…
[[P374]]
(“माम्” “अहम्” पदार्थयोर् निरूपणम्)
अत्र “माम्” “अहम्” इति पदयोः क्रमेणावताररहस्ये पुरुषोत्तमत्वप्रतिपादनप्रकरणे चोक्तरीत्या सौलभ्ये स्वातन्त्र्ये च प्राधान्येन तात्पर्यम् ।
शीघ्र(1) अवतारस्य सत्यत्वम् अजहत्स्वस्वभावता(2) ।
(3)शुद्धसत्त्वमयत्वं च स्वेच्छामात्रनिदानता(4) (5) ।
धर्मग्लानौ समुदयः साधुसंरक्षणार्थता(6) ।
इति जन्मरहस्यं यो वेत्ति नास्य पुनर्भवः ॥
(इदम् अवताररहस्यज्ञानं सहारकप्रपत्तिनिष्ठस्योपायपूरकम् । स्वतन्त्रप्रपत्तिनिष्ठं प्रति स्वतन्त्रसौलभ्यस्य प्रदर्शकम् । एतत्प्रकरणद्वयसिद्धे सौलभ्यस्वातन्त्र्ये परस्परसहायभूते ।)
स्वतन्त्रस्यापि नैव स्याद् आश्रयो दुर्लभस्य तु ।
अस्वतन्त्रात् फलं न स्यात् सुलभाद् आश्रिताद् अपि ॥
अस्वतन्त्रे न कैङ्कर्यं सिध्येत् स्वेच्छाप्रसङ्गतः ।
दुर्लभे साध्यम् अप्य् एतन् न हृद्यं लोकनीतितः ॥
अतः केवलसुलभतृणादिवैधर्म्येण श्लाघ्यः, दुर्लभो मेरुवैधर्म्येण सुलभः परश् च शरण्य आश्रयणीयः प्राप्यश् च भवति । अनयोर् उभयोः पदयोः सर्वरक्षकस्य सर्वशेषिणो रक्षणावसरप्रतीक्षणदशा प्रतीयते । इत्थम् अवसरप्रतीक्षस्येश्वरस्य “रक्षापेक्षां प्रतीक्षते” इत्य्-उक्तरीत्या, कदाऽस्मान् इमे अपेक्षेरन् इत्य् अभिप्रायेणाभिमुख्येनावस्थितिर् माम् इति [[P375]] पदेन सूचिता । कदा वयम् इमान् शोधितमलान् आभरणवद् अङ्गीकुर्याम् एत्य् अभिप्रायेण सत्वरस्य स्वप्रयोजनभावेन फलदाने औत्सुक्येन स्थितिर् अहम् इति पदेन प्रदर्श्यते ।
इत्थम् अकिञ्चनस्याधिकारिणो यथाविधि रक्षापेक्षापूर्वकभरन्यासातिरेकेणान्यत् किम् अप्य् अनपेक्षमाणं सिद्धोपायं “माम् एकम्” इति प्रदर्श्य तद्वशीकरणार्थं साध्योपायम्, शरणं व्रजेति विधिना दर्शयति । इत्थं विधीयमानायाः प्रपत्तिरूपविद्यायाः शरण्यप्रसादनत्वेन चोदितत्वनिबन्धनम् उपायत्वं भक्तियोगतुल्यम् । अनया प्रसन्न ईश्वरो मोक्षस्य साक्षाद् उपायः । अस्या विद्याया विशिष्य वेद्याकारो निरपेक्षोपायत्वम् । एतद् उपयुक्ता आकाराः सर्वे ऽपि “माम् एकम्” इति पदयोर् विवक्षिताः ॥
(“माम्” इति पदे विवक्षिता आकाराः)
“एष नारायणः श्रीमान्” इत्यादिषु निर्दिष्टप्रकारस्य शरण्यस्य प्रतिपादके “माम्” इति पदे श्रीमन्त्रे द्वये च प्रकाशितानि सर्वरक्षकत्वसर्वशेषित्वश्रीपतित्वनारायणत्वानि एतदाकृष्टानि परत्वसौलभ्योपयुक्ततया प्राप्तानि सर्वज्ञत्वसर्वशक्तित्वादीनि परमकारुणिकत्वसौशील्यवात्सल्यादीनि, द्वये द्विवचनान्तपदेन प्रतीतश् शुभाश्रयः परत्वसौलभ्यव्यञ्जकः पार्थसारथेर् दिव्यमङ्गलविग्रहविशेषश् च प्रदर्श्यन्ते । अत्र1 “अनुपमगुण” इत्यादिषूक्तं वात्सल्यस्वामित्वसौशील्यसौलभ्यरूपैतद् गुणचतुष्टयम् आदाव् अस्थानस्नेहादिभिर् व्यामुह्यतो ऽर्जुनस्यानादराकरणात्, “मत्तः परतरं नान्यत्” इति [[P376]] श्रीरहस्यत्रयसारे
स्वयम् एवोपदेशनात्, “हे कृष्ण हे यादव”, “रथं स्थापय मे ऽच्युत” इति यथोच्येत तथाऽवस्थाय सारथ्यादीनां करणात्, द्रष्टव्यम् इति प्रार्थिते सति स्ववैश्वरूप्यं प्रदर्श्य, पुनर् अपि प्राचीनः सौम्यविग्रह एव प्रदर्शनीय इति प्रार्थिते सति तदैव सारथिरूपेणाविर्भूयावस्थानाच् च व्यञ्जितम् ।
(रक्षणोपयुक्तप्रधानगुणनिरूपणम्)
उक्तेषु शरण्यगुणेषु आश्रितसंरक्षणस्य प्रधानतमाः, “सर्वज्ञो ऽपि च विश्वेशः सदा कारुणिको ऽपि सन्” इति भगवच्छास्त्रे, “त्वज्ज्ञानशक्तिकरुणासु सतीषु” इत्यभियुक्तवाक्ये च संगृहीताः । एषु त्रिष्व् अपि ज्ञानशक्ती निग्रहानुग्रहसाधारणे । स्वामित्वम् अपि लीलोपकरणत्वापादनस्य भोगोपकरणत्वापादनस्य च साधारणहेतुत्वाद् ज्ञानशक्त्योः रक्षणैकान्ततया नियमने ऽसमर्थम् । कारुण्यम्, एतद् अवान्तरभेदाः सौशील्यवात्सल्यादयश् चानुग्रहैकान्तानि । एवम् अस्य कारुण्यस्य विशेषं दृष्टवन्तः पूर्वे –, “सो ऽहं ते देवदेवेश नार्चनादौ स्तुतौ न च । सामर्थ्यवान्, कृपामात्रमनोवृत्तिः प्रसीद मे ॥” इति, 2 “त्वत्कृपाम् एव विश्वसितवान् आसम्” इति, 3 “नाध्यवस्येयम् इतः परं त्वत्कृपाव्यतिरिक्तं मम" इति, 4 “त्वत्कृपाम् एव प्रतीक्षे दासो ऽहम्” इति, 5 “श्रीमहालक्ष्मीं लब्ध्वाऽपि मम हृदयं वासस्थानत्वेन स्वीकृतवतो महादयावतः” इति, [[P377]] 6 “त्वच्छ्रीकृपाम् अन्तरा रक्षणं दुर्लभम्”, 7 “तव श्रीकृपां पङ्कजाङ्गनायाः श्रीकृपाम्” इति, 8 “हा हेति कृपां कृत्वा” इति, 9 “कृपया केवलम् आत्मसात् कुरु” इति, “करीश तेषाम् अपि तावकी दया तथात्वकृत् सैव तु मे बलं मतम्” इति चैभिः प्रकारैर् इमं कृपागुणं रक्षकत्वेनानुसन्धाय, संबन्धं गुणान्तराणि च कारुण्यस्याज्ञाकारीणि कृत्वा स्वयं कारुण्यैकान्तिनः संजाताः ॥ श्रीजानकिर् अपि गुणान्तरेषु सत्सु “वधार्हम् अपि काकुत्स्थः कृपया पर्यपालयत्” इत्यनुजग्राह । गद्ये च “मदीययैव दयया” इत्य्-उक्ततयाऽस्याः कृपायाः प्राधान्यं विवक्षितम् । इत्थम् आश्रितरक्षणस्य कृते प्रधानैः परिकरैश् च भवद्भिः सर्वाकारैर् विशिष्टः स्वम् अभिमुखस्थितो “माम्” इति निर्दिदेश ॥
(एकशब्दार्थनिरूपणम्)
(1) “माम्” इति पदे एकवचनेनैकत्वे प्रतीते सति पुनर् अपि उपात्त एकशब्दः “स्वात्मदः कल्पकः” इत्य्-उक्तरीत्या प्राप्यस्यैव प्रापकत्वसत्त्वाद् उपायफलैक्यम् आचष्ट इति [च] योजयन्ति । अस्य “माम् एकम् एव शरणम्” इति समानप्रकरणवाक्यम् अप्य् अनुगुणम् । एवकारे सत्य् एव एकशब्दे सति अस्य अवधारणव्यतिरिक्तार्थस्याभ्युपगम उचितः किल । [[P378]] श्रीरहस्यत्रयसारे
(2) एवम् अनुक्त्वा, “मुख्यान्यकेवलेष्व् एकम्” इत्य्-उक्तरीत्या बहुष्व् अर्थेषु प्रसिद्ध एकशब्दः केवलपर्यायः सन् “माम् एव ये प्रपद्यन्ते”, “तम् एव शरणं गच्छ” इत्याद्युक्तरीत्याऽवधारणार्थः शरण्यगुणपौष्कल्यात् स्वस्वातन्त्र्यादीनि निवर्तयतीति चाचक्षते । कथम् इति चेत् — स्वरक्षाया उपयुक्तानां वशीकरणानां शास्त्रनियुक्तेन स्वेनानुष्ठानाद् रक्षायां स्वस्यापि कर्तृत्वे प्रतीते सिद्धोपायभूतेन शरण्येन सह समतया स्वस्मिन्न् अपि उपायत्वस्याभिमाने प्रसज्यमाने, इत्थं प्रसक्तम् उपायद्वित्वं निवर्तयत्य् एकशब्दः । तस्य निवृत्तिः कथम् इति चेत् — “कर्ता शास्त्रार्थवत्त्वात्” इत्य्-उक्तरीत्या जीवस्य कर्तृत्वे प्रामाणिके सत्य् अपि इदं पराधीनम् अल्पविषयं प्रतिहतियोग्यं च वर्तते । अत एतत्कृतोपायनुष्ठानस्यापि “वरद तव खलु प्रसादाद् ऋते शरणम् इति वचो ऽपि मे नोदियात्” इत्य्-उक्तरीत्या तत्कटाक्षात् निदानाद् उत्पद्यमानत्वात्, तत्प्रेरितस्य तस्मिन्न् असह कुर्वाणे प्रसारणाकुञ्चनयोर् अप्य् असमर्थस्य, तत्सत्तया दत्तैः करणकलेवरैस् तत्प्रदर्शितम् उपायं तस्मिन् साध्यं कुर्वति सत्य् अनुष्ठाय तत्प्रदास्यमानफलार्थं चातकवत् तदुन्मुखतयाऽवतिष्ठमानस्यास्य स्वाधीनसर्वविषयाप्रतिहतकर्तृत्वशालिना तेन सह तुल्यतया द्वितीयसिद्धोपायत्वेन गणनं विवेकिनो मुमुक्षोर् नोचितम् इत्य् एकशब्देनोक्तं भवति ।
(3) उक्तन्यायेन साध्योपायस्य प्रपत्तेर् अपि सिद्धोपायेन सह एकपङ्क्तिस्थत्वेन गणनीयत्वाभावार्थम् एकशब्द इत्य् अप्य् आचक्षate । तत् कथम् इति चेत् — इयं प्रपत्तिर् भक्तियोगवत् प्रसादनत्वेन विहिता सत्य् अपि सहजकारुण्यादिविशिष्टसर्वेश्वरगतकालुष्यशमनमात्रार्था यथा स्यात्, [[P379]] साक्षात्फलस्य सहजसामर्थ्यकारुण्यविशिष्टस्यास्य सङ्कल्प एव कारणं यथा स्यात्, तथा तस्मिन् स्वयम् अत्यन्ताकिञ्चनस्य प्रपन्नस्य भरस्वीकारेण भक्तियोगादिरूपगुरुतरोपायानां स्थाने स्थित्वा एतदानुकूल्यसङ्कल्पादियुक्तप्रपत्तिमात्रव्याजसापेक्षे, अन्यस्य कस्याप्य् अनपेक्षणात् निरपेक्षोपायत्वम् एवास्या न्यासविद्याया वेद्याकारत्वेनावलम्ब्य “त्वम् एवोपायभूतो मे भव” इत्य् अपेक्षितव्ये सति, 10 “मदीयज्ञानस्यान्तर् निवेशितवान् अहम् ; तद् अपि तस्य सरसकृपैव” इति, 11 “अनुमान्य मां त्वच् चरणयुगलस्याधस्तात् स्थापयन् स्वामिन्” इति चोक्तरीत्योपायभूते तस्मिन् कारयति सति क्रियमाणस्य व्याजमात्रस्य तत्समोपायत्वेन गणनं नोचितम् इत्य् एकशब्दस्य तात्पर्यम् ।
(प्रपत्तौ सम्बन्धज्ञानमात्रत्वादिवादानां निराकरणम्)
इत्थं सिद्धोपायविषये साध्योपायस्य व्याजमात्ररूपेण अप्रधानतया चावस्थितिम् अभिप्रेत्य, “सम्बन्धज्ञानमात्रम्” “सिद्धोपायप्रतिपत्तिमात्रम्” “अनिवारणमात्रम्” “अनुमतिमात्रम्” “अचिद्व्यावृत्तिमात्रम्” “चैतन्यकृत्यम्” “चित् समाधानम्” “अधिकारिविशेषणम्” इत्य् एभिः प्रकारैर् अतिवादं कृतवन्तः । इमा अन्यपरोक्तीर् आश्रित्य एत एव [प्रपत्तिशब्दस्य] अर्थ इति निर्णयो न युक्तः । एते सर्वे ऽपि “शरणं व्रज” इति विधेर् विरुद्धाः । अतिप्रसङ्गादिदोषा अपि भवन्ति । [[P380]] श्रीरहस्यत्रयसारे
कथम् इति चेत् — संबन्धज्ञानमात्रम् इति वोच्यताम्, सिद्धोपायप्रतिपत्तिमात्रम् इति वोच्यताम्, अस्य वाक्यमात्रजन्यत्वे विधिविषयत्वं न स्यात् । अविधेयज्ञानेन मोक्ष इति वदताम् उपासनादिविधिविरोधो भाष्यादिसिद्धः । तत्त्वज्ञानवतः पश्चात् कर्तव्यज्ञानान्तररूपत्वे, ‘प्रपत्तिविधिलक्षणानुष्ठानवाक्योक्तरीत्याऽस्याः स्वरूपम् अङ्गीकार्यम् ॥
सिद्धोपायस्वीकार इति वाक्यस्यापि सिद्धोपायज्ञानपूर्वकं स स्वस्य कार्यकरो यथा स्यात् तथा क्रियमाणे विधिप्राप्तप्रार्थनापूर्वकभरन्यासरूपाधिकारिकृत्ये किल तात्पर्यम् ॥ अनिवारणम् इत्यस्य निवारणाभावमात्रत्वे, रक्षकम् ईश्वरम् अयं पूर्वं प्रबलः सन् वारितवांश् चेत्, ईश्वरस्येश्वरत्वं संकुचितं स्यात् । अपराधेन निग्रहम् उत्पाद्य निवारितवांश् चेत्, तर्ह्य् एतेन क्रियमाणया प्रपत्त्या प्रसादनरूपयैव भाव्यम् । स्वरक्षणार्थव्यापारेण निवारितवान् इति चेत् तर्हि निर्व्यापारसुषुप्तिप्रलयाद्यवस्थासु, व्यापारणयोग्यत्वापादकजाग्रद्दशायाम् अनिवारणेनास्य स्थितिकाले चेश्वरेण मोक्षप्रदानं कर्तव्यं प्रसज्येत ॥ अनुमतिमात्रम् इत्य् उक्तौ तद् उपासकस्यापि तुल्यम् ॥ अचिद्व्यावृत्तिमात्रस्य प्रतिकूलतादशायाम् अपि संभवाद् एतावन्मात्रं रक्षणीयतायां प्रयोजकं भवितुं नार्हति ॥ चैतन्यकृत्यम् इति वादे उपासनादीनाम्, अन्यासां चेतनवृत्तीनां च सर्वासां चैतन्यकृत्यत्वाद् अस्याः कश्चिद् विशेषो नोक्तः स्यात् । चेतनस्य स्वयम् एव जायमानम् इति विवक्षणे उपदेशादयो ऽनपेक्ष्याः स्युः ॥ फलानुपयुक्तचित्तसमाधानमात्रम् इति वादे स्व-स्वरुच्यनुरूपं प्रतिपुरुषं भिद्येत । “व्रज” इति विधेयतया फलतत्कामनादिरूपताम् अन्तरा च विद्यमानम् [[P381]] इदम् अधिकारिविशेषणम् इति वक्तुं न शक्यम् । कर्तव्यत्वेन विधीयमानायां प्रपत्ताव् एवैवं यस्यकस्यचित् लोपप्रकारस्य गवेषणे उपासनादीनाम् अप्य् एवं लोपापादनं सुकरम् । तदा एभिर् मुखैः प्रपत्तेर् उपासनादिभ्यो व्यावृत्तेर् अभिधित्सा न निर्वहेत । स्वविषयस्वीकारविशिष्टस्य सतः फलप्रदततयाऽवस्थितत्वे ऽपि अयं सिद्धोपायः स्वीकारेणापि निरपेक्ष इति बुद्धिः कर्तव्येति चेत् — इदं दृष्टिविधिवत् आरोपितं वा स्ववचनविरुद्धं वा भवति ।
अतः ईश्वरः प्रसादनीयः सन् प्रधानसिद्धोपायः- भक्तिप्रपत्ती द्वे अपि प्रसादनभूतौ अप्रधानसाध्योपायाव् इति अनयोर् द्वयोर् मध्ये कस्यांचिद् एकस्यां यथाधिकारं स्थितिर् युज्यते ॥
(एकशब्दस्यावशिष्टानि अर्थान्तराणि)
(4) अपेक्षितफलार्थम् उपायत्वेन विहितानि साधनान्तराणि यथा न द्वारकार्याणि स्युः, तथा प्रपत्तेर् अनन्तरं स्वीकृतभरस्य शरण्यस्यैकाकित्वेनावस्थितिप्रकारम् अभिप्रेत्य् एकशब्द इत्याचक्षते । तत् कथम् इति चेत् — प्रपत्तिं कृत्वा तद् अनन्तरम् उपासनादीनाम् अपि अनुष्ठाने कृते सति फलोपायो भवन् शरण्यः अकिञ्चनस्य विलम्बाक्षमस्यास्य विषये प्रपत्तेः स्वस्य च मध्ये ऽवस्थितं कमपि भारम् अनारोपयन्न् एव अस्य भारं स्वगुणेष्व् आरोप्य, “शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः । ते ऽपि मृत्युम् अतिक्रम्य यान्ति तत् वैष्णवं पदम् ॥” इति, 12 “गतिर् मम त्वच् चरणाव् एव शरणं दत्तवान् असि” इति चोक्तरीत्या [[P382]] श्रीरहस्यत्रयसारे
गुणविशिष्टतया स्वयम् एव निरपेक्षफलप्रदरूपेणावतिष्ठत इति स्थितिप्रकारम् अनुसन्दधानः सन् शरणं व्रजेति यत्रोक्तं भवति ।
(5) इत्थम् एव परिपूर्णं स्वम् उद्दिश्य प्रपदने क्रियमाणे आनुकूल्यसङ्कल्पाद्यतिरेकेणान्यं कमपि परिकरम् अत्र विद्यान्तरेष्व् इवान्तर्भाव्य सो ऽपि प्रसादनरूपेणोपायकोटौ निविशते इति बुद्धेर् निवर्तनार्थम् एकशब्दः (प्रयुक्तः) इत्य् अप्य् आचक्षते । ‘आज्ञानुज्ञाभिर् अनुष्ठीयमानानि कर्तव्यान्तराणि सर्वाणि न प्रपत्तेः सहायभूतानि । अनया प्रपत्त्या वशीकृतः फलं प्रदास्यन् अहम् एक एवास्य क्षणिकोपायस्य प्रतिभूः स्थितो ऽस्मि । एतत्प्रपत्तिफलोद्देशेनान्यत् किम् अप्य् अपेक्षितम् अवश्यकर्तव्यं नास्ति । तद् अपेक्षितकर्तव्यं सहायत्वेन स्वीकृत्याहं त्वां रक्षिष्यामीति न’ इति तात्पर्यम् । एतेन आनुकूल्यसङ्कल्पादिविशिष्टप्रपत्तिव्यतिरेकेण प्रपत्तिपरिकर इति नाम कृत्वा स्वेन सहान्यत् किम् अपि सहकारिकारणं न योजनीयम् इत्य् उक्तं भवति । “येन केनापि प्रकारेण द्वयवक्ता त्वम्” इति, “प्रपत्तिवाचैव निरीक्षितं वृणे” इति चोक्तरीत्या पूर्णप्रपत्त्यर्थम् अपेक्षितस्य ज्ञानस्याभावे ऽपि यथाकथंचिद् अनुष्ठाने कृते ऽपि कार्यकरणशीलस्यास्योपायस्य, अन्यस्य यस्य कस्यचित् परिकरस्यान्वेषणप्रसङ्गो नास्ति किल ।
“ततः सागरवेलायां दर्भान् आस्तीर्य राघवः । अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥ बाहुं भुजगभोगाभम् उपधायारिसूदनः ।”
इति भगवत्कृतसमुद्रशरणागतिस्थले,
“स राजा परमापन्नो देवश्रेष्ठम् अगात् तदा । शरणं सर्वभूतेशं भक्त्या नारायणं हरिम् ॥ समाहितो निराहारः [[P383]] षड्रात्रेण महायशाः । ददर्शादर्शने राजा देवं नारायणं प्रभुम् ॥”
इति सप्तव्याधोपाख्याने ब्रह्मदत्तचरिते चोक्ताः प्रकाराः सर्वे ऽपि न प्रपत्तेर् अङ्गानि । अनयोर् द्वयोः स्थलयोः सपरिकरप्रतिशयनादिप्रधानत्वात् तत्र ते नियमा वक्तुं युक्ताः । एवं सुकृतप्रणामे ऽपि द्रष्टव्यम् ॥ अत्र प्रपत्त्य्-अध्यायाद्युक्ताकूल्यसङ्कल्पादिव्यतिरेकेणान्ये के ऽपि नियमा नापेक्षिताः । आकिञ्चन्यैकधनानां द्रौपदी-दमयन्ती-राक्षसी-विभीषण-क्षत्रबन्धु-मुचुकुन्द-गजेन्द्र-पाण्डव-देवसुमुख-त्रिशङ्कु-शुनःशेफ-किरात-काक-कपोतादीनां शरणागत्यवसरे तादात्विकानुकूल्यादिव्यतिरेकेणान्यां काम् अपि इतिकर्तव्यताम् उच्यमानां न पश्यामः । क्षणकालसाध्येन निरपेक्षेण प्रपत्तिमात्रेण झटिति तेषां शरणागतानां तत्तदपेक्षितसिद्धिं चाद्राक्ष्म । इत्थं मोक्षार्थप्रपत्ताव् अप्य् एतद् उद्दिष्टकाले फलसिद्धेर् न क्षतिः ।
इदं “मा शुचः” इति वाक्यस्यापि तात्पर्यम् । “परित्यज्य” इत्यत्र परिकारान्तरनैरपेक्ष्ये ऽर्थत्वेनोक्ते सति एकशब्दे इयं योजना दृढीकरणार्था भवितुम् अर्हति । अस्यार्थान्तरं विवक्षितम् इति वा । एकशब्दस्यैतदर्थकत्वे सति, “परित्यज्य” इत्य् एतस्य तत्रोक्तानि अर्थान्तराणि ग्राह्माणि ।
सपरिकरप्रपत्तेः उपासनादीनाम् अङ्गिनाम् एतत्परिकरभूतानां धर्मान्तराणां चान्वयस्य निवर्तनपरयोर् व्याख्ययोः, अनेनैकशब्देन शरण्यस्य विशेषणं कथम् इति चेत् — अकिञ्चनविषये एषां प्रसादनस्वरूपेण शरण्येन सह संबन्धस्याभावं प्रदर्शयितुं “माम् एकम्” इत्य् उच्यते । [[P384]] श्रीरहस्यत्रयसारे
(6) “सर्वधर्मान्” इत्यत्र अधस्तात् सर्वशब्दम्, “सर्वपापेभ्यः” इत्य् अग्रिमं सर्वशब्दं च दृष्ट्वा अयम् एकशब्दः सर्वशब्दप्रतिसंबन्धित्वेनावतिष्ठत इत्याचक्षते । तदा-
सुदुष्करेण शोचेद् यो येन येनेष्टहेतुना ।
स स तस्याहम् एवेति चरमश्लोकसंग्रहः ॥
अनेन किम् उक्तं भवतीति चेत् — “यत् येन कामकामेन न साध्यं साधनानन्तरैः । मुमुक्षुणा यत् सांख्येन योगेन न च भक्तितः ॥ प्राप्यते परमं धाम यतो नावर्तते यतिः । तेनतेनाप्यते तत्तन् न्यासेनैव महामुने । परमात्मा च तेनैव साध्यते पुरुषोत्तमः ॥” इत्य्-उक्तरीत्या स्वाभिमतानि यानि कानिचित् फलान्य् उद्दिश्य तद् अनुगुणतया पृथक् पृथक् शास्त्रैर् विहितेषूपायेषु ज्ञानाभावेन वा, ज्ञाने सति शक्त्यभावेन वा, एतयोर् उभयोः सतोर् विलम्बाक्षमत्वेन वा शोचन्तम् अधिकारिणं प्रति तेषूपायेषु कस्मिंश्चिद् अपि त्वया नैवाटितव्यम्, तैस् तैः पृथक् पृथक् देयानां फलानां सर्वेषां (प्रदाने) प्रपत्तिवशीकृतो ऽहम् एक एव पर्याप्तः’ इत्य्-उक्तं भवति । ‘बहुभिर् औषधैर् दातव्यानि आरोग्याणि सर्वाणीदं सिद्धौषधम् एकम् एव यतो दातुं समर्थम्, अतस् त्वया औषधान्तरार्थम् अयतमानेन सता अस्यौषधस्यैकस्योपजीवनम् एव पर्याप्तम्, इदं तव तैर् औषधैर् निवर्तनीयान् व्याधीन् सर्वान् निवर्तयेत् त्वया परस्तात् सर्वे ऽपि भोगाः स्वयम् एव भोक्तुं शक्याः । त्वया, ‘आरोग्यभोगाभ्यां हीये’ इति नोद्विग्नेन भाव्यम्’ इति यथोच्येत, तथाऽयं वर्तते चरमश्लोकः ।
सर्वशब्दप्रतिसंबन्धिन एकशब्दस्य सिद्धोपायप्राधान्यात् शरण्यविशेषणरूपेणावस्थाने ऽपि, “न्यासेनैव” इत्य्-उक्तरीत्या प्रपत्तिर् एकैव [[P385]] सर्वधर्मान्तरस्थाने विधीयत इति फलेत् । एतेन त्रिवर्गार्थिभिर् अपि इयं भगवत्प्रपत्तिः कर्तुम् अर्हेति सिद्धम् । तदा, “त्वयाऽपि प्राप्तम् ऐश्वर्यं यतस् तं तोषयाम्य् अहम् । नाहम् आराधयामि त्वां तव बद्धो ऽयम् अञ्जलिः ॥ स त्वं प्रहर वा मा वा मयि वज्रं पुरन्दर । नाहम् उत्सृज्य गोविन्दम् अन्यम् आराधयामि भोः ॥” इत्याद्युक्तरीत्या नित्यनैमित्तिकेषु विशेषणतया प्रवेशमात्रातिरेकेण सर्वास्व् अप्य् अवस्थासु अन्यादृशदेवतान्तरस्पर्शराहित्यम् उचितम् । मोक्षार्थम् उपायान्तरान्य् अर्थयमानैर् उपायविरोधीनि निविवर्तयिषुभिर् अपीयं प्रपत्तिः कर्तुम् अर्हा ; प्राप्तिविरोधीनि निविवर्तयिषूणाम् अपीयं प्रपत्तिर् एव पर्याप्ता । एवं प्रपत्तेः सकलाभिमतसाधनत्वम् अत्रोक्तं भवति । अत्र प्रपत्त्युपायविरोधिनिवर्तनस्य प्रकारं श्रीगीताभाष्ये द्वितीययोजनायाम् अनुजग्राह ; प्राप्तिविरोधिनिवर्तनप्रकारं गद्ये ऽनुजग्राह । अतोभयत्रापि एकम् अनादृत्य परस्य निरूपणं कृतम् इति न । स्थलद्वयम् अपि सर्वाभिमतसाधनस्यास्योपायस्य प्रभावोदाहरणपरम् । प्रणवस्य मन्त्रान्तरे ऽनुप्रविश्यावस्थानं स्वातन्त्र्येणावस्थानं च यथा, तथा अस्याः प्रपत्तेर् अधिकारिविशेषविषये भक्त्य्-अङ्गत्वेन, अधिकार्यन्तरविषये स्वातन्त्र्येण चावस्थानं च वचनबलसिद्धम् । इत्थं नियताधिकारतया भक्तिप्रपत्त्योः विकल्परूपा स्थितिः, “भक्त्या परमया वाऽपि प्रपत्त्या वा महामुने ।” इत्यादिषु प्रसिद्धा । अतः “सम्यग्ज्ञानेन वा मोक्षो गङ्गायां मरणेन वा । प्रणामाद् वाऽपि सुकृतात् भक्त्या वा लभते नरः ॥" इत्यादिषु साक्षाद् उपायेन सह परम्परोपायानाम् अप्य् उपादानं तत्प्राशस्त्यातिशयप्रत्ययनमात्रार्थम् । [[P386]] श्रीरहस्यत्रयसारे
प्राप्यस्यैव प्रापकत्वं स्वप्राधान्यनिवारणम् ।
प्रपत्तेर् व्याजमात्रत्वम् अन्योपायैर् अनन्वयः ॥
तद् अङ्गैर् अप्य् असंबन्धः सर्वसाध्येष्व् अभिन्नता ।
इत्थम् अर्थाः षड् आचार्यैर् एकशब्दस्य दर्शिताः ॥
केचित् त्रित्वं ह्य् एकशब्दार्थे शरण्यैक्यं प्रचक्षते ।
विशिनष्टि तथापि श्रीर् गुणविग्रहवत् प्रभुम् ॥
ईश्वरी सर्वभूतानाम् इयं भगवतः प्रिया ।
संश्रितत्राणदीक्षायां सहधर्मचरी स्मृता ॥
एकं जगदुपादानम् इत्य् उक्ते ऽपि प्रमाणतः ।
यथाऽपेक्षितवैशिष्ट्यं तथाऽत्रापि भविष्यति ॥
एकोपास्तिविधाने ऽपि गुणादीनां यथाऽन्वयः ।
तथैकशरणव्रज्याविधाने ऽप्य् अनुमन्यताम् ॥
यथा गुणादिवैशिष्ट्ये सिद्धोपायैक्यम् अक्षतम् ।
एवं पत्नीविशिष्टत्वे ऽप्य् अभीष्टं शास्त्रचक्षुषाम् ॥
प्रभाप्रभावतोर् यद्वद् एकोक्तौ इतरान्वयः ।
एवम् अन्यतरोक्तौ स्यात् सहवृत्त्यभिधानतः ॥
सरन्ति चैनां मुनयः संसारार्णवतारिणीम् ।
ऊचतुः स्वयम् अप्य् एतत् सात्वतादिषु ताव् उभौ ॥
उपायोपेयदशयोर् द्वये ऽपि श्रीः समन्विता ।
इष्टा च शेषिणि द्वन्द्वे शेषवृत्तिर् यथोचिता ॥
[[P387]]
अतो ऽनन्यपरानेकश्रुतिस्मृत्यनुसारतः ।
पत्नीविशिष्ट एवैकः प्रपत्तव्य इहोदितः ॥
(शरणशब्दार्थनिरूपणम्)
इहत्यस्य शरणशब्दस्यापि द्वयाधिकारे उक्तो ऽर्थो ऽनुसन्धेयः । इदं शरणवरणम् अर्जुनं प्रत्युपदिष्टं सद् अपि, “अनालोचितविशेषाशेषलोकशरण्य” इत्य्-उक्तरीत्या सर्वविषयम् इत्य् एतत् श्वेताश्वतरश्रुतिप्रसिद्धम् । “कृष्णं धर्मं सनातनम्”, “शरण्यं शरणं च त्वाम्”, “योगो योगविदां नेता”, “अमृतं साधनं साध्यम्” इत्यादिष्व् अपि संकोचाभावात् सर्वविषयत्वं विवक्षितम् । इत्थम् अस्य शरणतया वरणीयत्वाय स्वस्यानन्यशरणत्वम् एवापेक्षितम् ॥
(व्रजशब्दार्थः)
व्रजेत्य् अयं शब्दः “प्रपद्ये” इत्यत्र निर्णीतं सपरिकरात्मनिक्षेपम् एव वक्ति । तत्रानुष्ठातुः स्वानुसन्धानरूपत्वाद् उत्तमः प्रयुक्तः । अत्र “शिष्यस् ते ऽहं शाधि मां त्वां प्रपन्नम्” इत्य् अभिमुखतया स्थितं प्रति विधानपरत्वाद् मध्यम आसीत् । एषाम् आनुकूल्यसङ्कल्पाद्यङ्गान्तराणाम् अप्य् अत्र सूचितत्वप्रकारो द्वये इवोचितपदेषु द्रष्टव्यः । “सकृत् कृतः शास्त्रार्थः” इति निर्णयस्य, उपासने इवात्र आवृत्तिपरः, अपवादो नास्ति । अयम् अर्थः, “सकृद् एव प्रपन्नाय" इत्यादिवचनेनापि सुप्रतिष्ठितः । महोदारस्य सर्वशक्तेः सन्निधौ भरन्यासं कुर्वतः स्वाभिप्रायविशेषातिरेकेण फलविलम्बस्य हेतुर् नास्ति । अतो ऽस्या न्यासविद्यायाः प्रारब्धनिवर्तकत्वं विशेषो भवति ॥ [[P388]] श्रीरहस्यत्रयसारे
(जीवनियोज्यत्वस्थापनम्)
अत्र केचित् - स्वतन्त्रं प्रति किल किंचिद् विधातुं युज्यते । अत्यन्तपरतन्त्रतयाऽध्यात्मशास्त्रेषु मूलमन्त्रादिषु च शिक्षितम् अधिकारिणं प्रति “व्रज” इति कस्यचित् कर्तव्यस्य विधानं कथम्? — इत्याचक्षते । इदं पारतन्त्र्यकाष्ठाम् अपरामृश्योक्तरूपम् । कथम् इति चेत् — “कर्ता शास्त्रार्थवत्त्वात्”, “परात् तु तच् छ्रुतेः" इति वेदान्तनिर्णीतरीत्या अस्य भगवदधीनकर्तृत्वस्य सत्त्वाद् एतं प्रति विधाने न दोषः । अचिद्भिः शब्दादीनाम् ईश्वरोत्पादितानां वहनवद् एतावतः स्वातन्त्र्यस्य ग्रहणं वहनम् अप्य् अस्य भगवत्पारतन्त्र्यकाष्ठायाः स्थितिप्रकारः ।
अस्य कयाऽपि विधया कर्तृत्वं नास्तीति चेत् प्रकृत्यविद्यादीनां कर्तृत्वपरसिद्धान्ततुल्यता प्रसज्येत । कर्तृत्वं स्वाधीनम् इति चेत् सर्वात्मनियन्ता एको ऽस्तीत्य् अस्यार्थस्यासिद्ध्या निरीश्वरसिद्धान्तप्रकारः प्रसज्येत । ईश्वराधीनतया प्राप्तं कर्तृत्वम् अपि ज्ञातृत्वमात्रम् इति चेत्-पुरुषार्थसंपादनरुचेस् तद् उपायप्रवृत्तेश् चाभावः प्रसज्येत । ज्ञानं तदवस्थाविशेष इच्छा चास्ति, अन्यः कश्चिद् अपि व्यापारो नास्तीत्य् उक्तौ-दृष्टादृष्टार्थानां केषांचिद् उपायानां स्वयंप्रयोजनभूतानां कैङ्कर्याणां चानुष्ठानस्य हेतुर् न स्यात् । अतो ज्ञानचिकीर्षाप्रयत्नाः त्रयो ऽप्य् आत्मनः सन्ति । अत्र चिकीर्षाप्रयत्नौ ज्ञानस्यावस्थाविशेषाव् इत्य् एतत् वेदार्थसंग्रहप्रतिपादितलाघवयुक्त्या द्रष्टव्यम् । क्रियाश्रयत्वरूपं कर्तृत्वं चेतनाचेतनसाधारणम् । प्रयत्नाश्रयत्वरूपं कर्तृत्वं चेतनैकान्तम् । प्रयत्नो नाम - शरीरादिप्रेरणहेतुभूतो बुद्धिविशेषः । [[P389]]
ज्ञानमात्राश्रयत्वदशायां भोगमात्राश्रयत्वदशायां च क्रियाश्रयत्वमात्ररूपं सामान्यकर्तृत्वम् एवास्ति । कस्यचित् स्वबुद्ध्योत्पादनसमये प्रयत्नाश्रयत्वरूपं कर्तृत्वं भवति । एवम्भूतं कर्तृत्वं कैङ्कर्यमात्रविषयकम् इत्य् उक्तिर् अपि नोचिता । तत्रापि भगवत्प्रीतिरूपं प्रयोजनम् उद्दिश्योपायानुष्ठानं कृतवान् किल भवति ।
(कर्तृत्वे त्याज्यांशनिरूपणम्)
अतः कर्तृत्वे बन्धहेतुभूत आकार एव त्याज्यः । स क इति चेत् — ईश्वरप्रदत्तान् करणकलेवरादीन् ज्ञानशक्त्यादींश् चावलम्ब्य तस्मिन् प्रेरकतया धारकतया फलदातृतया चावस्थाय सह कुर्वाणे सति प्रवृत्तिशीले स्वस्मिन् एतद्विपरीततयाऽनुसन्धानम्, अस्मिन्न् अनुसन्धाने यथावत् संपन्ने ऽपि अत्र प्रयोजनान्तरम् अन्तर्भाव्यानुष्ठानं च बन्धकम् । भक्तिप्रपत्ती अपि प्रयोजनान्तरपरस्य बन्धिके किल भवतः । अतः स्वाभाविककैङ्कर्यार्थिनो ऽनन्यप्रयोजनस्य च सतो ऽस्य फलदशायां कर्तृत्वम् इवोपायदशायां कर्तृत्वम् अपि न विरुद्धम् । फलदशायां विविधविचित्रकैङ्कर्यकर्तृत्वं केवलम् ईश्वरेच्छावैचित्रीसंवलितस्वेच्छानिबन्धनं भवति । संसारदशाकालिकं कर्तृत्वं सर्वं कर्मानुरूपम् ईश्वरेण परिणमितानि सत्त्वरजस्तमांस्य् उपाधित्वेनावलम्ब्य बहुविधं वर्तते । अत्र रजसा तमसा प्रयोजनान्तरसङ्गहेतुभूतसत्त्वेन च जायमानं कर्तृत्वं बन्धकम् । भगवत्प्रीतिसङ्गजनकप्रकृष्टसत्त्वविशेषनिबन्धनं कर्तृत्वं मोक्षकारणम् । एतद् गुणत्रयसंबन्धशून्यं वर्तते मुक्तदशायां कर्तृत्वम् । [[P390]] श्रीरहस्यत्रयसारे
(जीवात्मनः कर्तृत्वाभाववचनतात्पर्यम्)
एवम्भावाद् आत्मनः कर्तृत्वाभावं प्रतिपादयतां वाक्यानां कर्तृत्वसद्भावं प्रतिपादयतां वाक्यानां च विषयव्यवस्थासंभवाद् विरोधो नास्ति । तत् कथम् इति चेत्-कर्तृत्वं नास्तीति वाक्यानि ईश्वराधीनं तदायत्तप्रकृतिगुणाधीनं च जायमानं कर्तृत्वं निरपेक्षम् इति मन्तुं न युक्तम् इति प्रतिपादयन्ति । कर्तृत्वम् अस्तीति प्रतिपादयन्ति वाक्यानि ईश्वरेच्छादिनिबन्धनतया जायमानानां ज्ञानतद्विशेषचिकीर्षाप्रयत्नानां चायम् एवाश्रय इति प्रतिपादयन्ति । इमं निष्कर्षप्रकारं “शरीरवाङ्मनोभिर् यत्” इत्यारभ्य गीताचार्य एव निर्धारयामास । अत्र “दैवं चैवात्र पञ्चमम्” इति पुरुषोत्तम उच्यते ।
अयं जीवस्य कस्मिंश्चित् कार्ये प्रवर्तनकाले तत्कार्यं प्रति कारयितेत्य् उच्यते । स्वेन क्रियमाणेषु फलप्रदानादिषु सृष्ट्यादिषु च कर्तेत्य् उच्यते । क्वचित् प्रवृत्तस्य चेतनस्यानिवारणमात्रेणोपेक्षकः । तदानीम् अङ्गीकृत्यावस्थानाद् अनुमन्ता । लघुभारं (कृशम् अग्रदारुभागं) वहतः प्रबलो गुरुभारं (स्थूलदारुभागं) वहनेन यथा सहकरोति, तथा सह प्रवृत्त्या सहकारी । सृष्ट्यादिषु देवमनुष्यादिवैषम्यस्य जीवकर्मविशेषोपाधिकत्वात् “चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ॥” इतीश्वरस्य कर्तृत्वनिषेधः क्रियते ।
इत्थं सर्वविषयसाधारणकर्तृत्वविशिष्टेश्वरनिबन्धनस्य जीवे स्वबुद्धिपूर्वप्रवृत्तिशक्तिरूपनियोगयोग्यत्वस्य सिद्धत्वाद् अत्र व्रजेति विधाने न दोषः ॥ [[P391]]
(कुरुकेश्वरवाक्यतात्पर्यम्)
इत्थं भक्त्यादिवत् शरणागतिधर्मस्यापि कर्तव्यत्वेन विधीयमानत्वात् “स्वेन संपद्यमानं हितं क्रीतदुग्धवत् ; ईश्वराज् जायमानं हितं मातृस्तन्यवत्” इति कुरुकेश्वरवार्ताया अपि ‘भक्तिप्रपत्त्यादयः सर्वे ऽपि तस्माद् एव जायन्त इति मन्तव्यम्’ इति स्वगतपराधीनकर्तृत्वे तात्पर्यम् ।
अन्यविश्वाससिद्ध्यर्थं भक्त्युपायविधिं वदन् ।
सर्वशास्त्रेष्व् अविश्वासम् आधत्ते मुखभेदतः ॥
मद्योपहतपात्रस्थतीर्थदृष्टान्तवर्णनम् ।
अहङ्कारान्वये तु स्यात् प्रपत्ताव् अपि भक्तिवत् ॥
अतः “प्रसीद मम वृत्तम् अचिन्तयित्वा” इत्यादिकम् अपि पूर्वं कृतप्रपत्तिविषये क्षमायाचनप्रकार एवेति केषांचित् कथनम् अपि अहङ्कारस्पर्शादिशङ्काभिप्रायमात्राद् एव । न तु यथाशास्त्रम् अनुष्ठितां प्रपत्तिम् अपराधं मत्वा तदर्थं क्षमायाचने तत्परम् । तथा सति, “पितामहं नाथमुनिं विलोक्य प्रसीद” इति पूर्वाचार्यपुरस्कारादेः स्वेन क्रियमाणत्वाद् एतदर्थं क्षमा याचनीयेत्य् अनवस्था स्यात् । अस्य स्वपरनिर्वाहकत्वे एतद्वत् पूर्वकृतप्रपदनम् अपि स्वपरनिर्वाहकम् इति वक्तुं शक्यम् । इहोच्यमानैः कुतर्कैः पूर्वकृतप्रपत्तेर् अप्य् अपराधत्वसिद्धेः पूर्वेषां पुरस्करणम् अप्य् अयुक्तं स्यात् । अतो ऽस्मिन् स्तोत्रे आद्यन्तयोः क्रियमाण आचार्यपुरस्कार इहोच्यमानायाः प्रपत्तेर् अपेक्षिततया वैकल्यपरिहारार्थतया [[P392]] श्रीरहस्यत्रयसारे
नोपयुक्तः प्राप्त इत्य् एव तत्त्वम् । अस्मिन्न् आचार्यपुरस्कार इवापत्यादिष्व् अपि पराधीनकर्तृत्वं न दोषः ।
(स्वरूपस्य निषिद्धकर्मालेपवाद-निरसनम्)
इत्थं पराधीनकर्तृत्वस्य प्रामाणिकत्वात्, ‘आत्मनः कर्तृत्वाभावात् स्वरूपज्ञं निषिद्धकर्मसु किम् अपि न लिम्पति’ इति पक्षो ऽपि निरस्तः । मुमुक्षोर् उक्तं बाल्यं न बालकृत्यं कामचारादिकम्, किं तु स्वमाहात्म्यानाविष्कारमात्रम् इत्य् एतद् “अनाविष्कुर्वन्न् अन्वयात्” इति सूत्रे समर्थितम् । “अनिष्टम् इष्टं मिश्रं च”, “यस्य नाहंकृतो भावः” इत्यादिवचनानि न बुद्धिपूर्वोत्तराघविषयाणीत्य् एतत् बहुशास्त्रविरोधाभावार्थं भाष्यादिषु समर्थितम् । “हत्वाऽपि” इत्य् एतद् अपि धर्मयुद्धादिविषयम् ।
उपभुक्तौषधन्यायाद् उत्तरापथ्यमर्दनम् ।
अनन्यपरनिर्बाधश्रुतिस्मृतिशतैर् हतम् ॥
मन्व् आदयो ऽपि, “जीवितात्ययम् आपन्नो यो ऽन्नम् अत्ति यतस् ततः । आकाश इव पङ्केन न स पापेन लिप्यते ॥”, “प्राणसंशयम् आपन्नो यो ऽन्नम् अत्ति यतस् ततः । लिप्यते न स पापेन पद्मपत्रम् इवाम्भसा” इति नियमयामासुः । इदं ब्रह्मविदो ऽपि तुल्यम् इत्य् एतत् “सर्वान्नानुमतिश् च प्राणात्यये तद्दर्शनात्” इति सूत्रे दृष्टान्तरूपेण साधितम् । अत आत्मनः कर्तृत्वाभावं पारतन्त्र्यज्ञानमात्रं वाऽवष्टभ्य बुद्धिपूर्वोत्तराघं कथंचिद् अपि न लिम्पेद् इत्य् उक्तिः, एतदर्थं पुनः प्रपदनं न कर्तव्यम् इत्य् उक्तिश् च परपक्षायते ॥ [[P393]]
(संबन्धज्ञानमेव प्रपत्तिरिति वादस्य निरसनम्)
अत्र केचित् - व्रजेत्यादिविधीन् अन्यपरान् कृत्वा, “यो ऽन्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥”, “यमो वैवस्वतो राजा यस् तवैष हृदि स्थितः । तेन चेद् अविवादस् ते मा गङ्गां मा कुरून् गमः ॥”, “आत्मदास्यं हरेः स्वाम्यं स्वभावं च सदा स्मर ॥” इत्यादिषु तात्पर्यगतीश् चापरामृश्य, ‘एतान्य् अवलम्ब्य शास्त्रजन्यसंबन्धज्ञानातिरेकेणान्यो मुमुक्षोर् अनुष्ठेयः क्वचिद् अप्य् उपायो नास्तीति ब्रुवते । इदं भक्तिप्रपत्यादिविधिस्वारस्यविरुद्धम् । रागप्राप्तश्रवणमननाभ्यां सिद्धस्य शास्त्रजन्यज्ञानस्य नास्ति विधानापेक्षा । अविधेयज्ञानं मोक्षसाधनम् इति वदतां विधिविरोधादिदोषाः प्रसज्यन्त इति साधितं किल । अतः सर्वविद्यानिष्ठानां मुमुक्षूणां साधारणं परम्परयोपकारकं जीवपरमात्मसंबन्धज्ञानं शास्त्रेण यस्य जातं तस्य, अस्मत्स्वामिनं निरतिशयभोग्यं श्रियः पतिं प्राप्तुं क उपाय इत्य् उपायाकाङ्क्षायां जातायाम् अत्र तत्तदधिकारिविशेषानुरूपे विधीयमाने ज्ञानरूपे ऽन्तरे भक्तिप्रपत्ती । तयोः प्रपत्तिर् नाम - “यत् संरक्ष्यतयाऽर्प्यते” इत्याद्युक्तरीत्या सपरिकरं स्वरक्षाभरसमर्पणम् । अनेन संबन्धानुसन्धानगर्भेण भाव्यम् इति प्रतिपादनार्थं संबन्धज्ञानं प्रपत्तिर् इत्य् अवोचन्न् इत्य् एतावद् एव युक्तम् । अस्यां भरन्यासरूपप्रपत्तेः स्वरूपपरिकराधिकारादीनि पूर्वम् एव विस्तरेणावोचाम ॥ [[P394]] श्रीरहस्यत्रयसारे
(द्वितीयपादार्थसंग्राहिका गाथा)
13‘साधनं सत्फलं चाहम् एव भवेयम् ; साधको ऽपि मद्वशगो माम् आश्रयेत् ; साधनं च न शरणागतिमार्गस् ते ; साधनानि एतन्निष्ठाया मध्ये क्वचिद् अपि न तिष्ठेयुः ; वेदनाप्रदम् अन्यद् अङ्गम् अस्मिन् नापेक्षितम् ; अन्येषां सर्वेषां (अवस्थान)स्थाने ऽहम् एव तिष्ठेयम् ; दूतं नाथं च माम् आश्रित्य शोकं त्यज’ इत्य्-उक्तवान् परिवृणोति ॥
(उत्तरार्धावतारणम्)
इत्थं पूर्वार्धेन कस्यचिद् अधिकारिविशेषस्य द्वये पूर्वखण्डे ऽनुसन्धेयं सर्वधर्मसाधारणं स्वासाधारणं च प्रभावं धारयन्तं सकृत्कर्तव्योपायविशेषम् अधिकारनैरपेक्ष्यादिविवरणपूर्वकं विधाय, उत्तरार्धेन द्वयोत्तरखण्डप्रतिपादितं फलं नमश्शब्दसंक्षिप्तानिष्टनिवृत्तिविवरणमुखेनाचष्टे । अत्र पूर्वार्धेनाधिकारिकृत्यम् आचष्टे । उत्तरार्धेन शरण्यस्य स्वीकृतभरस्य स्वस्य कृत्यं प्रतिपाद्य कृतकृत्यम् इमं समाश्वासयति ।
(तमिल् पद्यम्) साधनमुम् नऱ्पयऩुम् नाऩேயावऩ् साधनमुमेऩ् वशमाय् एऩ्ऩैच्च्ēर्वऩ् साधनमुम् शरणनेरियऩक्कु साधनङ्गळिऩ् निलै कोल् इडैयिल् निल्ला वेदनैशेय् व्ēऱङ्गम् इदनिल् व्ēण्डा व्ēऱेल्ला निरैकु निलै नाऩ्ē निऩ्ऱु दूतऩुमाय् नाथऩुमाय् एऩ्ऩैप्पऱ्ऱि शोकम् तीर् एऩ्ऱिताऩ् शूऴ्किऩ्ऱाऩ्ē । [[P395]]
(“अहम्” शब्दार्थः)
अत्र “मोक्षयिष्यामि” इत्य् उत्तमेन अहम् इति प्रतीयमाने ऽपि अधिकम् “अहम्” इति पदम् अर्थस्वभावात् सर्वपापविमोचनोपयुक्तानाम् अघटितघटनाशक्त्यादीनां विवक्षणेन सप्रयोजनं भवति । कृतापराधं शृङ्खलाबद्धं कृतवति समाधिकदरिद्रे मयि केनचित् व्याजेनोल्लसितकारुण्ये अपराधं क्षममाणे सति निवारयिता नास्ति, अत्र केनाप्य् अस्य मुक्तत्वापादनम् अपि न शक्यम् इतीह तात्पर्यम् । अयम् अर्थः, “मोक्षदो भगवान् विष्णुः”, “पशवः पाशिताः पूर्वं परमेण स्वलीलया । तेनैव मोचनीयास् ते नान्यैर् मोचयितुं क्षमाः ॥” इत्यादिषु प्रसिद्धः ॥
अस्मिन् “अहम्” इति पदे सहजकारुण्यादिषु मूलबलतया अवतिष्ठमानेषु प्रपत्तिनिबन्धनप्रसादविशेषे ऽग्रेसरसेनात्वेनावतिष्ठमाने निरङ्कुशस्वातन्त्र्यं सर्वविरोधिनिराकरणार्थं पुरतो ऽवतिष्ठते । तत् कथम् इति चेत्-सहजकारुण्यम् अल्पव्याजेनानन्तापराधानादरणौपयिकं प्रसादविशेषं जनयति । अयं प्रसादविशेषः कारुण्योपश्लिष्टः सन् निरङ्कुशस्वातन्त्र्यम् आश्रितसर्वविरोधिनिराकरणप्रयोजकम् आपादयति । इत्थं सर्वपापविमोचनापेक्षितसर्वाकारविशिष्टेश्वरगतनिरपेक्षकर्तृत्वतत्परे ऽहंशब्दे ऽवधारणं फलितम् ॥
(“त्वा” शब्दार्थः)
“त्वा” इत्य् अनेनोच्यते, “न त्वेवाहम्” इत्यारभ्योपदेशपरम्परया चिदचिदीश्वरतत्त्वत्रयविवेके जाते ऐश्वर्यादिपुरुषार्थानाम् अल्पत्वास्थिरत्वादिदोषान् संप्रबुध्य मत्प्राप्तिरूपः परमपुरुषार्थः प्राप्तव्य [[P396]] श्रीरहस्यत्रयसारे
इत्य् अभिनिविष्टम्, एतदर्थम् उपदिष्टे दुष्करोपायान्तरे संबन्धं हित्वा आप्यस्य सर्वविरोधिनिराकरणक्षमस्य मम सन्निधौ भरन्यासं कृत्वा कृतकृत्यम्, उद्दिष्टफललाभार्थम् इतः परं कस्मिंश्चिद् अपि कर्तव्यान्तरे प्राप्तिरहितं त्वाम् इति ॥
(सर्वपापेभ्यः इति शब्दार्थः)
इत्थं बन्धमोक्षशक्तं मोक्षप्रदम्, अशक्तं तत्सन्निधौ न्यस्तभरं मुमुक्षुं चोक्त्वा अग्रे “सर्वपापेभ्यः” इति बन्धकान्य् उच्यन्ते । पापं नाम - शास्त्रवेद्यम् अनर्थसाधनम् । अनर्थो नाम - प्रतिकूलप्राप्तिर् अनुकूलनिवृत्तिश् च । अत्र पापशब्दो मुमुक्षुं प्रत्य् अनिष्टफलानि सांसारिकपुण्यान्य् अपि वक्ति । “एते वै निरयास् तात स्थानस्य परमात्मनः” इत्य्-उक्तेः स्वर्गादीनाम् अपि मुमुक्षुं प्रति नरकत्वाद् अस्य स्वर्गहेतुषु नरकहेतुषु च नास्ति विशेषः । अत एव मुमुक्षोः पापत्यागविधानवत्, “स्वर्गिकांस् त्यजेद् धर्मान्” इति विधीयते ।14 “उभयविधप्रबलकर्माणि पातयित्वा” इत्य्-उक्तरीत्या सुकृतदुष्कृतानि उभयान्य् अपि मुमुक्षोर् निःशेषीकरणीयतया किल श्रुतिस्मृती प्रतिपादयतः । इत्थं पुण्यपापरूपं बन्धकारणं पापशब्देनोक्त्वा बहुवचनेन पुण्यपापयोर् आनन्त्यं विवक्षति । इतः परं सर्वशब्देन विशेषणं किम् अर्थम् इति चेत्-प्राप्तिविरोधकर्मणः कारणभूतायाः कार्यभूतायाश् च भवन्त्या अविद्यायाः, विपरीतवासनायाः, विपरीतरुचेः, स्थूलसूक्ष्मरूपप्रकृतिसंबन्धस्य [[P397]] च पापराशौ घटनार्थम् । इत्थं “सर्वपापेभ्यः” इत्य्-उक्तं विरोधिवर्गं सर्वं “मनोवाक्कायैः” इत्यारभ्य तिसृभिश् चूर्णिकाभिः शाब्दतया आर्थतया च प्रतिपादयामास ।
(प्रपन्नगतानाम् आधिकार्याणां क्षन्तव्यत्वम्)
“क्षपयित्वाऽधिकारान् खान् शश्वत् कालेन भूयसा । वेधसो यत्र मोदन्ते शङ्कराः सपुरन्दराः ॥” इति, “यावद् अधिकारम् अवस्थितिर् आधिकारिकाणाम्” इति चोक्तरीत्या केषांचिद् अधिकारावसाने मोक्ष इति स्थितम् । अधिकारिव्यतिरिक्तानाम् अपि “अनारब्धकार्ये एव तु पूर्वे तदवधेः” इत्य्-उक्तरीत्या प्रारब्धकर्मभोगावसान इति स्थितम् । एवं स्थिते सति अत्रारब्धकार्यस्य क्षन्तव्यत्वोक्तिः कथम् इति चेत् — फलप्रदानप्रवृत्ते कर्मणि जन्मान्तरदिवसान्तरस्थित्यादीनाम् आरम्भकस्यांशस्यापि एतं स्वतन्त्रप्रपत्तिनिष्ठं प्रति अनिष्टत्वे तद्विषये ऽप्य् अनेन शोके क्रियमाणे, तम् अंशम् अपीश्वरः क्षाम्यति । तदैव (सद्य एव) मोक्षप्राप्तिम् अन्तरा [आत्म]धारणस्याभावे प्रयोजकम् आतिशयं बिभ्रतां तत्क्षण एव प्रारब्धकार्यं कर्म निःशेषं क्षाम्यति ! अतः आरब्धकार्यं क्षन्तव्यम् इत्य् अपेक्षणे न दोषः ॥
(क्रियमाणानां क्षन्तव्यत्वम्)
अत्र प्रपत्तिकालात् प्राक्तनान् “कृतान्” इत्य् उपादाय, पाश्चात्याः “करिष्यमाणान्” इत्य्-उक्ताः । प्रपत्तिकाले क्रियमाणानां [[P398]] श्रीरहस्यत्रयसारे
क्षन्तव्यत्वोक्तिः कथम् इति चेत् — प्रारब्धो ऽपरिसमाप्तश् च वर्तमान इति प्रक्रियया प्रपत्तेः प्राग् आरभ्य पश्चाद् एव समापनीयतया चिरकालसाध्यतया स्थिताः, तत्क्षणे प्रामादिकाश् चात्र “क्रियमाणान्” इत्य् उच्यन्ते । करिष्यमाणा नाम - पश्चात् प्रारप्स्यमानाः । इत्थं क्रियमाणैकदेशेषु करिष्यमाणेषु च बुद्धिपूर्वकाः प्रपन्नस्य “प्रायश्चित्तिर् इयं साऽत्र यत् पुनः शरणं व्रजेत्” इत्य्-उक्तेः पुनः प्रपत्त्या शाम्यन्ति ।
(पातकाप्रतिबन्धकत्ववार्तातात्पर्यम्)
“सर्वेश्वरेण मोक्षप्रदानसङ्कल्पे कृते पातकान्य् अपि निवारकाणि न भवन्ति” इति वार्ताऽपि बुद्धिपूर्वोत्तराघे जाते ऽपि निग्रहो नोदेति, प्रायश्चित्तं नापेक्षितम् इत्य् एवं परा न ; किं तु प्रसादनेन तस्मिन् प्रसन्ने संपन्ने मोक्षो ऽवश्यम्भावीत्य् एवम्परा । एतदर्थम् एवम् ईश्वरेण पुनः प्रपत्तिरूपे प्रायश्चित्ते प्रवर्तनम् अपि क्षमाफलम् ।
(मालिन्यभोग्यतावचनतात्पर्यम्)
“प्रियतमादेहमालिन्यवत् [प्रसवसमयलग्न]वत्सदेहमालिन्यवच् च प्रपन्नस्य दोषः” इति वार्तापि, दुष्टानाम् अपि शरणागतत्वे ईश्वरस् तान् परित्यज्य न शोषयेद् इत्य् एवम्परा । अन्यथा बुद्धिपूर्वोत्तराघम् अपि ईश्वरस्य भोग्यम् इति विवक्षितत्वे, प्रपन्नेनेदम् एव यथाशक्ति संपाद्यं स्यात् । प्रकृतिविशेषस्वभावाद् अपराधेषु बुद्धिपूर्वं जातेष्व् अपि पुनः प्रपदनम् अकुर्वतां विषये ऽपि, “देवं शार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणम् । न तेषां यमसालोक्यं न च ते नरकौकसः ॥”, “यस्मिन् कस्मिन् कुले जाता यत्र कुत्र निवासिनः । वासुदेवरता नित्यं [[P399]] यमलोकं न यान्ति ते ॥” इत्याद्युक्तरीत्या नरकादिप्रसङ्गं निराकृत्य राजपुत्राद्यपराध इव लघुप्रत्यवायेन निर्वीर्यत्वापादनम् अपि क्षमाविशेषः । पापानां दृष्टप्रत्यवायेषु नरकादिप्रत्यवायेषु च सत्सु नरकादयो ऽस्य न भवन्तीति विशेषवचनैः प्रतिपादितत्वे दृष्टप्रत्यवायानां बाधका न सन्ति । वचनविरोधे न्यायो न प्रवर्तेत ।
सापराधानाम् अनुतापशून्यतया पुनः प्रपत्तिम् अकृतवतां सतां केषांचित् प्रपन्नानाम् उपक्लेशत्वेनोक्तान् काणत्वादिदृष्टप्रत्यवायान् न पश्यामः स्म किलेत्य् अपि मन्दचोद्यम् । तेषाम् अप्य् अपराधादितारतम्यानुसारेण नानाप्रकारतापत्रयानुभवः, उपयुक्तज्ञानमान्द्यम्, इहत्यभगवदनुभवसङ्कोचविच्छेदौ, भगवद्भागवतकैङ्कर्यरसविच्छेदो, भगवदपचारभागवतापचारादयः, शिष्टगर्हावहिष्कारादयः, सुकृतविशेषनाशः, सात्त्विकानादरो, मनोरथभङ्गक्लेश इत्य् एतेषु प्रकारेषु यः कश्चिद् उपक्लेशरूपः प्रत्यवायः सुदर्शः । अकृत्यकरणकृत्याकरणादिरूपाणां नानाविधपापानाम् इत्थं नानाविधदृष्टप्रत्यवायकरत्वम् अपि श्रुतिषु मन्वादिधर्मशास्त्रेषु इतिहासपुराणभगवच्छास्त्रादिषु च प्रसिद्धम् । अतः काणत्वाद्युपक्लेशविशेषोदाहरणम् उपलक्षणम् इत्य् एतत् वाक्योपक्रमे समुदायनिर्देशादिभिः सिद्धम् । वचनबलसिद्धो बुद्धिपूर्वोत्तराघफलभूत उपक्लेशवर्गः प्रारब्धकर्मविशेषफलम् इति निष्कर्षणे हेतुर् नास्ति । एते यथासंभवम् उभयविधकर्मणाऽपि जायेरन् । अत एव किल बुद्धिपूर्वोत्तराघात् सात्त्विका [[P400]] श्रीरहस्यत्रयसारे
बिभ्यति । अन्यथा पुनः प्रपत्तिविधायकं शास्त्रं तदनुसारिशिष्टानुष्ठानं पूर्वसंप्रदायश् च विरुध्येरन् ।
(वार्तान्तरतात्पर्यम्)
अपचारा(पराधा)नन्तरम् अनुतापानुदये ज्ञानं नोत्पन्नम् इति सिद्ध्यतीति (वेदान्तिमुनि)(नञ्जीयर)वार्ताया अपि अनुदितानुतापानां ज्ञानमान्द्ये तात्पर्यम् । सोपाधिकभगवदभिप्रायभेदानुगुणं जननार्हा बुद्धिपूर्वापचाराः केषांचिन् न जायन्ते । केषांचित् जाता अनुतापादिभिर् नश्यन्ति । कठिनप्रकृतीनाम् अनुतापो ऽपि नोदियात् । अतो बुद्धिपूर्वोत्तराघे जाते ऽनुतप्तेन पुनः प्रपत्तेर् अकरणे उपक्लेशप्रतिपादकश्रुत्यादिरीत्या लघुप्रत्यवायेन निस्तारो भवति ।
विवेकिनां प्रपन्नानां धीपूर्वागस्य् अनुद्यमः ।
मध्यानाम् अनुतापादिः शिक्षा कठिनचेतसाम् ॥
एवं सिद्धे येन केनापि प्रकारेण भगवन्निग्रहस्यानुत्पत्तये बुद्धिपूर्वोत्तराघं परिहरणीयम् ॥
प्रीतिम् एव समुद्दिश्य स्वतन्त्राज्ञानुपालने ।
निग्रहानुदयो ऽप्य् अस्य नान्तरीयक एव वा ॥
इत्थं यथाशक्ति अपराधान् परिहृत्य व्याप्रियमाणैर् भागवतापचारस् तद्वद्भिः संसर्गश् च सर्वथा परिहरणीयः ॥
ब्रह्मवित्पापवर्गाणाम् अनन्तानां महीयसाम् ।
तद् द्वेषिसंक्रमं जानंस् त्रस्येत् तद् अपराधतः ॥
सापराधेषु संसर्गे ऽप्य् अपराधान् वहत्य् असौ ।
बोढुम् ईश्वरकृत्यानि तद्विरोधाद् अभीप्सति ॥
[[P401]]
(तृतीयपादार्थसंग्राहिका गाथा)
15अप्रतिहतस्वसङ्कल्पो भूत्वा स्वम् अनाश्रितानां सङ्कल्पान् सर्वान् स्वयम् उत्पाद्यापि निवारयन् नाथः भवे प्रवृत्तम् अस्मत्सङ्कल्पम् अस्माद् भवाद् अद्य परिवर्त्य, द्वयोश् चरणयोर् अधस्ताद् रक्ष्यवस्तुत्वेनास्मान् निक्षिप्य, अस्माभिर् अभिनिविश्य प्राक्तनसङ्कल्पेन कृतात् कर्मणो जातं क्रोधं विस्मृत्य मुक्तिं दातुं पुरत आविर्भूय समीचीनसङ्कल्पेनास्माभिर् अभ्युपगम्यमानः कालः अद्येति वा श्व इति वेति स्मितं करोति ॥
(“मोक्षयिष्यामि” शब्दार्थः)
“मोक्षयिष्यामि” इत्य् अनेनोच्यते, त्वदिष्टसमये (त्वां) मुक्तम् आपादयेयम् इति ।
केषांचित् पापानां विषये “न क्षमामि” इत्य्-उक्तिः, अत्र “सर्वपापेभ्यो मोक्षयिष्यामि” इत्य्-उक्तिश् च किं न परस्परविरुद्धे । अतः इयम् उपच्छन्दनमात्ररूपा किं न भवति इति चेत् — एतयोर् भिन्नविषयत्वात् [[P402]] श्रीरहस्यत्रयसारे
न विरोधः । “न क्षमामि” इत्य्-उक्तिः “पद्मपत्रशतेनापि न क्षमामि वसुन्धरे”, “उपचारशतेनापि न क्षमामि वसुन्धरे” इति अल्पप्रभावैः प्रायश्चित्तान्तरैर् न क्षाम्येयम् इत्य् एवम्परा । अत्र सर्वपापप्रायश्चित्तात्मना वर्तमानेन केनचिद् उपायविशेषेण सर्वाणि क्षाम्येयम् इत्य् उच्यते । “यदि वा रावणः स्वयम्” इति किल शरण्याभिप्रायो वर्तते । इत्थं व्यवस्थितविषयत्वस्य वचनैः स्वयम् एव प्रदर्शितत्वेन विरोधाभावाद् नेदम् उपच्छन्दनमात्रम् । अन्यथा भक्तिप्रपत्तिरूपमोक्षोपायविधायकानि सर्वाणि शास्त्राणि अत्यन्तं व्याकुलानि भवेयुः ।
(सर्वपापमोचनस्वरूपम्)
अत्र पापेभ्यो मोक्षणं नाम - अनादिविपरीतानुष्ठानमूलकनिग्रहाभिप्रायस्येश्वरेण स्वयं त्यजनम् । अनया निग्रहनिवृत्त्या निग्रहकार्या अविद्यादयः सर्वे ऽपि निवृत्ता भवन्ति । ईश्वरस्य निग्रहनिवृत्तिर् नाम ‘मत्प्रसादात्’ इत्य्-उक्तो ऽभिप्रायविशेषः । जीवस्याविद्यादीनां निवृत्तिर् नाम - ज्ञानविकासादिः ।
(पुण्यपापनिवृत्तिक्रमः)
अस्येत्थंभूतपुण्यपापरूपसंसारकारणनिवृत्तिक्रमः कीदृश इति चेत् — उपायविरोधिषु पूर्वम् एव स्वहेतुभिर् निवृत्तेषु, प्रारब्धेतराणि प्राप्तिविरोधिभूतानि पूर्वपुण्यपापानि उपायारम्भे निःशेषं निवर्तेरन् । उत्तरेषु पापेषु बुद्धिपूर्वेतराणि देशकालवैगुण्यादिजनितानि च कान्य् अपि न लिप्येयुः । अनापदि बुद्धिपूर्वोतराघानि स्वाधिकारानुगुणप्रायश्चित्तविशेषेण वा शिक्षार्थलघुफल- [[P403]] विशेषेण वा निवर्तेरन् । प्रपन्नस्य प्रारब्धे ऽभ्युपगतकालाभ्यन्तरे निवर्तनीयो भवन् कर्मांशो ऽनुभवेन, अवान्तरप्रायश्चित्तेन वा नाश्यः । अवशिष्टश् च उपायमाहात्म्येन निवर्तेत । उभयभावनाक्रमेण जातेषु बुद्धिपूर्वोत्तरपुण्येषु प्रतिबन्धकशून्यानि उपासकस्य विद्यानुगुणपूर्वोत्तरपुण्यानि च फलप्रदानेन नश्यन्ति । विद्यानुपयुक्तेषु बुद्धिपूर्वोत्तरपुण्येषु प्रतिबद्धफलानि, विद्योपयुक्तपूर्वोत्तरपुण्येषु अनुकूलप्रतिकूलप्रबलकर्मान्तरफलैर् निरुद्धावसराणि अदत्तफलतयाऽधिक्येन स्थितानि चान्तिमकाले निवर्तेरन् । अयम् अर्थः, “इतरस्याप्य् एवम् असंश्लेषः पाते तु” इति सूत्रे ऽभिप्रेतः ।
भगवत्प्रीतिमात्रफलोद्देशेनानुष्ठितानि केवलकैङ्कर्यरूपसुकृतानि तदैव दत्तफलानीति तेषाम् अश्लेषो न वक्तव्यः । लोकसंग्रहार्थविधिनाऽनुष्ठीयमानान्य् अपि स्वस्य तथैव भगवदाज्ञासिद्धानीति तान्य् अप्य् अस्य केवलकैङ्कर्यरूपाणि दत्तफलानि । एषु अनवधानेन सात्त्विकत्यागरहिततयाऽनुष्ठितानां सद्भावे, तानि सर्वाण्य् अपि, “तान्य् एव भावोपहतानि कल्कः” इत्य्-उक्तरीत्या पापतुल्यानि “मोक्षयिष्यामि” इत्यस्य विषयाः । फलान्तरार्थं कृतानि प्रपत्त्यन्तराणि दत्तफलान्य् अपयन्ति । पूर्वप्रपत्तिसाध्यतयोद्दिष्टफलार्थतया पुनः प्रपत्त्यनुष्ठानं महाविश्वाससाहित्येनानुष्ठितपूर्वप्रपत्तिप्रतिसन्धानान् न घटते । अनेकप्रपत्तयो ऽप्य् एकफलसाधनानीति मत्वा अनुष्ठाने कृते उपायान्तरच्छाया स्यात् । [[P404]] श्रीरहस्यत्रयसारे
विद्यामाहात्म्येनैषां कर्मणां विनाशो नाम - ईश्वरेणैतद्विषये प्राप्तस्य फलप्रदानाभिसन्धेस् त्यजनम् । अश्लेषो नाम - एषाम् आश्रितानां विषये ऽस्य कर्मफलप्रदानाभिसन्धेर् अनुदयः ।
(सुकृतदुष्कृतयोः सुहृद्दुर्हृत्संक्रमणम्)
इत्थं सर्वकर्मसु निवर्तमानेषु सत्सु सुहृद्भिर् द्विषद्भिश् च विभज्य गृह्यमाणानि कानीति चेत् — अश्लेषविनाशविषयभूतानि, बुद्धिपूर्वोत्तरपुण्येषु कर्मान्तरप्रतिबद्धफलानि च । एतान्य् उपायारम्भे सुहृत्सु द्विषत्सु चेश्वरः कुतो न संक्रामयति ; अन्तिमदशापर्यन्तं प्रतीक्षणं किम् अर्थं करोतीति चेत् — एषाम् आश्रितानां विषये कृतस्यानुकूलस्योत्तरकाले विपरीते आचरिते एषां सुकृतानाम् असंक्रमणार्थम्, आश्रितविषये कृतस्य प्रातिकूल्यस्य पश्चात् क्षमायाचनार्थम् अवसरदानाय चैषाम् आश्रितानाम् अन्तिमशरीरविश्लेषपर्यन्तम् एषां पुण्यपापानि अन्यत्र संक्रामयन् वर्तते । स्वर्गाद्यर्थसुकृतस्य मुमुक्षुं प्रति पापरूपत्वात् तत् मुमुक्षौ सुहृदि न संक्रान्तं भवति ॥
(संक्रमणतत्त्वम्)
येन केनचित् कृतानां कर्मणाम् अन्येषु केषुचित् संक्रमणं नाम किम् इति चेत् — एतस्य कर्तुर् विषये ईश्वरस्य जायमानौ यौ निग्रहानुग्रहौ, तत्समानभूतयोर् निग्रहानुग्रहयोर् एतच् छत्रुमित्रविषये उदयः ॥ यैः कैश्चिद् अनुष्ठितैः कर्मभिर् अन्येषां येषां केषांचिद् विषये निग्रहानुग्रहयोर् उत्पत्तौ सत्याम् अतिप्रसङ्गः किं न स्याद् इति चेत् — एतौ मुमुक्षुविषये अनुकूलप्रतिकूलयोर् उपचारापचाररूपे कर्मणी निमित्तीकृत्य जायेते इति [[P405]] नातिप्रसङ्गः । अत एव किलोदासीनेषु सुकृतदुष्कृतयोर् द्वयोः संक्रमणानुक्तिः । फलसारूप्यमात्राद् अत्र संक्रमणोपचारः ।
अनया सुकृतदुष्कृतसंक्रान्तिप्रतिपादिकया श्रुत्या ईश्वरस्यात्यर्थप्रियज्ञानिविषये कृताभ्याम् उपचारापचाराभ्यां जायमानयोः प्रीतिकोपयोस् तीव्रतमत्वं सूचितं भवति ।
(कर्मत्रैविध्यम्)
“सुदुष्करेण शोचेद् यः” इति श्लोकप्रतिपादितयोजनायां “सर्वपापेभ्यः” इत्य् एतत् अधिकार्यपेक्षानुरोधेन प्राप्तिविरोधीनि उपायविरोधीनि प्रतिकूलानुभवहेतूंश् च संगृह्णाति । अत्र प्राप्तिविरोधी तावत् — सापराधो ऽयम् अस्माकम् अनुभविता मा भूद् इति भगवतः सङ्कल्पः । उपायविरोधी तावत् — अस्मान् अयं विशदं विज्ञाय वशीकर्ता मा भूद् इति सङ्कल्पः । प्रतिकूलानुभवहेतुस् तावत् तत्तत्प्रतिकूलकर्मानुष्ठानजनितः स स फलप्रदानसङ्कल्पः । मुमुक्षोर् विषये सर्वे निग्रहा निवृत्ताश् चेत् निग्रहकार्या अचित्संबन्धादयो निग्रहनिवृत्तिरूपप्रसादेन निवृत्ता भवन्ति । ततः परं कारणाभावात् कार्याणि प्रतिकूलानि कान्य् अपि न जायेरन् । इदम् “अनावृत्तिः शब्दात्” इति सूत्रे विवक्षितम् । इमे निष्कर्षाः सर्वे ऽपि भाष्ये सत्संप्रदायपूर्वकं चिरपरिचयं कृतवतां महाप्राज्ञानां गोचरा भवन्ति ॥
(प्रतिबन्धकनिवृत्तौ भगवत्प्राप्तेः स्वतः प्राप्तत्वम्)
इत्थं “सर्वपापेभ्यो मोक्षयिष्यामि” इति कार्यकारणरूपसमस्त- [[P406]] श्रीरहस्यत्रयसारे
प्रतिबन्धप्रवाहनिवृत्तौ उक्तायां स्वतः प्राप्तः परिपूर्णभगवदनुभवाविर्भाव उक्त एव भवति । “यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान् मणेः । दोषप्रहाणान् न ज्ञानम् आत्मनः क्रियते तथा ॥ यथोपदानकरणात् क्रियते न जलान्तरम् । सद् एव नीयते व्यक्तिम् असतः संभवः कुतः ॥ तथा हेयगुणध्वंसाद् अवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते” इति शौनकभगवान् अनुजग्राह । ज्ञानद्रव्यस्य एतदीयसर्वविषयविकासौपयिकस्वरूपयोग्यतारूपशक्तेश् च नित्यत्वात् तयोर् आविर्भावशब्दो मुख्यः । सर्वविषयविकासस्य दुःखनिवृत्यादीनां सङ्कल्पादीनां कैङ्कर्याणां चागन्तुकत्वे ऽपि एषां निवृत्तप्रतिबन्धस्वरूपोपाधिकतया अग्रे यावत्कालतत्त्वं संभवस्य द्योतनार्थम् एषु, “आविः स्युर् मम सहजकैङ्कर्यविषयाः” इत्यादिषु आविर्भावशब्दः प्रयुक्तो भवति । [स्वरूपयोग्यत्वभावात्] कर्मोपाधिकतया बहुविधानुकूल्यप्रातिकूल्योः संभवस्याधिकरणभूतानां भगवद्विभूतिभूतानां वस्तूनाम् अग्रे यावत्कालतत्त्वं मोक्षदशायाम् आनुकूल्यस्यैव स्वरूपप्राप्तत्वात् तत्राप्याविर्भावशब्दस्य न विरोधः । अतः “सर्वपापेभ्यो मोक्षयिष्यामि” इत्य्-उक्ते इदम् अनुकूलावस्थान्तरं सिद्धं भवति ।
एकशब्दस्योपायफलैक्यार्थकत्वे इयम् इष्टप्राप्तिर् अस्मिन् श्लोके सुव्यक्तं प्रतिपादिता भवति । अतः “माम् एवैष्यसि” इति पूर्वश्लोके विशदम् उक्तो ऽर्थो ऽत्र प्राप्तिविरोधिनिवर्तनबलात् एकशब्दे विवक्षाविशेषेण चोक्तो भवति । एवं सिद्धे अयं सापेक्षः सन् पूर्वश्लोकस्याशेषो न भवति । [[P407]]
(कैवल्यविषयकत्वशङ्कापरिहारः)
“सर्वपापेभ्यो मोक्षयिष्यामि” इत्य् एतावता “माम् एवैष्यसि” इत्य्-उक्ता भगवत्प्राप्तिः कथं नु सिध्येत्? सर्वपापनिवृत्तौ सत्याम् एव, भगवत्प्राप्तिं विनैव स्वात्ममात्रानुभवरूपं कैवल्यं प्राप्नुवन्तः किं न भवन्ति । भगवत्प्राप्तितो भिन्नं कैवल्यम्, “ऐहलौकिकम् ऐश्वर्यं स्वर्गाद्य् आपारलौकिकम् । कैवल्यं भगवन्तं च मन्त्रो ऽयं साधयिष्यति ॥” इति नारदादिभिर् उक्तं किल । श्रीयामुनाचार्या अपि “ऐश्वर्याक्षरयाथात्म्यभगवच् चरणार्थिनाम्” इति, “संसृत्यक्षरवैष्णवाध्वसु” इति चानुजगृहुः । गद्ये ऽपि, “सर्वकामांश् च साक्षरान्” इति वाक्यम् उक्तम् । श्रीगीताभाष्यादिषु चायम् अर्थः प्रपञ्चितः । अतः ‘सर्वपापेभ्यो मोक्षयिष्यामि’ इत्य्-उक्ता सर्वपापनिवृत्तिः कैवल्यस्य भगवत्प्राप्तेश् च किं न साधारणी भवति - इत्य् एतत् मन्दचोद्यम् । कथम् इति चेत्-सर्वपापेषु निवृत्तेषु स्वतः प्राप्तं भगवदनुभवं हित्वाऽवस्थाने कारणाभावात् तदा भगवदनुभवरहित आत्ममात्रानुभवो न घटते । असत्याम् अवस्थायाम् ऐश्वर्यस्य जरामरणदुःखानां च प्राप्तेः कारणेषु कर्मसु निवृत्तेषु परिपूर्णभगवदनुभवप्रतिबन्धकेषु कर्मसु अविनष्टेषु सत्सु, “यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः” इत्य् एवं वक्तव्यरूपेणावतिष्ठते कश्चित् स्वात्मानुभवानन्दविशेषः । “आत्मार्थी चेत् त्रयो ऽप्य् एते तत्कैवल्यस्य साधकाः” इत्य्-उक्तरीत्या स्वशक्येन केनचिद् उपायविशेषेण सिध्यतो ऽस्यानुभवस्य अचिदनुभवेन भगवदनुभवेन च सह संबन्धाभावात् कैवल्यम् इति नाम चक्रुः । [[P408]] श्रीरहस्यत्रयसारे
भगवत्प्राप्तौ कैवल्यशब्दः सर्वोपाधिनिवृत्तिम् अभिप्रेति । आत्ममात्रानुभवविषयकेषु “स्वात्मानुभूतिर् इति या किल मुक्तिर् उक्ता” इत्यादिषु प्रयुक्तो मुक्तिशब्दो ऽपि “विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः” इत्यादिष्व् इव निर्वाह्यः । “जरामरणमोक्षाय” इत्य् एतद् अपि देवानाम् अमरत्वव्यपदेशवद् आपेक्षिकम् ; क्रमेण मुक्तिपर्यन्ततया भवनरूपं विषयं प्रतिपादयतीति वा । इत्थं विभवव्यूहसालोक्यादिमात्रे मुक्तिशब्दो ऽपि निर्वाह्यः । ‘लोकेषु विष्णोर् निवसन्ति केचित् समीपम् ऋच्छन्ति च केचिद् अन्ये । अन्ये तु रूपं सदृशं भजन्ते सायुज्यम् अन्ये स तु मोक्ष उक्तः ॥” इति नियमितं किल । अत्रोक्तं सायुज्यं परमपदं गतस्य भोगसाम्यम् ।
केवलात्मानुभवो नित्यो नेत्य् अयम् अर्थः, साक्षान् मोक्षो नेत्य् अयम् अर्थश् च
चतुर्विधा मम जना भक्ता एव हि ते श्रुताः ।
तेषाम् एकान्तिनः श्रेष्ठास् ते चैवानन्यदेवताः ॥
अहम् एव गतिस् तेषां निराशीः कर्मकारिणाम् ।
ये तु शिष्टास् त्रयो भक्ताः फलकामा हि ते मताः ॥
सर्वे च्यवनधर्माणः प्रतिबुद्धस् तु मोक्षभाक् ॥
इति वचनेन सिद्धौ । “मुच्येताऽऽर्तस् तथा रोगाच् छ्रुत्वेमाम् आदितः कथाम् । जिज्ञासुर् लभते भक्तिं भक्तो भक्तगतिं व्रजेत् ॥” इत्य्-उक्तत्वात् श्रीगीतार्थे “जिज्ञासुः” इत्य्-उक्त आत्मनिष्ठो ऽपि क्रमेण ज्ञानी भवतीत्य् उक्तं भवति ।16 “स्थिरे ऽभिनिविष्टश् चेत्” इति भगवदनुभवस्य नित्यत्वोक्तेर् एतद्व्यवच्छेद्यत्वेनोच्यमान [[P409]] आत्ममात्रानुभवो नित्यो नेत्य् एतद् व्यञ्जितम् ! अस्य 17 ‘नाशरहितः’ इति गाथादिषु नाशाभावप्रतिपादकं वचो ऽपि चातुर्मास्यादिकर्मफलविशेषेष्व् अक्षय्यत्वोक्तिवत् 18 “बहुकल्पम्” इत्य्-उक्तातिचिरकालस्थायित्वाभिप्रायम् । “योगिनाम् अमृतं स्थानं स्वात्मसन्तोषकारिणाम्” इति अस्यात्मानुभवस्य स्थानविशेषो ऽप्य् अभ्यधायि । अयं स्थानविशेषः परमपदं नेत्य् एतत् अस्मिन् प्रकरणे, “एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये । तेषां तत् परमं स्थानं यद्वै पश्यन्ति सूरयः ॥” इति भगवत्प्राप्तिकामस्य परमैकान्तिनः सूरिदृश्यस्य स्थानान्तरस्य प्रतिपादनात् सिद्धम् । पञ्चाग्निविद्यादिषूक्तं ब्रह्मात्मकस्वात्मानुसन्धानं कुर्वतां भाष्यादिष्व् अर्चिरादिगतिर् ब्रह्मप्राप्तिश् चाभ्यधायिषाताम् । अत एषां पञ्चाग्निविद्यानिष्ठानाम् आत्ममात्रानुभवरूपम् अवान्तरफलं प्राप्तम् अपि मधुविद्यान्यायाद् ब्रह्मप्राप्तिपर्यन्तं संपद्येत ।
प्रकृतिसंसृष्टस्य प्रकृतिवियुक्तस्य वा स्थितस्यात्मवस्तुनो विषये स्वरूपेण वा ब्रह्मदृष्ट्या वा क्रियमाणानाम् अनुसन्धानानां चतुर्णां नामाद्युपासनानाम् इवार् चिरादिगतिर् ब्रह्मप्राप्तिश् च नास्तीत्य् एतम् अर्थम् “अप्रतीकालम्बनान् नयतीति वादरायण उभयथा च दोषात् तत्क्रतुश् च” इति सूत्रे ऽनुजग्राह । “श्रुतोपनिषत्कगत्यभिधानाच् च” इति सूत्रे ऽपि क्वचित् [[P410]] श्रीरहस्यत्रयसारे
विद्याविशेषे उपास्यः परमात्मा इत्यस्य अर्चिरादिगतिप्रतिपादनं हेतुं कृत्व् साधनात् जीवमात्रोपासकस्यार्चिरादिगतिर् नेत्य् एतत् सिद्धं भवति ।
अतो ब्रह्मप्राप्तिरहितानाम् अस्मिन् श्लोके उच्यमाना सर्वपापनिवृत्तिर् नास्ति । सर्वपापनिवृत्तिमतां ब्रह्मानुभवसंकोचो नास्ति ।” इत्थम् अत्र सर्वपापनिवृत्तेः प्रतिपादनेन केवलात्मानुभवकारणस्य परिपूर्णब्रह्मानुभवप्रतिबन्धकस्य कर्मविशेषस्य निवृत्तिसिद्धेः “माम् एवैष्यसि” इति पूर्वश्लोकोक्तो ऽर्थो ऽत्र सिद्धो भवति । “माम् एवैष्यसि” इत्य् उक्ता प्राप्तिर् नाम - परिपूर्णानुभवः । अस्य परिपूर्णानुभवस्य सिद्धयर्थम् अर्चिरादिगतिर् देशविशेषप्राप्तिश् च भवतः । अनेन क्रमेणैतदनुभवप्रदानं स्वतन्त्रो ऽनादित्वेन नियमितवान् अस्तीत्य् एषो ऽर्थः- एतद् गतिविशेषादिप्रतिपादकशास्त्रैः सिद्धः ।
अस्य गतिविशेषस्य सिद्धेः पूर्वं शास्त्रेण ब्रह्मस्वरूपस्य ज्ञानकाले, योगेन साक्षात्कारकाले, विभवलोकादिषु प्राप्तिकाले च जायमानः प्रकाशः सुकृताधीनः करणायत्तश् च भवतीत्य् अतः परिमितो विच्छेदवांश् च भवति । मुक्तदशायां जायमानः प्रकाशः सङ्कोचविकासकारणस्य कस्याप्य् अभावात् परिपूर्णविषयः पुनर् विच्छेदरहितश् च भवति । एतदनुभवपरीवाहात्मना “क्रियताम् इति मां वद” इत्य्-उक्तरीत्या शेष्यभिमतं परिपूर्णकैङ्कर्यं प्राप्नोति । “पारमार्थिक” इति गद्यवाक्योक्तानि फलपर्वाणि सर्वाण्य् अपि अत्र यथाप्रमाणं विवक्षितानि भवन्ति ॥ [[P411]]
(“मा शुचः” इति वाक्यतात्पर्यम्)
इतः परं “मा शुचः” इत्य् अनेन पूर्वोक्तार्थे यत् फलितं तत् प्रकाशितं भवति । कैश्चित्, “मा शुचः” इत्यस्य विधित्वात् प्रपन्नेन सता पश्चाच् छोचनस्य विध्यतिलङ्घनरूपत्वात् एतम् उपायभूतः शरण्य उपेक्षत इति अस्य, स्वकार्यस्य स्वयम् एव निर्वाहकः स्याद् इत्य् एवं रूपः प्रत्यवायः स्याद् इत्य् उक्तम् अपि (उक्तम् ; तद् अपि) बुद्धिपूर्वोत्तराघस्यापि “सर्वपापेभ्यः” इत्यत्र समुच्चयं कृत्वा स्वकृतस्य व्याख्यानस्य प्रपन्नं शरण्यः कथंचिद् अपि न त्यजेद् इति वाक्यस्य च विरुद्धम् । अतः अस्मिन्न् उपाये प्रवर्तमानस्य शोकहेतूनां सर्वेषां निवृत्तेर् न शोचितव्यम् इत्य् एतदर्थप्रतिपादनेन विश्वासदृढीकरणे [अस्य] तात्पर्यं [न] भाव्यम् ॥
बन्धुनाशादयः पूर्वं बहवः शोकहेतवः ।
तत्तत्समुचितैः सम्यग् उपदेशैर् अपोदिताः ॥
सुदुष्करत्वाद् धर्माणाम् अपारत्वाद् विरोधिनाम् ।
सिद्धेः फलविलम्बाच् च शोको ऽद्य विनिवार्यते ॥
अभिमतफलार्थं दुष्करसाधनविलक्षणे सर्वविरोधिनिवर्तनक्षमे फलविलम्बरहिते ऽस्मिन्न् उपाये उपदिष्टे जाते सति उपायदौष्कर्यादिनिबन्धनस्य तव शोचनस्य प्राप्तिर् नास्ति । अस्मिन्न् उपाये अनुष्ठिते, स्वत्कार्ये मम भरत्वेनावस्थिते मयि च फलदातृत्वेनावस्थिते, त्वद् अरक्षणे ममावद्यावहे च सति अस्यां दशायां धनादितुल्येन त्वया शोचनस्य किं प्राप्तिर् अस्तीत्यत्र तात्पर्यम् ॥ [[P412]] श्रीरहस्यत्रयसारे
इह निवर्त्यमानः शोको यथावस्थितात्मोपदेशादिभिर् निवृत्तो बन्धुवधादिनिमित्तः प्राचीनः शोको न ; किं तु प्रकरणानुगुणं शोकान्तरम् । कथम्भूतम् इति चेत् — यथा “दैवी संपद् विमोक्षाय निबन्धायासुरी मता” इति विभज्योक्तमात्र एव, ‘वयम् आसुरप्रकृतयश् चेत् किं कुर्याम’ इति शोचन्तम् अर्जुनं प्रति, “मा शुचः संपदं दैवीम् अभिजातो ऽसि पाण्डव” इत्य् उपादेशि—- तथाऽत्र श्लाघ्ये फले तीव्रसङ्गे प्रवर्तमाने सति, चिरकालसेव्यम् अन्तरायबहुलम् अत्यन्तावहितानाम् अपि कृच्छ्रसाध्यम् उपायं स्वयोग्यतां च दृष्ट्वा, ‘अस्माकम् एतद् उपायपरिसमाप्तिपूर्वकं कुत्र (कथं) फलसिद्धिर् भविष्यति’ इति शोचते ऽर्जुनाय क्षणकालसाध्यं सर्वान्तरायरहितं सुकरम् उपायं प्रदर्श्य तन्मुखेन फलसिद्धिविषये निर्भरं निःसंशयं चापाद्य ‘मा शुचः’ इत्य्-उक्ते-, इदम् उपायान्तरदौष्कर्यादिनिबन्धनजं शोकं निवर्तयतीत्य् एतावद् धि [व्यक्तम्]।
अस्यां भगवद्गीतायाम् आदौ प्रकृत्यात्मविवेकम् उत्पाद्य, ततः परम्परया मोक्षकारणभूतौ कर्मयोगज्ञानयोगी, साक्षान् मोक्षकारणत्वेन वेदान्तविहितं भक्तियोगं च सपरिकरम् उपदिश्य “इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया । विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु ॥” इत्य् उपदिष्टमात्र एव अर्जुनस्य मुखे शोकचिह्ने दृष्टे सत्य् अपि, झटिति लघूपायम् अनुपदिष्य, “परीक्षां च जगन्नाथः करोत्य् अदृढचेतसाम्” इत्य्-उक्तनियमम् आदृत्य, वयम् ‘तव साक्षान् मोक्षसाधनभूतं परमहितम् इदम् ; इदं प्रधानतयाऽभिप्रेत्यैतदनुरूपं वर्तस्व’ इत्य् अनिगस्य, “एष पन्था विदर्भाणाम् एष यास्यति कोसलान्” इतिवद् उपेक्षकत्वशङ्कास्पदरूपेण “यथेच्छसि [[P413]] तथा कुरु” इत्य्-उक्त्वा उपदेशं समापयाम इत्य् एतद् व्याजी(निमित्ती)कृत्य शोकं कृतवान् इति विभाव्य, इतः परम् अपि सकृत् प्रधानं भक्तियोगं निष्कृष्योपदिश्य पश्येम् इत्य् एवं कंचिद् विनोदम् अभिप्रेत्य पूर्वोपदिष्टं भक्तियोगम् एव “सर्वगुह्यतमं भूयः” इत्यारभ्य द्वाभ्यां श्लोकाभ्याम्, अत्यादरो यथा प्रतीयेत तथा सप्रत्यभिज्ञं निष्कृष्य निगमय्य, तावता त्व् एतस्य शोकस्य द्वैगुण्येन प्रादुर्भूतताम् एवावलोकितवान् सारथिरूपः सर्वेश्वरः, ‘इतः परम् अयं परमरहस्यातिलघुमोक्षोपायोपदेशस्य पूर्णपात्रं समभूत्’ इत्य् अभिप्रेत्य; उपदेक्ष्यमाणस्य श्रेष्ठ्यस्य लघूपायस्य प्रशंसनरूपं कालक्षेपम् अप्य् अकृत्वा झटिति सकलफलसाधनं स्वविषयशरणागतिम् उपदिश्यैतदीयमनोरथस्यापि सारथीभूय सर्वम् अपि शोकं यो निवर्तयति, अतो ऽत्र निवार्यमाणः शोकः प्राचीनशोकेभ्यो विलक्षण इत्य् अयम् अर्थः प्रकरणपरामर्शात् सुव्यक्तः ॥
(निर्भरत्वनिर्भयत्वनिःसंशयत्वसिद्धिः)
उपायान्तररहितत्वेनावस्थितम् उद्दिश्य “मां मेकं शरणं व्रज” इति विधानात्, एतद् अनुसृत्य अशक्तेन शक्तस्य हस्ते भरसमर्पणस्य क्रियमाणत्वात्, स्वतन्त्रकारुणिकेन शेषिणा भरस्वीकारस्य क्रियमाणत्वाच् चास्य प्रपन्नस्यास्मिन् लोके पूर्वार्धे निर्भरत्वम्, सर्वशक्तिना स्वीकृतभरेणाश्रितविषये सत्यवादिना शेषिणा “अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि” इत्य् अनुगृहीतत्वात् न्यस्तभरस्यास्येतः परम् आगामिनरकादिप्रत्यवायशङ्काप्रसङ्गाभावात् निर्भयत्वम्, अस्य [[P414]] श्रीरहस्यत्रयसारे
श्लोकस्य19 “आर्द्रवता श्रीरङ्गनाथेन वयं समुपदिष्टसत्यमहावार्ता” इत्य् एवं रूपत्वान् निःसंशयत्वं च फलितम् ॥ अतो ऽत्रोपायविशेषश्रवणानुष्ठानयोः सन्तापायानुबन्धिना (फलानुबन्धितया च) जायमाने शोके प्राप्तिर् नास्तीति प्रोच्यते ।
(शोकाविष्टत्वस्येव भयाविष्टत्वस्यापि प्रपत्त्यधिकारत्वम्)
अनेन शोकविशेषाविष्टः प्रपत्तेर् अधिकारीति प्रतीयमाने सति, “अहं भीतो ऽस्मि” इति, 20“पापिन् परिरभस्वेति वचनाद् भीतो हे विश्वसनीय ! एत्य त्वच् चरणाव् आश्रितो ऽस्मि” इति च भीतः प्रपत्तेर् अधिकारीति कथनं कथम् इति चेत् — प्राक्तनीम् अभिमतसिद्धिराहित्येनावस्थितां दशां वीक्ष्य शोकस्य, अग्रे ऽभिमतप्रतिबन्धकानां प्रबलविरोधिनां दर्शनेन भयस्य चानुवर्तमानतया, मुमुक्षोर् अनिष्टनिवृत्तीष्टप्राप्त्योर् अन्यतराभिधाने ऽप्य् उभयोः प्राप्तिवत्, अधिकारे ऽपि भयशोकयोर् अन्यतरस्याभिधाने ऽप्य् उभयं सिध्येत् । अत्यन्ताकिञ्चनस्येमौ भयशोकाव् उभाव् अपि अतिशयितौ भवतः । अतो ऽत्रातिशयितशोकाविष्टस्याधिकारिविशेषस्य अनुगुणम् उपायविशेषं प्रदर्श्य एवं निःसंशयं निर्भरं निर्भयं हृष्टमनसं चापाद्य समाप्यते । इदम् अतिशयितभयम् अभिप्रेत्य, 21“भीतस् त्वं माम् आश्रयेत्य् ऊचिवान् आययौ” इत्य् अवोचाम । [[P415]]
(प्रपन्नस्य हृष्टमनस्त्वसमर्थनम्)
इत्थं कृतकृत्यस्यास्य “तत् तु कर्म समाचरेत्” इति विहितं कर्तव्यान्तरं कैङ्कर्यानुप्रविष्टसदाचारविशेष इत्य् एतत् पूर्वापरग्रन्थाभ्याम्, अस्मिन् श्लोक एव “अक्रियावद् अनर्थाय” इत्य्-उक्त्या च सिद्धम् । अतो ऽग्रे फलसिद्धौ संशयाभावात् मोक्षोपायत्वेन कस्यचित् कर्तव्यशेषस्याभावात् अस्येहत्यकर्तव्यस्याज्ञानुपालनस्वयंप्रयोजनभावात्, अपराधे प्रसक्ते ऽधिकारान्तरोक्तरीत्याऽनुतापादिभिः सुपरिहरत्वाच् चास्य हृष्टमनस्त्वसंपत्तेर् न कापि क्षतिः ॥ भयं हर्षो विवेकिनो शरीरादिसंबद्धस्यास्य निर्वेदमिश्र एव यद्यपि, तथाऽपि अस्य निर्वेदस्यास्याः शोकनिवृत्तेश् च भिन्नविषयत्वान् नास्ति विरोधः ॥
(आर्तदृप्तयोः प्रपन्नयोः फलसिद्धिप्रकारः)
शोकनिमित्तस्य सर्वस्य मोचनीयत्वे “मा शुचः” इत्य् एतस्यैव नियामकत्वात् प्रारब्धकर्मण्य् अपि शोकनिमित्तांशस्य सर्वस्य निवृत्तेः आर्त्यतिशयवतस् तदैव मोक्षः सिध्यति । 22“मरणे जाते वैकुण्ठपदम् उपकारकः” इत्याद्युक्तरीत्या प्रारब्धकर्मण्य् अप्य् अग्रिमस्य सर्वस्य निवृत्ताव् एतच् छरीरावसाने मोक्ष इत्य् अभ्युपगन्तव्यतया अस्मिन् शरीरे ऽप्य् आयुःशेषस्यानिष्टत्वे अयम् अपि प्रपत्तिवशीकृतसर्वशक्तिसङ्कल्पेन निवर्तेतेत्यत्र नास्ति हि दोषः ।
प्रायश्चित्तविशेषेषु सर्वस्खारादिकेषु च ।
नात्महिंसनदोषो ऽस्ति तथाऽऽर्तशरणागतौ ॥
[[P416]]
श्रीरहस्यत्रयसारे
दृप्तस्य तु यथाशास्त्रं चिरं जीवितुम् इच्छतः ।
प्राणरक्षणशास्त्रार्थलङ्घनं त्व् अपराधनम् ॥
योगिभिर् योगविशेषेण देहन्यासकरणवद् आर्त्यतिशयवता प्रपत्त्या देहन्यासकरणस्य तीर्थप्रवेशादिष्व् इव युगविशेषनियमो नास्ति । अयम् आर्तप्रपन्न एव सर्वेभ्यो ऽपि झटिति आत्मरक्षणकारी । क इत्थम् आर्तः को दृप्त इति विभागो ऽपि एतस्य जाते शोके वैषम्यं निमित्तीकृत्योच्यत इत्य् एतावद् एव ; न त्व् एकस्य शोकाभावं (निमित्तीकृत्योच्यते) । जन्मान्तरादिमात्रे शोकनिमित्ततयाऽवस्थिते सति यस्मिन् कस्मिंश्चिद् दिने मोक्षं प्राप्स्यामीति समाश्वस्ततया वर्तमानो ऽत्र दृप्तः ; न तूत्कृष्टजनावमानादिहेतुभूतगर्वरूपानात्मगुणवान् । अस्मिन् शरीरे चतुर्मुखैश्वर्ये लब्धे ऽप्य् अस्य परिपूर्णभगवदनुभवविरोधित्वाद् अस्मिन् वर्तमानदेहसंबन्धे ऽपि महानिवद् दुःसहे सति, 23“देहप्राणयोर् नाशम् अनुमन्यस्व” इति यथोच्येत तथा प्रपत्त्यनुष्ठानानन्तरं क्षणमात्रविलम्बस्याप्य् अक्षम आर्तप्रपन्नः ; न तु “आर्तो जिज्ञासुर् अर्थार्थी” इत्यत्रोक्तो यः । “आर्तो वा यदि वा दृप्तः” इत्य् अयम् अतिवाद इति वदद्भिर् अध्य् अत्रास्याम् अर्थस्थितौ विवादः कर्तुं न युज्यते । उपायानुष्ठानोत्तरकाल एव फलसिद्धेः, अस्योपदेशवेलात्वाच् चास्यार्तस्य विषये ऽपि “मोक्षयिष्यामि” इति भविष्यनिर्देशस्य न क्षतिः । इमे आर्तदृप्तादिविभागाः सर्वे ऽपि सुकृततारतम्यमूलकभगवदनुग्रहतारतम्याज् जायन्ते । “प्रारब्धमात्रभुक् तत्र तत्त्ववित् सुखम् आप्नुयात्” इत्यादिवचनानि आर्तप्रपन्नविषये [[P417]] निरवकाशानि । प्रपन्नविषये उत्तरकृत्यां शगोचरं “मा शुचः” इति वाक्यस्य भावम् “आध्यात्मिकाधिभौतिक” इत्यारभ्य “अतस् त्वं तव ततो मज्ज्ञानदर्शनप्राप्तिषु निःसंशयः सुखम् आस्स्व” इत्यनुजग्राह । अत्रोच्यमानायाः शोकनिवृत्तेः कयाऽपि विधया सङ्कोचकस्याभावाद् एतदुपायविशेषज्ञानेनानुष्ठानेन च सर्वप्रकारशोकहेतूनां निवृत्तिर् उक्ता भवति । अनुष्ठानपर्यन्तताहीनस्य ज्ञानमात्रस्यानेनोपदेशेन जातत्वे ऽपि, “न गाथा गाथिनं शास्ति बहु चेद् अपि गायति । प्रकृतिं यान्ति भूतानि कुलिङ्गशकुनिर्यथा ॥” इत्य्-उक्तन्यायेन निष्प्रयोजनत्वात् ज्ञानानुष्ठानयोर् उभयोर् अपि फलभूता शोकनिवृत्तिः सर्वाऽप्य् अत्र विवक्ष्यते ।
(अत्र दशविधशोकनिवृत्तेः प्रतिपाद्यत्वम्)
अत उपायानुष्ठाने पूर्वपरमध्यदशा आश्रित्य संभाविताः शोकाः सर्वे ऽप्य् अत्र निवर्त्यन्ते । कथम् इति चेत् — अधिकारविशेषम्, उत्तरकृत्यविशेषं, परिपूर्णकैङ्कर्यपर्यन्तफलसिद्धिं चाश्रित्य बहुधा शोकः संभावितः । तत्र -
(1) अनुष्ठास्यमानस्य शरणागतिधर्मस्य जातिवर्णाश्रयादिविशेषनियतत्वाभावात् प्राप्यरुचौ, प्रापकविश्वासे, आकिञ्चन्यज्ञानादिषु च सत्सु ‘वयम् अस्य नाधिकारिणः’ इति न कैश्चिद् अपि शोचितव्यम् ।
(2) अयम् उपायविशेषः परिकरैः सह क्षणकालसाध्यः सुकर आवृत्तिनिरपेक्ष उपायान्तरव्यवधानदुष्करपरिकरान्तराभ्यां शून्य उद्दिष्टकाले ऽपेक्षितसर्वफलप्रदानसमर्थश् चास्तीत्य् अतः, आकिञ्चन्यं [[P418]] श्रीरहस्यत्रयसारे
फलविलम्बभयं च बिभ्रद्भिर् अस्माभिः सपरिकरं चिरकालानुवर्तनीये अत्यन्तावहितैर् अपि कृच्छ्रसाध्ये तथाविधपरिकरान्तरसापेक्षे फलविलम्बवति उपायान्तरे किं भ्रमितव्यम् इति न शोचितव्यम् ।
(3) इत्थं लघूपायमात्रेण वशीकार्यस्य फलं प्रदास्यतः शरण्यस्य सर्वसुलभतया विश्वसनीयतमतया परमकारुणिकतया निरङ्कुशस्वातन्त्र्यतया चावस्थितत्वात् सिद्धोपायविषये न शोचितव्यम् ।
(4) एतद् उपायानुष्ठानान्तरम् आज्ञानुज्ञाभिः क्रियमाणानां सत्कर्मणां सर्वेषाम् एतत् प्रत्य्-अङ्गत्वाभावात् तेषां देशकालादिवैगुण्येन केषांचित् वैकल्यानां संभवे ऽपि, उपासनस्येवास्यापि किं परिकरवैकल्यं भवतीति न शोचितव्यम् ।
(5) भगवत्कैङ्कर्याद्यनर्हतापादकबुद्धिपूर्वमहाभागवतापचारोत्पादनपूर्वकं दग्धपटवद् भावापादनसमर्थात् प्रारब्धफलात् पापविशेषाद् भयेन प्रथमप्रपत्तिकाले वा पश्चात् सकृत् तदर्थं प्रपत्तिं कृत्वा वा निरपराधस्योत्तरकृत्यस्यापेक्षणे, पाश्चात्यापराधप्रसङ्गम् उद्दिश्य न शोचितव्यम् ।
(6) इत्थं निरपराधम् उत्तरकृत्यम् अनपेक्षितवतां पश्चाद् बुद्धिपूर्वापराधस्योपनताव् अपि “न त्यजेयं कथंचन” इत्य् अवस्थित्यर्हेण [अशरण्य]शरण्येनास्यानुतापम् उपजनय्य पुनः प्रपत्तिरूपे प्रायश्चित्तविशेषे प्रवर्तनेन, तस्यापि त्यजनार्हकठिनप्रकृतीनां शिक्षारूपोपक्लेशमात्रप्रदर्शनपूर्वकम्, अग्रे ऽपराधो यथा न क्रियेत तथा निवारणेन च उद्दिष्टात् [[P419]] फलप्राप्तिकालात् प्राग् एवानघत्वापादनात् प्रपन्नस्य विद्युदुद्योतवद् आविर्भूय स्थायितां विजहद्भिर् बुद्धिपूर्वापराधलेशैः, नरकादिमहाक्लेशा उपगच्छेयुश् चेत् किं क्रियताम् इत्याशङ्क्य न शोचितव्यम् ।
(7) आर्तप्रपन्नविषये तदैव फलसिद्धेः संभवात्, “देहे चेत् प्रीतिमान् मूढो भविता नरके ऽपि सः” इत्य्-उक्तरीत्या नरकतुल्यम् इदं शरीरं किम् अनुवर्ततेति न शोचितव्यम् ।
(8) दृप्तप्रपन्नस्यापि उद्दिष्टकालपर्यन्तं विलम्बे ऽपि, कर्मयोगप्रभृतीनां निवृत्तिधर्माणां सर्वेषाम्, “नेहाभिक्रमनाशो ऽस्ति” इत्याद्युक्तरीत्या कृतायाः स्थितेः शिलास्थितिरूपत्वात् एतं शरणागतम् उद्दिश्य विशिष्य, “न त्यजेयं कथंचन” इत्य्-उक्तत्वाच् च फलसिद्धौ संशयाभावात्, “यज्ञो ऽनृतेन क्षरति तपः क्षरति विस्मयात् । आयुर् विप्रपरीवादात् दानं च परिकीर्तनात् ॥” इत्याद्युक्तरीत्या सुकृतनाशकतयाऽवस्थितैः कैश्चिद् दुष्कृतैर् अस्य प्रपत्तिरूपस्य सुकृतस्य नाशे फलालाभे किं क्रियताम् इति न शोचितव्यम् ।
(9) एतच् छरीरानन्तरं मोक्षः प्राप्तव्य इति कालस्य निर्दिष्टत्वात्, जन्मान्तरादिहेतुभूतारब्धकर्मविशेषैर् अस्माकं जन्मान्तरोपनतौ किं क्रियताम् इति न शोचितव्यम् ।
(10) अनन्यप्रयोजनतया प्रपन्नस्यास्य प्रतिबन्धकानां सर्वेषां पापानां निवृत्तेः, केवलात्मानुभवादिभिर् अन्तरायैः परमफलस्य विलम्बः किं भविष्यतीति न शोचितव्यम् ॥ [[P420]] श्रीरहस्यत्रयसारे
इत्थं सर्वप्रकाराः शोकहेतवो यथा निवृत्ता भवेयुस् तथा ममानुग्रहविषयभूतेन त्वया इतः परं शोचनं तावत् पूर्वं निग्रहविषयभूततया स्थितिदशायाम् अशोचनवद् अनिपुणकृत्यं सत् अस्योपायविशेषवैलक्षण्यस्य, रक्षणभरं स्वस्मिन्न् आरोप्य वहतः सिद्धोपायभूतस्य मम प्रभावस्य, मत्सन्निधौ सर्वभरन्यासं कृत्वा कृतकृत्यतयाऽवस्थितस्य तव दशायाश् च नानुरूपम् इति तात्पर्यम् ॥ इत्थं चरमश्लोके सारतमस्य “मा शुचः” इति चरमवाक्यस्य तात्पर्यं स्वचरमदशायाम् आचार्याः सच् छिष्येभ्य उपदिशेयुः ।
(चरमश्लोके पदक्रमेणानुसन्धेया अर्थाः)
अस्मिन् श्लोके पदेषु क्रमेण अधिकारविशेषः, आकिञ्चन्यपुरस्कारः, दुष्करपरिकरान्तरनैरपेक्ष्यम्, अशक्यप्रवृत्त्यनौचित्यम्, दुष्कराभिनिवेशवैयर्थ्यम्, उपायविशेषस्य परसंसर्गासहत्वम्, मुमुक्षोः शरण्यविशेषः, शरण्यस्य सुलभत्वसुशीलत्वादिगुणपूर्णत्वं, हिततमोपदेशकत्वं, प्राप्यस्यैव प्रापकत्वं, निरपेक्षसर्वविषयनिष्प्रत्यूहकर्तृत्वं, व्याजमात्रप्रतीक्षत्वम्, उपायान्तरव्यवधाननिरपेक्षत्वं, परिकरान्तरनिरपेक्षप्रसाद्यत्वं, सर्वफलार्थिशरण्यत्वं, शरण्यान्तरपरिग्रहासहत्वं, शरण्यवैशिष्ट्यम्, उपायान्तरस्थाननिवेश्यत्वं, भरस्वीकर्तृत्वं, भरन्यासरूपसाध्योपायविशेषः, तस्य परिकराः, सर्वाधिकारत्वं, सकृत्कर्तव्यत्वं, सुकरत्वम्, अविलम्बितफलप्रदत्वं, प्रारब्धकर्मनिवर्तनक्षमत्वम्, अधिकारिणः पराधीनकर्तृत्वं, शास्त्रवश्यत्वम्, रक्षकस्य परमकारुणिकत्वं, सुप्रसन्नत्वं, निरङ्कुशस्वातन्त्र्यं, दुर्निवारत्वं, परानपेक्षत्वम्, अवसरप्रतीक्षत्वम्, शरणागतस्य कृतकृत्यत्वं, परिगृहीतोपायतत्फलविषये [[P421]] कर्तव्यान्तरे प्राप्तिराहित्यं, भगवदत्यर्थप्रियत्वं, त्रैकालिकविरोधभूयस्त्वं, विरोधिवर्गवैचित्र्यम्, तेषाम् ईश्वरसङ्कल्पमात्रनिवर्त्यत्वं, प्रपन्नेच्छानियतो विरोधिनिवृत्तिकालः, विरोधिनिवृत्तिस्वरूपम्, आत्मकैवल्यव्यावृत्तयथावस्थितस्वरूपविर्भावः, परिपूर्णभगवदनुभवः, सर्वविधकैङ्कर्यम्, अपुनरावृत्तिः, प्राक्तनं शोकहेतुप्राचुर्यम्, पश्चात् शोकप्राप्तिराहित्यम्, सर्वस्मिन्न् अपि विमर्शकाले निःसंशयत्वं, शोकनिवृत्तिः, निर्भयत्वं, हर्षविशेषः, शरीरपातकालप्रतीक्षत्वं, निरपराधकैङ्कर्यरसिकत्वम् - इत्य् एते ऽर्थाः प्रधानरूपेण अन्ये चैतद् अपेक्षिताः सर्वे ऽपि शब्दशक्त्याऽर्थस्वभावेन चानुशिष्टाः ॥
(चरमश्लोकस्य सम्पिण्डितार्थः)
अल्पज्ञो ऽल्पशक्तिः परिमितकालवर्ती विलम्बक्षमताराहित्येन चावस्थितस् त्वं स्वेन ज्ञातुम् अनुष्ठातुं चाशक्येषु फलविलम्बवत्सु उपायान्तरेष्व् अपरिभ्रमन् सर्वसुलभं सर्वलोकशरण्यं शरण्यत्वोपयुक्तसर्वाकारविशिष्टं माम् एकम् एवोपायत्वेनाध्यवस्यन् अङ्गपञ्चकसंपन्नम् आत्मरक्षाभरसमर्पणं कुरु । एवम् अनुष्ठितोपायं कृतकृत्यं मद्रक्ष्यवस्तुभूतम् अत्यर्थप्रिय[यतमं] त्वां परमकारुणिकः सुप्रसन्नो निरङ्कुशस्वातन्त्र्यः स्वार्थप्रवृत्तो ऽहम् एव मत्सङ्कल्पमात्रम् एव सहायं कृत्वा बहुप्रकाराणाम् अनन्तानां दुरत्ययानां सर्वविधविरोधिवर्गाणाम् अपुनःसंबन्धसंभावनं यथा तथा संबन्धं विच्छिद्य मन्निर्विशेषं मदीयानाम् आत्मात्मीयानां सर्वेषाम् अनुभवात् तुल्यभोगं कृत्वा परिपूर्णानुभवपरीवाहरूपं सर्वदेशसर्वकालसर्वावस्थोचितं सर्वविधकैङ्कर्यम् अपि दत्त्वा प्रीयेय । त्वया कस्यापि कृते न शोचितव्यम् इति चरमश्लोके समुदितो ऽर्थः ॥ [[P422]] श्रीरहस्यत्रयसारे
एकं सर्वप्रदं धर्मे श्रिया जुष्टं समाश्रितैः ।
अपेतशोका आचार्यैर् अयं पन्थाः प्रदर्शितः ॥
(अधिकारार्थसंग्राहिका गाथा)
सावधानमनुष्ठेयेषु कर्मसु धर्मेषु रहिताः तस्य गोपालस्य सुगन्धितुलसीयुक्तौ चरणौ परमार्थोपाय इति त्वरया समाश्रित्य - वियोजितः पापसमूहो यथा पश्चान् नानुवर्तेत तथा अभिपद्य प्रतिरुध्य वशीकारे व्यावृतेन तेषां महतां सुदृढकृपावचनेन निवृत्ताज्ञानाः स्मः ॥
(तमिल् पद्यम्) कुरिप्पुडऩ् म्ēवुम् तरुमङ्गळिऱ्ऱु यक्कोवलऩार् व्ēरितऴ् तुऴाय्क्कडिकळ् मेय्यरणेऩ्ऱु विरैन्दडैन्दु पिरित विऩैत्तिरळ् पिऩ्तोडरावकै यप्पिऱ्पडुत्तिप् पेरियोर् मऱिपुडैय मऩ्ऩरुळ् वाचकत्ताल् मरुळोऴिन्दऩमे ॥
व्यासान् न्यायपयोधिकौस्तुभनिभं हृद्यं हरेर् उत्तमं
श्लोकं केचन लोकवेदपदवीविश्वासितार्थं विदुः ।
येषाम् उक्तिषु मुक्तिसौधविशिखासोपानपङ्क्तिश्रियं
वैशम्पायनशौनकप्रभृतयः श्रेष्ठाः शिरःकम्पिनः ॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्रहस्यत्रयसारे चरमश्लोकाधिकारः
इति - पदवाक्ययोजनाभागस् तृतीयः श्रीमते निगमान्तमहादेशिकाय नमः
श्रीः श्रीमते निगमान्तमहादेशिकाय नमः अथ संप्रदायप्रक्रियाभागश् चतुर्थः । तत्र
Footnotes
-
निकरिलपुकऴाय् - तिरुवाय् - 6-10-10 ↩︎
-
निऩ्ऩरुळ्ē पुरिन्दिरुन्देऩ् - पेरियाऴ्वार् ति - 5-4-1 ↩︎
-
तुणियेऩिनि निऩ्ऩरुळल्लदेऩक्कु - पेरियति - 11-8-8 ↩︎
-
उऩदरुळे पार्प्पऩडियेऩ् - पेरुमाळ् ति - 5-4 ↩︎
-
तिरुमामकळैप्पिरिन्देऩ्ऩुळङ्कोयिल् कोण्ट पेररुळाळऩ् - पेरियति - 9-5-6 ↩︎
-
उन् तिरुवरुलाल् अऩ्ऱिप्पोरुळ् पेरिदु - तिरुविरुत्तम् - 62 ↩︎
-
निऩ् तिरुवरुळुम् पङ्कयत्ताळ् तिरुवरुळुम् - तिरुवाय्मोऴि - 9-2-1 ↩︎
-
आवावेऩ्ऱिऱङ्कि अरुळ् शेय्दु - तिरुवाय्मोऴि 5-1-9 ↩︎
-
तन्तरुळक्कण्डाय् एऩक्किङ्कु - तिरुवाय्मोऴि - 2-7-11 ↩︎
-
एऩ्णुणर्विऩुळ्ळे इरुत्तिऩेऩ् अदुवुमवऩदिऩरुळे - तिरुवाय् 8-8-3 ↩︎
-
ईశैवित्त उन् ताळिणैक्कीऴ् इरुत्तम् अऩ्ऱ्ē - 8-8-9 ↩︎
-
आरेऩक्किङ्कु निऩ् पादमे शरणाकत्तन्दोऴिन्दाय् - तिरुवाय् - 5-7-10 ↩︎
-
(तमिल् पद्यम्) ↩︎
-
इरुविऩैकळुम् श्ēरा - तिरुवाय् 1-5-10 ↩︎
-
(This refers to a Tamil verse that follows) ↩︎
-
मऩ्ऩुरिदै - तिरुवाय्मोऴि - 1-2-5 ↩︎
-
इरुदिकूडा - तिरुवाय्मोऴि 6-9-10 ↩︎
-
एऩैयूऴि - तिरुवाय्मोऴि - 6-9-10 ↩︎
-
शेम्मैयुडैय तिरुवरङ्कर् ताम् पणित्त मेय्म्मैप् पेरुवार्त्तै - नाच्चियार् तिरुमोऴि - 11-10 ↩︎
-
पावि तटुमाऱेऩ्ऱु शोलिवदऱ्कञ्जि नम्बऩ्ē वन्दुऩ् तिरुवडियडैन्देऩ् - पेरिवतिरुमोऴि - 1-6-4 ↩︎
-
अञ्चिऩ नी एऩ्ऩैयडै एऩ्ऱार् वन्दार् - तिरुच्चिऩ्ऩमालै - 8 ↩︎
-
मरणमानाल् वैकुन्दम् कोटुक्कुम् पिराऩ् - तिरुवाय्मोऴि 9-10-5 ↩︎
-
उडिलुम् उयिरुम् मङ्गवोट्टु - तिरुवाय्मोऴि - 10-7-9``` ↩︎