३२
- करवदरितविश्वः कश्चिदाचार्यदृष्टया
सुपितनिखिलमोहो मूलमन्त्रादिभोगः । सगुणविषय सिद्धौ संप्रदायं प्रयच्छन् सुचरित सिलहारी सुरिवृन्दाभिनन्द्यः ॥
(सर्व पूर्वाधिकारार्थसंग्रहः)
FITEE
इत्थम् (1) अस्य जीवात्मनः नित्यसूरिनिर्विशेषं भगदनुभवर- सास्वदनस्वरूप योग्यस्यापि सतः अनादिकालात् तद्रहितस्य कस्मिंश्चि- दबसरे विचारपूर्वं सदाचार्यसंबन्धे जाते तत्त्वहितज्ञानाय प्रवृत्तिम् (2) एतः प्रतिपादक प्रमाणेषु रहस्यत्रयस्य सारतमत्वम्, (३) एतै-
श्री निगमनाधिकारः
४३५
ज्ञयमानेष्वर्थेषु ईशेशितव्ययोः शरीरात्मभाव संबन्धादीनां प्रधान- प्रतितन्त्ररूपेण ज्ञातव्यत्वम्, (4) अनेन सम्बन्धेन सह ज्ञातव्य- स्वेन पूर्वाचार्यसंगृहीतस्वार्थपञ्चकस्य रहस्यत्रयेऽन्तर्भावमकारम्, (5) अस्मिन्नर्थपञ्चके तत्त्वत्रयादिविभागचिन्तां कुर्वतां तात्पर्यम्, (6) अस्मिन् तत्त्वत्रये ईश्वरत्वेन सात्त्विकशास्त्रेषुक्तः श्रियः पति- रित्येतमर्थम्, (7) इमान् अर्थान् प्रबुद्धवतो मुमुक्षुभूतस्य मोक्षोपायोन्मु स्वत्वम्, (8) अधिकारिविभागम्, (9) एषामधिकारिणामनुरूप- पायविभागम् (10) एषूपायेषु स्वतन्त्रप्रपत्तिनिष्ठस्याधिकार- विशेषव्यवस्थाम्, (11) सकृत्कर्तव्यस्यास्योपायस्य अनुरूपतया विहितं परिकरविभागम्, (12) मुमुक्षोः सपरिकर भरन्यासरूप- सधानकर्तव्यस्य सन्निवेशप्रकारम् (18) इत्थं साङ्गप्रपदनानुष्ठानं कृतवतः सर्वरक्षणाधिकृत स्वामिसन्निधौ न्यस्त भरतया कृतकृत्यताम्, (14) इमां निष्ठां स्वस्य संपन्नामवलोक्य स्वयं समाश्वस्ततयाऽवस्थितेरभि- ज्ञानानि, (15) अस्याऽऽर्तिमान्धात् शरीरेऽनुवृत्ते सति इह जीवन- काले स्वयंप्रयोजनस्य स्वरूप प्राप्तशेषवृत्तिरूपत्य कैङ्कर्यस्य स्थिति- प्रकारम्, (16) भागवतकैङ्कर्यस्य भगवत्-कैङ्कर्य काष्ठाभूतताम् (17) शासितुः स्वामिनो ऽनभिमतस्य कैङ्कर्यत्वाभावात् यथाशास्त्रं कैङ्कर्यस्यानुष्ठेयताम्, ((18) अस्मिन् शास्त्रीयकैङ्कर्ये प्रवृत्तस्यापराधानुपनतेः, उपनवानां निवृत्ते- श्चोपायान्, (19) अस्य निरपराधकैङ्कर्यस्य स्थानत्वेन अनापदि स्वीकर्तुमुचितं भागवताश्रितं भगवत्क्षेत्रमित्येतमर्थम्, (20) एव– मवस्थितस्याधिकारिणः शरण्यसंकल्प विशेषेण प्रशस्तदेशकालादि-
४३६
श्रीरहस्यत्रयसारे
नियतिनैरपेक्ष्येण स्थूलशरीरान्निर्याणस्य प्रकारम्, ( 21 ) एवं निर्गमने पित्रा यौवराज्याभिषेकाय आहूतो राजकुमारो यथा गच्छेत्, तथा महतोत्कर्षेण सह परमपदपर्यन्तमर्चिरादिमार्गेण गमनम्, ( 22 ) एवं गते सति तत्र जायमानस्य स्वच्छन्दकैङ्कर्य पर्यन्तपरिपूर्णानुभवरूप- मुक्तैश्वर्यस्य प्रकारम्, (23) एवमुक्तेषु ज्ञातव्येषु प्रधानभूत सिद्धोपाय- विषयकस्य ( 24 ) कर्तव्येषु प्रधानभूतसाध्योपायविषयकस्य ( 25-26 ) एत- दुपायनिष्ठस्य प्रभावे शास्त्राननुमतं यत् आधिक्यं यच्चन्यूनत्वं तत्तद्विषयकस्य च आहारदोष-हैतुकसंसर्ग-युगखभावादिभिर्जायमानस्य व्यामोहस्य कर्तुमर्हान् परिहारप्रकारान्, ( 27, 28, 29 ) एषां सर्वेषामनुसन्धानस्य मुखभूते रहस्यत्रये पदवाक्ययोजनाः, ( 80 ) एषामर्थानां सर्वेषां यथाशास्त्रं संप्रदाय प्रवर्तनं कुर्वत आचार्यस्योपदेशादिप्रवृत्ति- निवृत्तिविषयव्यवस्थाम्, ( 31 ) एवं परमोपकारकस्याचार्यस्य विषयेऽनु- रूपस्य प्रत्युपकारस्याभावान्नित्यऋणिना शिष्येण यत् कर्तुं युक्तम्, तच्च, सर्वान् एतान् अर्थान् श्रुतिस्मृतिसूत्रसंप्रदायैरेतदनुकूलसमीचीन- न्यायैश्च - अज्ञानसंशय विपर्यया यथा निवर्तेरन् तथा — यथाश्रुतं यथाहृदयं चोपापीपदाम ।
(एतच्छास्त्रावलम्बन प्रयोजनम् )
इमे सर्वेऽप्यर्थाः प्रथमतः सत्संप्रदायवतः सदाचार्यस्य सन्निधौ सम्यगुपसन्नेन, “शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्” इति विज्ञाप्य सादरेण विशदं श्रुत्वा, एतदुपयुक्ताः सद्वार्ताश्च " सुव्याहृतानि - महतां सुकृतानि ततस्ततः । संचिन्वन् धीर आसीत सिलहारी सिलं. व्यथा ॥" इत्य्-उक्त-रीत्या विशोध्योपादाय अभ्यासभूयस्तया ज्ञातव्याः ।
निगमनाधिकारः
४३७
“सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम" इति, “घर्पस्य तत्त्वं निहितं गुहायाम्” इति, “अणीयान् क्षुरधारायाः को धर्मं वक्तुमर्हति " इति च ऋषिभिरपि क्लेशेन पदविन्यसनस्यार्हेषु स्थलेषु, “महाजनो येन गतः स पन्थाः” इति, “धर्मशास्त्ररथारूढा वेदखङ्गघरा द्विनाः । क्रीडार्थमपि यद् ब्रूयुः स धर्मः परमो मतः ॥” इति चोक्तरीत्या श्रुतिस्मृतिशरणैः पूर्वाचार्यैः कण्टकशोधनं कृत्वा गते मार्गे गमनाद- स्मास्वापतन् कश्चित् प्रत्यवायो नास्ति ।
अस्मिन् मार्गे गतवद्भिः, “अविश्रान्तमनालम्बमपाथेयमदेशिकम् । तमः कान्तारमध्वानं कथमेको गमिष्यसि ॥” इति, “निष्पानीये निरालम्बे निश्छाये निरपाश्रये । द्राघीयस्यशुभे मार्गे यमस्य सदनं प्रति ॥” इति च महर्षीणां हृदयशोकविषयाः पन्थानो न द्रष्टव्या भवन्ति । पञ्चामि - विद्योक्तरीत्या कार्पासानुभूतान् द्वादशापि (शेव) क्लेशान् अनुभूय, घटी यन्त्र- कुण्डिकावद् आरोहणावरोहणरूपेण धूमादिमार्गेण न परिभ्रमितव्यम् ।
“त्वं न्यञ्चद्भिरुदञ्चद्भिः कर्मसूत्रोपपादितैः । हरे विहरसि क्रीडा- कन्तुकैरिव जन्तुभिः” इत्य्-उक्ता-यां भगवल्ली लोपकरणदशायां निवृत्तायाम् अन्यान्यानि अतिशयितफलानि प्राप्नुवतामधिकारिणां मार्गापेक्षया पुरुषार्थभृयस्तया पुनरावृत्तिराहित्येन च, “तेभ्यो विशिष्टां जानामि ग्रतिमेकान्तिनां नृणाम्”, “उत्क्रामति च मार्गस्थः शीतीभूतो निरामयः”, “देवयानः परः पन्था योगिनां क्लेशसंक्षये” इत्याद्युक्तरीत्या अत्यन्त- विलक्षणेन, “आत्मा केवलतां प्राप्तो यत्र गत्वा न शोचति”, “अत्यर्का- नलदीप्तं तत् स्थानं विष्णोर्महात्मनः । स्वयैव प्रभया राजन् दुष्प्रेक्ष
४३८
श्रीरहस्यत्रयसारे
देवदानवैः ॥ तत्र गत्वा पुनर्नमं लोकमायान्ति भारत”, “एतै वै निरयास्तात स्थानस्य परमात्मनः” इत्यादिषु, संसाराध्वनः पारमिति श्रुतिषु चाऽऽम्नातं परमपदं पर्यन्तयता भगवत्प्रसादावलम्बनेन परिपूर्ण परमपुरुषार्थं प्राप्स्याम इति संतोषात्मक पाथेयवता प्रकाशितद्वार:" इत्य्-उक्त-रीत्या हार्दश्वरसौहार्दप्रदर्शितेन अर्चिरादिमार्गेण तवद्देवतासु प्रतिखखसीमा भूमि मङ्गलप्रदीप - पूर्णकुम्भादिपुरस्कारपूर्व सपरिकरासु प्रत्युद्गम्य सार्वभौमोपचारान् कृत्वा अतिवहन्तीषु, कर्मलोके नीवनकाले गृहीताहारासु देवतासु सर्वासु उपदाः प्रदायानुवर्तमानासु ताभिरप्यगम्याः सर्वाः सीमा अतिक्रम्य नित्यसूरिपरिषदि प्रवेशे- यथा तारतम्यं न ज्ञायेत तथा निरतिशयपूर्ति प्राप्य, “ततो महति पर्यङ्के मणिकाञ्चनचित्रिते । ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम् ॥ जाज्वल्यमानं वपुषा दिव्याभरणभूषितम् । पीतकौशेयसंवीतं हेम्नीवो- पचितं मणिम् ॥ कौस्तुमेन ह्युरस्स्थेन मणिनाऽभिविराजितम् । उद्यतेवोदयं शैलं सूर्येणाप्तं किरीटिनम् । नौपम्यं विद्यते तस्य त्रिषु लोकेषु किञ्चन ॥”, “तं वैश्रवणसंकाशमुविष्टं स्वलंकृतम् । ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे ॥ वराहरुधिराभेन शुचिना च सुगन्धिना । अनुलिप्तं परायेन चन्दनेन परन्तपम् ॥ स्थितया पार्श्वतश्चापि बालव्यजन- हस्तया । उपेतं सीतया भूयश्चित्रया शशिनं यथा ॥ तं तपन्तमिवाऽऽदि- त्यमुपपन्नं स्वतेजसा । ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥ " इति भारत - रामायणयोर्वर्णितया अवतारासिकया व्यञ्जितं परम- पदपर्यङ्कमध्यासीनस्य सपत्नीकस्य सर्वेश्वरस्य चरणद्वन्द्वस्यास्ताद्
निगमनाधिकारः
४३९
1 " अवधिशून्यं कालं सर्वं सहचारितया स्थित्वाऽप्रच्युति के कर्यं कर्तुं वान्छामो वयम्” इति पूर्वकृतमनोरथानुसारेण सर्वदेशसर्वकाल- सर्वावस्थोचित सर्वविधकैङ्कर्याणि प्राप्योज्जीवेयुः । इत्थं श्रियः पत्यु- नारायणस्य श्रीचरणावेवोपायदशायां फलदशायां चोपजीव्यौ ॥
" बलिष्ठः शकटो यथा भिद्येत तथा एकदा सावधानं जागरूको स्थितौ संहिताबर्जुनौ यथा भज्येयातां तथैकदा कृतमणी, शिक्यपरामर्शकाले उलूखलेन सह युक्तौ स्थितवन्तौ, योग्यमार्गस्थाद्वितीय- धर्मपुत्रेरितं दूतत्वमभिनन्दितवन्तौ; कोपमार्गस्था यथा नश्येयुस्तथा वृन्दावने आगतवन्तौ, पङ्कजवासिनी करसंवाहनेनापि विकसत्पद्मादप्यत्यन्तं रक्ती- भूतौ, पुनर्जन्म विच्छेद कमुनि परमभक्त्यनुरूपौ संपन्नौ, मनुवंशागताद्विती- यविमाने निवासिनौ, धर्मवता विजयेनाधिष्ठिते रथे लब्धप्रकाशौ,
1 ओडिविल कालमेल्लामुडनाय् मन्नि चडुविला अडिमै शेय्यवेडुम् नाम् - तिरुवायू - 3-3-1 2 उरुशकट मुडैय वोरुका लुई गर्दन
उडन्मरुदमोडिय वोरु पोदिल तवड़न्दन उरितडवुमलं विलुरलोड टुंनित्रन उरुनेरि योर तरुमन् विडुतू दुक्कुन्दन मरनेरियर मुरिय पिरुदानत्त वन्दन मलेर्मगले कैवरुड मलरपोदिरचिवन्दन मरुपिर वियरुमुनिवर मालुकिकरौन्दन मनुमुरैयिल वरुवदोर विमानन्तरन्दन अरमुडैय विशयनमर तेरितिकन्दन
C
४४०
श्रीरहस्यतयसारे
हिंसोरंगफणा यथा निपतेयुस्तथा नर्तनं कृत्वा कृतकोपों, पट्समयीदुर्ज्ञे- यस्थाने प्रतिष्ठितो, अलंकारभूत कुरु कानगरी मुनिरसना (कृतगान ) विषयी - भूतौ वासनावन्ति तुलसीपुष्पाणि उत्कर्षार्थमलंकारतया धृतवन्तौ, पतितेङ्गालं कश्चित्कुमार इत्यनुगृह्य यशखिनौ संपन्नौ, सामर्थ्यवती महासुरसेना कात्स्न्येन यथा नश्येत् तथाऽनुद्रुतवन्तो, दुस्त्यजौ महा- पुरुषस्य (श्रीरङ्गनाथस्य ) सत्यपादावेव ॥
इति यतिराज महान सपरिमलपरिवाहवासितां पिबत विबुधपरिपन्निषेव्यां वेदान्तोदयन संप्रदायसुधाम् ॥ कलकण्ठगणास्वाद्ये कामस्यास्त्रे निजाङ्करे । निम्बवृत्तिभिरुद्गीर्णे न चूतः परितप्यते ॥
( अधिकारार्थसंग्राहिका गाथा )
3 प्रथमतः प्राप्तं ज्ञानं मोहनिवृतिं त्रिषु रहस्येषु स्वेन लब्धं
अडलुरंग पडमडिय वाडिकडिन्दन
अरुशमय मरिवरिय तानत्तमर्दन अणिकुरुकै नगर्मुनिवर नावुक्कमैन्दन वेरियुडैय तुलवमलर वीरुक्कणिन्दन विडुकरि योर् कुमरनेन मेविच्चिरन्दन विरलशुरर पडैडैय वीय चुरन्दन विटलरिय पेरियपेरुमाल मेय् (मेन) पदङ्गले. 3 मुम्पेर्ट्ज्ञानम् मोहन्तुरक्क मूत्ररैयिल
तन्पर्ट तन्मैयुम तान्दव की तनित्तहवुम्
S
निगमनाधिकारः
४४१
स्वभावमाश्रितोपदेशौपयिक कृपां च दृढमवलम्ब्यावस्थितिरूपं प्रकार - मुपदिशत्सु वैदिकेषु कोपावलम्बनेन किम् ? गुणज्ञानां कृते इमान् (अर्थान् ) अवादिष्म ॥
Stars
निर्विष्टं यतिसार्वभौमवचसामावृत्तिभिर्यौवनं निर्धूतेतरपारतन्त्र्यनिरया नीताः सुखं वासराः । अङ्गीकृत्य सतां प्रसत्तिमसतां गर्वोऽपि निर्वापितः शेषायुष्यपि शेषिदम्पतिदयादीक्षामुदीक्षामहे ॥
’ प्रवचने श्रवणयोरमृतमिति प्रकाशमानाः श्लाध्यगुणवद्भघो निर्दोषेभ्यः स्वयमेव प्रीत्या ददत्या दयया निरुपम चतुर्वेद्यन्तः स्थतात्पर्य संस्पृश्य प्रोक्ता: द्वात्रिंशदिमाः त्रिविधद्राविडीयुक्त शब्दश्रियः ॥
आस्तिक्यवान् निशितबुद्धिरनभ्यसूयुः सत्संप्रदाय परिशुद्धमनाः सदर्थी । संकेतभीतिरहितः सतृणेष्वसक्तः सद्वर्तनीमनुविधास्यति शाश्वतीं नः ॥
मन्पट्रि नित्र वगै युरैकिकत्र मरैयवर्पाले शिन्पट्रि येन्पयन् शीररिवोर्किवै शेप्पिनमे. 4 शेपच्चे विक्कमुदेन्न तिगडुं शेडुगुणत्तत् तप्पर्टवर्कत् तामे युगन्दु तरुन्तकवाल् ओप्पर्ट नान्मरे उल्लककरुत्तिलुरे तुरंत मुप्पत्तिरण्डिवै मुत्तमिड़ शेन्द मोडित्तिरुवे.
४४४
श्रीरहस्यत्रयसारे
“वेदोक्ताः सर्वेऽर्थाः सत्या इति विश्वसन्तः, स्थिरतीक्ष्णमतिमन्तः, श्रेष्ठ गुणेषु दोषोक्त यभिसन्धिरहिताः, गुरुविषये निर्दोषं मनः प्राप्तवन्तः,- अभ्युपगन्तारो हितानाम् (अर्थानाम् ), कारागृहं वर्धयतां केषाञ्चिदरूप - ज्ञानां संकेतेनाक्षोभ्यसुदृढमतयः, परिदृश्यमानानि (क्षुद्रफलानि ) अगृह्णन्तः, क्षमाविषये भूम्यपेक्षयोत्कृष्टैः पूतैः प्रदश्यमानमस्मदीयम विनश्वरं सन्मार्गं प्रविशेयुः ॥
" अयं पन्थाः खाद्वमृतमिति जानन्तः, भोग्यविषयान्तराणि पृथक्कुर्वाणाः, एते न मार्गा इति जानन्तोऽस्मद्देशिकाः, अयं मार्गों वर्धतामिति प्रीत्या मद्दोषं क्षाम्येयुः, अयं पन्था इति वेदविदां कृपया
चयमङ्गचका ॥
5 मरैयुरैक्कुं पोरुलेल्लां मेययेोर्वार
मन्निय कर्मदि युडैयार वण्गुणत्तिलं कुरैयुरैक्क निनैविल्लार कुरुक्कले तम्बाले कोदर्टमनं पेट्रीर कोल्वार नन्मै
शिरैवलर्कु शिलमान्दर सङ्कतत्ताल शिदेयाद तिमदियोर तैरिन्ददोरार
पोरैनिलत्चिन् मिहुं पुनितर कामे पोत्रादनन्नेरिथिपंहुदुवारे.
F
6 इदु वडियिन्नमुदेनवर इन्पुलंन् वेरिडवार इदुवडियामल वेन्ररिवारेङ्गल देशिकरे इदु वडियेरह वहप्पाले एम्पिडे पोहप्पार इदुवडिया मरैयोररुलाल यामिशैन्दनमे.निगमनाधिकारः
४४३-
अष्टकं द्वयं चाजानतोऽस्मान् एतत् प्रबोध्य अप्राप्यपदप्रदस्य तस्य अस्मन्माघवस्य — कात्स्न्येन पापसमूहो यथा नश्येत् तथा- प्रयतमानस्य ( प्रयत्यतां ) मा भैषीरिति वदतः कात्स्न्येन प्रकाशकेन वाक्येन अक्षोभ्यदशामलभामहि ॥
व्योमस्थैरपि क्लेशलभ्यानामासां निष्ठानां खयमाश्रय इति प्रीति- हेतुभूत उत्कर्षोऽत्रास्माकम स्त्येव । वक्रस्वान्तैर्दुष्टत्वबुद्धयाऽनाद्रियमाणो- ऽपि मकरन्दभरितपादपङ्कजाय श्रियः पत्ये खदेतैव (अयं ग्रन्थः) ॥
श्वेतेन हयवदनेन देशिकीभूयोपायेन दासानामस्माकं मनसि (लिखितान् (अर्थान् ) ( पत्रे आरोपितवन्तः स्मः । वयमस्य के ? )
7 एट्टुमिरण्डमरियाद वेम्मै यिवै यरिवित्त पट्ट वोण्णाद विङन्तरु मेङ्गलमादवनार मुट्ट विनैत्तिरमाल मुयनिडमञ्जलेवार कट्टेडिल वाचकत्ताल कलंङ्गानिलै पेर्टून मे. 8 वानुलमन्देवकुं वरुन्दवरु मिन्नकल
तानुलेनायुहक्कुम् तरमित नमक्कुलदे. कुनुले नेम्जुहलाल कुर्टमेण्णि यिगडन्दिडिनुम तेनुल पादमलेर तिरुमालुक्कुन्तित्तिक्कु मे. बेलै परिकर देशिकराय विरहाडियोम उळ्ळत्ते बुंदियदोलैयिलिट्टनं यामिद कैन् ?
R..
४४४
श्रीरहस्यत्रयसारः
अङ्गीकतु विखम्भे सत्यपि, असार इत्यनादरणे सत्यपि, हे निशितमतयः ? तिलमात्रमपि न प्रीयेत नोद्विजेत चाऽऽस्माकी प्रकाशवती मतिः ॥
रहस्यत्रयसारोऽयं वेङ्कटेशविपश्चिता ।
शरण्यदम्पतिविदां सम्मतः समगृह्यत ॥
इति श्री कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरहस्यत्रयसारे
निगमनाधिकारो द्वात्रिंशः ॥
कोल्लत्तणियिनुं कोदेत्रिगडिनुं कूर्मदियीर पलुत्तनै युगवादिगडादेम् पडिन्मदिये.
C
श्री कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्री मद्रहस्यत्रयसारः संपूर्णः ॥
शुभमस्तु ॥
कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ चादिद्विपशिरोभङ्गपञ्चाननपराक्रमः ।
श्रीमान् वेङ्कटनाथार्यचिरं विजयतां भुवि ॥