११ निवेदनम्

वेदो विप्रः केशवश्चैकरा शिरिति सुप्रसिद्धम् । प्रमाणेषु वेद= प्रधानम्, प्रमातृषु विप्राः, प्रमेयेषु केशव इति इतोऽवधेयम् वेदात् शास्त्रं परं नास्ति न दैवं केशवात् परमिति च वेदव्यासः भुजमुद्धृत्य सत्यं त्रिः प्रोच्य प्रतिजज्ञे । ‘विष्णुं क्रान्तं वासुदेवं विजानन् विप्रो विप्रत्वं गच्छते तत्त्वदर्शी’ इति विष्णुपारम्यवेदिन एव पुष्कलं विप्रत्वं स्मरन्ति । तद् यथा ज्योतिष्षु सहस्रकिरणः, मानेषु वेदः, तीर्थेषु गङ्गा, धर्मेषु योगः, क्षेत्रेषु बदरी, वैष्णवेषु शम्भुः, प्राणिषु विप्रः, मुनिषु व्यासः, तथा देवेषु विष्णुरिति श्रीवैष्णव– सिद्धान्त एव सिद्धान्तेषु श्रेष्ठो निःश्रेयसहेतुरिति निश्चप्रचम् । ‘त्रय्यन्तैरेककण्ठैः तदनुगुणमनुव्यास मुख्योक्तिश्च श्रीमान् नारायण नः पतिरखिलंतनुर्मुक्तिदो मुक्तभोग्यः’ इत्ययमनवद्यः सिद्धान्तः- आदिसृष्टेः प्रवहन् तदातदा तत्रतत्र प्रसक्तविच्छेदोऽप्यव्युच्छिन्नः- प्रवर्तमानः कलियुगारम्भे वादरायण- बोधायनादिभिरिव पश्चात् ब्रह्मनन्द्यादिभिरिव ततो वकुलभूषणमुनिमुखैः ततश्च श्रीनाथमुनि– श्रीया मुनमुनि - भगवद्रामानुजमुनिप्रभृतिभिः प्रवर्तितः साम्प्रतं दिगन्तव्यापी सर्वलोकहिताय संवर्धमानो दरीदृश्यते । अस्य सिद्धान्तस्य सर्वापेक्षया स्थितं चैष्ठयं श्रीभगवद्रामानुजसिद्धान्तस्था-. पनाचार्यैः श्रीवेंकटेशावतारभूतैः अपरहयग्रीवैः कवितार्किकसिंह - सर्वतन्त्र स्वतन्त्र श्रीमन्निगमान्तमहा देशिकैः तदात्वे पदेपदे वाद- केलिप्रवर्तनेन प्रौढसरलंपद्यगद्यमयपरश्शत संस्कृतद्रमिडग्रन्थरत्न- निर्माणन आशरीरात् अपरिमितकृत्वः शारीरकादिसर्वग्रन्थप्रवचनेन च सर्वदेशसर्वकाल सुगमं कृतमिति, एतैरेव प्रतिक्षिप्य बहिर्मतानि सर्वाणि प्रतिष्ठापितो वेदान्त इति, एतदाचार्यतुल्य आचार्यो नासीन्महीतले इति च निर्विवादमादृतं निरसूयैः ।

एते सत्वपि सिद्धान्तग्रन्थेषु यथावस्थितार्थविज्ञानोपयोगिषु,

सत्यपि परावरतत्त्वज्ञाने, सत्यप्यन्यफलवैराग्ये, सत्यपि परमनिः- श्रेयसयथार्थज्ञाने, यावत् तल्लाभौपयिकं कर्तव्यं परमं हितं नावगम्यते तावन्न क्षेमसंपत्तिरिति तदर्थे कालोनुगुणतया शास्त्र- देशितं संप्रदायपारम्पर्येण प्राप्तं प्रपत्तिरूपं हितं तदुपयोगितया ज्ञातव्य प्रमेय विशदज्ञापनेन तदर्थ मन्त्रार्थनिरूपणेन च यथावदुपदेष्टुं श्रीरहस्य तयसारनामानं प्रत्थमिममनुजगृहुः । एतदर्थप्रतिपादकेषु अन्येषु बहुषु रहस्यग्रन्थेषु एतदनुगृहीतेषु सत्स्वपि अयं तत्रेक्षुकाण्डे मध्यमपर्वेव सर्वसाराखादविधायी ग्राह्यतमः । श्रीमन्नाथमुनेरारभ्य उपदेशमात्त्रप्राप्ते प्रपत्तिरूपप्रमेयानुबन्धिन्यर्थजाते यथावदुपदेश- रक्षणाशक्त्या बहवः क्षोभाः प्राप्तावसरा इति तत्परिहाराय

प्राच्याचार्य बहुलंघुग्रन्थ संप्रदर्शितार्थविशदोपन्यास मुखेन सर्वार्थनिष्कर्ष एतैरनुजिघृक्षया कृतोऽस्ति । सन्ति व्याख्यानानि बहूनि ।

अत्र

चास्य

ग्रन्थोऽयं श्रीभाष्यमिव श्रीगीताभाष्यमिव द्रमिडोपनिषद्भाष्यं मणिप्रवालात्मकमिव तत्त्वहितपुमर्थ पर रहस्यत्रयार्थनिर्णयपूर्वक- हितानुष्ठानानुष्ठापनोपयोगितया श्रीवैष्णवैः प्राधान्येन गुरुमुखमधी - यते । अतो ग्रन्थचतुष्टयं गुरुपरम्परानुसंधानेन अवश्याध्येयं भवति ।

अस्य मणिप्रवालेरूपतया द्रमिडभाषादूरेषु आन्ध्रकर्णाटा- दिदेशेष्विव उत्तरभारतादिष्वपि अशक्याध्ययनतया श्रीवैष्णवाः श्रेयोहीना मा भूवन्निति अस्य संस्कृतभाषया परिवर्तनम कार्षुः श्रीमन्तो नीलमेघाचार्याः । इमे अस्मत्सतीर्थ्याः, गीताभाष्यं मया सहैवाधीतवन्तः, पश्चात् अन्यत् सर्वमधीत्य प्राय उत्तरदेशेषु आदत- वासाः व्याकरणादिशास्त्राध्ययनकालप्रभृति सह स्थिताः ममानुज- प्रायाः, यदा मया सहैव श्रीपदपुरे श्रीवेंकटेश्वर महाविद्याज्ञालाया-

अध्यापकपदे आसन तदैव तैः कृतमिमं परिवर्तग्रन्थमालोक्य मया मुद्रणार्थ प्रोत्साहिता अपि दैवानुकूल्य विलम्बात् तूष्णीका एवासन् । सर्ववेदान्तग्रन्थ परिश्रमप्राप्त निर्मलज्ञानैः निरर्गलप्रवहदभुत-नि-

त्यश्राव्य संस्कृतद्रामि डी हिन्दी रूपभाषा त्रयव्यवहारविश्वप्रसिद्धैरेभिः सावधानं कृते परिवर्तेऽस्मिन् न काऽप्यर्थान्यथाभावस्य प्रसक्तिः । अथैषामकस्मादेव भूलोकवियोगस्य प्राप्ततया तन्मुद्रणकार्य मम हस्त- गतमासीत् । तेषां ख्यातिसंपत्ति ग्रन्थप्रचारणेन सर्वदेशक्षेमाभि- वृद्धिञ्चापेक्षमाणेन मया तत्प्रियमित्रेण पुनः श्रीरहस्यत्रयसार- ग्रन्थञ्चमञ्चानुपूर्व्या पठित्वा प्रीतिश्रद्धापूर्वकमेव शब्दार्थसमी- करणेन पदवाक्य फक्किकाविभाग- शीर्ष कविधानादिना च मुद्रणाई परिष्कृत्य प्राकाश्यमेवमानीयते । मातृकान्तरं यदि तद्गृहादिगतम्, तत्र यदि क्वचिदन्यथाभावः तावताऽत्र न कश्चिद्विमनायितुमर्हति, सौहार्दपूर्व तेषां प्रत्यक्ष इव परोक्षेऽपि विहितं हितमिति तत्त्वविद्भिः विभाव्य संतोष्टव्यम् ।

अस्य श्रीरहस्यलयसारपरिवर्तस्य मुद्रणार्हतया सज्जीकरणार्थ- मेवेहागताः भाग्यहान्या अकस्मात् भुवं जहुरित्यश्रौषम् । अत्रागता मद्रनगरे यथापुरं मया सह सल्लापकरणात् प्रागेव यत् तनुं जहुः, ततस्तेषामुत्तरदेशेषु विशिष्टाद्वैत सिद्धान्तप्रचारव्यापृतौ संकल्पित किं पूर्ण किंमपूर्णमस्तीति मया ज्ञातुं नापार्यत । परमतभंगग्रन्थ- परिष्करणे प्रवृत्ता इति तदातदा तदीयपरिश्रमः तन्मुखत एव ज्ञात आसीत् । तस्य कियत्यंशे साम्प्रतिकी स्थितिरिति न ज्ञायते । अस्तु नाम । अस्मत्स्नेहानुरूपं मन्मुखेन एतन्मुद्रणादिकं तच्छिष्यैः श्रीभागवतप्रधान श्री १००८ श्रीमदनिरुद्धाचार्य श्रीवासुदेवाचार्य- प्रभृतिभिर्मयि विशेषतः प्रीतिं वहद्भिरिदानीं निरवर्तीति संतुष्ट मे मनः । एवं परिष्कृत्य मुद्रितवता मया अपेक्षित प्रन्यदपि अत्र

यथावसरं संमेल्यते पठितृलोक बुद्धिवैशद्याय । उभयवेदान्तग्रन्थ- मालायाम् उपनिद्भाष्य- श्री भाष्यादिबहुसंकृत-द्रामि ग्रन्थमुद्रणा- नन्तरं साम्प्रतं सर्वश्रीदेशिकसूक्तिमुद्रणे क्रियमाणे मध्ये एतन्मुद्रण- मपि प्राप्तावसरमिति समुचित शुभसंगमात् भृशं संतुष्यामः । श्रीपुष्करश्रेष्ठिवर बांगडूकुलीनाः सर्वेऽपि ईदृशश्रेष्ठधर्मसंपादन- संपन्नसर्वविधश्रेयांसो भवन्त्विति श्रीरमारमणसंनिधौ प्राप्तरूपं नः- प्रार्थनम् ॥ श्री १००८ आशिष्ट द्रढिष्ठ - बलिष्ठ- साधुयुवाध्यायक. श्रीबालमुकुन्दाचार्य स्वामिकटाक्षपात्रभूता परम्परा सर्वाऽपि वर्धताम् ; अभिवर्धतां सर्वलोकहितवहः श्रीदेशिकसत्संप्रदायः ॥

मद्रास - 17 22-4-68

उत्तमूर् ति वीरराघवाचार्यः |

plug pro

३॥ श्रीः

115

शिक

श्रीमते निगमान्तमहा देशिकाय नमः

  1. NPS

श्री - उत्तमूर् वीरराघवाचार्य विरचिताः श्री-उत्तमूर्