आचार्यकृत्याधिकारः
अधिजिगमिषुराद्यं धाम दिव्यं त्रिधाम्नः श्रुत विविध परीक्षाशोधिते कापिपात्रे अनघगुणदशायामाहित स्नेहमार्यः प्रदिशति निरपायं संप्रदाय प्रदीपम् ॥
RE
FIRPHS
F
इत्थम्, “गुरुगरीयान्” इति, “तमिमं सर्वसंपन्नमाचार्यं पितरं गुरुम्” इति चोक्तरीत्या परमाचार्यात् सर्वेश्वरादारभ्य सदाचार्य- संप्रदायसमागतान् सिंहीस्तन्यवत् विज्ञातीयाविज्ञातरसान् रहस्य- त्रयार्थान् संग्रहेण समुचित्य स्वयमनुसन्धाय, “यो गोपायत्ययोग्यानां योग्यानां संप्रयच्छति । इममर्थं स मान्यो मे स्वस्ति वोऽस्तु व्रजाम्यहम् ॥”, " इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्ति मयि परां कृत्वा मामेवैष्यत्यसंशयम् ॥”, " नावेदनिष्ठस्य जनख राजन् प्रदेयमेतत् परमं त्वया भवेत् । विवित्समानस्य विबोधकारकं प्रबोध हेतोः प्रणतस्य शासनम् ॥ न देयमेतच्च तथाऽनृतात्मने शठाय क्लीबाय न
४२४
श्रीरहस्यनयसारे
जिह्मबुद्धये । न पण्डितज्ञाय परोपतापिने देयं त्वयेदं विनिबोध यादृशे ॥ श्रद्धान्वितायाथ गुणान्विताय परापवादाद्विरताय नित्यम् । विशुद्धयोगाय बुधाय चैव क्रियावतेऽथ क्षमिणे हिताय ॥ विविक्तशीलाय विधिप्रियाय विवादभीताय बहुश्रुताय । विजानते चैव तथा हितक्षमादमाय नित्या- त्मसमाय देहिनाम् ॥ एतैर्गुणैहींनतमे न देयमेतत् परं ब्रह्म विशुद्धमाहुः । न श्रेयसा योक्ष्यति तादृशे कृतं धर्मप्रवक्तारमपात्रदानात् ॥ पृथ्वीमिमां यद्यपि रत्नपूर्णां दद्यात् न देयं त्विदमत्रताय । जितेन्द्रियायैतदसंशयं ते
। भवेत् प्रदेयं परमं नरेन्द्र ॥ कराल मा ते भयमस्तु किञ्चिदेतत्परं ब्रह्म श्रुतं त्वयाऽद्य । यथावदुक्तं परमं पवित्रं विशोकमत्यन्तमनादि- मध्यम् ॥", “विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना । आपद्यपि च घोरायां न त्वेनामिरिणे वपेत् ॥” “मूर्खाश्च पण्डितम्मन्या अधर्मा धार्मिका इव । धर्मयुक्तान् प्रबाधन्ते साधूनां लिङ्गमास्थिताः ॥ एक- तस्त्वपवर्गार्थमनुष्ठानादिकौशलम् । लोकानुसारस्वेकत्र गुरुः पश्चादुदी- रितः ॥ भवन्ति बहवो मूर्खाः कचिदेको विशुद्धधीः । लासितोऽपि सदा मूर्खेरचलो यः स बुद्धिमान् ॥ न विश्वासः क्वचित् कार्यो विशेषात् तु कलौ युगे । पापिष्ठा वादवर्षेण मोहयन्त्यविचक्षणान् ॥ गोपयन् आचरेदधर्मं नापृष्टः किञ्चिदुश्चरेत् । पृष्टोऽपि न वदेदर्थं गुह्यं सिद्धान्त- मेव च ॥ आश्रितायातिभक्ताय शास्त्रश्रद्धापराय च । न्यायेन पृच्छते सर्वं वक्तव्यं शौचयोगिने ॥ आत्मपूजार्थमर्थार्थ दम्भार्थमपि खिन्नधीः । अयोग्येषु वदन् शास्त्रं सन्मार्गात् प्रच्युतो भवेत् ॥ ऊषरे निवपेत् बीजं गण्डे कन्यां प्रयोजवेत् । सृजेद्वा वानरे मालां नापात्रे शास्त्रमुत्सृजेत् ॥”
आचार्यकृत्याधिकारः
४२५
““न नास्तिकायानृजवे नाभक्ताय कदाचन । नैव हिंसाभिरुचये न लुब्धाय विशेषतः ॥ दातव्यो मन्त्रराजोऽयं मन्त्रोऽयं हि न तादृशः । ऋजवे - गुरुभक्ताय वैष्णवाय विशेषतः । सर्वप्राण्यनुकूलाय दातव्यो देशिकेन तु ॥” 1" दासानाममृतभोजनाय वाङ्माला अवदम्”, “अन्तादिरूपेण ( गाथाः ) निवेश्यावेदयं गभीराथान्, यथा ( अस्थले ) न भ्रश्पेयुः तथा “निर्धार्य धारयत” इति श्रीसात्त्वत- भगवद्गीता - वसिष्ठकरालसंवाद- शाण्डिल्यस्मृति- सात्यकितन्त्राद्युक्तरीत्या शरण्यानुमत्यर्हेभ्यः सात्त्वि- कताऽऽस्तिक्यादिगुणशालिभ्यः, “अभय सत्त्वसंशुद्धिर्ज्ञानयोगव्य- वस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप भार्जवम् ॥ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं हीरचा- यलम् ॥ तेजः क्षमा धृतिः शौचं सन्तोषो नातिमानिता । भवन्ति संपदं देवीमभिजातस्य भारत ॥” इति द्विविधो भूतसर्गोऽयं दैव आसुर एव च । विष्णुभक्तिपरो दैवः” इत्य्-उक्त-दैव प्रकृतिभ्यः, “संवत्सरं तदर्थं वा मासत्रयमथापि वा । परीक्ष्य विविधोपायैः कृपया निस्पृहो वदेत् ॥ यदृच्छयोपसन्नानां देशान्तरनिवासिनाम् । इष्टोपदेशः कर्तव्यो नारायणरतात्मनाम् ॥” इत्याद्युक्तपरीक्षादिमूलकगुणनिश्चयपूर्वकं “श्रुतादन्यत्र संतुष्टस्तत्रैव च कुतूहली” इत्य्-उक्ता-यामवस्थायामपट्कर्ण- मुपदिश्य, “दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभि–
1 तोण्डर्क मुटुण्ण चोल्मालैकल शोन्नन् - तिरुवाय्मोड़ि -9-4-9 2 अन्तादिमेलिट्टरिवित्तेन् आड़पोरुले शिन्दाम कोल्मिनी रतेन्दु नान्मुकन् तिरुवन्तादि -1
४२६
श्री रहस्यत्रयसारे
जातस्य पार्थ संपदमासुरीम् ॥” इति, “विपरीतस्तथाऽऽसुरः" इति चोक्तेभ्य आसुरप्रकृतिभ्यो गोपयित्वा श्रेष्ठधनाः यथा संरक्ष्य जीवन्ति तथा चरितार्था अवर्तन्त पूर्वाचार्याः ॥
(उपदेशसंग्रहः )
एते, ‘देहेन्द्रियादिव्यतिरिक्ततया नित्यतया चावस्थितः कचिदात्माऽस्ति । एतच्चेतनाचेतनो भयव्यतिरिक्तः एतयोरन्तर्यामितया चावस्थितः कश्चित् परमात्माऽस्ति । एतं परमात्मानं विहायास्य जीवात्मनः खात्मा परे च रक्षका न भवन्ति’ इति तत्त्वम्, ‘अनादेः कालादन्तादिरूपेण संसरतो दासस्य ममेतः परं यथा कश्चिदपि गर्भवासादिक्लेशो न स्यात् तथा श्रीचरणौ दत्त्वा रक्षा कार्येति आचार्य प्रसादितगुरुपरम्परापूर्वकद्वयेन श्रीमतो नारायणस्या श्रीचरणौ शरणत्वेनाश्रित्य आत्मात्मीयानां तदनुबन्धिमराणां च तत्र समर्पणं कार्यम्’ इति हितम्, ‘सदाचार्येण प्रदश्य प्रतं गृहीतवान् श्रीभगवान् इतः परमस्मान् न कथंचिदपि त्यजेदिति समाश्वासेन सह इह जीवनकालेऽपवर्गपूर्व रङ्गभूतनिरपराधानुकूलवृत्त्या सह वर्तितव्यम् इत्युत्तर कृत्यं च संग्राहरुचिभ्यः संग्रहेणोपादिशन् ॥
प्रत्येयस्तु (प्रत्यग्वस्तु) विलक्षण: (ण) प्रकृतितखाता
पतिस्तत्परः तस्मिन्नात्मभरार्पणं हिततमं तच्छेषवृत्तिः फलम् । इत्थं तत्त्वहिते पुमर्थ इति नस्त्रेधा विभक्तं धनं दायत्वेन दयाधनाः स्वयमदुर्दत्तात्मनां देशिकाः ॥
आचार्यकृत्याधिकारः
(एतद्ग्रन्थयाथात्म्यम्)
इत्थं रहस्यत्रयविषयकाणि पूर्वाणि पराणि च वचांसि सर्वाणि वेदान्तोदयन संप्रदायभूतां महानसवार्तामाचार्य सन्निधौ स्वयं श्रुत्वा श्रीवादिहंसाम्बुदाचार्येषु तथैव दासस्य मम शुकस्याभ्यास तुल्यमभ्यासं कारितवत्सु सत्सु तदन्तःकरणस्थं कारुण्यं निमित्तीकृत्य भगवता सुविशद प्रकाश्य विस्मरणानास्पदतया संरक्ष्य निर्दोषं प्रवाचितानि वाक्यानि ॥
1 गानाधिकृतानां पूर्वेषां त्रयाणां पूर्वं कदाचित् स्वविभूतिषु कृपां कुर्वताऽऽश्चर्यचेष्टितेनाधिकं पीडनात् - लोकस्यान्धकारो यथा नश्येत् यथा च चतुर्वेदान्तमार्गः प्रकाशेत - तथा गृहदेहलीस्थः स [सदर्थ] प्रकाशयति सत्यदीपः ॥
" अज्ञानरहिता: देशिका : परमव्योमजिगमिषया, एते लोका:- सर्वेऽपि निवृत्ताज्ञानाः खामिनश्चरणद्वन्द्वमाश्रयन्त्वितीच्छ्या ज्ञानयुक्त- समीचीनानुष्ठानसंपदृद्धाः श्लाध्येषु [शिष्येषु ] कृपा युक्तया चिन्तया अविनश्वरं दीपमारोपयन्ति स्म ॥
1 पाहुक्कुरिय पड़ैयवर मूवरैप्पण्डोरुकाल
माट्टुक्करुल् तरुमायन् मलिन्दुवरुत्ततलाल नाडुक्किरुल शेक नान्मरैयन्दिन डैविलङ्ग वीकडे कडिक्के बेलिकामम् मेलिपके. 2 मरुल देशिकर वानुकम्पालिन्दवैयमेल्लाम इरुलेट्रिरै वनिणैयडि पूण्डय वेण्णुदलाल तेरुलई शेन्तोड़िर शेल्वं पेरुकि च्चिरन्दवर्षाल अरुलुर्टू शिन्दैयिनालड़िया विलक केट्रिन रे.
४२८
श्रीरहस्यत्रयसारे
निरवधिदयादिण्योदन्वत्तरङ्गनिरङ्कुशै-
नियमयति यः शिष्यान् शिक्षाक्रमैर्गुण संक्रमैः । अचरमगुरोराज्ञापारम्परीपरवानसौ
न परमिह तांस्तलक्षेण स्वमप्यभिरक्षति ॥
इति श्री कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरहस्यत्रयसारे आचार्यकृत्याधिकारस्त्रिशः
श्रीमते निगमान्तमहा देशिकाय नमः
010
श्रीः