि शेषि-दम्पति-दया-दीक्षाम्+++(=प्रतिज्ञाम्)+++ उदीक्षामहे ।

किञ्च, प्रगत-शिष्येषूत्पन्नान् संशयान् अवलोक्य
ततः परं विरोधिपरिहाराख्यं रहस्यग्रन्थम् अपरम् अप्य् अरचयत्।
चिल्लरे-रहस्य-ग्रन्थेष्व् अत्रानुक्ताः केचन विषया वर्तन्तय् इत्य् अध्येयाः।

अत्र श्रुतिर् नोदाहृतैव मूले -
सम्प्रदाये प्रविष्टानां स्त्री-शूद्राणाम् अप्य् अधिकारोऽत्रास्तीत्य् अतः।
किञ्च सारबोधिनी-व्याख्याने श्रुतय उदाहृताः (मूले तत्र तत्र “आदि”-शब्देन सूचिता इति)।

मार्जनीया दोषाः (TODO)

ऩकारस्य नकारो वर्तते मूले बहुत्र १-९ अधिकारेषु।
एवं सारबोधिन्याम् ५-९ अधिकारेषु।

स्पानीयो ऽनुवादो बहुत्र न कृतः - यन्त्रसहकृतेन भाषाभिज्ञेन कार्यम्।
हिन्द्य्-अनुवादोऽप्य् अपेक्षितः।

राजगोपालानुवादे क्वचिद् विपरीतार्थाः प्रतिपादिता अस्माभिर् मार्जिताः - तत्र तत्र मार्जनरेखा स्थापिता।

English

Translated into English with Introduction and Notes by M. R. Rajagopala Ayyaṅgār, M. A. (Formerly of the Madras Educational Service)
Published by: Agnihothram Rāmanuja Thathachariar,
Kumbakonam.

Archive link.

४२तमाहोबिल-यतिः - गुरुवन्दनम्

॥ श्रीः ॥
श्रीमते हयग्रीवाय नमः ॥
श्रीमते लक्ष्मीनृसिंहपरब्रह्मणे नमः ॥
श्रीमते प्रणतार्तिहरवरदपरब्रह्मणे नमः ॥

श्रीमल्-लक्ष्मी-नृसिंहे कटुतर-निनद-त्रस्त-विश्वाण्ड उग्रे
वीरे दैत्येन्द्र-वक्षो-विदलनमुदिते भीषणे विष्णु-सञ्ज्ञे ।
भूयाद् भक्तिः परा मे ज्वलति सकल-वित्-सार्व-भौमे ऽतिभद्रे
पत्यौ सर्वस्य मृत्योर् मृति-कृति विनतानन्द+++(→पक्षे वैनतेयो मालोलविग्रहमूलस्थः)+++-कन्दे मुकुन्दे ॥१॥

वन्दे नृसिंह-जायाम्
अनादि-मायाम् अपोहितुं हेयाम् +++(→मायाम्)+++ ।
सुललित-सुन्दर-कायां
सुरेन्द्र-गेयां सुरर्षिभिर् ध्येयाम् ॥२॥

वन्दे सूत्रवती-नाथं
विष्वक्सेनम् अहर्निशम् ।
यद्-वेत्र-चलनाद् विघ्ना
विद्रवन्ति दिशो दश ॥ ३ ॥

विचित्रां भगवद् भक्तिं
रूपिणीं रस-वाहिनीम् ।
वन्दे वाग्-अ-परिच्छेद्यां
वकुला-भरणाभिधाम् ॥ ४ ॥

नाथ-यामुन-योगीन्द्र-
सूक्तीर् हृदि विभावये
यद्-उपज्ञं यतीन्द्रस्य
ज्ञानं निस्सीम-वैभवम् ॥ ५ ॥

वन्दे यतीन्द्रम् अनिशं
यत्-सूक्त्य्–अ-मृत-वाहिनी ।
संसार-सर्प-सन्दष्ट–
जीव-जीवातुर् अद्भुता ॥ ६ ॥

वेदान्त-सूरि-चरणौ
वन्दिषीय मुहुर्महुः ।
यद्-ध्यान-लेशतस् सार-
शास्त्र-भावो मम स्फुटः ॥ ७ ॥

कालेऽस्मिन् श्री-नृ-सिंहस् स्व-पद-कमल-संसेवन-ध्यान-पूजा-
योग्यान् अन्यान् अ-दृष्ट्वा रघुवर-नयतस् स्वार्चनायाविर् आसीत्
आदि-श्रीवण्-शठ-द्विड्–यति-तनुर् इति यस् सम्यग् उत्प्रेक्षितोऽभूत्
जीयात् सोऽयं नृ-कण्ठी-रव-पद-परिचर्यैक-सन्तुष्ट-चित्तः ॥८॥

स्तुति-पुलकाङ्कित-गात्रं
+++(स्तुति←)+++नृहरेर् बाष्पाम्बुना लसन्-नेत्रम् ।
वन्दे शठ-रिपु-रामा-
वरज-मुनीन्द्रं मदीय-कुल-नाथम् ॥९॥

दान-विनिर्जित-कल्पं+++(→वृक्षं)+++
दयालुम् अनघं दमादि-गुण-पूर्णम् ।
श्री-रङ्ग-नाथ-योगि-
प्रवरम् अहं भावये गुरूत्तंसम् ॥१०॥

वीर-रघ्व्-ईट्-छठा-राति-
योगिराजं भजे ऽनिशम् ।
ज्ञानानुष्ठान-वैराग्य-
वारिधिं मम शेवधिम्+++(=सम्पत्)+++ ॥११॥

यो ऽसाव् आचार्य-भक्तौ मधुर-कविर् इति प्रोच्यते सर्वलोकैः
विष्णोर् भक्तौ तथा यं कथयति जनता कारि+++(←शठारिपिता)+++-सूनोस् समानम् ।
श्रीभाष्यादि-प्रचारे यति-पतिर् इति यं मेनिरे पण्डिताग्र्याः
सो ऽयं जेजीयतां श्री-नर-हरि-शठ-जिद्-योगि-राजो दयालुः ॥१२॥

लक्ष्मी-नृ-हरि-शठ-द्विड्-
यति-पति-चरणौ व्रजामि शरणम् अहम् ।
यत्-परिचरणाद् आत्तो
ब्रह्मानुभवोऽप्य् अहो मयाऽत्रैव ॥१३॥

काञ्चन-कृष्णाभिख्यां
करुणाम् इव रूपिणीं क्षमा-मुख्याम् ।
अपि+++(←अतः)+++ सञ्चरणवतीं मे
प्रपत्तिविद्यां भजे सदा हृद्याम् ॥१४॥

४२तमाहोबिल-यतिः - प्रतिज्ञादि

एवं श्रीनृहरेः पदाम्बु-ज-युगं ध्यात्वा, गुरूणां ततिं
नत्वा, तत्र च वेद-मौलि-गुरु-राट्-पादाम्बु-जे न्यस्त-धीः ।
श्री-रङ्गादि-शठारि-योगि–नृ-पतिर् व्याख्यां रहस्य-त्रयी-
सारस्य +आतनुते गिरा सरलया सारार्थ-सम्बोधिनीम् ॥१५॥

क्वाहं मन्दमतिः क्व चातिगहना वेदान्त-सूरेर् गिरो
जानन्न् एवम् अहं धिया चपलया व्याख्यातुम् इच्छामि ताः ।
क्षन्तव्यं मम साहसं बुधवरैर्, नोपेक्षणीया कृतिस्
त्व् एषा चाढ्य-वरैर् इवाल्प-कणिका कामं गुणैक-स्पृहैः ॥१६॥

व्याख्यान-पञ्चकानुक्तो
कोप्य् अर्थो ऽस्ति यद्य् अपि ।
तथापि क्रियते व्याख्या
वाचां मम विशुद्धये ॥१७॥+++(4)+++

अन्योक्तार्थस्य कथनं
दोषो यद्य् अत्र मन्यते
आद्येतरस्मिन् व्याख्याने
सर्वत्रायं दुर्-उद्धरः ॥१८॥ +++(5)+++

+++(तेषु पञ्चसु)+++ क्वचित् किञ्चिद् विशेषेण
तत्राश्वासो मतस् तव ।
अत्रापि स भवेद् एव
ततस् सार्थो ममोद्यमः ॥१९॥

श्री-नृसिंह-शठाराति-
योगिनो नृहरेर् अपि ।
आज्ञयाऽत्र प्रवृत्तस्य
को वा भारो भवेन् मम ॥२०॥+++(5)+++

लक्ष्मी-नृहरिर् एवैतद्-
व्याख्यां स्वप्रीतये स्वयम् ।
लेखिनी-स्थान-भूतेन
मया लिखति सादरम् ॥२१॥ +++(5)+++

४२तमाहोबिल-यतिः - परिचयः

श्रियःपतियाय्, अखिल-हेयप्रत्यनीक-कल्याणैकतानऩाय्,
परम-कारुणिकऩ् आय्प् पोन्द नारायणऩ्

“सॆऩ्ऱु सॆऩ्ऱागिलुङ् गण्डु
सऩ्मम् कऴिप्पाऩ् ऎण्णि ऒऩ्ऱिय् ऒऩ्ऱिय् उलगम् पडैत्ताऩ्”

ऎऩ्गिऱबडिये

ऒरु कल्बत्तिऱ्कु ऒरु जीवऩ् आवदु
तम्मै उळ्ळ बडि कण्डु
उज्जीविक्कक् कडवऩ् +++(5)+++

ऎऩ्गिऱ ऎण्णत्ताले
अडिक्क् अडि जगत्तै सृष्टि सॆय्दु

‘यो ब्रह्माणं’ ऎऩ्गिऱ बडिये
ब्रह्मावुक्कु अडियिलेये
वेदोपदेशादिगळैप् पण्णियुम्,
पिऩ्बु तत्-तद्-अवसरङ्गळिल्
सनकादिगळैक् कॊण्डु
निवृत्ति-धर्मङ्गळैप् प्रवर्त्तिप्पित्तुम्,
नारायण-गीताचार्य-रूपेण ताऩे वॆळि निऩ्ऱु
ज्ञानोपदेशङ्गळैच् चॆय्दुम्,
इक्-कलि-युगं वन्दवाऱे,
अधिकारि-दौर्लभ्यत्ताले
ताम् प्रवर्त्तिप्पित्त कर्म-ज्ञान-भक्तियोग-प्रतिपादक-शास्त्र-भागङ्गळ् पयऩ् पडामल् पोऩमैयैक्+++(=??)+++ गणिसित्तु
‘द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च’ ऎऩ्गिऱबडि
प्रपत्ति-प्रधानमाऩ श्रीपाञ्चरात्रशास्त्रत्तै प्रवर्तिप्पित्तु,

अदुवुम् विस्तृतमाय् विविध-प्रकारम् आय्प् पोन्ददाल्
अदिलुम् ऋषि-प्रायर्गळ् आऩ महामतिकळुक्कु अऩ्ऱि
मन्द-मतिगळुक्कु प्रयोजनम् इल्लामैयैक् करुदि
तामे “वॆऩ्ऱिप्+++(=??)+++ पुगऴ् तिरु-वेङ्कट-नाथऩ् ऎऩ्ऩुम् गुरुव् आय्त्”
तूप्पुलिल् अवतरित्तु
नाथ-यामुन-यतिवरादिगळाले प्रवर्तितम् आऩ व्यास-सिद्धान्तत्तैप्
पल ग्रन्थङ्गळालुम्, पल-बडिय् आग स्थिर-प्रतिष्ठितम् आक्कि
प्रपत्तियै सपरिकरम् आय् साधिकारम् आय्
मासऱ विळक्कुम् ‘‘श्रीमद्-रहस्य-त्रयसार’’म् ऎऩ्ऩुम् महाप्रबन्धत्तै वॆळिय् इट्ट् अरुळिऩाऩ्।

इदिल् सकल-वेदान्त-सारतमङ्गळ् आऩ रहस्य-त्रयङ्गळिऩ् अर्थम् विशदीकरिक्कप् पडुगैयालुम्,
स्मृतीतिहास-पुराण-पञ्चरात्र-दिव्यसूरि-प्रबन्धादिगळ् प्रमाणङ्गळ् आग उदाहरिक्कप् पडुगैयालुम्,
इदऱ्कु श्रुति-स्मृत्य्-आदि सर्व-सच्-छास्त्रङ्गळोडुम् सेर्त्तिय् उण्डु

मुमुक्षुक्कळाय्, आकिञ्चन्य-धनिकर्गळ् आय्प् पोन्द नमक्कु
सपरिकरम् आऩ भक्तियोगत्तै विशदीकरिक्किऱ सूत्र-भाष्यादिगळिऱ् काट्टिलुम्
सुकरोपायम् आऩ प्रपत्तियिऩ् स्वरूप-परिकराधिकारादिगळै विशदीकरिक्किऱ इप् प्रबन्धमे उपादेयतमम्। +++(5)+++

इदु सरळमाऩ मणि प्रवाळ नडैयिलमैन्दिरुप्पदालुम्,
सत्-सम्प्रदायत्तोडु श्रीभाष्यत्तिल् चिरपरिचयम् पण्णिऩ महाप्राज्ञर्गळुक्कुम् अऱियवरिद् आऩ अर्थङ्गळैप् पॊदिन्दुगॊण्ड् इरुप्पदालुम्
मन्दप्रज्ञरोडु महाप्राज्ञरोडु वासियऱ गुण-ग्राहिकळाऩ सर्वजनङ्गळालुम् कॊण्डाडप्पडुम् ओर् अद्भुत-ग्रन्थरत्नम्।

आगैयालिदै चिरकालम् महाभाग्य-लब्ध-सदाचार्यादि-शुश्रूषैयाले सम्यग्ग्रहणम् पण्णि, बहुधा मननम् पण्णि, बहुधा प्रवचनम् पण्णि कृतार्थऩाऩदु मात्रमऩ्ऱिक्के इत्तोडु व्याख्यातृत्व-रूपसम्बन्धत्तैयुम् पॆऱ्ऱु कृतार्थऩागक् करुदि इदऱ्कु व्याख्यानमॆऴुदुगिऱोम्।
दयतां देशिको मे दयाळुः।