(Better scan, more accurate OCR)
श्रीः
उभयवेदान्तग्रन्थमाला
श्री कवितार्किक सिंहसर्वतन्त्र स्वतन्त्र-
श्रीमद्वैकटनाथार्य श्री वेदान्तदेशिक -
विरचित-मणिप्रवालमय-
श्रीमद्गहस्यत्रयसारसंस्कृतानुवादः
विद्धरिः दक्षिणोत्तर देशद्वय प्रसिद्धैः (को. 7)
श्री. कू. व. नीलमेघाचार्यैः कृतः
श्री बडोदा - चान्दोदधर्मचक्रोदयमपीठ मूर्धाभिषिक्तैः
श्री १००८ श्रीयुतखामिभिः अनिरुद्धाचार्य वेंकटाचार्यैः संशोध्य
सुनसिद्धकल्कत्ता मगनीरामबांगरधर्मद्रविणसाहाय्येन प्रकाशितः
मूल्यम् -
1968
रू. 1000
संपादकां:-अभिनवदेशिक (उत्तमूर् ति.) वीरराघवन्नार्याः, मद्रपुरी
०० गुरुपरम्परासारः
गुरुपरम्पर/सारः
( आदावनु संघेयम् आचार्य विषयं - तनियन् ) श्रीमान् वेङ्कटनाथार्यः कवितार्किक केसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ॥ रामानुजदयापात्रं ज्ञानवैराग्यभूषणम् । श्रीमद्वेङ्कटनाथायें वन्दे वेदान्तदेशिकम् ॥
1 ( गाथा ) कल्याणगुणशालिना तूप्पुल श्रीवेङ्कटनाथेनोक्तासु लोकहृदयंगमासु प्राचीनसुक्तिषु एकैकैव किं न पर्याप्ता धरण्यां जीवतां परमव्योमारोहगत्यन्तो जीवनलाभाय ।
श्रीः
श्रीमते लक्ष्मीहयवदनपरब्रह्मणे नमः
श्रीमते शठकोपाय नमः
श्रीमते भगवद्रामानुजाय नमः श्रीमते निगमान्तमहा देशिकाय नमः
श्रीमन्निगमान्तमहा देशिकैरनुगृहीतो
रहस्यत्रयसारः
श्रीवात्स्य नीलमेघाचार्यकृत संस्कृतानुवादरूपः
आदौ गुरुपरम्परासारः
गुरुभ्यस्तद्गुरुभ्यश्च नमोवाकमधीमहे ।
वृणीमहे च तत्राऽऽद्यौ दम्पती जगतां पती ॥
1 शीरोत्र
तूपपुलतिरुवेंकटमुडेयान्
पारोत्रच्चोन
पड ( ( ) घोडि ( ( )पळ - ओरोत्र ताने अमेयादो तारणियिले
वाडू( ji )वार्क वानेर प्पोमलवं वाड (i) ।गुरुपरम्परासारः
1 (गाथा) सरोमुनिः, भूतारव्य ( मुनिः ), उन्मत ( महदाइय)दिव्यसूरिः शीतलताम्रवर्णीमागतः कुरुकेशः, विष्णुचितः शुद्धः कुलशेखरः, अस्माकं पाणनाथः, भक्ताङ्घ्रिरेणुः, महीसारागतं ज्योतिः, भुवि सर्वत्र वेदा यथा प्रकाशेरन तथा खड्गकुतौ दानो मज्ञै (नगर) निवासिनां स्वामी इत्येतैः सहर्षे गीताः ऋज्वीद्रविड सूक्तिमालाः वयं विशदमधीत्य विशदानवगतान् वेदप्रदेशान् विशदं जानीमहे ॥
1 (गाथा) आनन्दे, समाश्रयणे, अभ्युपगमनीयपुरुषार्थे अप्रच्युतबहुविधसंबन्धे, रागनिवृत्तौ स्वसंवन्धापादने, कर्मनिवारणे, कपोत्कर्ष, तत्त्वोद्बोधने, स्वस्वभावापादने च ( विषये ) भक्तार्थमेवावतीर्णे गोपाले स्थिते सति सूक्ष्मा (र्था ) नू बेदानू द्राविडीकृतवतः (कुरु केशस्य )
)नू चरणावेवावलम्ब्य दुःखरहितभूतेन मधुरकविना प्रदर्शितानादिमार्ग एव धैर्यवतां सन्मार्गाः ॥
1 पोयहैमुनि बूदत्तार पेयाड़वार तण पोरुनले वरुम् कुरुकेशन विदुचित्तन्, तुय्य कुलशेकरन् नम पाणनादन् तोण्डरडिप्पोडि मड़िशैवन्दशोति, वैयमेलां मरैविळंग वाळवेलेन्दुम् मङ्गेयरकोन् एत्रिवरकले महिड़न्दुपाडु, शेय्य तमिड़मालैकळ नाम तेलिय ओदि तेलियाद’ मरैनिलङ्गळ तेळिकित्रो मे.
[[94]]
1 इन्बत्तिले इरैजुदलिल इशैयुम्पेत्तिल इकड़ाद पल्लरविले इरागं मात्तिल तन् पत्तिले विनै विलक्किल तहवोक्कत्तिल तत्तवत्तै उणर्तुदलिल तन्मैयाकिल अम्बर्के अवतरिकमायन् निर्क अरुमरैकल तमिडूशेथ्ान् ताले कोण्डु तुम्बत्त मदुरकवि तोत्रकाहुं तोल्वड़िये नत्रडिकल तुणिवाार्गटके.
गुरुपरम्परासारः
(मुमुक्षूणां सदाचार्यसंबन्धत्यावश्यकत्व समर्थनम् )
पापिष्ठः क्षत्रबन्धुश्च पुण्डरीकश्च पुण्यकृत् । आचार्यवतया मुक्तौ तस्मादाचार्यवान् भवेत् ॥” इति आचार्यवत्तैव सर्वेषां मोक्षकारणनिति निर्धारयामासुः ॥
(भगवत्पर्यन्ताचार्य परम्परानुसन्धानकर्तव्यत्वम् )
मुमुक्षोराचार्यवंशो ऽनुक्रमेण भगवन्तगामितानुसंधेय इत्याग्ना-
( भगवतः परमाचार्यत्व समर्थनम् )
तमस्ति ।
- तमिमं सर्वसंपन्नमाचार्य पितरं गुरुम् “, इति, “ ममाप्यखिललोकानां गुरुर्नारायणो गुरुः” इति, “त्वमेव बन्धुश्च गुरुत्वमेव” इति, “गुरुरसि गतिश्चसि जगताम् " इति चोकरीत्या सर्वस्यापि लोकस्य परमाचार्यः सर्वेश्वरो ब्रह्मणे आदौ वेदान् प्रदाय, तेषामपहारे जाते पुनस्तान् प्रत्यानीय प्रदाय, एतन्मुखेन शास्त्राणि प्रवर्त्य, एतत्पुत्रान् सनत्कुमारादीन् “स्वयमागतविज्ञानाः निवृत्तिं धर्ममास्थिताः " इत्य्-उक्त- कारान् आपाद्य तन्मुखेन च हितप्रवर्तनं कारयित्वा, इत्यमन्यान्यनारदपराशरशुकशौनकादिन महर्षिद्वारा च अध्यात्मसंप्रदायमविनश्वरररूपेण प्रवर्य,
“कुण्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को न्यो सुवि मैत्रेय महाभारतकृद् भवेत् ॥” इति, " महर्षेः कीर्तनातस्य भीष्मः मालित्रवीत्” इति चोकरीत्याऽवस्थितान् व्यासादीन् अनुप्रविश्य महाभारतशारीरकादीनि प्रवर्त्य च,
हंस मत्स्य हयग्रीव नरनारायणंगीताचार्याद्यवतारैः स्वयमेवाविभूव च तत्त्वहितानि प्रकाश्य, स्वेनानुगृहीतानामर्थानां सर्वेषां श्री भीष्मप्रभृतिभिर्ज्ञानाधिकैः संवादञ्च कारयित्वा
गुरुपरम्परासारः
[[66]]
“पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम्” इत्य्-उक्त-रीत्याss-दौ स्वेनोपदिष्टं भगवच्छास्त्रं “10 ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । अर्चनीयश्च सेव्यश्च नित्ययुक्तः स्वकर्मसु ॥ सात्त्वतं विधिमास्थाय गीतः संकर्षणेन यः । द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ॥ " इत्य्-उक्त-रीत्याऽवसरेष्वाविष्कृत्य च, पूर्वोत्पन्नेषु भूतेषु तेषु तेषु कलौ प्रभुः । अनुप्रविश्य कुरुते यत् समीहितमच्युतः ॥” इत्य्-उक्त-रीत्या पराङ्कुशपरकालादिरूपेणाभिनवान् विलक्षणान् दशावतारान् कृत्वा, यथा मेघाः समुद्रजलं गृहीत्वा सर्वोपजीव्य पानीयरूपेण प्रवर्षन्ति तथा वेदार्थेष्वपेक्षितं सारतमांशं सर्वाधिकार्यया भाषया संगृह्य प्रकाश्य च, एवं स्वप्रवर्तितस्य सत्पथस्य प्रकटरूपेण प्रच्छन्नरूपेण चावस्थितैः पापण्डिभिरुपरोधस्याप्रसक्त्यर्थम्, “12 साक्षात् नारायणो देवः कृत्वा मत्र्त्यमयीं तनुम् । मग्नान् उद्धरते लोकान् कारुण्याच्छास्त्रपाणिना ।" इति 1 " पीताम्बर उपकारको
‘पीताम्बर उपकारको ब्रह्मगुरुभूत्वैत्य" इति चोक्तरीत्याऽगस्त्य सेविते देशेऽनेकदेशिकापदेशेना-
[[८]]
वततार ।
।
इदमभिप्रेत्य “कलौ खलु भविष्यन्ति नारायणपरायणाः । कचित् कचिन्महाभागा द्रमिडेषु च भूरिशः ॥ ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी । कावेरी च महाभागा प्रतीची च महानदी " इति महर्षिरनुजग्राह ॥
(गुरुपरम्परा स्वरूपवर्णनम् )
एष्वाचार्येष्वीश्वरमुनीनां पुत्राः नाथमुनयः । एते न्याय-
1 " पीतहबाडै पिरानार पिरमगुरुबाहि वन्दु” पेरियाडवार 5-2-8.
गुरुपरम्परासारः
तत्त्वाभिधं शास्त्रं योगरहस्यं चानुजगृहुः । एषां श्रीमधुरकविमूलकसंप्रदायपरम्परया च श्रीमुख सूक्ताख्यदिव्यप्रबन्धमुखेन च योगदशापां साक्षात्कृततया च श्रीशठकोपदिव्यसूरय आचार्या बभूवुः । श्रीनाथमुनीनां पुत्राः ईश्वरभट्टाड़वान्। (ईश्वरभट्टाड़वान्) एषां पुत्रा आलवन्दार (श्रीयामुनाचार्याः) । श्रीयामुनाचार्यानुगृहीताः प्रबन्ध आगमप्रामाण्यं पुरुषनिर्णयः, आत्मसिद्धिरीश्वरसिद्धिः संवित्सिद्धिरित्युच्यमानं सिद्धित्रयम्, श्रीगीतार्थसंग्रहः, स्तोत्रम्, चतुःश्लोकी चेत्यष्टौ । (आलवन्दार) एषां पुत्राः शोट्टेनेम्बि । ( शोहैनम्बि) एषां पुत्रा एन्नाच्चान् । (एन्नाच्चान् ) एषां पुत्राश्चत्वारः । एष्वन्यतमाः पिल्लैयप्पर । ( पिल्लेयप्पर ) एषां पुत्राः तोड़प्पर । ( तोडर ) एषां पुत्रौ द्वे ।
श्रीमन्नाथमुनिश्रीचरणाश्रिताः
शिष्याः
उय्यक्कोण्डार
उरुप्पट्टू-
(श्री पुण्डरीकाक्षखामिनः), कुरु है कावलप्पन् नम्बिकरुणाकरदासर् एरुतिरुवुडैयार, तिरुक्कण्णमङ्गैयाण्डान्, वानमादेवियाण्डान्, राच्चानपिल्ले, शोकतूराड़वान् इत्यष्टौ ।
( उय्यक्कोण्डार ) पुण्डरीकाक्षस्वामिश्रीचरणाश्रिताः पञ्च । ते यथा— मणक्कालनम्बि (श्रीराम मिश्रा : ), तिरुवल्लिक्वेणिप्पाणपेरुमाळरैयर, शेट्टलूर शेण्डलङ्कारर्, श्रीपुण्डरीकदासाः, उलहप्पेरुमाळनंगे ।
( मणक्कालन म्बि) श्रीराम मिश्र श्रीप (दाश्रिताः पञ्च । ते च - आलवन्दार् (श्रीयामुनाचार्याः), देयवत्त करशुनम्बि, गोमठतुत्तिरुविष्णकरप्पन शिरुप्पुल्लूरा वुडैय पिल्लै, माचि इति ।
"
गुरुपरम्परासारः
( आलवन्दार ) श्रीमद्यामुनमुनिश्रीपादाश्रिताः
पञ्चदश-
पेरियनम्बि ( श्रीमहा पूर्णाः) तिरुक्कोट्टियूरनम्बि ( श्रीगोष्ठीपूर्णाः), तिरुमाल्याण्डान (श्रीमालाधरखामिनः), आलवन्दाराड़वारू, तिरुमलैनम्बि (श्रीशैलपूर्णा), ईशाण्डान दैववारियण्डान् शिरियाण्डान्, तिरुमोकूरप्पन् तिरुमोर निवान् देवप्पेरुमाल, तिरुमङ्गैयाळियार, पिल्लैतिसमालिरुञ्चोलैदासर मारनेरनम्वि, आल्कोण्डि चेति ।
(पेरियन म्बि) श्रीमहापूर्ण श्रीचरणाश्रिताः षट् । ते यथा एम्बेरुमानार (श्रीभगवद्रामानुजाचार्याः) मलैकुनियनिन्नार, आर्यश्रीशठकोपदासरू, अणिवरङ्गतमुदनार तिरुवाय कुलमुडैंयानभट्टर्, तिरुक्कचिनम्बि (श्रीकाञ्चीपूर्णाः) चेति ।
श्रीभगवद्रामानुजाः श्रीगोष्ठी पूर्णश्रीचरणसंनिधौ रहस्यार्थान
शिशिक्षिरे ।
श्रीमालाधरश्रीचरणसन्निधौ श्रीमुखमुक्त दिव्यप्रबन्धं
शुश्रुवुः । आलवन्दाराड़वारश्रीचरणयोः श्रीमुखसूक्तदिव्यप्रबन्धमधीत्य स्तोत्रादिकं कृपाकार्याः सद्भार्ताश्च शुश्रुवुः । तिरुमलैनम्बिश्रीचरणसन्निधौ श्रीमद्रामायणं शुश्रुवुः । एतदनुगृहीताः प्रवन्धाः श्रीभाष्यम्, दीपः, सारः, वेदार्थसंग्रहः, श्रीगीताभाष्यम्, लघुगद्यम्ः पृथुगद्यम्, श्रीवैकुण्ठगद्यम्, नित्यं चेति नव ।
एतच्छीचरणाश्रिताः शिष्याः स्ववसंप्रदायानुसारेण ज्ञातव्याः ॥
(गुरुपरम्परानुसन्धानफलत्त्रयम्)
15 गुरुं प्रकाशयेद्धीमान् मन्त्रं यत्नेन गोपयेत् । अप्रकाशप्रकाशाभ्यां क्षीयेते संपदायुषी ॥” इत्यूचुः । गुरोः केनचित्प्रकाशन
गुरुपरम्परासारः
केनचिद्रप्रकाशनश्च गुरुभक्तौ तारतम्यात् किल भवति । भगवद्विषय इव गुरुविषयेऽपि परां भक्तिमावहते अपेक्षितार्थाः सर्वेऽपि प्रकाशेरन इत्येव कठजावालदिश्रुतिषु सञ्जयादिवृत्तान्तेषु च प्रसिद्धम् । अनेवंविधानामेवंविधा ज्ञानसंपत् न सिद्धयेदित्येतत् शिष्याणां ज्ञानतारतम्येन ज्ञातुं शक्यम् । अत्यन्तं गुणाधिकानां शिष्याणानपि झटिति अध्यात्मविषयान् अप्रकाशयतां निष्ठा न हीयत इत्येतद् रक्कादिवृत्तान्तेषु प्रसिद्धम् । (शिष्य) लाभ गुणत्वेन मत्वोपदेशे कृते सति, “शिन्यपापं गुरोरपि” इत्य्-उक्ते- राचावस्य निष्ठा हीयतेत्येव, भविष्यदविचायैव इन्द्रस्त्रोपदेशेन स्वयं विस्मृतत्रह्मविद्यत्य स्वशिष्यभगवन्नारद्वारा सर्वेचरेण प्रबोधनीयतयास्थितत्व चतुर्मुखस्य निकटे द्रष्टव्यम् । इत्येताव “अवकाशनकाशाभ्याम” होयोः “क्षीयते संपदा” इत्य्-उक्त- फचित्यमाणप्रसिद्धिभ्यां क्रमेणोदाहृतम् । हो (प्रत्येक) फल्क्यवाक्ये आपतन् कश्चिदपि विरोधो नास्ति । अनः सर्वा गुरुभक्तिपरीवाहासना गुगेः प्रकाशनम्, महारत्नगभमाणिक्यसंपुटा यमानश्रीममुन्य स्वनिष्ठायाश्राविना अप्रयोजनोडेशेन शिष्यगुणपूर्तिरहिते स्यपले स्योपकाशनेन मन्त्रवती गोप च को युक्तम् । अत्र गुरुशब्दः परमगुरूणामप्युपलक्षक; सामान्याची
। मन्त्रशब्दो मन्त्रार्थभृतीनां रहस्यानां प्रदर्शनपरः ।
स्वेनैषां रहस्यानामनुसंधानसमयेषु सर्वेषु आचार्यपरम्पराया अनुसन्धानमपि विधिवलप्राप्तम् ।
R613XGGB,
81,
TIRUPATI.
KLM
[[१०]]
गुरुपरम्परासारः
एषामाचार्याणामनुसंधानं “संभाष्य पुण्यकृतो मनसा ध्यायेत्” इत्य्-उक्त-रीत्या प्रतिषिद्धसंभाषणस्य प्रायश्चित्तमपि भवति ॥
(गुरुपरम्परानुसंधानप्रकारस्य गाथया निरूपणम् )
1 ( गाथा ) मम प्राणं दत्त्वा रक्षितवन्तं शरणमेत्याहं क्रमेण तद्गुरुपंक्तिं प्रणम्य ततः कृपया महाभूतपुर्यामाविर्भूतः परमोदार, महापूर्णः, यामुनमुनिः, राममिश्रः, सन्मार्ग तस्योपदिष्टवान् पुण्डरीकाक्षः, नाथमुनिः शठकोपः, सेनानाथ, भोग्यामृतश्रीदेवी इत्येतन पुरस्कृत्य अस्मत्स्वामिनः श्रीचरणावाश्रयामि ॥ ३ ॥
( गुरुपरम्परासारान्ते आचार्यैरेव कृतानि पद्यानि ) ( अधिकपाट) प्रपदनमये विद्याभेदे प्रतिष्ठितचेतसः प्रतिपदमिह प्रज्ञादाय दिशन्तु दयाघनाः । शठरिपुशुकव्यासप्राचेतसादिनिबन्धन - श्रमपरिणमच्छुद्धाशुद्धाशया मम देशिका : ॥ ) एते मद्यमपोटमन्मथशरोन्माथाय नाथादयः त्रय्यन्तप्रतिनन्दनीयविविधोदन्ताः स्वदन्तामिह ।
1 एतुरि तन्दलित्तवरै चरणम्बुक्कि यान डैवे अवर गुरुक्कल निरै वर्णगि, पिन्नरुळाल पेरुम्बुदूर वन्द वल्लले पेरियनम्बि आलवन्दार मणक्कालेनम्बि, नन्नेरियै अवकुरैत्त उय्यक्कोण्डार नातमुनि शडकोपन् शनैनातन इन्नमुदत्तिर महल पत्रिवरै मुन्निट्टेम्बेरुमान् तिरुवडिहल अडैकिने ।
गुरुपरम्परासारः
श्रद्धातव्यशरण्यदम्पतिदयादिव्यापगाव्यापकाः
स्पर्धाविप्लव विप्रलम्भपदवीवैदेशिका देशिकाः ॥ हृद्या हृत्पद्मसिंहासनरसिक हयग्रीवहेषोर्मिघोषक्षिप्तप्रत्यर्थिदृप्तिर्जयति बहुगुणा पङ्क्तिरस्मद्गुरुणाम् । दिक्सौधाबद्ध जैत्रध्वजपटपवनस्फातिनिर्धृततत्तत् सिद्धान्तस्तोमतूलस्तबक विगमनव्यक्तसद्वर्तनीका ॥
( ग्रन्थमुखेनोपकारकाणां पूर्वाचार्याणां स्तवनम् ) ( गाथा ) वेदान्तशास्त्रमार्गार्जिवं विनाशयां हैतुकानां (विषये) अद्वितीयवारणीभूय तद्वादकदलीविनाशितवत उपकारकस्यानुरूपाल-
रामानुजमुनेर्भोग्यतमोक्तिसंगतगुणालंकृतचिन्ताः
कारभूतकीर्तेः चिन्तयेमहि इतः परं क्रूरकर्माणि ॥ ४ ॥
[[१२]]
न
(गाथा) दीर्घकालात्संसरन्तोऽधुना विधिभेदात् बोधं प्राप्तवन्तो वयं प्रत्यावृत्य, इतः परमपि कर्ममयशरीरेणैकीभूय निपत्य यथा न परिभ्रमेम तथा रक्षार्थमागत इति प्रशस्येन जयेन कृपादानेन च विद्योतमान कल्याणगुणस्य श्रीयामुनार्यस्य दासभूता वयं न पठेमेतः
परमपन्यायान् ॥ ५ ॥
4 आरणनूलेवडिचव्वै यडित्तिमै तुहकर वारणमाय अवर वादकदलिकल मायत्त पिरान्, परणिकीर्ति इरामानुशमुनि इन्नुरैशेर शीरणि शिन्दैयिनोम शिन्दियोम् इनि त्तीविनैये.
5 नीळवन्दित्र विदिव हैयाल निनैवोत्रिय नाम मीळवन्दिन्नु विनैयुडम्बोन्रि विडुन्दुडलाडु अळवन्दारेन वेत्ररुळतन्दुविळङ्गियशीर आळवन्दार डियोम् पडियोम् इनि अल्वड़क्के ।
[[6]]
[[१२]]
गुरुपरम्परासारः
(गाथा) काहलीशङ्खसदृशयोः समीचीनभक्तयोर्दासियोः तालमुपदिश्य द्राविडवेदानां मधुरं गानमुपदिष्टवतः परनोदारस्य स्पृहणीयं तपोमार्गं प्रवर्तितवतो नाथमुनेश्चरणौ अनुदिनं प्रणम्योनमेन ; अस्माकं के वा सदृशाश्चतुर्विधायां भुवि ॥ ६ ॥
[[2]]
इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीगुरुपरम्परासारः संपूर्णः ।
॥ श्रीमते निगमान्त महादेशिकाय नमः ॥
-0-
श्रीमते हवनपरब्रह्मणे नमः श्रीपते रामानुजाय नमः
श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवयों में संनिधत्तां सदा हृदि ॥ १ ॥
रामानुजदयापात्रं ज्ञानवैराग्यभूषणम् ।
श्रीमद्वेङ्कटनाथार्य वन्दे वेदान्तदेशिकम् ॥ २ ॥
6 कालं चलम्बुरियन नकदल अडियवर्कुत् ताले वगि तमिमरैयिनि तन्दवळलं तवरिमूडिय नादमुनिकडले नाळु तोडदेडुवोम् नमक्कार निगर नाजिलन्ते ॥
चतुर्विधायां - मरुदम्, नेइल, कुरिञ्जि, मु इत्युच्यमानाः ग्रामसिंधुगिरिवनप्रदेशाश्चत्वारः । पञ्चमोऽप्यस्ति मरुनदेशः स निर्मनुष्यत्वादुपेक्ष्यते ।
०१ उपोद्घाताधिकारः
1-
श्रीः
अथ श्रीरहस्यत्रयसारः
प्रथम उपोद्घाताधिकारः
(मङ्गलाचरणम् ) आभगवत्तः प्रथितामनघामाचार्य सन्ततिं वन्दे ।
मनसि मम यत्प्रसादात् वसति रहस्यत्रयस्य सारोऽयम् ॥५॥ कर्मवशात्मके शास्त्रे कौस्कृतनिवर्तकान् ।
वन्दे हस्तिगिरीशस्य वीथीशोधककिङ्करान् ॥ ६ ॥
(ग्रन्थार्थ संग्रहगाथा )
1 ( गाथा ) रक्षेत् न्यासभूतान अस्मानिति पङ्कजवासिनीवल्लभचरणयुगलमाश्रित्यास्माकमपि तद् दत्तवद्भिर्दयालुभिः, विजृम्भमाणानां तमसो विनाशनार्थमभिनिविश्योपदिष्टस्य (रहस्य) त्रयस्य
तात्पर्यमनुदिनं
सम्यगनुभवितुमत्रास्माकमसदृशो विधिरुपनतो भवति ॥ ७ ॥
(प्रथमाधिकारार्थसंग्रहश्लोकः)
मणिवर इव शौरेर्नित्यहृद्योऽपि जीवः
कलुपमतिरविन्दन् किङ्करत्वाधिराज्यम् ।
[[1]]
1 आलुमडेकलमेत्रेम्मै अम्बुयत्ताल कणवन् ताळिणै शेन्दु एमक्कुमवै तन्द तहवुडैयार् मूळमिरुळळू बिल्ल मुयत्रोदिय मूत्रिनुल्लं नाळमुहक्कविंगे नमक्कोर विधि वाय विकत्रये ।१४
श्रीरहस्यत्रयसारे
विधिपरिणतिभेदाद्वीक्षितस्तेन काले
गुरुपरिषदुपज्ञं प्राप्य गोपायति स्वम् ॥ ७ ॥
( जीवात्मनः स्वाभाविकाकारनिरूपणम् )
श्रियः पत्युः सर्वेश्वरस्य श्रीकौस्तुभस्थानीयः सन् हृहयंगमः “कुमार” इति “पुत्र” इति “प्रेष्य” इति “शेषभूत” इति “दासभूत” इति च ततच्छास्त्रेषु प्रतिपन्नोऽस्ति जीवात्मा । ( जीवात्मनः पूर्णपरतत्त्वानुभवार्हतानिरूपणम् )
अस्मिन् —
स्वस्य स्वभावप्राप्तशेषिणः, अज्ञानशून्यानाममराणामधिपतेः निरतिशयातिशयितानन्दवतः अस्माकं पुष्पवासिन्याः
पूर्णायाश्च स्निग्धस्य, भौमानां परमव्योमस्थानां च स्वामिनः सर्वेश्वरस्य, “वेकुण्टे’
[[2]]
[[2]]
तु परे लोके श्रिया सार्धं जगत्पतिः । आस्ते " इति, उज्ज्वलहस्तवलयायां श्रियां त्वयि चैव सुस्थितयोः” इति चोक्तरीत्या श्रीमहालक्ष्म्या सह निर्मले परमव्योम्नि “ याऽयोध्येत्यपराजितेति विदिता नाकं परेण स्थिता" इत्येवम् अयोध्यादिशब्दवाच्यायामक्षोभ्यमहान गय सहस्रस्थूणादिवाक्याम्नाते श्रीमहामणिमण्टपे कौषीतकि ब्राह्मणाद्याम्नाते पर्यङ्कविशेषे " गमने छत्रं भवति आसिकायां सिंहासनं भवति" इति “निवासशय्यासन” इति चोक्तरीत्या सर्वदेशसर्वकालसर्वावस्थोचितानां सर्वविधकैङ्कर्याणां सर्वविधशरी रैरनभवेन शेषत्वस्यैव स्वनिरूपकत्वादन्वर्थशेषाभिधाने, श्रीमदनन्तसूरिरूप2 ओण तोडियाळतिरुमहळु नीयमे नियोनिर्प’ (तिरुवाय् 4-9-10) 4 ‘शेनाल कुडैयाम् इरुन्दाल शिंगाशनमाम्’ (प्रथमान्तादि 53 )
उपोद्घाताधिकार : ( 1 )
[[१५]]
श्रीशय्याविशेषे परमव्योमयुवराजरूपेण विराजमानस्वपरिपार्टी सर्वात्मानोऽप्यनुभूय कृतार्था भवन्त्विति सहृदयतया स्थितस्य स्थिति तां हेतुमवलम्ब्य नित्यानुभवं कुर्ताणैरनन्तमहानन्ददासैर्नित्यसूरिभिः सह अविशेषेण
स्वयमपि
स्वामिकैङ्कर्यस्य
स्वरूप योग्यतया (दायस्येव )
सहजप्रात्त्यर्हेऽपि —
( जीवात्मनो विपरीताकार स्थितेर्निरूपणम्)
अनादिमायया सुप्ते, ““अनेकजन्मसाहस्रीं संसारपदवीं ब्रजन् मोहश्रमं प्रयातोऽसौ वासना रेणुकुण्ठितः ॥” इत्य्-उक्त-रीत्या प्रकृतिरूपे मरुकान्तारे निपत्य घावं घावं बहूनि जन्मानि प्राप्य पुरुषार्थमनासाद्य आवलम्बमलब्ध्वा मालिन्यमुपेत्य ज्ञानहान्या तत्त्वहितविषययथावप्रकाशरहिते सति —
(राजकुमारदृष्टान्तवर्णनम् )
यथा कस्मिश्चिद्राज्ञि अन्तः पुरेण सह मृगयार्थं निष्क्रम्य मृगयाविहारे विशेषसक्ते जाते भाषाज्ञानात्प्रागेव मार्गाद् भ्रष्टो राजकुमारो ग्रहीतृजनहस्तगतशिशुः सन् यस्मिन कस्मिंश्चित् कुटीरे वर्धमानोऽस्वकीयां शबरत्वादिजातिं स्वस्मिन् आरोप्य “7 माताऽप्येका पिताऽप्येको मम तस्य च पक्षिणः । अहं मुनिभिरानीतः स चानीतो गवाशनैः ॥ अहं मुनीनां वचनं शृणोमि गवाशनानां स वचः श्टणोति । प्रत्यक्षमेतम् भवताऽपि दृष्टं संसर्गजा दोषगुणा भवन्ति ॥ इत्य्-उक्त-रीत्या व्याघश्रेणी स्थशुकवत्तदभ्यासितां वाणीमेव स्ववाणीत्वेन तंदौर सवत् तद्भक्ष्यजीविके ( वृत्ती) एव स्वभक्ष्यजीविकात्वेन श्रयन् स्वजात्युचितेषु भोगेषु आचारसंस्कारादिषु च प्राथमिकज्ञानेनापि शून्यो
. १६
श्रीरहस्यत्रयसारे
राजभोगविरुद्धेषु जुगप्सितविषयेषु स्वस्य लाभहानिभ्यां हर्षशोकौ आवहन्, अयं राजकुमारः इति स्वकीयां जाति जानानेषु केषुचिद् ऋपिप्रायेषु सत्स्वपि तदुपसर्पणानर्हामवस्थां बिभ्रत्, एवं भ्रान्ति सिद्धशवरत्वाद्यत्रस्यया सह यावज्जीवं वर्तने उत्तरजन्मस्वपि योग्यताप्राप्तिविषये उपायशून्यः प्रतिबद्धपुरुषार्थश्चावतिष्ठेत-तथाऽस्मिन्नपि देहात्माभिमानादिभिः स्वस्वरूपं हित्वा पररूपमारोप्य स्थिते सति-
(राजकुमार दृष्टान्तेनैव जीवात्मनो धार्मिक सहवास तत्फलवर्णनम )
यथा तस्य राजकुमारस्य लक्षणादिभिर्जातिविशेषमभिजानन्तः केचन धार्मिकाः केनचिदुपायेनैनं वशीकृत्य अभिमानं कृत्वा अम्यागन्तुकं जात्यन्तराभिमानं निराकृत्य दृष्टादृष्टसंस्कारादिभिरुत्तरोतरभोगतदुपाययोग्यतापादकमुपायं कृत्वा अस्मिन् स्वजात्यनुरूपाणि गुणवृत्तानि स्वोपदेशानुष्ठानाभ्यां सुस्थिरं निवेश्य अस्यानेकदोषदुष्टेषु शवरादिभोग्यक्षुद्र विषयेषु जुगुप्सामुपजनय्य राजादिभोग्यानामतिशायितपुरुषार्थानां विवेचनपूर्वकोपादानप्रयोजकं ज्ञानमुत्पाद्य स्थापयेयुः, तथा इममात्मानं केषुचित् धार्मिकेषु पित्रादिमुखेन संभाष्य, पुमान् न देवो न नरो न पशुर्न च पादपः । शरीराकृतिभेदास्तु भूपैते कर्मयोनयः ॥” इत्य्-उक्त-रीत्या देहविलक्षणैतत्स्वरूपस्थिति प्रबोध्य तदनुरूपपुरुषार्थतदुपायेष्वन्वयोपपादकमुपायं कृत्वा देहकबलीकृतस्वरूपस्वदशाहा [१] नपूर्वकं प्रकाशातिशयविशेषसंपन्नानां संभवन्ति गुणवृत्तान्युत्पाद्य हेयोपादेयविभागक्षमं कृत्वा स्थापितवत्सु सत्सु -
उपोद्घाताधिकारः (1)
( जीवात्मन आचार्य-संबन्धतदुपदेशादि)
[[१७]]
इदमीयां प्राथमिकस्थितिं धार्मिक विशेष सहवासप्रभवां योग्यतां बुद्धिमत्तां च स्वयं साक्षात्कृत्य परमकारुणिकेन परमशेषिणा प्रेरितैः स्वयं च कारुणिकोत्तमैः सद्भिः कैश्विदेशिकैः
“ईश्वरस्य च सौहार्द यदृच्छासुकृतं तथा । विष्णोः कटाक्षमद्वेषमाभिमुख्यं च सात्त्विकैः । संभाषणं षडेतानि ह्याचार्यप्राप्तिहेतवः " इत्य्-उक्त-रीत्या यदृच्छया सन्निधाय – यथा तस्य राजकुमारस्य कैश्चित् राजान्तरङ्गैर्यदृच्छया सन्निधाय जन्मतत्त्वमवगमय्य भावीनि प्रियतमानि हिततमानि च विशदं ज्ञापयित्वा केनचिदुपायविशेषेण तस्य राज्ञो राजकुमारस्य च परस्परसंश्लेषाकोतभ्येत – तथाऽस्यापि “10 नाथं देवो न मर्त्यो वा न तिर्यक् स्थावरोऽपि वा । ज्ञानानन्दमयस्त्वात्मा शेषो हि परमात्मनः ॥” इति, “11 दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः " इत्येवं च प्रमाणैः प्रतिपादितदिशा, जृम्भमाणसमुद्रपरिवृतां भुवं परमाकाशलोकं च निश्शेषं परिपालयता सत्प्रभुणा श्रियः पत्या नारायणेन सह स्वाभाविक सहजसंबन्धं विशदं ज्ञापयित्वा अस्य तत्प्राप्त्युपायेषु प्रयस्य-
एतल्लभ्यं पुरुषार्थमेव स्वस्य कृत्स्नदिव्य विभूतिलीलाविभूतिपालन-
रूपमभिनन्द्य,
"
तन्मूलकं तदात्वप्रसूतवत्सगोचरवात्सल्यशालिक्षीरक्षरणोद्यतधेनुन्यायेन एभिर्देशिकैः (देशिकी भूयेत्यर्थः) अस्य जीवात्मनोऽज्ञानसंशय निवृत्तिमभिसन्धाय अनतिविस्तर संक्षेपं उच्यमानैः ( आविर्भाव्यमानैः ) वचनैः 12 तत्त्वेन यश्चिदचिदीश्वर तत्स्वभाव” इत्याद्युक्तरीत्या ईश्वरस्येशितव्यानां च स्वरूपस्वभाव संबन्धाः भोगापवर्गों त्याज्योपादे -
[[2]]
[[२८]]
उपोद्घाताधिकारः
यैतदुपायाः एषां गतिप्रकाराः उक्तानुक्ता मोक्षविरोधिन इत्येतेभ्यश
मुमुक्षुणा एनेनाऽऽत्मना ज्ञातव्याः ।
(एषामर्थानां रहस्यत्रयप्रतिपाद्यत्वोपक्षेपः)
सर्वेऽपि अध्यात्मविषपशब्दराशौ सारत मे रहस्यलये
प्रतितन्त्रसारोद्धारेण संगृह्यन्ते ( संगृहीताः सन्ति) ॥
(अधिकारार्थसंग्रहगाथा )
1 ( गाथा) श्रिया सह आविर्भूतस्य श्लाघ्यमणेरिव [अस्माकं ] लक्ष्मीवल्लभहृदयं सप्रेमवासस्थानमिति यथोच्येत, तथा चरणारविन्दोत्तंसनभाग्यं प्राप्तवन्तो वयम् आगर्भानुवृत्तक्रूरकर्मनद्यां निपत्य यथा न प्रोयेमहि, तथा कृपां कर्तुं सूक्ष्मार्थेन सह पञ्चकज्ञाः समुपनताः सन्ति हि ॥ ८ ॥ (अधिकारार्थसंग्रहपद्यम् ) कर्माविद्यादिचत्रे प्रतिपुरुषमिहानादिचित्रप्रवाहे तत्तत्काले विपक्तिर्भवति हि विविधा सर्वसिद्धान्तसिद्धा । तल्लब्धस्वावकाश प्रथमगुरुकृपा गृह्यमाणः कदाचित् मुक्तैश्वर्यान्तपन्निधिरपि भविता कश्चिदित्थं विपश्चित् ॥
इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्रहस्यत्रयसारे उपोद्घाताधिकारः प्रथमः ॥
॥ श्रीमते निगमान्तमहा देशिकाय नमः ॥
तिरुवुडन चन्द शेडमणिपोल तिरुमालियम मरुविडमेन्न मलेडि राई वह पेरुनाम्, करवुडन बन्द कविने याद्रिले विडुन्दो-
बहादु अरु उनैन्दरिवार अरुलशेष्य अमैन्दनरे ॥
०२ सारनिष्कर्षाधिकार
श्रीः
श्रीमते निगमान्तमहा देशिकाय नमः
सारनिष्कर्षाधिकारो द्वितीयः
(अधिकारार्थसंग्रहोपक्रम श्लोकः)
श्रुतिपथ विपरीतं क्ष्वेलकल्पं श्रुतौ च प्रकृतिपुरुषभोगप्रापकांशो न पथ्यः ।
तदिह विबुधगुप्तं मृत्युभीता विचिन्वन्त्युपनिषद मृताब्धेरुत्तमं सारमार्याः ॥
(रहस्यत्त्रयस्यैव मुमुक्ष्वादरणीयत्वम् )
अस्मिन् रहस्यत्रये श्रीमन्त्रस्य " 1 सर्वमष्टाक्षरान्तस्स्थम् " इत्य्-उक्त-रीत्या स्वार्थे ज्ञाते सर्वार्थज्ञापनस्वभावतयाऽवस्थानात्, चरमश्लोकस्य " 2 सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज” इति स्वोक्तस्योपायस्यैकस्यैवावलम्बने
[[9]]
सर्वोपायफलसिद्धिर्भवतीत्यर्थस्थाप-
कत्वात् द्वयस्य च कठश्रुत्याद्युक्तरीत्या स्वं सकृदुच्चारितवतो विषये सर्वप्रकारकृतकृत्यत्वापादनौपयिकवैभववत्त्वाच रहस्यत्रयमेव मुमुक्षुणा
आदरणीयम् ।
(असाराल्प सारादिविवेचनम् ) असारमरपसारञ्च सारं सारतरं त्यजेत् ।
भजेत् सारतमं शास्त्रे रत्नाकर इवामृतम् ॥”
[[२०]]
सारनिष्कर्षाधिकारः (2)
परमपुरुषार्थस्य तदुपायस्य च प्रत्यक्षादिप्रमाणैर्दुर्ज्ञानतथा, एतयोर्विषये शास्त्राद्वेद्मि जनार्दनम् " " " तस्माच्छास्त्रं प्रमाण ते
[[3]]
[[115]]
कार्याकार्यव्यवस्थितौ" शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति"
इत्य्-उक्त-रीत्या शब्द एव प्रमाणम् ॥
[[6]]
तत्र " " अनन्तपारं बहु वेदितव्यमल्पश्च कालो बहवश्च विघ्नाः । यत् सारभूतं तदुपाददीत हंसो यथा क्षीरमिवाम्बु मिश्रम् ॥" इति श्लोके सारभूतमिति पदेन प्रतिपन्नः (नं) निरुपाधिकसारं विपयीकुर्वन् सारतम शब्द उपादेयः । बाह्यकुदृष्टिशास्त्राण्यत्यन्तासारत्वादनुपादेयानि । वेदे पूर्वभागे ऐहिकफलसाधनप्रतिपादकः प्रदेशो ऽत्यल्प सारत्वादनुपादेयः । आमुष्मिकफलसाधनप्रतिपादकांशः ऐहिकफलातिशयितफलकत्वात् केषाञ्चित् सारत्वेन सुवचोऽपि दुःखमूलत्वादिदोषदुष्टत्वादनुपादेयः । आत्मतत्प्राप्तितत्साधनमात्रप्रतिपादकः अंशोऽपि सारतरः सन्नपि ततोऽप्यत्यन्तातिशयितपरमात्मानुभवसापेक्षाणामनुपादेयः । परमात्मतत्प्राप्तितदुपायप्रकाशकः प्रदेशः सारतमत्वाद्विवेकिन उपादेयः ॥
(तत्रापि रहस्यत्रयस्यैवात्यन्तोपादेयत्वम् )
तत्राप्यंशे प्रधानप्रतितन्त्राणां तत्त्वहितानां संग्रहरूपत्वादत्यन्तं सारतमं भवति रहस्यत्रयम् । अतः “7 बहुभ्यश्च महद्भयश्च शास्त्रेभ्यो मतिमान् नरः । सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः ॥ " इत्य्-उक्त-रीत्या रहस्यत्रयं मुमुक्षोरस्याऽऽत्मनोऽत्यन्तमुपादेयं भवति ॥
सारनिष्कर्षाधिकारः (2)
(अधिकारार्थसंग्राहकगाथा )
[[२१]]
1 (गाथा) अपर्याप्तानीमानीत्याशया लोके (अभ्यस्यमानेषु ) अष्टादशसु भारायमाणेषु विद्यास्थानेषु परितः ( प्राह्यत्वाय) समागतेष्वपि, संख्यापूर काणीमानीति ( निश्चित्य) अनिमेषैर्देवैः स्तुतमष्टकं द्वयं च गणयन्तोऽस्मत्समयाचार्याः चातुर्ययुतां विलक्षणां स्थिति दिदिशुः ॥
(अधिकारार्थसंग्राहक पद्यम् )
शाखानमुपरिस्थितेन मनुना मूलेन लब्धात्मकः सत्ता हेतु सकृञ्जपेन सकलं कालं द्वयेन क्षिपन् । वेदोत्तंस विहार सारथिदयागुम्भेन विस्रम्भितः
सारज्ञो यदि कश्चिदस्ति भुवने नाथः स यूथस्य (स्स) नः ॥
इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरहस्यत्रयसारे सारनिष्कर्षाधिकारो द्वितीयः ॥ श्रीमते निगमान्तमहा देशिकाय नमः
1 अमैयाविवै पन्नुमा शैयिनाल अरुमूत्रलहिल शुमैयान तो यिवे ये इमैयाविमैयवरेत्तिय
कल्विहलं शूड़वन्दालुम, पट्टिरण्डेण्णिय नम् शमयाशिरियर शदिकुं तनिनिलै तन्दनरे ॥
०३ प्रधानप्रतितन्त्राधिकारः
श्रीः
श्रीमते निगमान्तमहा देशिकाय नमः
॥ प्रधानप्रतितन्त्राधिकारः तृतीयः ॥
(अधिकारार्थसंग्राहक श्लोकः)
आधेयत्वप्रभृतिनियमैरादिकर्तुः शरीरं सत्तास्थेमप्रयतनफलेष्वेतदायत्तमेतत् ।
विश्वं पश्यन्निति भगवति व्यापकादर्शदृष्टे गम्भीराणामकृतक गिरां गाहते चित्तवृत्तिम् ॥
(प्रतितन्त्र शब्दार्थः)
प्रतितन्त्र शब्दार्थस्तावत् -इतर सिद्धान्तिषु केनाप्यनभ्युपगतः स्वसिद्धान्तस्यैवासाधारणोऽर्थः । इह वेदान्तिनामस्माकं दर्शनस्यैव असाधारणाः प्रधानभूताश्चार्था के इति चेत् — चेतनाचेतनानामीश्वरस्य च संबन्धरूपशरीरात्मभावादयः ॥
(शरीरशरीरिभावनिरूपणम् )
तत्रेश्वरस्य शरीरित्वं नाम - चेतनाचेतनद्रव्य निरूपितं नियमेन धारकत्वं नियन्तृत्वं शेषित्वं च । चेतनाचेतनानि प्रति धारकत्वं नियन्तृत्वं च नाम - स्वस्य स्वरूपेण संकल्पेन च यथाहं सत्तास्थितिप्रवृत्तीनां प्रयोजकत्वम् । तत् कथमिति चेत् —– ईश्वरः स्वकीयानां स्वरूपनिरूपकधर्माणाम्, निरूपितस्वरूपविशेषणानां गुणानां चेव स्वन्यतिरिक्त समस्तद्रव्याणामपि
प्रधानप्रति तन्त्राधिकारः (3)
[[61]]
[[२३]]
अव्यवधानेन स्वरूपेणाssधारो भवति । ततद्द्रव्याश्रितानां गुणादीनां तत्तद्द्द्रव्यद्वाराssधारो भवति । ‘जीवैर्धार्यमाणानां शरीराणां जीवद्वाराssधारो भवति’ इति केचिदाहुः । जीव द्वारीकृत्य, स्वरूपेण च आधारो भवतीति केचिदाचार्या आहुः । इत्थं सर्वेषामीश्वरस्वरूपं प्रति अपृथकू सिद्धविशेषणत्वात् एषां सत्तादीनि आश्रयसत्ताधीनानि । सर्ववस्तूनां सत्तायाः संकल्पाधीनत्वं नाम - अनित्यानामनित्येच्छयोत्पन्नत्वं नित्यानां नित्येच्छासिद्धत्वञ्च । इममर्थम् " " इच्छात एव तव विश्वग्दार्थसता” इति श्लोके अभियुक्ता विवेचयामासुः । एतेन सर्वस्यापि सत्तानुवृत्तिरूपायाः स्थितेरपीधरेच्छाधीनत्वात् सर्वमीश्वरसंकल्पाश्रितमित्युच्यते । गुरुद्रव्याणि संकल्पेन धृतानीति शास्त्रेषु प्रतिपादनम्, "" द्यौः सचन्द्रार्क नक्षत्रं खं दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः " इत्य्-उक्त-रीत्या तउद्देशविशेषेषु पतनप्रसक्तिराहित्येनावस्थापनरूपार्थमभिप्रेत्य । इत्थमिच्छाधीन सत्तास्थितिप्रवृत्तीनां वस्तूनां (विषये) परमात्मस्वरूपं किं करोतीति चेत् — परमात्मन इच्छा इमानि वस्तूनि परमात्म स्वरूपाश्रितत्वेन विविच्य स्थापयति । इत्थं सर्व वस्तु ईश्वरस्वरूपाश्रितमीश्वरेच्छाधीनं च भवति ।
[[61]]
-सन
लोकेऽपि शरीरं शरीरिणः स्वरूपाश्रितं संकल्पाधीनं च
एतत्यक्ततादशायां विनाशाच स्वरूपाश्रितम् । अयमर्थः संकल्परहितसुषुप्त्याद्यवस्थासु
पश्यामः — जीवाधिष्ठानकालेऽवस्थानात
विशदः । जागरादिदशासु संकल्पेन पतनप्रतिबन्धाई धारणसमये૪
प्रधानप्रतितन्त्राधिकाराः (3)
संकल्पाश्रितमिति वक्तव्यम् । अत्र स्वरूपाश्रितत्वम् आधेयत्वमिति संकल्पाश्रितत्वम् नियाम्यत्वमिति च वदति (प्रपाणगणः) ।
( ईश्वरस्य सर्वशेषित्वनिरूपणम् )
ईश्वरस्य सर्वशेषित्वं नाम - 8 उपादत्ते सत्ता स्थितिनियमनाद्यैश्चिदचितौ स्वमुद्दिश्य श्रीमानिति वदति वागौपनिषदी । उपायोपेयत्वे तदिह तव तत्त्वं न तु गुणौ अतस्त्वां श्रीरङ्गेशय ! शरणमव्याजमभजम् ॥" इत्य्-उक्त-रीत्या स्वप्रयोजनार्थमेव पारायैकस्वभावानामेषामुपादानपूर्वक मे तज्जन्यातिशयभाक्त्वम् ।
(आधाराधेयभावादिफलितार्थनिरूपणम्)
एभिराधाराधेयभावादिभिरस्य चेतनस्य किं फलतीति
चेत् — आधाराधेयभावेन
तदीयज्ञानशक्तयादीनामिवापृथक्सिद्धस्वरूपलाभः, शेषशेषिभावेन आत्माभिमानानुगुणपुरुषार्थव्यवस्थानुसारेण स्वरूपानुरूपपुरुषार्थरुचिः, शेषशेषिभावेन नियन्तृनियाम्यभावेन च स्वरूपानुरूपपुरुषार्थानुरूपनिरपेक्षोपाय विशेषावगमश्च फलति । तदेभिरयं चेतनोऽनन्याधारोऽनन्यप्रयोजनोऽनन्यशरणश्चेति सिद्धम् ।
(रहस्यत्रयेऽनन्याधारत्वाद्यनुसंधान स्थले प्रदर्शनम् )
अस्यार्थस्य प्रथमहस्ये स्थितत्वं कथमिति चेत्-
नारायणशब्दे
तत्पुरुषबहुव्रीहिसमासद्वयसिद्ध धारकत्वव्यापकत्वादिभिरनन्याधारत्वादिविशिष्टस्वरूपलाभः । पारार्थ्यचारतन्त्र्यगर्भ प्राक्तनपदद्वयेन अनन्यप्रयोजनत्वमनन्यशरणत्वं क
प्रधानप्रतितन्त्राधिकार : ( 3 )
[[२५]]
फलति । प्रपच्यतुष्ठानप्रकाशके मन्त्ररत्ने पूर्वखण्डेनानन्यशरणत्वमुत्तरखण्डेनानन्यप्रयोजनत्वं भागद्वयेनानन्याधारत्वं च प्रकाश्यते । एवं शाब्दतया आर्थतया च चरमश्लोकेऽप्ययं विभागो द्रष्टव्य ।
एवं चरमश्लोके साध्योपायविशेषस्य
सिद्धोपाय वशीकरणार्थविहितस्य द्वयेनानुष्ठानसमयेऽनुसन्धेयतयाऽवश्यापेक्षितान् सर्वान् अर्थान्, अस्थूलदर्पण इव स्थूलपदार्थान् संग्रहेण विशदं प्रकाशयति श्रीमन्त्रः ॥ (श्रीवादिहंसाम्बुदाचार्योक्तं मन्त्रार्थानुसन्धानस्यानुकूलं निदर्शनम् )
अत्र प्रथमपदोदिता अर्धा अर्जुनरथे, ’’ अग्रतः प्रययौ रामः" इति लोके च द्रष्टव्याः । द्वितीयपदे शब्दतोऽर्थस्वभावाच्च प्रतीयमानावर्थो श्रीभरतस्य शत्रुघ्नस्य वृतान्तयोर्ज्ञातुं शक्यौ । “अहं त्वां विना नाम्मि पश्य नारायण ! त्वं मां विना नासि" इत्य्-उक्त-नारायणशब्दार्थः कोसलजनपदस्यजन्तून् चक्रवर्तिश्रीकुमारं चोदाहरणीकृत्य द्रष्टव्यः । पूर्वपदद्वयप्रतिपन्नकाष्ठा प्राप्तपारार्थ्य पारतन्त्र्यमूलकं तृतीयपदस्थचतुर्थीविवक्षितं प्रार्थनीयं शेष्यभिमतं कैङ्कर्यं बालस्वामिनः एतदवतारभूतपादुकायाश्च प्रवृत्तौ निवृत्तौ च विशदं ज्ञातुं शक्यम् । अयं श्रीमन्त्रार्थानुसन्धानस्योदाहरणतया श्रीवादिहंसाम्बुवाहाचार्यैरनुगृहीत उपायः ॥ अनया रीत्या द्वये चरमश्लोके च निहिता अर्था विशदमनुसन्धेयाः ।
1 ‘नान् उन्नै यत्रि इलेन कण्डाय नारणने नी एनै यत्रि यिलै’ (नान्मुहन्तिरुवन्तादि - 7 ) । 2 लक्ष्मणस्प्रेत्यर्थः ।
[[२६]]
प्राधानप्रतितन्त्राधिकार : ( 3 )
शेषशेषिभावस्य दासस्वामिभावे विश्रमणम्)
अत्रेश्वरे प्रकाशितं शेषित्वं चेतनाचेतनसाधारणधर्म वात् चेतनैकान्ते स्वामित्वरूये विशेषे पर्यवसाय्यानुसन्धातुमुचितम् । एवं स्वगतं शेषत्वमपि सामान्यरूपत्वात् दासत्वरूपे विशेषे विश्रमय्यानुसन्धेयम् । अत्र सामान्यभूतः शेषशेषिभावः प्रथमाक्षरे चतुर्थ्या प्रकाश्यः ।
एतद्विशेषौ दासत्वस्वामित्वे द्वयोरपि चेतनत्वेन प्रकाशमानत्वादर्थसिद्धौ । एवं नारायणशब्देवि
सामान्यविशेषौ द्रष्टव्यौ ।
( दासत्वस्वामित्व फलितार्थनिरूपणम् )
अत्र सामान्यभृतशेषत्वेन चेतनस्य प्राप्तः किञ्चित्कारो दासत्वरूपविशेषेण कैङ्कर्यरूपपुरुषार्थः संपद्यते । एवं शेषित्वप्रयुक्त ईश्वरस्यातिशययोगोऽपि स्वामित्वरूपविशेषेण तस्य पुरुषार्थरूपतया फलति । चेतनरक्षणे ईश्वरस्य प्राप्ततया ( स्वतोधिकृततया ) शक्ततया च तदधीनप्रवृत्तिकतां विना चेतनानामनधिकृततया अशक्ततया चावस्थितेर्निबन्धनम् ऐश्वरं निरुपाधिकशेषित्वं निरुपाधिकनियन्तृत्वश्च, चेतनानां निरुपाधिकशेषत्वं निरुपाधिकनियाम्यत्वं च । स्वामिना स्वीयवस्तुनो रक्षणं समर्थेनासमर्थस्य रक्षणं च प्राप्तं (उचितं) किल । रक्षणसमये कर्मवश्यानामुपाय-
शेषे प्रवर्तनपूर्वकरक्षणमीश्वरस्य स्वसंकल्पनियतम् ॥
प्रधानप्रति तन्त्राधिकारः (3) (अधिकारार्थसंग्राहकगाथा)
[[२७]]
2 (गाथा) स्थितिप्रदः सन् धारकः, नियामकः सन् ईश्वरः, अस्वभूतं न किञ्चिदित्येवं सर्वं स्वकीयमित्यभिमन्ता सन् स्वामी च भवन् निरुपम इत्येवं स्थित यः, तस्य तुलसी भूषितकिरीटस्य (मौलेः) शरीरमृता वयं मूल्यं ( शुल्कं ) विनैव दासभूता इति वैदिकाभिमतः तात्त्विकोऽर्थः ॥
(उपसंहारपद्यम् )
यद्येतं यतिसार्वभौमकथितं विद्यादविद्यातमः प्रत्यूषं प्रतितन्त्रमन्तिमयुगे कश्चित् विपश्चित्तमः । तत्रैकत्र झटित्युपैति विलयं तत्तन्मतस्थापनाहेवाकप्रथमान हैतुककथा कल्लोलकोलाहलः ॥
इति श्री कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमदूरहस्यत्रये प्रधानपतिन्त्राधिकारः तृतीयः ॥
2 निलै तन्दधारकनाय नियमक्कमिरैवनुमाय इलदोत्रिलावहै येल्लां तनदेनु मेन्देयुमाय तुलैयोत्रि है येन नित्र तुड़ाय मुडियानुडम्बा विलैयित्रि नामडियोमेन वेदियर मेय्पोरुळे ।
०४ अर्थपञ्चकाधिकारः
श्रीः
श्रीमते निगमान्तमहा देशिकाय नमः
॥ अर्थपञ्चकाधिकारः चतुर्थः ॥
आदौ प्राप्यं परममनधं प्राप्तरूपं च मादौ इष्टोपायं त्वयननमसोरीप्सितार्थं चतुर्थ्याम् । तद्वयाघातं ममकृतिगिरि व्यञ्जयन्तं मनुं तं तत्प्रायं च द्वयमपि विदन् सम्मतः सर्ववेदी ॥
(अर्थ पञ्चकस्वरूपम्)
नारायणादिशब्दविवक्षितं सम्बन्धविशेषं सिद्धान्तस्याऽऽ. घारं कृत्वा एतदनुबद्धमर्थपञ्चकं केचिद्विचारयांबभूवुः । अनेन संबन्धेन सह, षडर्था इति केचिदनुसंदधिरे । एतत्संबन्धवत् मुमुक्षोर्विशिष्य ज्ञातव्यत्वेन समुच्चितमर्थपञ्चकं किमिति चेत् — “1 प्राप्यस्य ब्रह्मणो रूपं प्राप्तुश्च प्रत्यगात्मनः । प्राप्युपायं फलं चैव तथा प्राप्तिविरोधि च । वदन्ति सकला वेदाः सेतिहासपुराणकाः ॥" इति प्रतिपादितम् ।
(रहस्यत्रये प्राप्यानुसंधानस्थल प्रदर्शनम् )
एषु प्राप्यस्य ब्रह्मणः स्वरूपं श्रीमन्त्रे प्रथमाक्षरे नारायणशब्दे च द्वये सविशेषणयोर्नारायणशब्दयोः, चरमश्लोके माम अहं इति पदयोश्वानुसन्धेयम् ।
अर्थपश्ञ्चकाधिकारः (4)
( प्राप्य स्वरूपनिरूपक श्रीवैशिष्टयादि)
[[२९]]
तत्रानुसन्धानसमये, “2 श्रिया सार्धं जगत्पतिः " “एष नारायणः श्रीमान् " " भवान् नारायणो देवः श्रीमाँश्चक्रधरो विभुः " “श्रीवत्सवक्षाः नित्यश्रीः " ““विष्णोः श्रीरनपायिनी " “7 सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत् “, 8 सीतामुवाचातियशा राघवं च महात्रनम्”, “अलमेषा परित्रातुं राघवात् राक्षसीगणम् ”, “10 भवेयं शरणं हि वः “, “11
1 भवांस्तु सह वैदेह्या”, “12 तया सहाssसीन - मनन्तभोगिनि”, “18 कान्तस्ते पुरुषोत्तमः”, “14 स्वपरिचरणभोगैः श्रीमति प्रीयमाणे”, “15 श्रीमते निर्मलानन्दोदन्वते विष्णवे नमः”, 17 ब्रह्मणि कान्तोऽनन्तो वरगुणगणैकास्पद वपुः “,
“16श्रियः
श्रीनिवासे”, “18 श्रियः पतिर्निखिल हेयप्रत्यनीक कल्याणैकतान.. अनन्तज्ञानानन्दैकस्वरूपः”, “18 त्वञ्च श्रीदेवी च स्थितौ आश्चर्यम्
श्रियां त्वयि चैव
“20 उज्ज्वलाग्रहस्वबलयायां
स्थितयोः “,
सह त्वाम् “,
2 तव
श्रीकृपां
“21 अलंकारशालिश्रीमहालक्ष्म्या सह त्वाम् “,
पङ्कजाङ्गनायाः श्रीकृपां च”, “2 तव तामरसवधूः त्वं च 24 विश्लेष्टुं
19 नीयुम तिरुमहलुं नित्रायाल ( प्रथमान्तादि 86 ) 20 ओणतोडियाऴतिरुमहलं नीयुमे निलानिर्प
21 कोलेत्तिरुमा महळोदुन्नै
( तिरुबाय् - 4-9-10 )
"
(6-93-)
22 निन् तिरुवरुळं पंकयत्ताळ तिरुवरुम्, (9-2-1)
23 उन्तामरैमङ्गैयुम् नीयुम्
24 अहल किल्लेनिरेयुम्,
"”
"”
(9-2-3) ::(6-10-10)
[[३०]]
अर्थपञ्चकाधिकारः (4)
न शक्नोमि क्षणमपि” “25 कार्त्स्न्येन ज्ञानमानन्दः " “26 अविनश्वरदीपः परिच्छेतुमशक्य” इति प्रमाणोक्तरीत्या सर्वप्रकारेण सर्वावस्थायां सहधर्मचारिण्या महादेव्याऽविनाभूतं कृत्स्नानन्दानन्तज्ञानस्वरूपं चानुसन्धेयम् ।
( तस्य यप्रत्यनीकत्वम् )
एवं “27 समस्त हेयर हितं विष्ण्वाख्यं परमं पदम् "
पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे”
हेयप्रत्यनीकतयाऽनुसन्धेयम् ।
( तस्य कल्याणगुणाकरत्वम् )
6628 परः
इत्य्-उक्त-रीत्या
- " तैर्युक्तः श्रूयतां नरः " 30. " तमेवं गुणसंपन्नम् " 31 " ज्येष्ठं श्रेष्ठगुणैर्युक्तम्” 32 एवं श्रेष्ठगुणैर्युक्तम् " " 33 गुणैर्विरुरुचे रामः " “34तमेवंगुणसंपन्नमप्रधृष्यपराक्रमम् " “35 बहवो नृप ! कल्याणगुणाः पुत्रस्य सन्ति ते” “636 आनृशंस्यमनुकोशः श्रतं शीलं दमः शमः । राघवं शोभयन्त्येते षड् गुणाः पुरुषोत्तमम् ॥” 37 विदितः स हि धर्मज्ञः शरणागतवत्सलः” ‘‘88 शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः " “39 निवासवृक्षः साधूनामापन्नानां परा गतिः " “40 तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः “, 41 सर्वभूतात्मभूतस्य विष्णोः को वेदितुं गुणान् “, “42 यथा रत्नानि जलधेरसंख्येयानि पुत्रक । तथा गुणाश्च देवस्य ह्यसंख्येया हि चक्रिणः ॥ “, " 43 वर्षायुतैर्यस्य
25 उणर मुड़ नलम् (तिरुवायू - 1-1-2)
26 नन्दाविळ अळत्तर्करियाय ( पेरियतिरु - 3-81 )
अर्थपञ्चकाधिकारः (4)
[[३१]]
गुणा न शक्या वक्तुं समेतैरपि सर्वदेवैः " “44 चतुर्मुखायुर्यदि कोटिवक्त्रो भवेन्नरः कापि विशुद्धचेताः । स ते गुणानामयुतैकमंशं वदेन वा देववर प्रसीद ॥ " “4 तवानन्तगुणस्यापि षडेव प्रथमे गुणाः । यैम्वयेव जगत् कुक्षावन्येऽप्यन्तर्निवेशिताः ॥” “46 इषुक्षयान्निवर्तन्ते नान्तरिक्षक्षितिक्षयात् । मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात् ॥”, 6647 प्रबलपापिनं मां बाधमानैर्गुणैयुक्त”,
6648 उच्छ्रायशून्य-
मुच्छ्रयदानन्दवान्”
इत्य्-उक्त-रीत्या प्राप्यत्वप्रापकस्योपयुक्तैर्गुणै-
विशिष्टतयाऽनुसन्धेयम् ।
( तस्य दिव्य विग्रहवत्त्वम् )
649 सदैकरूपरूपाय”, “50 नित्यसिद्धे तदाकारे तत्परत्वे च पौष्कर ।
यस्यास्ति सत्ता हृदये तस्यासौ सन्निधिं व्रजेत् ॥” 651 समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तत् विश्वरूपवैरूप्यं
4452 “52
66537 ‘न
रूपमन्यद्धरेर्महत् ॥” “ इच्छा गृहीताभिमतोरुदेहः " 453
भूत..
सङ्घसंस्थानो देहोऽस्य परमात्मनः " 6654 न तस्य प्राकृता मूर्तिर्मांसमेदोस्थिसंभवा” “भुजैश्चतुर्भिः समुपेतमेतद्रूपं विशिष्टं दिवि संस्थितञ्च, " 56
- 50 रुकुमाभं स्वप्नधीगम्यम्, " “57 तत्रैकस्थं जगत् कृत्स्नम् " " 58 पश्यामि देवांस्तव देव देहे” “59 अस्त्रभूषण संस्थानभूषणास्त्र स्वरूपस्थं यथेदमखिलं जगत् " “61 तमसः परमो धाता शङ्खचक्रगदाधरः” इत्य्-उक्त-रीत्या सर्वजगदाश्रयाप्राकृत-
स्वरूपम् "
[[4460]]
47 वलविनैयेनै योर्हित्र गुणंगळेयुडैयाय् (तिरुवाय - 8-18) 48 उयर्वर उयर्नलमुडैयवन्
1-1-1
“3
[[३२]]
अर्थपञ्चकाधिकारः (4)
दिव्य मङ्गलविग्रहविशिष्टतयाऽनुसन्धेयम् ॥ अस्य
परव्यूहविभवहार्दाचविताररूपेण
भगवच्छास्त्रसंप्रदायतोऽवगम्यन्ते ॥
[[402]]
विग्रहस्व
पञ्चप्रकारत्वमेतद्भुत विशेषाश्च
(तस्योभय विभूतियुक्तत्वम् )
५. महाविभूतिसंस्थान”
२०२ विष्णोरेता विभूतयः “, 4.63
4 नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप” इत्यादीनां संग्रहभूतस्य, “यदण्डमण्डान्तरगोचरं च यत् " इत्यस्य श्लोकस्यानुसारेणानन्तविभूतिविशिष्टतयाऽनुसन्धेयम् । एतद्विविभृत्यन्तर्गताः चेतनाचेतनरूपा उभयविधा अप्यर्थाः लीलार्थतया भोगार्थतया च विभक्ताः सन्ति । आनुकूल्यमात्रे अविशिष्टेऽपि रसवैषम्येण लीलाभोगविभागो यथालोकं द्रष्टव्यः ।
तथैव,
( तस्य लीलारूप जगद्वयापारवत्त्वम् )
4466 जन्माद्यस्य यतः " “67 क्रीडा हरेरिदं सर्वम् " “68 क्रीडतो बालकस्येव”, “69 बालः क्रीडनकैरिव” “70 हरे विहरसि क्रीडाकन्तुकैरिव जन्तुभिः " “71 लोकवत्तु लीलाकैवल्यम् " इत्य्-उक्त-रीत्या लीलारूपजगद्व्यापारलक्षणकतया चानुसन्धेयम् ॥
( उक्तार्थसंग्रहपूर्वकं प्राप्तृनिरूपणोपक्रमः)
इत्थं लक्ष्मीसहायमपरिमितज्ञानानन्दस्वरूपं हेयप्रत्यनीकं ज्ञानशक्त्याद्यनन्त मंगलगुणविशिष्टं दिव्यमङ्गलविग्रहोपेतं शरीरभृतविभूतिद्वययुक्तं जगत्सृष्ट्यादिव्यापारलीलं सत् प्राप्यं ब्रह्म प्राप्नुवतः प्रत्यगात्मनो बद्धमुक्तनित्यसाधारणं रूपम्, उपायाधिकारिणः स्वस्य साम्प्रतिकमसाधारणं रूपञ्चावगन्तव्यम् ।
अर्धपञ्चकाधिकारः (4) ( बद्धमुक्तनित्यानां लक्षणानि )
एषु बद्धा
ह
नाम - अनादिकर्मप्रवाहेणानुवृत्तसंसाराः
ब्रह्मादिस्तम्बपर्यन्त विभागभागिनः क्षेत्रज्ञाः । मुक्ता नाम-शास्त्र-
चोदितैरुपायविशेषैर्जनितेन
भगवत्प्रसादेनात्यन्तनिवृत्तसंसाराः
[[72]]
संकोचरहित भगवदनुभवेन निरतिशयानन्दाः स्थिताः । नित्या नाम - ईश्वरवदनादिसिद्धात ज्ञानसंकोचाभावात् " सवयस इव ये नित्यनिर्दोषगन्धाः” इतिरीत्या अस्पृष्टसंसाराः सन्तो नित्यकैडूर्य कुर्वाणाः अनन्तगरुडविष्वक्सेनादयः । एषां सर्वेषां साधारणं रूपमणुत्वज्ञानानन्दामलत्वादिकं भगवच्छेषत्वपारतन्त्र्यादिकञ्च । मुमुक्षोः स्वस्यासाधारणान् ज्ञातव्यान् आकारान् उपोद्घातेऽवोचाम । अग्रेऽपि द्रष्टव्यम् ।
(रहस्यत्रये प्राप्तृस्वरूपानुसन्धानस्थल प्रदर्शनम्)
अस्य प्राप्तुः स्वरूपं प्रणवनमस्स्थमकारेषु नारशब्देषु “प्रपद्ये” इत्युत्तमे " व्रज” इति मध्यमे " त्वा” इतिपदे " मा शुचः " इति वाक्ये चानुसन्धेयम् ।
(उपायफले स्वरूपानुसंधान स्थल प्रदर्शनम् ।) प्राप्त्युपायमेतत्परिकरान् फलस्वरूपं चोपरिष्टात् प्राप्तस्थलेषु विस्तरेण प्रतिपादयिष्यामः । एषूपायः श्रीमन्त्रे नमसि अयनशब्दे, द्वये पूर्वखण्डे, चरमश्लोके पूर्वार्धे चानुसन्धेयः । फलस्वरूपं चतुर्थ्यन्तपदेषु द्वये नमसि, “सर्वपापेभ्यो मोक्षयिष्यामि” इत्यत्र चानुसन्धेयम् ।
[[3३४]]
श्रीरहस्यत्रयसारे
( प्राप्तिविरोधिस्वरूप प्रदर्शनम् ) प्राप्तिविरोधी - अविद्याकर्मवासनादिरूपो मोक्षप्रतिबन्धकवर्गः । अत्र प्रधानभूतोऽनादिकालसन्तन्यमानाज्ञातिलङ्घनप्रभवो भगवन्निग्रहः । अयम्-
[[6674]]
क्षेत्रज्ञानां ज्ञानसंकोचकरं त्रिगुणात्मकप्रकृतिसंसर्गविशेषमुपजनय्य, – एतत्प्रकृतिपरिणामविशेषैः शरीरेन्द्रियादिभिः सह संयोजनपूर्वकं “78 दृढं सम्यक्बध्वा बहुकृतपापदृढरज्जुभिः, व्रणरूपमांसादिकमविदितमाच्छाद्य मां अपसरणयोग्यं स्थापितवानसि बहिरेव” इति, “74 तद्दिने त्वद्दत्तस्य शरीरस्य वर्त्मनि भ्रमामि” इति चोक्तरीत्या देहेन्द्रियादिपरतन्त्रमापाद्य, — तस्यामवस्थायामपि शास्त्रवश्यतानहतिर्यगादिदशासु स्थापयित्वा – शास्त्र योग्येषु मनुष्यादिजन्मसु वाह्यकुदृष्टिमतैर्व्यामोह्य, – तत्राप्रविष्टानपि “75 भगवत्स्वरूपतिरोधानकरीं विपरीतज्ञानजननीं स्वविषयायाश्च भोग्यबुद्धेर्जननीम् " इत्य्-उक्त-रीत्या मूलप्रकृतिप्रभृतिमोहनपिच्छिकया तत्वाज्ञान-विपरीतज्ञानविषयप्रावण्यान्युपजनय्य, - एतन्मूलकतया आत्मा व्याकुलो यथा भवेत् तथा पञ्चेन्द्रियपीडाफलमरूपसुखं बहु प्रदश्य क्लेशयितुं किं ते साम्प्रतम्” इत्य्-उक्त-रीत्या सुखलवार्थमकृत्य करणादिरूपमा-
73 तिष्णमन्दकट्टिप्पलेशेयविन
मरैय वरिन्दु नैप्पोर वैत्ताय पुरमे
[[4476]]
वन्कयिट्रील पुण्णे (तिरुवाय - 5-15) 74 अन्नाल नी तन्द वाक्कैयिन् वड़ियुड्ल्वेन् (,, 3-2-1) 76 आवि तिहैक ऐवर् कुमैक्कुं शिर्टिन्बम्
पावियेनै प्पले नी काट्टि पटुप्पायो
(,, 6-9-9)
अर्थपञ्चकाधिकारः (4)
[[३५]]
पुनः
ज्ञातिलङ्घनं कारयित्वा – 477 पापं प्रज्ञां नाशयति क्रियमाणं “77 पुनः । नष्टप्रज्ञः पापमेव पुनरारभते नरः ॥” इत्य्-उक्त-रीव्या अग्रेऽपि अपराधपरम्परासु प्रवर्तनपूर्वकं तत्फलतया “78 क्षिपाम्यजस्रमशुभान् ’ इत्याद्युक्तरीत्या गर्भजन्मजरामरण नरकादिचक्रपरिवृत्तौ परिभ्रमय्यक्षुद्रसुखसाधनराजसतामसशास्त्रार्थेः “72 यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥” इत्य्-उक्त-रीत्या स्वेन साकमविशेषेण दीर्घशृङ्खलायां बन्धमुपेत्य भ्रमतां क्षेत्रज्ञानां चरणयोर्निपात्य, – तत्प्रत्तजुगुप्सावहक्षुद्र पुरुषार्थेः क्रिमीणामिव
कृतार्थतामोहमुपजनय्य,
(फलितं कृत्वा,
योगप्रवृत्तानामपि क्षुद्रदेवतायोगेषु नामाद्यचेतनोपासनेषु वा प्रवृत्तिमुपजनय्य क्षुद्रफलैर्योगमवनतशिरस्कं कृत्वा, — आत्मप्रवण । नामपि प्रकृतिसंसृष्टत्वप्रकुतिवियुक्तत्वरूपविधाद्वयेऽपि ब्रह्मदृष्ट्या वा स्वरूपतो वोपासने प्रवर्तनपूर्व तादृशचतुर्विधोपासनफलभूताल्पाखादप्रदानेन पुनरावृत्तिमापाद्यब्रह्मात्मकस्वात्मचिन्तन प्रवृत्तानां स्वात्मशरीरकपरमात्मचिन्तनपराणां चापि अन्तरायभूतेन आत्मानुभवेन वा अष्टैश्वर्यसिद्धिभिर्वा, निर्दिष्टाभिषेकदिनस्य राजकुमारस्य कारायां दूरतः शुश्रूषणाय प्रसारितहस्तायाश्ट्या विषये यथा ( यदि ) चक्षुः पातो भवेत्, प्रारब्धकर्मफलभूतेषु देहेन्द्रियेषु तदनुबन्धिपरिग्रहेषु तन्मूलभोगेषु च आसक्तिजननेन वा अन्यपरतामापाद्य, -
इत्थं बहुभिर्मुखैर्भगवत्प्राप्तेर्विरोधी भवति ।
तथा
[[३६]]
श्रीरहस्यत्रयसारे
द्वात्रिंशत्पदमितवापीलङ्घनोद्युक्तानां प्रथमपदे पतनस्य [एक] त्रिं-
शपदे पतनस्य चाविशेषवत् यस्मिन् कस्मिंश्चिदपि पर्वणि अन्तराये उपनते अयं संसारं तीर्णवान् न भवति । कर्मयोगादिषु प्रवृत्तस्य “80 नेहा भिक्रमनाशोऽस्ति” इत्य्-उक्त-रीत्या कृता चितिः शिलाचितिरिति, यस्मिन् कस्मिश्चिदिने फलसिद्धिर्भवेदेवेत्युक्तमपि कल्पान्तरमन्वन्तरयुगान्तर-जन्मान्तरादिषु कस्मिन्निति निर्धारयितुमशक्यम् । आनुकूल्येऽतिशयिते सत्यपि वसिष्ठादीनामपि विलम्बं पश्यामः । प्रातिकूल्येऽतिशयिते सत्यपि वृत्र क्षत्रबन्धुप्रभृतीनां झटिति मोक्षसिद्धि पश्यामः । अतो विलम्बरहितमोक्ष हेतवः सुकृतविशेषाः केषां समीपे सन्तीति ज्ञातुमशक्यम् । विलम्ब हेतोर्निग्रहस्य कारणभूता दुष्कर्मविशेषाः केषां समीपे सन्तीत्यपि ज्ञातुमशक्यम् ।
(ईदृशभगवन्निग्रहपरिहारसाधनम् )
6.81 तस्य
इत्थम निष्टपरम्परामूलभूतैराज्ञातिलंघनैर्जनितस्य भगवन्नि ग्रहविशेषरूपस्य प्रधानविरोधिनः कर्तव्यं परिहारप्रकारं “81 च वशीकरणं तच्छरणागतिरेव” इति वशीकार्य परम्परा निरूपणप्रसङ्गे श्रीभाष्यकारोऽनुजग्राह ।
(विरोधिवर्गानुसंधान स्थलस्य अनुसंधानप्रयोजनस्य च प्रदर्शनम् )
इमं विरोधिवर्ग सर्वं रहस्यत्रये विधीयमानानामर्थानां व्यवच्छेदशक्त्या नमसोर्यकारोतर पष्ठीभ्याम्, सर्वपापशब्देन चानुसंघाय संसारे [संतप्तसैकतरूपे ] चरणसंतापेन पुरुषार्थहेतुभूतमार्गेषु त्वरितुं युक्तम् ॥
अर्थपञ्चकाधिकार : ( 4 )
(अधिकारार्थसंग्राहकगाथा)
[[३७]]
1 (गाथा) पुरुषार्थ एक इति स्थितः पुप्पपुत्रीनाथः, तत्पादौ बाध्य कृपया एकीभूतो भक्तः, तेन स्वीक्रियमाण उपायः, अनुरूपं फलम्, अज्ञानसंटक कर्मरूपदृढशृङ्खलेत्येतान् पञ्च (अर्थान् ) जानानाः - तमः किमपि यथा न स्यात् तथा, मन्मनो यथा दृढं स्यात् तथोपदिष्टवन्तः ॥
(उपसंहारपद्यम्)
प्राप्यं ब्रह्म समस्तशेषि परमं प्राप्ताऽहमस्योचितः प्राप्तियधनक्रमादिह मम प्राप्ता स्वतः सूवित् । हन्तैनामतिवृतवानहम् अहंमत्या विमत्याश्रयः सेतुः संप्रति शेषिदम्पतिभरन्यासस्तु मे शिष्यते ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्रहस्यत्रयसारे अर्थपञ्चकाधिकारः चतुर्थः ॥
०५ तत्त्वत्रयाधिकारः
॥ श्रीमते निगमान्तमहा देशिकाय नमः ॥
पोरुळोत्रेन नित्र पूमहणातन् अवनडि शेन्दु अरुको कोळुपायम् अमैन्द पयन् मरुळोत्रिय विनवलंविलङ्गेन विवेयै
दरिवार इरुलोत्रिराव है येन्मनम् तेर इयम्बिन
(
श्रीः ॥ तत्त्वत्रयाधिकारः पञ्चमः ॥
प्रकृत्यात्मभ्रान्तिर्गलति चिदचिल्लक्षणधिया तथा जीवेशैक्यप्रभृतिकलहस्तद्विभजनात् । अतो भोक्ता भोग्यं तदुभयनियन्तेति निगमैविभक्तं नस्तत्त्वत्रयमुपदिशन्त्यक्ष तधियः ॥
(तत्त्वत्रयनिरूपणप्रयोजनम् )
संबन्धोऽथपञ्चकं चेति षट्स्वर्थेषु ज्ञातव्येषु सत्सु एतदकदेशभूतं तत्त्वत्रयम्, मुमुक्षुणा विशिष्य ज्ञातव्यमित्युपदिशतामाचार्याणामस्य संप्रदायस्य किं मूलमिति चेत् — अस्य मूल प्रकृत्यात्मभ्रम स्वतन्त्रात्मभ्रम तन्निदानानीश्वरवादरुचिरूपाणां महाविरोधिनां प्रथमतो निरसनस्य प्राप्तत्वमेव । एतदभिप्रेत्यैव
। भोक्तृभोग्यनियन्तृरूपेण शास्त्रेषु तत्त्वविवेकः क्रियते ।
(तत्त्वत्रयस्वभावनिरूपणम् )
एतन्मध्ये " अचेतना परार्था च नित्या सततविक्रिया । त्रिगुणा कर्मिणां क्षेत्र प्रकृतेः रूपमुच्यते ॥”, "” अनादिर्भगवान् कालो नान्तोऽस्य द्विज विद्यते”, "”” कलामुहूर्तादिमयश्च कालो न यद्विभूतेः
[[63]]
परिणाम हेतुः “, " " ज्ञानानन्दमया लोकाः “, “5 कालं स पचते तक्र
( 5 )
[[३५]]
न कालस्तत्र वै प्रभुः ।” इत्यादिषु त्रिगुणकालशुद्धसत्त्वरूपाणां त्रिविधाचेतनानां स्वभावोऽभ्यधायि । "” पुमान्न देवो न नरः " “7 नायं देवो न मत्यों वा”, “8क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते”, यद्वै पश्यन्ति सूरयः” इत्यादिभिस्त्रिविधजीवानां प्रकारो व्यवेचि । “10 सर्वज्ञः सर्वदृक् सर्वशक्तिज्ञानबलर्द्धिमान् । क्लमतन्द्रीभयकोयकामादिभिरसंयुतः ॥” इत्या दिभिरीश्वरस्वभाव उपदिष्टोऽस्ति ।
(तत्त्वत्रयस्थितिप्रतिपादक पूर्वाचार्यवचनव्याख्या)
11खा
अस्येशेशितव्यरूपस्य तत्त्वत्रयस्यावस्थितिप्रकारम्, घीनत्रिविधचेतनाचेतन स्वरूपस्थितिप्रवृत्तिभेदम्” इति संगृह्यानुजगृहुः । त्रिविधचेतनेत्युच्यन्ते बद्धा मुक्ता नित्याश्च । त्रिविधाचेतनेति निर्दिश्यन्ते त्रिगुणद्रव्य कालशुद्धसत्त्वद्रव्याणि । स्वरूपं नाम स्वासाधारणधर्मेण निरूपितं धर्मि । स्थितिर्नाम एतस्य कालान्तरानुवृत्तिः । इयं नित्यवस्तूनां नित्या वर्तते ; अनित्यवस्तूनामीश्वरसंकल्पानुसारेणाधिककाला न्यूनकाला च वर्तते । अत्र प्रवृत्तिर्नाम प्रवृत्तिनिवृत्तिरूपो व्यापारः । इदं सर्वं प्रतिवस्तु प्रमाणप्रतिनियतं वर्तते । प्रमाणानि वस्तुप्रदर्शनकाले तत्तद्वस्तूनां स्वरूपं स्वरूपनिरूपकधर्मान् निरूपितस्वरूपविशेषणानि व्यापारांच प्रदर्शयन्ति । तस्य तत्र स्वरूपं स्वरूपनिरूपकधर्मैर्विशिष्टमेव प्रदर्शयन्ति । स्वरूपस्य प्रतिपादनावसरे तत्तद्धर्मापुरस्कारेण प्रतिपादनम्शक्यम् । तान् परिहृत्य दर्शने शशविषाणतुल्यं भवति
[[1]]
(जीव स्वरूपादिनिरूपणम्)
अतो जीवस्वरूपं ज्ञानत्वानन्दत्वामलत्वाणुत्वादिभिर्निरूपकधर्मेर्निरूप्य ज्ञानमा नन्दोऽमलमणु इत्येवंप्रका व्यवहर्तव्यं भवति । इदं जीवतत्त्वं सर्वेश्वरस्य शेषभूतमेव वर्तते इति, तस्यैव निरुपाधिकशेषमिति चायोगान्ययोगव्यवच्छेदाभ्यां प्रतिपन्नस्य शेषत्वस्य सम्बन्धरूपत्वात् सम्बन्धिस्वरूपनिरूपणमन्तरा ज्ञातुमशक्यत्वात् जीवस्येदं निरूपित स्वरूपविशेषणमिति
सुवचम् । अणुत्वे सति
चेतनत्वमिव स्वतः शेषत्वे सति चेतनत्वनपि जीवलक्षणं भवितुमर्हतीति हेतोरिदं शेक्त्व जीवस्य स्वरूपनिरूपकमित्यपि कथनार्हम् । इत्थं विभुत्वे सति चेतनत्वम्, अनन्याधीनत्वनिरुपाधिकशेषित्वादीनि चेश्वरलक्षणानि। जीवेश्वररूपस्यात्मवर्गस्य सर्वस्यापि साधारणं लक्षणं चेतनत्वं प्रत्यकत्वं च । चेतनत्वं नाम —– ज्ञानाश्रयत्वम् प्रत्यकुत्वं नाम – स्वम्मै स्वयंपकाशमानत्वम् । तदा धर्म-भूत-ज्ञाननैरपेक्ष्येण “अहम्” इति प्रकाशते । इत्थं चेतनत्वादीनामीश्वरजीवसाधारणत्वादीश्वराद् व्यावृत्ति प्रत्याययितुं जीवलक्षणे स्वतश्शेषत्वादीनि निवेश्यन्ते । प्रथमाक्षरे चतुर्थीप्रतिपन्नस्य तादर्थ्यस्योपाध्यभावात् सर्वरक्षकस्य श्रियः पत्युर्जीवात्मा निरुपधिकशेष एव भवतीत्येवं यावत्स्वरूपं संबन्धस्य प्रतिपादनमयोगव्यवच्छेदः । मध्यमाक्षरे अवधारणसामर्थ्येन “तस्यैव निरुपाधिकशेषः; अन्यस्य कस्यापि निरुपाधिकशेषो न” इति प्रतिपादनमन्ययोगव्यवच्छेदः । अस्य
अस्य शेषत्वस्य भागवतशेषत्वपर्यन्ततयाऽभिवृद्धेः
प्रकारमये वक्ष्यामः ।
( 5 )
[[४१]]
एवंभूतानां चेतनानां प्रवृत्तिर्नाम पराधीनं परार्थं च कर्तृत्वं भोक्तृत्वं च । ईश्वरेण स्वस्य भोक्तृत्वार्थमेषां कर्तृत्वभोक्तृत्वयोरुत्पादनादिमे परार्थे ।
(त्रिविधचेतनानां प्रत्येकं स्वरूपस्थितिप्रवृत्तिषु भेदनिरूपणम् ) बद्धचेतनानामितरेभ्यो भेदः अविद्याकर्मवासनारुचिप्रकृतिसंबन्धयुक्तत्वम् । एषामन्योन्यं वर्तमानो ज्ञानसुखादिभेदो ब्रह्मादिस्तम्बपर्यन्तेषु विभागेषु द्रष्टव्यः । इमे बद्धचेतनाः स्वस्यस्वस्य कर्मानुरूपमीश्वरेणार्पितानि शरीराणि धर्मिस्वरूपेण धर्म-भूत-ज्ञानेन च धारयन्ति । धर्मिनिबन्धनं धारणं शरीरसत्तायाः
भवति भवति । जाग्रदाद्यवस्थायां धर्म-भूत-ज्ञानेन
[[9]]
प्रयोजकं संपद्यमानं शरीरधारणं पुरुषार्थतदुपायानुष्ठानानाम् कृतोपायस्य परमैकान्तिनो भगवदनुभवकैङ्कर्याणां चोपयुक्तं भवति । पापकृतामिदं शरीरधारणं विपरीतफलस्य हेतुर्भवति । इमे जीवाः इमानि शरीराणि त्यजेयुश्चेत् — एषां सङ्घातो विशीर्यत एव । शरीरोपादानभूतानि द्रव्याणि ईश्वरशरीररूपेण तिष्ठन्ति ।
बद्धचेतनानामितरेभ्यः स्थितिभेदः संसारबन्धस्य यावन्मोक्षमनुवृत्तिः । प्रवृत्तिभेदः पुण्यपापानुभयरूपास्त्रिविधप्रवृत्तयः । मुक्तानामितरेभ्यो भेदः प्रतिबन्धकनिवृत्याऽऽविर्भूतस्वरूपत्वम् । स्थितिभेदः पूर्वावधिमत आविर्भावस्योत्तरावधि
। राहित्येनावस्थानम् । एषामन्योन्यं स्थितिभेदः आविर्भावे पूर्वभावपरभावकृते पूर्वावधेराधिक्यन्यूनत्वे । प्रवृत्तिभेदोऽनादिकालप्रहीणप्रतिलब्धपरिपूर्णभगवदनुभवजनितप्रीतिकारित यथाभिमतकैङ्कर्यविशेषाः ।
[[४२]]
श्रीरहस्यंत्र सारे
नित्यानामितरेभ्यो भेदोऽनाद्याविर्भूतस्वरूपत्वे सति पारतन्त्र्यम् । एषामितरेभ्यः स्थितिभेदोऽनाद्यनुवृत्तः शेषितत्त्वानुभवः । अयं नित्यानां सर्वेषामविशिष्ट इति एषामन्योन्यं स्थितौ न वैषम्यम् । प्रवृत्तिभेदोऽनादिप्रवाह नित्याः कैङ्कर्यविशेषाः । ( मुक्तानां नित्यानां च सर्वविध कैङ्कर्यसिद्धेरुपपादनम् )
अनन्तगरुडादीनामधिकारविशेषेषु तदुचितकैङ्कर्येषु च व्यवस्थितेषु सत्सु नित्यानां मुक्तानां च सर्वविधकैङ्कर्यसिद्धिर्भवतीत्ययमर्थः कथं घटेतेति चेत् — (1) स्वाम्यभिप्रायानुसारेण स्वस्या भिमतेपु कैङ्कर्येषु दुर्लभस्य कस्याप्यभावात्, ( 2 ) एकैककार्यत्वेन व्यवस्थितेषु कैङ्कर्येषु स्वानुष्ठेयत्वाभिसन्धेः परेष्वनुदयात्, ( 8 ) येन केनाप्यनुष्ठीयमानस्यापि स्वामिप्रियत्वेन तदुचितकैङ्कर्याणां सर्वप्रियत्वेन कैङ्कर्यफले प्रीतौ विशेषाभावाच्च सर्वेषां सर्वविधकैङ्कर्यसिद्धिर्भवतीत्यर्थे न कश्विद्विरोधः ॥
(धर्म-भूत-ज्ञाननिरूपणम् )
एषामात्मनां सर्वेषां धमिस्वरूपवत् धर्म-भूत-ज्ञानेऽपि द्रव्यात्म के सति तत्स्वरूपस्यात्र पार्थक्येनानुपादानं चेतनशब्दोपात्ते विशिष्टे विशेषणतयाऽन्तर्भावनिबन्धनम् ।
इदं धर्म-भूत-ज्ञानं विषयप्रकाशनदशायां स्वाश्रयाय स्वयम्प्रकाशं भवति । इदमीश्वरस्य नित्यानां च नित्यविभुः अन्येषां संसारावस्थायां कर्मानुरूपबहुविध संकोच विकासयुक्तं मुक्तावस्थायामेकविकासेन परस्तात् यावत्कालं विभु भुवति ।
तत्वत्रयाधिकारः
[[४३]]
अस्य प्रवृत्तिस्तावत् विषयाणां प्रकाशनम्, प्रयत्नावस्थायां शरीरादीनां प्रेरणम्, बद्धदशायां संकोचविकासौ, आनुकूल्यप्रातिकूल्य प्रकाशमुखेन भोगरूपावस्थावत्त्वं च । भोगो नामस्वस्यानुकूलतया प्रतिकूलतया वा कस्यचिदर्थस्यानुभवनम् ।
ईश्वरविभूतिभृतानां सर्वेषां वस्तूनां आनुकूल्ये स्वाभाविके सति, एवमीश्वरे नित्येषु मुक्तेषु चानुभवत्सु सत्सु, संसारिणां कालभेदेन पुरुषभेदेन देशभेदेन च अल्पानुकूल्यं प्रातिकूल्यमौदीसीन्यमित्येते विभागाः सर्वेऽप्येषां वस्तूनां न स्वभावसिद्धाः भवन्ति; किंतु एतदीयकर्मानुसारेण सत्यसंकल्पेनेश्वरेण एषां विषये फलदान प्रकाराः ।
(कर्मफलानुभवौपयिक योग्यतानिरूपणम् )
कृताः
एतत्कर्मफलानुभवविषे बद्धानां स्वरूपयोग्यता सहकारियोग्यता च स्तः । स्वरूप योग्यता परतन्त्रचेतनत्वम् । सहकारियोग्यता सापराधत्वम् । नित्यानां मुक्तानां च परतन्त्र चेतनत्वात् स्वरूपयोग्यतासत्त्वेऽपि ईश्वरानभिमतविपरीतानुष्ठानाभावात् सहकारियोग्यता नास्ति । ईश्वरस्य सर्वप्रशासितृतयाऽनन्यशासनीयतया चावस्थानात् परतन्त्रचेतनत्वरूपा स्वरूपयोग्यताऽपि नास्ति ; स्वतन्त्राज्ञातिलङ्घनरूपा सहकारियोग्यता च नास्ति ।
(धर्मधर्मिभूतज्ञानयोरन्तरनिरूपणम् )
जीवेश्वररूपाणामात्मनां सर्वेषामपि स्वरूपं स्वस्मै स्वयंप्रकाशम् । बद्धानामप्यस्य धर्मिस्वरूप प्रकाशस्य न जात्वपि संकोचविकासौ भवतः । सर्वात्मनामपि धर्म-भूत-ज्ञानं विषय-r
L
प्रकाशनवेलायां स्वाश्रयाय स्वयंप्रकाश भवति । ज्ञानत्वं स्वयंप्रकाशत्वं च धर्मधर्मिणोः साधारणम् । धर्म-भूत-ज्ञानस्य विषयित्वं विशेषः । धर्मिण आत्मस्वरूपस्य प्रत्यकुत्वं विशेषः । ज्ञानत्वं नाम कस्यचित् प्रकाशकत्वम् । तच स्वस्य वा परस्य वा यस्य कस्यचिद् व्यवहारानुगुण्यसंपादनम् । स्वयं प्रकाशत्वं नाम खविषयीकारिज्ञानान्तरनैरपेक्ष्येण स्वयमेव प्रकाशमानत्वम् । धर्म-भूत-ज्ञानस्य विषयित्वं नाम स्वव्यतिरिक्तार्थप्रकाशकत्वम् । आत्मनां प्रत्यक्त्वं नाम – स्वस्मै भासमानत्वम् । तच स्वप्रकाश प्रति स्वयं फलित्वेनावस्थानम् । यस्य कस्यचिद्वस्तुनः प्रकाशस्य फलीति सामान्याकार एव स्वप्रकाशस्य स्वयं फलीति विशेष्यमाणः प्रत्यकुलं भवति । एतद्विशेषशून्यस्य वस्तुन इदं सामान्यमेतद्वयाप्तं चेतनत्वं च न स्तः ।
इमौ धर्मधर्मिणौ द्वावपि स्वयं काशौ सन्तावपि नित्यत्वादिधर्मविशेषविशिष्टरूपैर्ज्ञानान्तरवेद्यावपि भवतः । स्वकीयधर्म-भूत-ज्ञानस्य स्वं प्रति ज्ञानान्तरवेद्यत्वसमये प्रसरण भेदमात्राद् ज्ञानान्तरव्यपदेशः ॥
…