१४ स्वनिष्ठाभिज्ञानाधिकारः

१४ स्वरूपोपायार्थेष्ववितथनिविष्टस्थिर मतेः स्वनिष्ठाभिज्ञानं सुभगमपवर्गादुपनतात् । प्रथिना यस्याssaौ प्रभवति विनीतः स्थगयितुं गभीरान् दुष्पूरान् गगनमहतच्छिद्र निवहान् ॥

एवं स्वस्य निष्ठाऽस्तीति स्वेन कथं ज्ञायतामिति चेन-

( स्वरूपविषये स्वनिष्ठाभिज्ञाननिरूपणम् )

19

परैः परिभवादिषु आपन्नेषु सत्सु देहादिकमवलम्ब्य परि- भावकैरुच्यमानानां दोषाणां स्वस्वरूपासंस्पर्शस्य निरूपणेन विषादादि- -राहित्येनावस्थानम्, “1 शप्यमानस्य यत् पापं शपन्तमधिगच्छति” इत्य्-उक्त-रीत्या परिभवादिना स्वपापं प्रतिगृहतो दुर्बुद्धीन् प्रति बद्ध-

स्वनिष्टाभिज्ञानाधिका:

२२१

वैराणि भूतानि द्वेषं कुर्वन्ति चेत्, ततः । शोच्यान्यहोऽतिमोहेन व्याप्ता- नीति मनीषिणा ॥", “आत्मद्रुहममर्यादं मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत नरकार्चिष्मदिन्धनम् " इत्य्-उक्त-रीत्या प

पारातिलङ्घिनी “कृपा, "” अमर्यादः क्षुद्रः” इति लोकेन, “क्लान्तोऽभवम् क्लान्तो- -भूत्वा" इत्यादिभिर्दिव्यसूरिगाथाभिश्च स्वस्यानुसन्धेयतयोदाहृतान् -दोषान् परिभवादिभिः (इमे ) विस्मरणागोचरान् मकार्षुरित्यु- पकारस्मृतिः, आत्मनां सर्वेषां स्वरूपानुबन्धिभगवत्पारतन्त्र्यं क्षेत्रज्ञानां सर्वेषां कर्मवश्यतयाऽवस्थिति च दृष्टा, भस्मासु अस्मत्परि- भावक चेतनेषु च विद्यमानकर्मानुगुणरसावहांमिमां लीलां कुर्वाणेन स्वतन्त्रशेषिणा प्रेरितास्ते परिभवादिकं कुर्वन्तीति तद्विषये निर्विकारचित्तता, प्रारब्धपापविशेषः कृत्तशिखो भवतीति सन्तोषश्च प्रवर्तन्ते चेत् — प्रथममध्यमपदयोः शोधितरीत्या अचिद्वैलक्षण्यम्, सर्वभूतानुकूल्यादियोग्यं ज्ञानम्, सर्वतोमुखमा किश्चन्यम्, स्वतः सर्वसमस्य कर्मानुरूपफल प्रदस्य स्वतन्त्र शेषिण इष्टविनियोगार्हता- `पादके अनन्यार्हशेषत्वपारतन्त्र्ये, “यद्धितं मम देवेश” इत्याद्युक्तरीत्या “पराधीनहितसिद्धिं च विभ्राणे स्वस्वरूपे निष्ठाऽस्तीति अभिज्ञायेत ।

(उपायविषये तन्निरूपणम् )

सर्वेश्वरं विना स्वात्मा च परे च स्वस्य न रक्षका इति बुद्धिः, मृत्युपर्यन्तभयहेतुदर्शनेऽपि “7 प्रायेणाकृतकृत्यत्वात् मृत्योरु द्विजते चनः । कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् ॥” इत्य्-उक्त-रीत्या

5 वाहिनेन् वाडि - पेरियतिस्मोडि1-1-1

१९२

श्रीरहस्यमयसारे

एतच्छरीरानन्तरं किं दुःखमनुभविष्याम इत्युद्वेगं हित्वा अभिमतासच्या संप्रीततयाऽवस्थानम्, “गजं वा वीक्ष्य सिंह वा व्याघ्रे वाऽपि वरानना । नाहारयति संत्रास बाहू रामस्य संश्रिता" इति, ““असंदे- शात् तु रामस्य तपसश्चानुपालनात् । न त्वा कुर्मि दशग्रीव भस्म भस्माई! तेजसा ॥” इति, “10 शरैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः । मां नयेत् यदि काकुत्स्थस्तत् तस्य सदृशं भवेत् ॥” इति श्रीजानवया अनुष्ठाय प्रदर्शितरीतिकेन रक्षकावष्टम्भेन जातः समाश्वासः, स्वकृत- भरन्यासफलविषये स्वयत्त्रराहित्यम्, तत्रानिष्टनिवृत्तिरिष्टप्राप्तिश्व तद्धस्ता- धीने इति विलम्भश्च वर्तेरश्चेत् — स्वोदिष्टसकलफलसाधने चरमश्लोक- पूर्वखण्ड विहिते, द्वयपूर्वखण्डेऽनुसन्धेये, श्रीमन्त्र मध्यमपदचि- वक्षिते उपाये स्वस्य निष्ठाऽस्तीति सुखमभिज्ञातुम् ।

( पुरुषार्थविषये तन्निरूपणम् )

11 उत्पत्तिस्थितिनाशानां स्थितौ चिन्ता कुतस्तव । यथोत्पत्ति- यथा नाशः, स्थितिस्तद्वत् भविष्यति ॥”, “12 अचेष्टमानमासीनं श्री:- कञ्चिदुपतिष्ठति । कर्मी कर्मानुसृत्यान्यो न प्राश्यमधिगच्छति ॥12 इत्य्-उक्त-रीत्या प्रारब्धकर्मविशेषाधीनतयेश्वरेण कार्यमाणे देहयात्रादौ चिन्तां त्यक्त्वा, स्वेन चिन्तायां क्रियमाणायामपि, “18 उत्पतन्नपि चाकाशं विशन्नपि रसातलम् | अटन्नपि महीं कृत्स्नां नादत्तमुपतिष्ठते ॥”,

14 यत् किञ्चित् वर्तते लोके सर्वं तन्मद्विचेष्टितम् । अन्यो धन्यचिन्तयति स्वच्छब्दं विदधाम्यहम् ॥” इत्य्-उक्त-रीत्या ईश्वरसंकल्पमननुसृत्य न किञ्चिन्निर्वर्तेतेति प्रतिसन्धाय, “15 अप्रयत्नागताः सेव्याः गृहस्थ-

हृत्य

स्वनिष्ठाभिधानाधिकार

११३

“विषयाः सदा । प्रयत्नेनापि कर्तव्यः स्वधर्म इति मे मतिः ॥”, 4410 नाहारं चिन्तयेत् प्राज्ञो धर्ममेवानुचिन्तयेत् । माहारो हि

· मनुष्याणां जन्मना सह जायते ॥” इति पराशरगीतादिषु, “17 न - संनिपतितं धर्म्यमुपभोगं यदृच्छया । प्रत्याचक्षे न चाप्येनमनुरुन्धे सुदुर्लभम् ॥" इत्यजगरोपाख्याने चोक्तरीत्या शास्त्राविरुद्ध विषयेषु

• स्वस्मिन् उपायविशेषमकुर्वत्यपि भगवत्संकल्पमात्रेण स्वयमेव प्राप्तेषु तान् अवेक्ष्य, प्रारब्धकर्मफलमृणं नश्यतीति, मनिवारणेनानुभवनम् —

कर्मविशेषाधीनतयोपनमतोः प्राप्यान्तरलाभालाभयो’, 1418 तयोरेकतरो राशिर्वधनमुपसंनमेत् । न सुख प्राप्य संहृत्येन दुःखं प्राप्य संज्वरेत् ॥” इति, 19 (घनं ) व्यस्तीति न दृप्यन्ति" इति चोक- -रीत्या हर्षशोक त्यागेन सह स्वरूपानुरूपे परमप्राप्यकैङ्कयें रुचि, -स्तोत्रे श्रीवैकुण्ठगद्यादिषु च [दर्शिता] “कदा, कदा” इति मुखविला

कारयन्ती प्राप्तौ त्वरा च यदि प्रवर्तेरन् – तर्हि श्रीमन्ते नारायणशब्दे चतुर्थ्या, द्वये चतुर्थीनमोभ्याम् चरमश्लोके “अहं त्वा सपा- ‘पेभ्यो मोक्षयिष्यामि " इति वाक्येन च हस्तनिर्देशकृत समुद्र प्रदर्शन- तुल्यप्रदर्शन विषयीकृते अपरिच्छेद्ये परमपुरुषार्थे निष्ठाऽस्तीति सुज्ञानम् ।

(स्वनिष्ठाप्रयोजननिरूपणम )

इत्थं तत्तदभिज्ञानैः 120 अहमात्मा न देवोऽम्म विष्णुशेषो- परिग्रहः । तमेव शरणं प्राप्तस्तत्कैङ्कर्यचिकीषया ॥” इत्य्-उक्त-रीत्या मूलमन्त्रादिसहकारेण स्वरूपोपायधूरूपार्थेषु स्वनिष्ठामभिज्ञा

19 उल्देविस्मावार - 2 तिरुवन्तादि 45

8

११४

श्रीरहस्यनयसारे

चरतोऽस्याधिकारिणः, 21 नैषा पश्यति राक्षस्यो नेमान् पुष्प- फलढुमान् । एकस्थहृदया नूनं राममेवानुपश्यति ॥” इतिरीत्या विरोधिभिः सह वर्तमानस्य अस्य पाक्षिकतया संभावितेषु ब्रह्म- विदपचारव्यतिरिक्तेषु येषु केषु चित् भीतिहेतुषु, स्वरूप प्राप्त- कैङ्कर्यव्यतिरिक्तेषु येषु केषुचित् प्रीतिहेतुषु च दृष्टिपातो न भवेत् । यदृच्छया संभवेऽपि तैर्भीतिः प्रीतिश्च नोदियात् ॥

(अधिकारार्थसंग्राहिका गाथा)

मुख्यमन्त्रपदर्शिते त्रितये निष्ठावन्तः खानुरूपमिच्छन्तः अननुरूपं किमपि अनिच्छन्तः, इमानि कर्माणि अस्माकं सन्तीति लक्षणेन मम्यक् ज्ञातवन्तः मेदिनीवर्तिदिविषदो भवन्ति ।

स्वापोद्बोधव्यतिकरनिभे भोगमोक्षान्तराले कालं कञ्चिगतिविधिना केनचित् स्थाप्यमानाः तत्त्वोपायप्रमृतिविषये स्वामिदत्तां स्वनिष्ठां शेषां कृत्वा शिरसि कृतिनः शेषमायुर्नयन्ति ॥ इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य

श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्रहस्यत्रयसारे स्वनिष्ठाभिज्ञानाधिकारश्चतुर्दशः श्रीमते निगमान्तमहा देशिकाय नमः

मुक्किय मन्तिरङ्काट्टिय मूत्रिल निलैयुडैयार तक्कवैयत्रिन्तहादवै यों तमक्कियार इफ्करुमङ्गलेमक्कुले वेत्र मिलेककणत्ताले मिक्क वुणर्त्तियर मेदिनिमेविय विष्णवरे,

श्रीः