०३ कतिपयांशविशदीकरणम्

श्रीमद्रहस्यवयसारे कतिपयांशविशदीकरणम्

पु.

  1. क्षत्रबन्धुः - एतच्चरितं विष्णुधर्मे 97

पुण्डरीकः भा. अनु. 106 ; इति. समु. 31. 128

1

  1. कठजाबालादिश्रुतिष्विति । अत्र, ‘यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैतेऽकथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ इति श्वेताश्वतरश्रुत्यर्थोऽभिमतः । छान्दोग्ये जाबालसत्यकामस्य वाक्यम्, “आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत्” इति ।

सञ्जयेति । ‘शुद्धभावं गतो भक्तया शास्त्राद् वेद्मि जनार्दनम्’ इति, ‘व्यासप्रसादात् श्रुतवान् एतद्गुह्यमहं परम्’ इति च ।

रैक्वेति । छान्दोग्ये संवर्गविद्यायां रैक्वजानश्रुत्युपाख्यानम् ।

गुरुं प्रकाशयेदिति श्लोके उक्ते संपदायुषी उपरि शिष्यकृत्याधि- -कारे (421) ‘ज्ञानवैशद्यपूर्विका भगवदनुभवसंपत्, आत्मसन्तानु- वृत्तिहेतुः शेषत्वानुसंधानपूर्वकस्वनिष्ठा च’ इति विवृते ।

  1. चतुर्विधायां भुवीति । द्रामिडै: भूमिः पञ्चधा विभज्यते, कुरिञ्जि (पर्वत), मरुदम् (केदार), मुल्लै (वनम् ), नेय्दल (अर्णवादि), पालै (मरुपदेशः ) इति । पर्वतादयः तत्तत्प्रान्तदेशविशिष्टाः प्रायाः । मरुप्रदेशस्य मनुष्यवासानर्हत्वात् तद्वर्जे भूमागचतुष्टयमिह गृह्यते ।

कतिपय विवरणम्

  1. गुरुपरिषदुपज्ञमिति । उपज्ञायत इत्युपज्ञा । समासे क्लीनता । तदुपज्ञं यथा तथेति प्राप्तिक्रियाविशेषणात् गुरुमुखात् प्राप्ति- कामः । यद्वा गुरुपरिषदुपज्ञं किङ्करत्वाधिराज्यं शास्त्रार्थनिर्णायक सूक्ति- सहितरहस्यं वा प्राप्येत्यर्थोऽस्तु ।

881

सहस्रस्थूणेति । तलबकारोपनिषदि ‘सहस्रस्थूणे दृढ उमे यज्ञ देवानामधिदेव आस्ते’ (श्रु. प्र. ) । अपराजिता पूरिति छान्दोग्ये दहरविद्यायाम् । कौषीतक्युपनिषदि पर्यङ्कविद्यायां विरजा नदी, अपरा- जितमायतनम् विभुप्रमितमण्डपे अमितौजाः पर्यङ्क इत्यादि ।

  1. आत्माभिमानानुगुणेति । तिरुवाय् - 94.4 दुई- हपदविवृतौ (पिल्लै) अभियुक्त श्लोक उदाहृत एवम्, “आत्माभिमानानु- गुणपुरुषार्थव्यवस्थया । भगवत्पारतन्त्रघादि प्रबुद्धस्य सुखायते " इति ।

  2. पुरुषं मणिवरतयेत्यादि सर्वं श्रीविष्णुपुराणे ( ६ )

विशदम् ।

  1. शाण्डिली वृत्तान्तो भारते ।

  2. मूलभूत श्रुतिः " न खलु भागवता यमविषयं गच्छन्ति । इहैवैषां केचिदुपप्लवा भवन्ति, काणा भवन्ति, खञ्जा भवन्ति अविधेय- पुत्रा भवन्ति, अविधेयभार्या भवन्ति” इत्यादिः ।

  3. उषस्तिवृत्तं छान्दोग्ये 1-10

  4. कुण्डधारोपाख्यानम् मा. शा. 877; हरिवंशे

कतिपय विवरणम्

७.

  1. अमानवसंज्ञेति । विद्युत्, विद्युत्पुरुषः, वैद्युतः । अमानवः, मानस इत्येवं बहुभिः पदैरुच्यमान एक एवाऽऽतिवाहिकः । स परमपदात् भगवता प्रेषितो नित्यसूरिः चन्द्ररूपातिवाहिकानन्तर- मत्राऽऽगतः आब्रह्मप्राप्ति अविसृज्यातिवहति ।

श्रीनारायणीयम् भा. शा. 349

  1. धर्मव्याधः वि. घ; भा. वन. 210 श्रमणी शबरी. रा. आर.

  2. ये नाथवन्तइति बलरामं प्रति सात्यकिवचनम् । ययातेः स्वर्गात् पतितस्य तद्दुहितृपुत्राश्चत्वारः शैव्यादयः खखसुकृत दानेनोद्ग- मयितार इति दृष्टान्तार्थः ( आरण्यपर्वणि) ।

  3. लयभोगार्चनेति । लयार्चा, भोगार्चा, काम्याचेति लक्ष्म्यर्चामूर्ति त्रैविध्यम् । तत्र भगवद्वक्षसि अर्चा लयार्चा | भगवतः पार्श्वे अर्चा भोगार्चा । भगवन्तं विना पृथगालये प्राधान्येन स्थिता अर्चा कम्याचेति भेदः ।

  4. विष्णुचित्ताः ( एङ्गलाडवान् ), श्रीभाष्यकार शिष्य- उभयवेदान्त सिंहासनाधीश. भगवद्विषयगाथाभाष्यकार. श्रीकुरुकेशाख्य- देशिकानां शिष्याः । श्रीवात्स्य वरदाचार्याः तच्छिष्याः ( अम्मालू), श्रुतप्रकाशिकाकाराणामाचार्याः । वादिहंसाम्बुदाः, तेषां वरदाचार्याणां शिष्याः श्रीमद्वेदान्तदेशिकानां साक्षादाचार्याः मातुलाश्च । एभिः प्रपत्ति- मधिकृत्य विप्रतिपत्तिविधूननेन संग्रहग्रन्थाः न्यबन्धिषत ।

C.

कतिपय विवरणम्

  1. तुलाधार. जाजल्युपाख्यानं भा. शा. 267

  2. विष्णुहस्तप्रदानम् । मन्त्रदीक्षाकाले शिष्यगात्रे मन्त्रविदाचार्यकरस्पर्शो विहितः विष्णुहस्तप्रदाननाम्ना व्यवह्नियते आगमेषु । तेन दीक्षातिशयः ।

महाभागवतस्पर्शः । “अधिवासादिकं कर्म यथावत् कर्तुम- क्षमः। महाभागवतस्पर्शमेकं वा कारयेत् सुधीः” इति विहितो बिम्ब स्पर्शः ।

  1. ऊनहीनेति । ‘तापः पुण्ड्रस्तथा नाम मन्त्रो यागश्च पञ्चमः’ इति पञ्च संस्काराः विहिताः । यागो भगवदाराधनम् । तत्र प्रवृत्तेषु ऊनः तापसंस्कारहीन, हीनः पुण्ड्रसंस्कारहीनः, परित्रस्तः नामसंस्कारहीनः, नष्टः मन्त्र संस्कारहीनः । यद्वा " तथा स्वकर्मशास्त्रेशगुरु- सत्संगवर्जिताः । ऊनहीन परिस्रस्तनष्टाः ज्ञेयाः समाख्यया" इत्य्-उक्त-रीत्या स्ववर्णाश्रमधर्महीनः ऊनः, स्वसूत्रत्यागी हीनः, स्वगुरुदेवतात्यागी परित्रस्तः, सत्संगरहितः नष्टः इति वदन्ति । अन्ये तु ऊनहीन- स्रस्तनष्टदग्धा ज्ञेयाः समाख्ययेति उत्तराधं पठित्वा, स्वकर्मत्यागी, सूत्र- त्यागी, देवतात्यागी, गुरुत्यागी. सत्संगत्यागीति पञ्च क्रमेण ऊनादि- नामभाज इत्याहुः । मूले दग्धेति पाठो न लक्ष्यते । 509

  2. शास्त्रसिद्धमिति । सकृदुच्चारः संसारविमोचनं भवतीति श्रुतिः । " अहो द्वयस्य माहात्म्यमहो वीर्यमहो बलम् । किं नु तस्य च मन्त्रस्य कर्मणः कमलासन । न लभ्यतेऽधिकारी वा श्रोतु- कामोऽपि वा पुनः । “…. पाझे….” को मन्त्रः सर्वमन्त्राणां पुरश्चरण- वर्जितः । सकृदुच्चारणात् नृणां ददाति परमं पदम् ।… मन्त्ररलं द्वयंकतिपय विवरणम्

न्यासः प्रपत्तिः शरणागतिः । लक्ष्मीनारायणञ्चेति हितं सर्वफलप्रदम् । …. तस्योच्चारणमात्रेण परितुष्टोऽस्मि नित्यशः ।…. शौनकादिमहर्षीणां नैमिशारण्यवासिनाम् । नारदः प्रददौ मन्त्रं प्रपत्ति शरणागतिम्" इत्यादि ।

  1. दधिभाण्डेति । दधिभाण्डनामा कश्चित् गोपः ।

कृष्णः स्वग्रहणार्थमनुद्रुतैः स्वयमग्राह्यत्वाय घावन् तद्गोपगृहं प्रविश्य दधिकटाहेन मामावृणु इति तं गोपमर्थयामास । स तथैवाकरोत् । अनुद्रुतेषु अबुध्वा अपगतेषु कटाहमपनेतुं कृष्णस्तमयाचत । सतु, मह्यं मोक्षमिह जन्मनि ददामीति ब्रूहि, अन्यथा नापनेष्यामीति निर्बबन्ध । कृष्णे प्रतिश्रुत्य पुनः प्रार्थितवति, ‘न केवलं महाम्,

अस्मै दधि- कटाहायापि दास्यामीति ब्रूहीत्यवोचत् । अथ तस्मै इव दधिकटाहान्तर्गत- जीवायापि मोक्षे संकल्पित एव कटाहमपसारयामासेति कथा ।

409 पञ्चाग्निविद्या । ब्रह्मात्मकस्य प्रकृतिविनिर्मुक्तस्य

जीवात्मन उपासनरूपा छान्दोग्यादिगता ।

  1. कुलिङ्गशकुनिर्यथेति । ‘कुलिङ्गशकुनिर्नाम हरेर्दारित- दन्तिनः । मुखादामिषमादत्ते; वक्ति ’ मा साहसं कुरु ॥ कुलिङ्गशकुनि- मुखाद्भवन् शब्दः मा साहसंकुर्वित्येवंरूपः । तत्कार्यं तु जृम्भमाणसिंह- मुखे प्रविश्य दन्तलग्नस्य दन्तिमांसस्य हठात् ग्रहणेन निष्क्रमणम् ।

  2. प्रत्येयस्त्विति । प्रत्यगिति खात्मा कथ्यते । प्रत्यक्- -छब्दार्थ एव प्रत्येय इत्यनेनोच्यते । प्रत्येयः प्रतीपमञ्चनीयः । इदमिति ग्रहं विना अहमिति ग्राह्यस्तावत् जीवः इदमितिग्राह्यप्रकृतिप्राकृत विलक्षण इति प्रथमवाक्यार्थवर्णनं युक्तम् ।

२०

कतिपय विवरणम्

  1. वान्ताशित्वम् । उद्गीर्ण भक्षकत्वम् । शिष्यक्षेमरूप– प्रयोजनमनुद्दिश्य भृत्या आर्जनाथ प्रतिबोध्य लब्धद्रव्येण जीवनम् ।

  2. वसिष्ठव्यपदेशित्वन्यायः । विष्णोरहं शेष इति वैष्णवत्व निर्देशादतिशयितः अस्य श्रीवैष्णव स्याहं शिष्य इति वाचार्यशेषत्वव्यपदेशः ।

1 इत्थं व्याख्येयभागेषु बहुष्वन्येषु सत्स्वपि । अवकाशानुरूप्येण केचिदशाः प्रदर्शिताः ॥

2 अथाष्टाक्षर मन्त्रार्थयोजनारीतिरुच्यते ।

वाक्यैकत्वे द्वे, द्वितायां तिस्रः, त्रित्वे व पञ्च ताः ॥ 3 नारायणे स्यादोंकारवाच्ये मे शरणागतिः । नारायणे स्यादोमथे कैङ्कर्यात्मा नमस्क्रिया ॥ 4 आय नारायणायैवाहं न मे स्थिति तत्त्वधीः ।

अहं समर्पितोऽस्म्याय तस्मै नास्मि भरो मम ॥ 5 आय नारायणाय स्यां दासोऽनिष्टं न मे भवेत् ।

आयास्मि शेषो न मम, स्यां नारायणदास्यकृत् ॥ 6 आयैवाहं माऽस्त्वनिष्टं दास्यं नारायणेऽस्तु मे ।

आयैवाहं पमानिष्टं क्षिप त्वद्दास्यदो भव ॥ 7 आयार्पितोऽहं माऽनिष्टं स्यान्नारायणदासता ।

यैवाहं प्रपद्ये तं तत्कर्य सदाऽस्त्विति ॥ 8 एवं दशभिरधैस्तु दर्शिताः दश योजनाः ।

आदिमा योजना त्वासु स्यादुपायैकबोधिनी ॥ 9 द्वितीया पुरुषार्थैकपरा तत्त्वपरा परा ।

अन्वयव्यतिरेकाभ्यां तुरीया त्वर्पणार्थिका । 10 पुरुषार्थप्रार्थनैव पञ्चम्यां क्रियते द्विधा ।

षष्ठयां द्वयं स्वरूपार्थ शेषेण च फलार्थना ॥

11 आद्यञ्चाथ स्वरूपार्थ शेषाभ्यां द्विविधे फले ।

आद्ये स्वरूपं शेषाभ्यां गोप्तृत्ववरणं द्विधा ॥ 12 आद्ये समर्पणं शिष्टे फलार्थनपरे उभे ।

तत्त्वोपायमर्थानां दशम्यां बोधनं क्रमात् ॥ 13 संपादको वात्स्यचक्रवर्ती श्रीवीरराघवः ।

संगृह्यार्थान् मूलमन्त्रयोजनाश्च समग्रहीत् ॥