३१ शिष्यकृत्याधिकारः

अशिथिलगुरुभक्तिस्तत्प्रशंसादिशीलः प्रचुर बहुमतिस्तद्वस्तु वास्त्वादिकेऽपि । गुणवति विनियोक्तुं गोपयन् संप्रदायं कृतविदनघवृत्तिः किं न विन्दन्निधानम् ॥

(प्रत्युपकारस्याशक्यत्वम् )

एषामर्थानां सर्वेषाम्, परमदरिद्रस्य गृहाभ्यन्तर एव महानिधेः प्रदर्शनवत् प्रकाशनात् परमोपकारकभूतस्याचार्यस्य विषये शिष्येण कृतज्ञेन भाव्यमिति, द्रोहमकुर्वता भाव्यमिति च शास्त्रोक्तमपि,

शिष्यकृत्याधिकारः

४२९..

विभूतिद्वयेन विभूतिमता च, मा भूदयं छी छी इति वचनीयः, मा च हितवादिप्रहाद विभीषणादिप्रतिकूलहिरण्यररावणादितुल्यः, “विद्याचोरो गुरुद्रोही वेदेश्वरविदूषकः । त एते बहुपाप्मानः सद्यो दण्डया इ श्रुतिः ॥" इत्य्-उक्त-रीत्या दण्ड्यश्च मा भूत् इत्येतावत्परमेव ; न तु प्रत्युपकारप्रतिपादनपरम् ।

“शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत्” इति, “सर्वस्वं वा तदधै वा तदर्घाधार्धमेव वा । गुरवे दक्षिणां दद्यात् यथाशत्तद्यपि वा पुनः ॥" इत्येवंरीत्योच्यमानमपि प्रणिपाताभिवादनादिवत् मस्य केषाञ्चित् कर्तव्यानां प्रतिपादनपरमित्येतावदेव ; न तु “कृपया निस्स्पृहों वदेत्” इत्येवं वर्तमानस्यानन्यप्रयोजनस्याचार्यस्य विषये प्रत्युपकारप्रतिपादनपरम् ।

भगवत्सकाश इव आचार्यसकाशेऽपि वर्तेत, तस्य यथा प्रियो भवति तथाऽऽचार्यस्यापि प्रियो भवेदिति वेदान्तेषूक्तमपि, “नम गुरौ शिष्यो वाङ्मनः कायकर्मभिः । अविभज्याऽऽत्मनाऽऽचार्यं वर्तम यथाऽच्युते ॥”, “देवमिवाचार्यमुपासीत” इति शाण्डिल्यापस्तम्बायुक्त- मपि नाचार्यस्य विषये प्रत्युपकारप्रतिपादनपरम् ; किन्तु शास्त्रचक्षुषो ऽस्योन्मीलितचक्षुरन्वभावानापत्त्यर्थं भगवदनुभववद्विलक्षणस्यास्यानु- भवस्य हानिर्जन्म भिक्षोरस्य मा भूदित्येतावत्परम् ।

इत्थमेतद्विषये प्रत्युपकारो नास्तीत्येतमर्थम्, “ब्रह्मविद्याप्रदानस्य देवैरपि न शवयते । प्रतिप्रदानमथवा दद्यात् शक्तित आदरात् ॥ - इति शाण्डिल्य भगवान् अनुजग्राह । अत्र यथाशक्तिप्रदान वचनमपि

४३०

श्रीरहस्यत्रयसारे

तदादरपरीवाहरूपेण तत्प्रतिपादनमात्रम् । एतावन्मात्रमाश्रित्यायं प्रत्यु- पकारकर्तृत्वेन स्वं मन्तुमार्हन्ती न विभर्ति । TOP

BR

( शिष्यकृत्यम् )

112

एवं प्रत्युपकाररहितेनानेन किं कर्तुमुचितमिति चेत् — उपदिष्टानामर्थानाम्, “कपालस्थं यथा तोयं श्वदृतौ च यथा पयः । दुष्टं स्यात् स्थानदोषेण वृत्तहीने तथा श्रुतम् ॥" इत्य्-उक्त-रीत्या विपरीतानुष्ठानैः कपालस्यतो यादीनामिवानुपजीव्यत्वानापादनम्, “ यच्छुतं न विरागाय न धर्माय न शान्तये । सुबद्धमपि शब्देन काकवाशितमेव तत् ॥" इत्य्-उक्त-रीत्या अध्ययनमात्रस्य प्रयोजनत्वानापाद- नम्, एतैर्वान्वाशित्वानापत्तिः, एषां सर्वेषाम्, “पण्डितैरर्थकापण्यात् पण्यस्त्रीभिरिव स्वयम् । आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः ॥ " इत्यादिषु परिहसितरीत्या गणिकालङ्कारत्वापत्तेः क्रय्यचन्दन- भावापतेः चत्वरधानाराशिभावापतेः वानरकरगतमालात्खा पत्तेश्चाकरणम्, आदौ विद्यया “शेवधिस्तेऽस्मि रक्ष माम्” इति ब्राह्मणं प्रति स्वयं कृतामपेक्षामनुसृत्य, पूर्वमेव (प्रथममेव ) असूयादीन् करस्थीकृतवतां करयोरप्रदर्शन पूर्व संरक्षणम्, जनुषान्धं स्वं विस्मृति- शून्यामर परिषदतया परिष्कृतवतः परमोपकारकस्य कर्तुमर्हः प्रत्युपकारो नास्तीति विज्ञाय, “एकान्ती व्यपदेष्टव्यो नैव ग्रामकुलादिभिः । विष्णुना व्यपदेष्टव्यस्तस्य सर्वं स एव हि ॥” इत्य्-उक्त-दशाधिका, “वसिष्ठ- व्यपदेशिनः” इत्य्-उक्त-रीत्या शरण्येन भगवता जनित्वा, वंशक्रमागतेति

शिष्यकृत्याधिकारः

४३१

दायवत् गृहीता दशा इयमिति परिगृह्ण, 1 “मम दुर्मनो न्यवर्तयः, तब किं करवाणि” इत्यवस्थानच अस्य प्राप्तानि (समुचितानि) ।

(गुरुपरम्परानुसन्धानपूर्वकमुपदेशस्य कर्तव्यता)

स्वेनेत्थं लब्धस्य रहस्यत्रय सारथिरूपस्य महाघनस्य पूर्वाधि -कारोक्तरीत्यो चितस्थानज्ञानपूर्वकं समर्पणकाले, " कथयामि यथापूर्वं दक्षाद्यैर्मुनिसत्तमैः । पृष्टः प्रोवाच भगवान् भब्जयोनिः पितामहः ॥ तैश्वोक्तं पुरुकुत्साय भूभुजे नर्मदातटे । सारखताय तेनापि माँ (मम) सारखतेन च ॥” इति श्रीपराशरब्रह्मर्षिणा भमवते मैत्रेयाय यथोपदिष्टम्, तथा गुरुपरम्परां प्रकाशयता सता - स्वस्य कृतज्ञता अर्थस्य श्रेष्ठ्यं च - यथा संप्रतीयेत तथा उपदेष्टव्यम् | अध्यात्मरहस्यानां प्रवक्त्रा संप्रदाये असत्येव पत्राणि दृष्ट्वा वा मितिव्यवधानपूर्वं श्रुत्वा वा प्रवचने क्रियमाणे चोरिताभरणधारण इव द्रष्टृभ्यः सर्वेभ्यः स्वस्य भेतव्यता स्यात् ।

“यदृच्छया श्रुतो मन्त्रश्छन्नेनाथ छलेन वा । पत्रेक्षितो वा व्यर्थः स्यात् प्रत्युतानर्थदो भवेत् ॥" इत्याद्युक्तरीत्या प्रत्यवायपर्यन्तता च स्यात् । श्रवणपूर्वक प्रवचनस्थलेऽपि, “तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया “, " प्रणिपत्याभिवाद्य च” इत्याद्युक्त नियमत्यागपूर्वकं श्रुत्वा प्रवचने क्रियमाणे कालपुरुपदानप्रसङ्गगृहीताभरणधारणे इव सर्वद्रष्टजुगुप्सनीयता स्यात् । “यश्चाधर्मेण विब्रूते यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वेषं वाऽधिगच्छति ॥” इत्य्-उक्त-रीत्याऽनर्थावहं च स्यात् । यथान्यायं

1 एत्तीमनम् के त्ताय् उनक्केन् शेव्हेन्- तिरुवायू-2-7-8

४.२

श्रीरहस्यत्रयसारे

श्रुत्वा प्रवचने क्रियमाणेऽपि प्रवचनकाले गुरोरप्रकाशने, अनेनोच्यमाना अर्था निर्मूलवल्लीवत् आधार (मूल) हीना: स्युरिति शिष्यस्यातिशङ्कावह- तयाऽनादरविषयाः स्युः । “खगुरूणां खशिष्येभ्यः ख्यःपनं चाकूतं तथा” इति द्वात्रिंशदप चारवर्गे गुरोरप्रकाशनमपि पठितम् । तदा “गुरुं प्रकाशयेत् धीमान् मन्त्रं यत्नेन गोपयेत् । अवकाशप्रकाशाभ्यां क्षीयेते संपदायुषी ॥” इत्य्-उक्त-रीत्या ज्ञानवैशद्यपूर्विका भगवदनु- भवसंपद् आत्मससानुवृत्तिहेतुः शेषत्वासंधानपूर्वक स्वनिष्ठा क नश्येताम् । गुरुं प्रकाशयता सताऽपि तत्कृतशास्त्रीयोपदेशविरुद्धे प्रवचने क्रियमाणे, विप्रलम्भक इति प्राप्तनामा, “ज्यौतिषं व्यवहारं च प्रायश्चित्तं चिकित्सितम् (त्सनम् ) । विना शास्त्रेण यो ब्रूयात् तमाहु- ब्रह्मघातकम् ॥” इत्य्-उक्त-रीत्या पापिष्ठश्च स्यात् ।

सच्छिष्याय प्राप्तदशायामुपदेशस्याकरणे लुब्ध इति प्राप्तनामा, " पात्रस्थमात्मज्ञानं च कृत्वा पिण्डं समुत्सृजेत् । नान्तर्धाय स्वयं याति जगद्वीजमवीजकृत् ॥” इति भगवन्नियोगमतिलङ्घितवांश्च स्यात् ।

अतः — दीपधरेण स्वं राज्ञि कार्यविशेषार्थं गमनायाऽऽज्ञापितवलि सति, यथा दीपं तदर्हस्य हस्ते दत्त्वा गम्यते तथा – सत्पात्रभूतेभ्यः स्वेन प्रवचने क्रियमाणे स्वस्योपदेष्टारमाचार्य प्रथमतः प्रकाश्य, पश्चात् स्वस्यो- पदिष्टा अर्थाः प्रोच्यन्ते चेत् — तथा, कैश्चित् कारणैर्दिव्यचक्षुः श्रेत्रे लब्ध्वा स्वेन ताभ्यां विदित्वा प्रोच्यमाना अर्था अपि " व्यासप्रसादात् श्रुतवान् एतद्गुह्यमहं परम् । योगं योगेश्वरात् कृण्णात् साक्षात् कथयतशिष्यकृत्याधिकारः

४३३

स्वयम् ॥” इत्य्-उक्त-रीत्या सदाचार्यप्रसादात् इमान् अर्थान् मज्ञासिषम्, मत्सामर्थ्येन ज्ञात्वा न वदामि’ इतीदं तत्त्वं प्रकाश्य प्रतिपादने क्रियमाणे, अनेनोच्यमानाः सर्वेऽप्यर्थाः सर्वेषामादरणीयाः स्युः । जयं कृतज्ञोऽभूदिति सात्त्विकैरनुगृह्यमाणः, सत्यवादी अनूदित्युपनिषद्भिः औपनिषद परमपुरुषेण च स्वनिर्विशेषं प्रमाणभूतत्वेनाऽऽद्रियमाणश्च स्यात् । एवं कृतज्ञावहितशिष्यविषये स्वेन कृता कृषिः फलितेति आचार्योऽपि कृतार्थः स्यात् ॥

साक्षान्मुक्तेरुपायान् यो विद्याभेदान् उपादिशत् । कथ्यते मोक्षशास्त्रेषु स तु श्रेष्ठतमो गुरुः ॥ आचार्यवत्तया मोक्षमामनन्ति स्मरन्ति च । इहामुत्र च तत्पादौ शरणं देशिका विदुः ॥

(अधिकारार्थसंग्राहिका गाथा)

1 आरोप्य मनसि प्रदीप्तं ज्ञानदीपम्, अन्धकारं सर्वमपि निवर्तित- वतां कमपि प्रत्युपकारमाश्चर्यचेष्टितः परमात्माऽपि न पश्यति । स्तवनेन संप्रीणनं बुद्धौ स्वीकरणं जृम्भमाणाया: की तैर्घोषणेन वर्धनं च अत्यल्पानि हि भवन्ति पूर्वं प्राप्तानामर्थानां गौरवे भाविते (पूर्वं प्राप्तेभ्योऽर्थेभ्यः?) ॥

एट्रिमनत्तेडिन् ज्ञानविलक्कै यिरुलनैत्तुम् मार्टिनवरु कैम्मारु मायनुङ्काणकिल्लान् पोर्टियुप्पदुम् पुन्दियिकल्वदुम् पोङ्गपुग शर्टिवल पढुं शर्टल्लवो मुन्नं पेर्टतर्फे.

28

R (8)

४३४

श्रीरहस्यमय सारे।

● की अध्यासीन तुरङ्गचक्त्र विलसजिहा सिंहासनात् ॥

आचार्यादिह देवतां समधिकामन्यां न मन्यामहे । यस्यासौ भजते कदाचिदजहद्भूमा स्वयं भूमिकां मग्नानां भविनां भवार्णवसमुत्ताराय नारायणः ॥ इति श्रीकवितार्किक सिंहस्य सर्वतन्त्रखतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरहस्यत्रयसा शिष्यकृत्याधिकार एकत्रिंशः ।

कोहली

श्रीमते निगमान्तमहा देशिकाय नमः