विश्वास-प्रस्तुतिः
वैराग्य-विजित-स्वान्तैः
प्रपत्ति-विजितेश्वरैः ।
+++(शिष्येष्व्)+++ अनुक्रोशैक-विजितैर्
इत्य् उपादेशि देशिकैः ॥ +++(5)+++
नीलमेघः (सं)
वैराग्य-विजित-स्वान्तैः
प्रपत्ति-विजितेश्वरैः ।
+++(शिष्येष्व्)+++ अनुक्रोशैक-विजितैर्
इत्य् उपादेशि देशिकैः ॥ +++(5)+++
English
- This has been taught by ācāryas
who had full control over their minds
as a result of their indifference to worldly objects,
who had won over the Lord by (their) prapatti
and who were overpowered solely by their compassion (to teach it to others).
Español
- Esto ha sido enseñado por ācāryas
que tenían pleno control sobre sus mentes
como resultado de su indiferencia hacia los objetos mundanos,
que había ganado al Señor por (su) prapatti
y quienes fueron dominados únicamente por su compasión (para enseñar a otros).
मूलम्
वैराग्यविजितस्वान्तैः प्रपत्तिविजितेश्वरैः ।
अनुक्रोशैकविजितैरित्युपादेशि देशिकैः ॥
४२तमाहोबिल-यतिः
इन्द कीऴ्च् चॊऩ्ऩ द्वय-व्याख्यानुरूपम् आऩ अर्थङ्गळ् ऎल्लाम्
नम् बुद्धि-चातुर्यत्ताल् सॊल्लप्पट्टवैय्
ऎऩ्ऱु;
सत्सम्प्रदाय-सिद्ध-सदाचार्यर्गळाले उपदेशिक्कप् पॆऱ्ऱवै यॆऩ्गिऱार् वैराग्येति ।
“दृष्टानुश्रविक-विषय-वितृष्णस्य वशीकार-सञ्ज्ञा वैराग्यम्”
ऎऩ्ऱु सॊल्लप् पट्ट वैराग्यत्ताले
चञ्चलमाऩ मऩस्सै जयित्तवर्गळ् आय्,
“तस्य च वशीकरणं तच्-छरणागतिर् एव”
ऎऩ्ऱु सॊल्लप्पट्ट प्रपत्तियिऩाले ईश्वरऩैयुम् जयित्तवर्गळाय्,
दयैयॊऩ्ऱिऩाल् मात्तिरम् जयिक्कप्पट्टवर्गळाय्, अदावदु शिष्यविषयदयापरवशर्गळायुम् उळ्ळ नम्मासार्यर्गळाल् कीऴ्च् चॊल्लप्पट्टबडि द्वयार्थमाऩदु उपदेशिक्कप्पट्टदॆऩ्गै।
विश्वास-प्रस्तुतिः
इदम् अष्ट-पदं व्यासे +++(→“श्रीमन्! नारायण! …”)+++
समासे षट्-पदं विदुः +++(→“श्रीमन्नारायणचरणौ …”)+++।
+++(महा-)+++वाक्यं +++(आख्यातेतर-)+++पञ्च-पदैर् युक्तम्
इत्य् +++(→विदुः)+++ आख्यात-प्रधानकम् +++(←कर्तुर् जीवस्योत्तम-पुरुषय् उक्तत्वात्, प्रपत्ति-प्राधान्यात्)+++॥
नीलमेघः (सं)
इदम् अष्ट-पदं व्यासे +++(→“श्रीमन्! नारायण! …”)+++
समासे षट्-पदं विदुः +++(→“श्रीमन्नारायणचरणौ …”)+++।
+++(महा-)+++वाक्यं पञ्च-+++(आख्यातेतर)+++पदैर् युक्तम्
इत्य् +++(→विदुः)+++ आख्यात-प्रधानकम् +++(←कर्तुर् जीवस्योत्तम-पुरुषय् उक्तत्वात्, प्रपत्ति-प्राधान्यात्)+++॥
विश्वास-टिप्पनी
आखातेतरपञ्च-पदैर् युक्तं, आखातप्रधानकं षट्पदं वाक्यं विदुर् इत्य् उचितम् भाति।
मूलम्
इदमष्टपदं व्यासे समासे षट्पदं विदुः ।
वाक्यं पञ्चपदैर्युक्तमित्याख्यातप्रधानकम् ॥
टीकान्तरम्
(सा.दी) इति च पञ्चपदैर्युक्तम्,
श्रीमन्नारायणचरणौ शरणं, श्रीमते नारायणाय नम इति पञ्चभिः कारकपदैर्युक्तम् ।
आख्यात-प्रधानकम्, आख्यातं “प्रपद्ये” इति क्रियापदम्।
तत्प्रधानं यस्य वाक्यस्य तत् ऎऩ्ऱु इप्पडि अनुसन्धिप्पार्गळॆऩ्गै।
आख्यातप्रधानकं पञ्चपदैर्युक्तं तद् इदं वाक्यं
समासे षट्पदम् इति विदुर्
इति योजना ।
(सा.स्वा) पञ्चपदैः युक्तं वाक्यं “प्रपद्ये” इत्याख्यातप्रधानकम् इत्य् अन्वयः ।
भगवतोऽर्थतः प्राधान्येऽपि
वाक्यार्थवर्णने आख्यातार्थकर्तुः प्रधानतया
इतर-कारिकाणां तत्रैवान्वय इति भावः ।
(सा.प्र) समासे, चरणशब्देन समस्तत्वे -
“प्रपद्ये” आध्यवस्यामीत्युक्ते
कथं प्रपद्येस इत्याकाङ्क्षायां
शरणम् इत्य्-अस्यान्वयात्
कं वेत्याकाङ्क्षायां
श्रीमन्नारायणचरणाव् इत्यन्वयात्
किम्-अर्थम् इत्य्-आकाङ्क्षायां
नारायणाय नम
इति नारायणप्रतिसंबन्धिक-शेषवृत्तये विरोधि-निवृत्तये चेत्य्
अन्वयात्
पञ्चपदयुक्तम् एकं वाक्यम् इत्यर्थः ।
(सा.वि) पञ्चपदैर्युक्तं, स्थूल-योजनायां पञ्च-पदैः सुबन्त-पदैः पञ्चभिर् अन्वितम् ।
आख्यातप्रधानकं, तिङन्त-प्रधानकं वाक्यम्,
व्यासेऽष्टपदम्, समासे षट्पदं विदुरित्यन्वयः ।
(सा.सं) वस्तुतस्त्विदं द्वयं पञ्चपदात्मकमेकं वाक्यम् कुतः ? क्रियापदं प्रति शरण-शब्दस्यापृथग्-भूतत्वेन पृथक्-प्रधान-पदत्वायोगात् -
आख्यात-प्रधानकाः भावना-वाक्यार्थ-वादिनः ।
इति, इति वदन्तीत्यर्थः -
तत्-प्राधान्यम् अनभ्युपगच्छन्तः
षट्-पदम् अष्ट-पदं च वा विदुर् इत्य्-अर्थ-सिद्धम् ।
यदा भावना-प्रधानकम् इदं वाक्यं
तदा क्रिया-पदार्थ-भूतं समर्पणं
तस्यां करणत्वेनान्वेति ।
आनुकूल्यसङ्कल्पादीन्यङ्गानि च तत्-तद्-उपस्थितानीतिकर्तव्यतात्वेन -
उत्तर-खण्डोपस्थापितं च फलं भाव्यतयेति
भावनापेक्षितांश-त्रय-समर्पकतया
“सर्वस्वामियाऩ” इत्यारभ्य “आत्मरक्षाभरसमर्पणं पण्णुगिरेऩ्” इत्यन्तेन
?? इत्युक्तविधया शरणं यथा भवति
तथा प्रपद्ये ।
निरपेक्षरक्षको यथा भवति
तथा आत्मरक्षाभरं समर्पयामीत्येको वाक्यार्थस्स्यात्।
अनभ्युपगच्छतां तु -
हे श्रीमन्-नारायण
तव चरणौ शरणम् उपाय इति प्रपद्ये, जानामि -
श्रीमते नारायणाय स्यां, न मम स्याम्
इत्य् एवार्थे
भावनाया वाक्यार्थत्वाभावात्
शरणम् इत्येकं पदं, प्रपद्य इत्य् अपरम् इत्यभिप्रेत्य,
आख्यात-प्रधानकास्तु वाक्यं द्वयं पञ्चपदैर् युक्तम् इति विदुर्
इत्य् अनुगृहीतम् ।
विश्वास-प्रस्तुतिः (सं॰प॰)
एकं द्वयं त्र्यवयवं सुखलभ्यतुर्यं
व्यक्तार्थपञ्चकमुपात्तषडङ्गयोगम् ।
सप्तार्णवीमहिमवद्विवृताष्टवर्णं
रङ्गे सतामिह रसं नवमं प्रसूते ॥ *
English
- This (mantra) is understood as consisting of eight words (if Śrīman Nārāyaṇa caraṇau should be taken as three separate words ;)
of six words (if that compound word is taken as a single word);
(ie) as a single sentence (endowed) with five (other) words
(besides the focal verb).where the predicate is important.
(With five words: (1) Prapadye; (2) śaraṇam: (3) Srīman Nārāyaṇa caraṇau (4) Śrīmate Nārāyaṇāya; (5) namah according to Sārāsvādinī.)
Español
- Este (mantra) se entiende como que consta de ocho palabras (si “Śrīman Nārāyaṇa caraṇau” debe tomarse como tres palabras separadas;)
de seis palabras (si esa palabra compuesta se toma como una sola palabra);
(es decir) como una sola oración (dotada) con cinco (otras) palabras
(además del verbo focal).
मूलम् (सं॰प॰)
इदमष्टपदं व्यासे समासे षट्पदं विदुः ।
वाक्यं पञ्चपदैर्यक्तमित्याख्यातप्रधानकम् ॥
४२तमाहोबिल-यतिः
कीऴ् श्रीमन् नारायण ऎऩ्बदै सम्बुद्ध्यन्तपदद्वयमाक्कि तव ऎऩ्गिऱ पदत्तै यध्याहरित्तु सॊऩ्ऩ योजऩैयैयुम्, श्रीमन्नारायणचरणौऎऩ्बदै ऒरु समस्तपदमाक्किच् चॊऩ्ऩ योजऩैयैयुम् अनुसरित्तु, इन्द द्वयाख्यमहावाक्यत्तिल् पदङ्गळिऩ् सङ्ख्यैकळैच् चॊल्लि अदिल् षट्पदपक्षत्तिल् कारकपदङ्गळ् ऐन्दॆऩ्ऱुम्,
शरणागतिकर्तावै प्रधानमाग अदावदु - मुख्यविशेष्यमाग बोधिक्कैयाले आख्यातम् प्रधानमॆऩ्ऱुम् शिष्यबुद्धिवैशद्यार्थमाग वरुळिच्चॆय्गिऱार् इदमष्टपदमिति ।
इन्द द्वयरूपवाक्यत्तै श्रीमन् नारायण चरणौ ऎऩ्ऱु मूऩ्ऱु पदमाग विभजित्तुच् चॊल्लुम् पक्षत्तिल् अष्टपदमागवुम्,
श्रीमन्नारायणचरणौ ऎऩ्बदु समस्तपदम् ऎऩ्गिऱ पक्षत्तिल् षट्पदमागवुम् करुदुगिऱार्गळ्।
इदऩाल् इरण्डु पक्षमुम् साम्प्रदायिकमॆऩ्ऱु सॊल्लप्पट्टदु।
इप्-पडिये
श्रीमन्नारायणचरणौ, शरणं, श्रीमते, नारायणाय, नमः, ऎऩ्गिऱ ऐन्दु कारकपदङ्गळोडे कूडिऩदागवुम्
आख्यातार्थ-मुख्य-विशेष्यक-बोध-जनकम् आगवुम् करुदुगिऱार्गळ्।
यद्यपि प्रणवत्तिल् प्रथमान्तम् आऩ मकारत्तिऱ्कु
अर्थम् आऩ जीवऩुक्कु मुख्य-विशेष्यत्वम् तोऩ्ऱुगैयाल्
प्रथमान्तार्थ-मुख्य-विशेष्यक– शाब्द-बोधमे सिद्धान्त्य्-अभिमतम् +++(यथा रामो गच्छतीत्यत्र राम-प्राधान्यम्)+++,
आऩालुम् इङ्गु “अहम्” ऎऩ्गिऱ मुख्यविशेष्य-वाचक पदम् अध्याहार्यमागैयाले
इम् मन्त्रत्तिल् आख्यातमे कर्तृवाचकमागैयाले
अदुवे प्रधानमॆऩ्ऱु तिरुवुळ्ळम्। +++(5)+++