(श्रीमद्रहस्यत्रयसार संस्कृतानुवादकीयमङ्गलाचरणादि)
श्रीमद्भिः शेषतार्क्ष्यप्रमुखसुरवरेरेकतः सेव्यमानं सेनेशश्रीशठारिप्रभृतिभिरनधैश्चान्यतः सूरिवृन्दैः ।
श्रीभूनीलाभिजुष्टं प्रसृमरकरुणापाङ्गमानन्दरूपं वन्दे पादारविन्द प्रणतपरवशं दिव्यधामाधिनाथम् ॥ सर्वाभीष्टफलप्रदानचतुरो भक्तत्रजानां सदा धर्मादींश्चतुरः पुमर्थनिवहान् यो दातुकामो भृशम् । बिभ्राणश्वतुरो भुजान् करुणया जागर्ति शेषाचले वन्दे तं हृदयाभिरामवपुषं श्रीवेङ्कटेशं हरिम् ॥ श्रीपादश्रितसद्गताखिलतमस्सूर्यायितानुग्रह- प्राज्ञाग्रेसर नाथयोगियमुनाजन्मादिभिर्भूषितम् । श्रीरामानुजयोगिवर्य निगमान्ताचार्यगोपालसू- र्यादिश्रीगुरुवर्धितप्रथमहं वन्दे गुरूणां कुलम् ॥ हृप्यद्वैतुकवादिवर्गकुमतिक्षीयो क्तिसंक्षोभितं वेदान्तार्थसुधापयोधिमतलस्पर्श बुधानामपि । गाहन्ते सुधियोवगाह्य विमलं यत्सूक्तितीर्थान्तरं तं रामानुजयोगिपुङ्गवमहं सेवे कृपावारिधिम् ॥
२
विद्यावित्तप्रदानत्रतहयवदनब्रह्मपादारविन्द-
द्वन्द्वध्य, नैकतानस्तदमित करुणा वाप्तवैदुष्यभूमा । यस्तादृक्षवदाक्ष्यक्ष पित्बहुविधावद्यदुर्वादिपक्ष- स्तं वन्दे वेदचूडागुरुवरमखिलोज्जीवनार्थवतारम् ॥
ब्रह्मज्ञानप्रदत्वादघपरिहरणादच्छसं विन्मयत्वात् आनन्दैका कृतित्वादमितशुभ गुणालङ्कृतत्वाद्विभुत्वात् । नित्यं सत्यत्रतत्वात्सकलबुधकुलाभ्यर्चितत्वात् वशित्वात् श्रीमच्छी रङ्गरामानुजगुरुमनिशं विष्णुरूपं नमामि ॥ कवितार्किकपञ्चास्यैर्घण्टाशैर्वेङ्कटे शितुः । स्वतन्त्रैः सर्वतन्त्रेषु श्रीमद्वेदान्तदेशिकैः ॥ श्रीमद्वेङ्कटनाथायैलोको ज्जीवनहेतवे ।
रचितेषु रहस्येषु द्राविडी संस्कृतात्मना ॥ रहस्यत्त्रयसाराख्यं रहस्यं लोकविश्रुतम् ।
सर्वशास्त्रार्थसारेण संभृतं परमाद्भुतम् ॥ श्रीरङ्गरामावरजयतीन्द्रचरणाश्रितः ।
वात्स्योऽहं नीलमेघाय: संस्कृतेन विवर्तये ॥
-0-0गुरुपरम्पर(सार:
( आदावनुसंधेयम् आचार्य विषयं - तनियन् ) श्रीमान् वेङ्कटनाथार्यः कवितार्किक केसरी | वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ॥ रामानुजदयापात्रं ज्ञानवैराग्यभूषणम् । श्रीमद्वेङ्कटनाथायें वन्दे वेदान्तदेशिकम् ॥
1 (गाथा) कल्याणगुणशालिना तूप्पुल श्रीवेङ्कटनाथेनोक्तासु लोकहृदयंगमासु प्राचीनसूक्तिषु एकैकैव किं न पर्याप्ता धरण्यां जीवतां परमव्योमारोहगत्यन्तोजीवनलाभाय ।
श्रीः
श्रीमते लक्ष्मीहयवदनपरब्रह्मणे नमः श्रीमते शठकोपाय नमः
श्रीमते भगवद्रामानुजाय नमः
श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमन्निगमान्तमहा देशिकैरनुगृहीतो
रहस्यवयसारः
श्रीवात्स्यनीलमेघाचार्यकृत संस्कृतानुवादरूपः
- 0 –