१३ कृतकृत्याधिकारः

श्रीः

कृतकृत्याधिकारः १३

समर्थ सर्वज्ञे सहजसुहृदि स्वीकृतभरे यदर्थ कर्तव्यं न पुनरिह यत्किञ्चिदपि नः । नियच्छन्तस्तस्मिन् निरुपधिमहानन्दजलधौ कृतार्थी कुर्मः स्वं कृपणमपि कैङ्कर्यधनिनः ॥

( प्रपन्नस्य कृतकृत्यत्वम् )

एतदुपाय विशेषनिष्ठः स्वोद्दिष्टस्यैतत्फलस्य कृते प्रपत्त्यनन्तर- कालमारभ्य स्वस्य कर्तव्यांशेऽन्वयाभावात् कर्तव्यांशस्य सकृदनु- ष्ठानेन निष्पन्नत्वात्, स्वतन्त्रेण सत्य संकल्पेन फलप्रदेन " मा शुचः इत्यनुगृहीतत्वात् स्वस्य निष्पन्नां भरन्यासरूपदशां दृष्ट्वा निर्भरः,

कृतकृत्याधिकारः

१०७९

“मामेकं शरणं व्रज” इत्य्-उक्त-रीत्या सिद्धोपायत्वेन स्वीकृतेन सर्वेश्वरेण, “अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि” इति फलप्रदान संकल्पस्य करणात् एवं विश्वसनीयं समर्थमुपाय- भूतमीश्वरमवलोक्य फलसिद्धौ निस्संशयो निर्भयश्ध,

वासना अपि यथा नष्टाः स्युस्तथा त्यक्तान् अन्यपुरुषार्थान् वृन्तान्यपि यथा निवर्तेरन् तथा त्यक्तानि उपायान्तराणि यथा अकिञ्चनोऽयत्नेन महानिधि लभेत तथा स्वेन लप्स्यमान: परमपुरुषार्थं च दृष्ट्वा हृष्टमनाः,

“देवर्षिभूतात्मनृणां पितॄणां न किङ्करो नायमृणी च राजन् । सर्वात्मना यः शरणं शरण्यं नारायणं लोकगुरुं प्रपन्नः ॥” इति श्लोकोक्त- प्रकारेण, प्रजापतिः पशुपतिरित्येवनामानि विभ्रतः सजातीयान् क्षेत्रज्ञान् प्रति ततदवसरेषु करगृहीतभृतिसदृशेोपाधिविशेषहेतु कतया लेखनानर्ह वेदारूढं दास्यपत्रम्, मूलधनतीरणं विनैव वृद्धिविधानानु- वृत्तंमृणपत्रं च छिन्नवान् यतः, ततः पञ्चमहायज्ञादिषु नित्यनैमित्तिकेषु तन्नामो (देवतान्तरनामो)श्च्चारणावसरे “ध्ये यजन्ति पितृन् देवान् ब्राह्मणान् सहुताशनान् । सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते ॥ इत्यादिषु महर्षिभिर्निर्धारितया रीत्या,

राज्ञः कञ्चुकस्योपरि मालाया आभरणस्य च समर्पणेऽपि कञ्चुके (उद्देश्यत्व) संबन्धं हित्वा राजनीतिमेव प्रयोजनतया राजसेवको यथा विशदं प्रतिबुध्यते तथा,

श्रीरहस्यत्रयसारे

‘यज्ञाग्रहराध्यायादिषु, ‘श्रीहस्तिगिरिमाहात्म्ये, " साक्षा- दप्यविरोधं जैमिनिः” इति सूत्रे चोक्तया रीत्या देवपित्रादिरूपकञ्च कसंबन्धं विनैव तत्तच्छब्दानामवयवशक्ति पौष्कल्यैरीश्वरविषये नारायणादि- शब्दवत् (वाचकतया) अवस्थिति च निरीक्ष्य तेषामुच्चारणादिषु श्वेतद्वीपवासिनां शुद्धयाजिनामिव स्वस्य परमैकान्तित्वस्याक्षततया स्थिति निरूप्य,

स्ववर्णाश्रमनिमित्तगुणाद्यधिकारानुरूपदास्यग्रहणं संकल्पि -

-चवत: शासितुः शेषिणः शास्त्रवेद्याज्ञापरिपालन रूपकैङ्कर्यमुखेन, प्रत्यक्षविदितपरमपुरुषाभिप्रायकमुक्तवत् किञ्चित्कुर्वन् मुक्ततुल्यः सन् उपायपूर्त्या कृतकृत्य इति पुरुषार्थपूर्त्या कृतार्थ इति च शास्त्रैस्तन्निष्टैश्चाभिनन्दनीयो भवति ॥

(गद्यवाक्य तात्पर्यम्)

एतदीयमिदं कृतकृत्यत्वानुसंधानम्,

6.6 " अतस्त्वं तव

तत्त्वतो मज्ज्ञानदर्शनप्राप्तिषु निस्संशयः सुखमास्व” इति शरणा- गतिगद्ये निगमयामास । अस्यायं भावः - अनादेः कालादा- ज्ञातिलङ्घन हेतु कभगवन्निग्रहेण

संसारमनुप्राप्तानामस्माकमवसर- प्रतीक्षभगवत्कृपा हेतुकसदाचार्यकटाक्षविषयी कार निबन्धनद्वयोच्चा- रणानूचारणेन प्रपत्यनुष्ठाने निष्पन्ने शरण्यप्रसादनेव्वितः परं ( कर्तव्यस्य) कस्याप्यभावात् निग्रहहेतून् सर्वान् क्षान्त्वा, सविश्वासम - श्रितान् दासान् परिष्कृत्य कैङ्कर्यस्य ग्रहणे समर्थः सर्वशेषी श्रियः यतिः खप्रयोजनभावेन खयमेव रक्षेदिति विश्वस्य निर्भरो भवेति । भयं " मा शुचः” इति शरण्यवाक्ये निष्कृष्टोऽर्थः ॥कृतकृत्याधिकारः

(शोकतदभावका लेव्यवस्था)

१०१.

अस्य प्रपत्तिप्राकालिकस्य शोकस्याधिकारकोटिनिविष्टत्वात् पाकू अशोचने अधिकारित्वासिद्धेः, “कारणाभावात् कार्याभाव: " इति न्यायेन उपायनिष्पत्तिर्न सिद्धयेत् । उपायस्वीकारं कृतवानित्यभि- मत्य पश्चात् शरण्योक्तौ सन्दिहानः शोचेच्चेत्, “कार्याभावात् सामग्रयभावः " इति न्यायेन पूर्णोपायत्वासिद्धेः फलमुपाय पूर्तिसापेक्ष सत् विलम्बेतेति वेदितुं युक्तम् । प्राक् प्रसक्तशोकः, पश्चात् " मा शुचः " इति प्रतिषेधनमनुसृत्य वीतशोकीभूतः कृतकृत्य इति ज्ञातुं युक्तम् ॥

( अधिकारार्थसंग्राहिका गाथा )

प्रेमवत्सु, ‘को वरो देय:’ इति आस्थावता हस्तिगिरिनाथेन - लक्ष्मीव्यामुग्धेन, पूर्वमेव प्रयस्य रक्ष्यवस्तुत्वेन स्वीकृता आस्माका: मुख्याः राजतुल्याः देवतुल्याः देवदेवनिवासभूतोपरितन लोकप्रवण- सूरितुल्याः इंसतुल्याः समापितसर्वयज्ञपुरुषतुल्याश्च भवन्ति ।

भगवति हरौ पारं गन्तुं भरन्यसनं कृतम् परिमितसुखप्राप्त्यै कृत्यं प्रहीणमकृत्यवत् ।

मन्नवर विण्णवर वानोरिरै योत्रम् वान् करुतोर अन्नवर वेल्वियनैत्त मुडित्तनर् अन्बुडैयार ककु एन वरन्तरवेत्र नम्मत्तिगिरित्तिरुमाल

मुन्नम् बरुन्दिय डैक्कलङ्कोण्ड नम्मुक्कियरे.

धीरहस्यनयसारे

भवति च वपुर्वृत्तिः पूर्वं कृतैर्नियतक्रमा परमिह विभोराज्ञासेतुर्बुधैरनुपात्यते ॥ BIS इति कवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्रहस्यत्रयसारे कृतकृत्याधिकारस्त्रयोदशः ॥ श्रीमते निगमान्तमहा देशिकाय नमः

श्रीः