१० गुरुपरम्परासारः

आदौ गुरुपरम्परासारः

गुरुभ्यस्तद्गुरुभ्यश्च नमोवाकमधीमहे ।

वृणीमहे च तत्राऽऽद्यौ दम्पती जगतां पती ॥

1 शोरोत्र

तूप्पुलतिरुवेंकट मुडेयान्

पारोत्रन्च्चोन्न

पड ( 40 ) मोडि ( 4 ) युद्ध - ओरोत्र ताने अमैयादो तारणियिले

याडू (10) बार्क वानेर प्पोमल वाड (i) 1:

1 (गाथा) सरोमुनिः, भूताख्य ः (मुनिः ), उन्मत्त(महदाह्वय )-दिव्यसूरिः शीतलताम्रवर्णीमागतः कुरुकेशः, विष्णुचितः, शुद्धः कुलशेखरः, अस्माकं पाणनाथः, भक्ताङ्घ्रिरेणुः, महीसारागतं ज्योतिः, भुवि सर्वत्र वेदा यथा प्रकाशेरन् तथा खड्ग-कुन्तौ दधानो मङ्गै(नगर)-निवासिनां स्वामी इत्येतैः सहर्षं गीताः ऋज्यी??द्रविड-सूक्तिमालाः वयं विशदम् अधीत्य विशदान् अवगतान् वेदप्रदेशान् विशदं जानीमहे॥

1 (गाथा) आनन्दे, समाश्रयणे, अभ्युपगमनीयपुरुषार्थे, अप्रच्युत- बहुविधसंबन्धे, रागनिवृत्तौ, स्वसंबन्धापादने, कर्मनिवारणे, कृपोत्कर्षे, तत्त्वोद्बोधने, खखभावापादने च (विषये) भक्तार्थमेवावतीर्णे गोपाले स्थिते सति सूक्ष्मा (र्था) न् बेदान् द्राविडीकृतवतः (कुरुकेशस्य )> चरणावेवावलम्ब्य दुःखरहितभूतेन मधुरकविना प्रदर्शितानादिमार्ग एव धैर्यवतां सन्मार्गाः ॥

1 पोयहैमुनि बूदत्तार पेयाड़वार तण पोरुन वरुम् कुरुकेशन् विद्दुचित्तन्, तुय्य कुलशेकरन् नम् पाणनादन् तोण्डरडिप्पोडि मड़िशैवन्दशोति, वैयमेलां मरैविलंग वाळू वेलेन्दुम् मयरकोन् पत्रिवरकले महिड़न्दुपाहुं, शेय्य तमिडूमा लैकळ: नाम तेलिय ओदि तेलियाद मरैनिलङ्कट तेळिकित्रो मे.

1 इन्वन्तिले इज्जुदलिल इम्पेत्तिल इकड़ाद पल्लुरविले इरांगं मातिल तन् पत्तिले विनै विक्किल तहवोक्कत्ति तत्तवत् उणर्तुदलिल तःमैयाक्किले अन्बर्क अवतरिकमायन निर्क अहमरेकल तमिडूशेय्शन् ताले कोण्ड तुन्बत्त मदुरकवि तोत्रकाहुं तोल्वड़िये

डिकल तुणिवार्गटके.

गुरुपरम्परासारः

(मुमुक्षूणां सदाचार्य संबन्धस्यावश्यकत्व समर्थनम् )

" पापिष्ठः क्षत्रबन्धुश्च पुण्डरीकश्च पुण्यक्कृत् । आचार्यत्रतया मुक्तौ तस्मादाचार्थवान् भवेत् ॥ ” इति आचार्यवत्तैव सर्वेषां मोक्षकारण मिति

निर्धारयामासुः ॥

(भगवत्पर्यन्ताचार्यपरम्परानुसन्धानकर्तव्यत्वम् )

मुमुक्षोराचार्यवंशो ऽनुक्रमेण भगवत्पर्यन्तगामितयाऽनुसंधेय इत्याम्ना-

(भगवतः परमाचार्यत्व समर्थनम् )

तमस्ति ।

2 “ तमिमं सर्वसंपन्नमाचार्यं पितरं गुरुम्”, इति, “ममाप्यखिल- -लोकानां गुरुर्नारायणो गुरुः" इति, “त्वमेव बन्धुश्च गुरुस्त्वमेव” इति, " गुरुरसि गतिश्चसि जगताम्" इति चोक्तरीत्या सर्वस्यापि लोकस्य परमाचार्यः सर्वेश्वरो ब्रह्मणे आदौ वेदान् प्रदाय, तेषामपहारे जाते पुनस्तान् प्रत्यानीय प्रदाय, एतन्मुखेन शास्त्राणि प्रवर्त्य, एतत्पुत्रान् सनत्कुमारादीन् " खयमागतविज्ञानाः निवृत्तिं धर्ममास्थिताः” इत्य्-उक्ता-कारान् आपाद्य तन्मुखेन च हितप्रवर्तनं कारयित्वा, इत्यमन्यान्यनारदपराशरशुकशौनकादि बहुमहर्षिद्वारा च अध्यात्म- संप्रदायमविनश्वरररूपेण प्रवर्त्य,

“कुण्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को न्यो भुवि मैत्रेय महाभारतकृद् भवेत् ॥” इति, “महर्षेः कीर्तनातस्य भीष्मः प्राञ्जलिरब्रवीत्” इति चोक्तरीत्याऽवस्थितान् व्यासादीन् अनुप्रविश्य महाभारतशारीरकादीनि प्रवर्त्य च,

हंस मत्स्य हयग्रीव नरनारायणगीताचार्याद्यवतारैः खयमेवा- विर्भूय च तच्च हितानि प्रकाश्य, स्वेनानुगृहीतानामर्थानां सर्वेषां श्री भीष्मप्रभृतिभिर्ज्ञानाधिकैः संवादञ्च कारयित्वा

गुरुपरम्परासारः

“पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः खयम्" इत्य्-उक्त-रीत्याss- दौ स्वेनोपदिष्टं भगवच्छास्त्रं ‘10 ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । अर्चनीयश्च सेव्यश्च नित्ययुक्तः स्वकर्मसु ॥ सात्त्वतं विधिमास्थाय / गीत: संकर्षणेन यः । द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ॥ "" इत्य्-उक्त-रीत्याऽवसरेष्वाविष्कृत्य च “पूर्वोत्पन्नेषु भूतेषु तेषु तेषु कलौ प्रभुः । अनुप्रविश्य कुरुते यत् समीहितमच्युतः ॥” इत्य्-उक्त-रीत्या पराङ्कुशपरकालादिरूपेणाभिनवान् विलक्षणान् दशावतारान् कृत्वा, यथा मेघाः समुद्रजलं गृहीत्वा सर्वोपजीव्य पानीयरूपेण प्रवर्षन्ति तथा वेदार्थेष्वपेक्षितं सारतमांशं सर्वाधिकार्यया भाषया संगृह्य प्रकाश्य च, एवं स्वप्रवर्तितस्य सत्पथस्य प्रकटरूपेण प्रच्छन्न- रूपेण चावस्थितैः पापण्डिभिरुपरोधस्याप्रसक्त्यर्थम्,

661 2 साक्षात् नारायणो देवः कृत्वा मर्त्यमयीं तनुम् । मन्नान् उद्धरते लोका कारुण्याच्छास्त्रपाणिना ॥” इति 1 " पीताम्बर उपकारको ब्रगुरु- भूत्यैत्य" इति चोक्तरीत्याऽगस्त्य सेविते देशेऽनेकदेशिकापदेशेना-

वततार ।

12

इदमभिप्रेत्य “कलौ खलु भविष्यन्ति नारायणपरायणाः कचित् कचिन्महाभागा द्रमिडेषु च भूरिशः ॥ ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी । कावेरी च महाभागा प्रतीची च महानदी” इति महर्षिरनुजग्राह ॥

( गुरुपरम्परास्वरूपवर्णनम् )

एष्वाचार्येण्वीश्वरमुनीनां पुत्राः नाथमुनयः । एते न्याय-

1 " पीतहवाडै पिपरानार पिरमगुरुवाहि वन्दु” पेरियाडवार 5-2-8.

गुरुपरम्परासारः

तत्त्वाभिधं शास्त्रं योगरहस्यं चानुजगृहु: । एषां श्रीमधुरक विमूलक- संप्रदायपरम्परया च श्रीमुखसूक्ताख्यदिव्यप्रबन्धमुखेन च योगदशापां साक्षात्कृततया च श्रीशठकोपदिव्यसूरय आचार्या बभूवुः । श्रीनाथमुनीनां पुत्राः ईश्वरभट्टाड़वान्। (ईश्वरभट्टाड्वान्) एषां पुत्रा आलवन्दार (श्रीयामुनाचार्या : ) । श्रीयामुनाचार्यानुगृहीताः प्रबन्ध आगमप्रामाण्यं पुरुषनिर्णयः, आत्मसिद्धिरीश्वरसिद्धिः संवित्सिद्धिरित्युच्यमानं सिद्धित्रयम्, श्रीगीतार्थसंग्रहः, स्तोत्रम्, चतुःश्लोकी चेत्यष्टौ । ( आलवन्दार) एषां पुत्राः शोट्टेनेबि । ( शोट्टैनम्ब) एषां पुत्रा एन्नाच्चान् । (एन्नाच्चान्) एषां पुत्राश्चत्वारः । एष्वन्यतमाः पिल्लैलप्पर । ( पिल्लेयप्पर ) एषां पुत्राः तोड़प्पर ! ( तोड़र) एषां पुत्र्यौ द्वे !

श्रीमन्नाथमुनिश्रीचरणाश्रिताः

शिष्याः

उयकोण्डार

(श्री पुण्डरीकाक्षखामिनः), कुरुहैकावलप्पन्, नम्बिकरुणाकरदासरू, एरुतिस्वुडैयार, तिरुक्कण्णमञ्ज्याण्डान्, वानमादेवियाण्डान्, उरुप्पट्टू- राच्चानपिल्लै, शोकतूराड़वान् इत्यष्टौ ।

( उय्यक्कोण्डार ) पुण्डरीकाक्षस्वामिश्रीचरणाश्रिताः पञ्च । ते - मणक्काल्नम्चि (श्रीराम मिश्राः), तिरुवल्लिक्केणिप्पाणपेरुमारैयर् शेट्टलूरू शेण्डलङ्कारर्, श्रीपुण्डरीकदासाः, उलहप्पेरुमाळनंगै ।

( मणक्काल् नम्बि) श्रीराम मिश्र श्रीपादाश्रिताः पञ्चं । ते च - आलवन्दार् (श्रीयामुनाचार्याः), देयवत्तक्करशुनम्बि, गोमठतुत्तिरुविष्ण- करप्पनू, शिरुप्पुल्लूर|वुडैयपिल्लै, आचि इति

गुरुपरम्परासारः

(आलवन्दार् ) श्रीमद्यामुनमुनिश्रीपादाश्रिताः

पञ्चदश-

पेरियनम्बि (श्रीमहापूर्णाः) तिरुवकोट्टियूरनम्बि (श्रीगोष्ठी पूर्णाः), तिरुमालैयाण्डान (श्रीमालाघर स्वामिनः), आलवन्दार वार, तिरुमलैनम्बि (श्रीशैलपूर्णा), ईशाण्डन, देववारियाण्डान् शिरियाण्डान्, तिरुमो- कूरप्पन्नू, तिरुमोकूर नित्रान् देवप्पेरुमाल, तिरुमनैयाळियार, पिलैतिरुमालिरुञ्चोरैदासर्, मारनेरनम्थि, आल्कोण्डि चेति ।

(पेरियनम्बि) श्रीमहापूर्णश्रीचरणाश्रिताः षट् । ते यथा - एम्बेरुमानार (श्रीभगवद्रामानुजाचार्याः) मलैकुनियनिन्नार, आर्य- श्रीशठकोपदासरू, अणियरङ्गतमुदनार तिरुवाय कुलमुडेंयानभट्टर, तिरुक्कच्चिनम्बि (श्रीकाञ्चीपूर्णाः) चेति ।

श्रीभगवद्रामानुजाः श्रीगीष्ठी पूर्णश्रीचरणसंनिधौ रहस्यार्थान

शिशिक्षिरे । श्रीमालाधरश्रीचरणसन्निधौ

श्रीमुखसूक्त दिव्य प्रबन्धे शुश्रुवुः । आलवन्दाराड़वारश्रीचरणयोः श्रीमुखसूक्त दिव्य प्रबन्धमधीत्य स्तोत्रादिकं कृपाकार्याः सद्वार्ताश्च शुश्रुवुः । तिरुमलैनम्बिश्रीचरण- सन्निधौ श्रीमद्रामायणं शुश्रुवुः । एतदनुगृहीताः प्रबन्धाः श्रीभाष्यम्, दीपः, सारः, वेदार्थसंग्रहः, श्रीगीताभाष्यम्, लघुगद्यम्, पृथुगद्यम्, श्रीवैकुण्ठगद्यम्, नित्यं चेति नव ।

एतच्छीचरणाश्रिताः शिष्याः स्वस्वसंप्रदायानुसारेण ज्ञातव्याः ॥

(गुरुपरम्परानुसन्धानफलं त्रयम्)

15" गुरुं प्रकाशयेद्धीमान् मन्त्रं यत्नेन गोपयेत् । अप्रकाश- प्रकाशाभ्यां क्षीयेते संपदायुषी ॥" इत्यूचुः । गुरोः केनचित्प्रकाशनं

गुरुपरम्परासारः

केनचिदप्रकाशनञ्च गुरुभक्तौ तारतम्यात् किल भवति । भगवद्विषय इव गुरुविषयेऽपि परां भक्तिमावहते अपेक्षितार्थाः सर्वेऽपि प्रकाशेरन इत्येतत् कठजावालदिश्रुतिषु सञ्जयादिवृत्तान्तेषु च प्रसिद्धम् । अनेवंविधानामेवंविधा ज्ञानसंपत् न सिद्धयेदित्येतत् शिष्याणां ज्ञान- तारतम्येन ज्ञातुं शक्यम् । अत्यन्तं गुणाधिकानां शिष्याणामपि झटिति अध्यात्मविषयान् अप्रकाशयतां निष्ठा न हीयत इत्येतद् रक्कादिवृत्तान्तेषु प्रसिद्धम् । (शिष्य) लाभं गुणत्वेन मत्वोपदेशे कृते सति, “शिष्यपापं गुरोरपि" इत्य्-उक्ते- राचार्यस्य निष्ठा हीयेतेत्येतत्, भविष्यदविचार्यैव इन्द्रस्योपदेशेन स्वयं विस्मृत ब्रह्मविद्यस्य खशिष्य- भगवन्नारदद्वारा सर्वेश्वरेण प्रबोधनीयतया स्थितस्य चतुर्मुखस्य निकटे द्रष्टव्यम् । इत्थं तावत् “अप्रकाशप्रकाशाभ्याम्” इत्य्-उक्त-योर्द्वयोः “क्षीयेते संपदायुषी” इत्य्-उक्त-ं फलद्वयमौचित्यप्रमाणप्रसिद्धिभ्यां क्रमेणोदाहृतम् । द्वयोः (प्रत्येकं) फलद्वयस्यान्वयेऽपि वाक्ये आपतन् कश्चिदपि विरोधो नास्ति । अतः सर्वावस्थासु गुरुभक्ति- परवाहात्मना गुरोः प्रकाशनम्, महारत्नगर्भमाणिक्य संपुटा- यमानश्रीमन्त्रसमुत्कर्षस्य स्वनिष्ठायाश्चाविनाशार्थं क्षुद्रप्रयोजनोद्देशेन शिष्यगुणपूर्ति रहितेभ्यश्च पलेभ्योऽप्रकाशनेन मन्त्रस्यातीव गोपनं च कर्तुं युक्तम् । अत्र गुरुशब्दः परमगुरूणामप्युपलक्षकः; सामान्यवाची वा । मन्त्रशब्दो मन्त्रार्थप्रभृतीनां रहस्यानां प्रदर्शनपरः ।

स्वेनैषां रहस्यानामनुसंधानसमयेषु सर्वेषु आचार्यपरम्पराया

अनुसन्धानमपि विधिवलप्राप्तम् ।

१०

गुरुपरम्परासारः

एषामाचार्याणामनुसंधानं “संभाव्य पुण्यकृतो मनस ध्यायेत्” इत्य्-उक्त-रीत्या प्रतिषिद्धसंभाषणस्य प्रायश्चित्तमपि भवति ॥

-0-0-

(गुरुपरम्परानुसंधानप्रकारस्य गाथया निरूपणम्)

1 ( गाथा ) मम प्राणं दत्त्वा रक्षितवन्तं शरणमेत्याहं क्रमेण तद्गुरुपंक्ति प्रणम्य ततः, कृपया महाभूतपुर्यामाविर्भूतः परमोदारः, महापूर्णः, यामुनमुनिः, राममिश्रः, सन्मार्ग तस्योपदिष्टवान् पुण्डरीकाक्षः, नाथमुनिः, शठकोप:, सेनानाथ, भोग्यामृतश्रीदेवी इत्येतन पुरस्कृत्य अस्मत्स्वामिनः श्रीचरणावाश्रयामि ॥ ३ ॥

( गुरुपरम्परासारान्ते आचार्यैरेव कृतानि पद्यानि ) ( अधिकपाठः) प्रपदनमये विद्याभेदे प्रतिष्ठितचेतसः प्रतिपदमिह प्रज्ञादायं दिशन्तु दयाघनाः । शठरिपुशुकव्यासप्राचेतसादिनिबन्धन - श्रमपरिणमच्छुद्धाशुद्धाशया मम देशिका : ॥ )

एते मह्यमपोढमन्मथशरोन्माथाय नाथादयः वय्यन्तप्रतिनन्दनीयविविधोदन्ताः खदन्तामिह ।

1 एन्नुयिर तन्दलित्तवरै चरणम्बुक्कि यानडैवे अवर गुरुक्कल निरै वर्णगि, पिश्नरुळालू पेरुम्बूदूर बन्द बललू पेरियन स्वि आलवन्दार मणक्कालम्बि नन्नेरियै अवकुरेत उय्यक्कोण्डार नातमुनि शडकोपन् शनैनातन् इन्नमुदत्तिर महळू एवरे मुन्निट्टेम्बेरुमान् तिरुवडिहल अडैकि

गुरुपरम्परासारः

श्रद्धातव्यशरण्यदम्पतिदयादिव्यापगाव्यापकाः

१२

स्पर्धाविप्लवविप्रलम्भपदवीवैदेशिका देशिकाः ॥ हृद्या हृत्पद्मसिंहासनरसिक हयग्रीवहेषोर्मिघोष- क्षिप्त प्रत्यर्थिदृप्तिर्जयति बहुगुणा पङ्क्तिरस्मद्गुरुणाम् । दिक्सौवा बद्ध जैत्रध्वजपटपबनस्फातिनिर्धूतततत्—– सिद्धान्त स्तोम तूलस्तबक विगमनव्यक्तसद्वर्तनीका ॥

(ग्रन्थसुखेनोपकारकाणां पूर्वाचार्याणां स्तवनम् ) (गाथा) वेदान्तशास्त्रमार्गार्जिवं विनाशयतां हैतुकानां (विषये ) अद्वितीयवारिणीभूय तद्वादकदलीर्विनाशितवत उपकारकस्यानुरूपाल- रामानुजमुनेर्भोग्यतमो क्तिसंगतगुणालंकृतचिन्ताः न

कारभूतकीर्तेः

चिन्तयेमहि इतः परं क्रूरकर्माणि ॥ ४ ॥

( गाथा ) दीर्घकालात्संसरन्तोऽधुना विधिभेदात् बोधं प्राप्तवन्तो वयं प्रत्यावृत्य, इतः परमपि कर्ममयशरीरेणैकीभूय निपत्य यथा न परिभ्रमेम तथा रक्षार्थमागत इति प्रशस्येन जयेन कृपादानेन च विद्योतमानकल्याणगुणस्य श्रीयामुनार्यस्य दासभूता वयं न पठेमेतः

परमपन्यायान् ॥ ५॥

4 आरणनूवडिचेन्चे यदित्तिमै तुहकोर् वारणमाय अवर वादक्कदलिकल मायत्त पिरान, परणिकीर्ति इरामानुशमुनि इन्नुरैशेर शीरणि शिन्देयिनोम शिन्दियोम् इति त्तीविनेये.

5 नीळवन्दित्र विदिषहैयाल निनैवोत्रिय नाम मीळवन्दिन्नु विनैयुडम्बोनि विडुदुडला अळवन्दारेन वेरुळ तन्दुचिळङ्गियशीर आळवन्दारडियोम् पडियोम् इनि अल्वड़क्के |

१०

गुरुपरम्परासारः

एषामाचार्याणामनुसंधानं “संभाव्य पुण्यकृतो मनस ध्यायेत्” इत्य्-उक्त-रीत्या प्रतिषिद्धसंभाषणस्य प्रायश्चित्तमपि भवति ॥

10101

(गुरुपरम्परानुसंधान प्रकारस्य गाथया निरूपणम्)

1 ( गाथा ) मम प्राणं दत्त्वा रक्षितवन्तं शरणमेत्याहं क्रमेण तद्गुरुपंक्ति प्रणम्य ततः, कृपया महाभूतपुर्यामाविर्भूतः परमोदारः, महापूर्णः, यामुनमुनिः, राममिश्रः, सन्मार्ग तस्योपदिष्टवान् पुण्डरीकाक्षः, नाथमुनिः, शठकोप:, सेनानाथ, भोग्यामृतश्रीदेवी इत्येतन पुरस्कृत्य : अस्मत्स्वामिनः श्रीचरणावाश्रयामि ॥ ३ ॥

(गुरुपरम्परासारान्ते आचार्यैरेव कृतानि पद्यानि )

( अधिकपाठः) प्रपदनमये विद्याभेदे प्रतिष्ठितचेतसः प्रतिपदमिह प्रज्ञादायं दिशन्तु दयाधनाः । शठरिपुशुकव्यासप्राचेतसादिनिबन्धन - श्रमपरिणमच्छ्रद्धाशुद्धाशया मम देशिका : ॥ ) एते मह्यमपोढमन्मथशरोन्माथाय नाथादयः लय्यन्तप्रतिनन्दनीयविविधोदन्ताः खदन्तामिह ।

1 एन्नुयिर तन्दलित्तवरै चरणम्बुक्कि यानडैवे अवर गुरुक्कल निरै वर्णगि, पिन्नस्ळालू पेरुम्बूदूर चन्द बलल पेरियन स्वि आलवन्दार मणक्कालेनम्बि, नन्नेरियै अवकुरैत्त उय्यक्कोण्डार नातमुनि शडकोपन् शनैनातन् इन्नमुदत्तिर महल एत्रिवरै मुन्निट्टेम्बेरुमान् तिरुवडिहल अडैकिने ।गुरुपरम्परासारः

श्रद्धातव्यशरण्यदम्पतिदयादिव्यापगाव्यापकाः स्पर्धा विप्लव विप्रलम्भपदवीवैदेशिका देशिकाः ॥ हृद्या हृत्पद्मसिंहासनरसिक हयग्रीवहेषोर्मिघोष- क्षिप्तप्रत्यर्थिदृप्तिर्जयति बहुगुणा पङ्क्तिरस्मद्गुरुणाम् । दिक्सौधावद्ध जैत्रध्वजपटपबन स्फाति निर्धूतततत्- सिद्धान्तस्तोमतूलस्तबक विगमनव्यक्तसद्वर्तनीका ॥

१२

( ग्रन्थमुखेनोपकारकाणां पूर्वाचार्याणां स्तवनम् ) (गाथा) वेदान्तशास्त्रमार्गार्जवं विनाशयां हैतुकानां (विषये) अद्वितीयवारणीभूय तद्वादकदलीर्विनाशितवत उपकारकस्यानुरूपाल-

रामानुजमुनेर्भोग्यतमोक्तिसंगतगुणालंकृतचिन्ताः

कारभूतकी

चिन्तयेमहि इतः परं क्रूरकर्माणि ॥ ४ ॥

(गाथा) दीर्घकालात्संसरन्तोऽधुना विधिभेदात् बोधं प्राप्तवन्तो वयं प्रत्यावृत्य, इतः परमपि कर्ममयशरीरेणैकीभूय निपत्य यथा न परिभ्रमेम तथा रक्षार्थमागत इति प्रशस्येन जयेन कृपादानेन च विद्योतमानकल्याणगुणस्य श्रीयामुनार्यस्य दासभूता वयं न पठेमेतः

परमपन्यायान् ॥ ५ ॥

9

4 आरणनू बडिचे०चै यदित्ति मै तुहकर वारणमाय अवर वादकदलिकल मायत्त पिरान, परणिकीर्ति इरामानुरामुनि इन्नुरैशेर शीरणि शिन्देयिनोम् शिन्दियोम् इति त्तीविनैये.

5 नीळवन्दित्र विदिव हैया निनैवोत्रिय नाम मीळवन्दिन्तु विनैयुडम्बोनि विडुदुडला अळवन्दारेन वेरुळ तन्दुविळङ्गिय शीर आळवन्दारडियोम् पडियोम् इनि अल्वड़क्के |

३२

गुरुपरम्परासारः

( गाथा ) काहलीशङ्खसदृशयोः समीचीनभक्तयोर्दासियोः तालमुप- दिश्य द्राविडवेदानां मधुरं गानमुपदिष्टवतः परमोदारस्य स्पृहणीयं

तपोभागं प्रवर्तितवतो नाथमुनेश्चरणौ अनुदिनं प्रणम्योन्नमेन ; चा सदृशाश्चतुर्विधायां भुवि ? ॥ ६ ॥

अस्माकं के

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीगुरुपरम्परासारः संपूर्णः ।

॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥

-0-0–

श्रीमते हवदनपरब्रह्मणे नमः श्रीमते रामानुजाय नमः

श्रीमते निगमान्तमहादेशिकाय नमः

श्रीमान् वेङ्कटनाथार्यः कवितार्किक केसरी | वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ॥ १ ॥

रामानुजदयापात्रं ज्ञानवैराग्यभूषणम् ।

श्रीमद्वेङ्कटनाथार्य वन्दे वेदान्तदेशिकम् ॥ २ ॥

6 कालं वलम्बुरि यन्न नर्कादल अडियवर्कुत् तालं वइंगि तमिमरैयिन्निशै तन्दवळलू मूलुंतवनेरिमूट्टिय नादमुनिकडले नाळं तोडदेडुवोम् नमक्कार् निगर नानित्ते ॥

चतुर्विधायां – मरुदम्, नेयदल, कुरिञ्जि, मुलै इत्युच्यमानाः

ग्रामसिंधु गिरिवनप्रदेशाश्चत्वारः । पञ्चमोऽप्यस्ति मरुप्रदेशः स निर्मनुष्यत्वादुपेक्ष्यते ।

श्रीमते निगमान्तमहा देशिकाय नमः

श्रीमते श्रीरङ्गरामानुजमहादेशिकाय नमः

8

श्रीः