श्रीः
साङ्गप्रपदनाधिकारः १२
अभीष्टे दुस्साधे स्वत इतरतो वा कचन तद्- भरन्यासं याच्ञान्वितमभिवदन्ति प्रपदनम् । इतः पश्चादस्मद्यतन निरपेक्षेण भवता समयऽसावर्थस्त्विति मतिविशेषं तदविदुः ॥
(मुमुक्ष्वसाधारणाङ्गिस्वरूपनिरूपणम्)
मुमुक्षोरधिकारिणोऽस्मिन्नुपायेऽङ्गिस्व-रूपं तावत् - आभरण-
स्य तत्स्वामिने तेनैव रक्षणपूर्वक धार्यत्वार्थं प्रदानवत् यथावस्थित आत्मनिक्षेपः । स च प्रणवे प्रथमाक्षरे प्रकृतिप्रत्ययाभ्यां सर्वरक्षकत्वेन सर्वशेषित्वेन च प्रतीतं सर्वेश्वरं प्रति — आत्मात्मीयरक्षणव्यापारे आत्मात्मीयरक्षणफले च स्वाधीनतया स्वार्थतया च स्वस्यान्वयो यथा न स्यात् तथा भरन्यासप्रधानो– ऽत्यन्तपारतन्त्र यविशिष्टशेषत्वानुसन्धानविशेषः ॥
61
(अङ्गिस्वरूपानुष्ठानप्रकारः)
“1 खात्मानं मयि निक्षिपेत्” इति चोदितस्यानुसन्धान– विशेषस्यानुष्ठानप्रकारस्तावत् — शेषिणा स्वतन्त्रेणेश्वरेण खप्रयो- जनाथ स्वयंरक्षणानुगुणतयाऽनन्यानिन्याधीन शेषत्वात्यन्तपारतन्त्रय-
साङ्गप्रपदनाधिकारः
१०१
च्यानहम् "” आत्मापि चायं न मम" इत्य्-उक्त-रीत्या मम शेषी नास्मि; किमपि निरुपाधिकतया मदीयमित्यनुसन्धातुमपि नाहऽस्मि ; " स्वयं मृत्पिण्ड- - मृतस्य परतन्त्रस्य देहिनः । खरक्षणेऽप्यशक्तस्य को हेतुः पररक्षणे ॥" -इत्य्-उक्त-रीत्या मां मदीयत्वेन प्रसिद्ध च अहं स्वतन्त्रः प्रधानफली च
‘आत्मा राज्यं धनं चैव कलत्रं वाहनानि च । -सन् रक्षितुं नार्होऽस्मि ; “4 आत्मा र
एतत् भगवते सर्वमिति तत्प्रेक्षित सदा” इति विवेषयनुसंहितक्रमेण - मदीयानि आत्मात्मीयान्यपि तदीयान्येव ; ““आत्मात्मीयभरन्यासो म्हचात्मनिक्षेप उच्यते” इत्य्-उक्ते-रेषां रक्षणभरोऽपि न हि पालन- सामर्थ्यम् ऋते सर्वेश्वरं हरिम्” इत्य्-उक्त-रीत्या सर्वरक्षकस्य तस्यैव ; ““तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता । केशवार्पणपर्यन्ता हचात्मनिक्षेप उच्यते” इत्य्-उक्त-रीत्या रक्षणफलमपि प्रधानफलिनस्तस्यैवेति भावनम् ।
(मुमुक्षुवुभुक्षुसमर्पणयोर्विशेषः) मुमुक्षुमात्रसामान्यं स्वरूपादिसमर्पणम् । अकिञ्चने भरन्यासस्त्वधिकोऽङ्गितया स्थितः ॥ अत्र रक्षाभरन्यासः समः सर्वफलार्थिनाम् । स्वरूपफल निक्षेपस्त्वधिको मोक्षकाङ्क्षिणाम् ॥
( ईश्वरस्य प्रधानफलित्वम् )
फलार्थिनि उपायानुष्ठातरि जीवे फलिनि विद्यमाने सति ईश्वरोऽत्र प्रधानफली कथं भवतीति चेत् — अचितः परिणामा इव चिद्भयः स्वेन प्रताः पुरुषार्था अपि सर्वशेषिण स्वं नन्दयन्तीति
तोरीश्वरः प्रधानफली संपद्यते । अचेतनायाः प्रतिमाया अवस्था परि-
१०२
श्रीरहस्यत्रयसारे
वर्तनेन आभरणधारणाधानेन च तत्सौन्दर्यस्य दर्शनेन नन्दने, चेतनस्य शुकस्य पञ्जरे निधानपूर्वं क्षीरदानेन स्वैरं बहुलं सञ्चारणेन च तदीया– नन्दस्य दर्शनेन नन्दने च नास्ति किल तारतम्यं निरपेक्षाणां रसिका – नाम् ॥ अतोऽत्र-
स्वनिर्भरत्वपर्यन्तरक्षकैकार्थ्यभावनम् । त्यक्तरक्षाफलस्वाम्यं रक्ष्यस्याऽऽत्मसमर्पणम् ॥ (श्रीयामुनाचार्यसुक्तयर्थतत्त्वम् )
स्तोत्रे, ““वपुरादिषु योऽपि कोऽपि वा गुणतोऽसानि यथा– तथाविधः । तदयं तव पादपद्मयोरहमद्यैव मया समर्पितः ॥” इत्यस्य किं तात्पर्यमिति चेत् — कृतमुद्रायां राजो भूषणनीच्यां केनचिद्धेतुना स्वहस्तगतायां सत्याम्, राजा स्वीकुर्यादिति (धिया) अन्तः स्थितमाणि - जयस्य स्वरूपस्वभावौ विशदमज्ञात्वाऽपि नीव्या सह (माणिक्यं) यथा पुनः प्रत्यर्प्यते, तथा देहाद्यतिरिक्तस्यात्मनः स्वरूपस्वभावस्थिती विशदं विवेक्तुमविजानद्भिरपि विद्यमानं ज्ञानमवलम्ब्याऽऽत्मसमर्पणे कृते सति, तावन्मात्रेणापि अनादिकालकृतात्मापहारचौर्यजनितो भगवन्निग्रहः शाम्येदित्यस्मिन् शास्त्रार्थे तात्पर्यम् । एतदग्रे, “मम नाथ यदस्ति” इति श्लोके एतत्समर्पणविषयेऽनुशयकरणमपि- स्वरूपादिविवेकं विना समर्पणे प्रवृत्तावपि स्वकीयं द्रव्यं राज्ञे उपहारत्वेन ददान इव मदीयमित्यभिमानेन सह यदि समर्पयेत्, तर्हि आप्मापहारचौर्यमुन्मूलितं न भवतीत्येतज्ज्ञापनार्थम् । न तु शास्त्रचोदितस्य स्वानुष्टितस्य समर्पणस्य ज्ञकृत्यत्वापादनार्थम्
साप्रपदनाधिकारः
१०३
तदेवं द्वाभ्यां श्लोकाभ्याम् — यथावस्थित स्वरूपादिविवेके असत्यपि, न ममेति वस्वसम्बन्धलवनमेव “10 अहमपि तवैवास्मि हि भरः " इति वर्णनाभरसमर्पण प्रधाने शास्त्रार्थे सार इति सिद्धम् ।
(द्वयेऽङ्गस्वरूपस्यानुसन्धान प्रदेशः)
इत्थं शेषत्वानुसन्धानविशिष्ट स्वरक्षाभरसमर्पणं द्वये उपायपरे पूर्वखण्डे महाविश्वासपूर्वक गोप्तृत्ववरणगर्भशरणशब्दो- पश्लिष्टक्रियापदे समुच्चित्यानुसन्धातुं युक्तम् ।
इत्थमेषु षट्सु अस्मिन् मन्त्रे विमर्शदशायां पृथक् पृथगनु- संहितेषु सत्स्वपि वाक्यार्थप्रतिपत्तिदशायामन्यान्यवाक्यार्थवत् साङ्गं प्रधानमेकबुद्ध्यारूढं भवति । अतो यथाशास्त्रं साङ्गप्रपदना- नुष्ठानं सकृत्कर्तव्यमिति सिद्धम् । अनेकव्यापारसाध्यो धानु- कस्य लक्ष्यवेधार्थी वाणमोक्षो यथा क्षणकृत्यं ( क्षणकाल साध्यो) भवति, तथेदमात्मरक्षाभर समर्पणं भवतीति श्रुतिसिद्धम् ।
अस्य भरसमर्पणस्यैव प्रपत्तिमन्त्रेषु प्राधान्येनानुसन्धेयताम् “11 अनेनैव तु मन्त्रेण स्वात्मानं मयि निक्षिपेत् । मयि निक्षिप्तकर्तव्यः कृतकृत्यो भविष्यति ॥” इति सात्यकितन्त्रे भरस्वीकर्ता शरण्यः स्वयं विशदमनुजग्राह ॥
निष्कृप्रसाङ्गानुष्ठानस्वरूपनिरूपणम् )
अत्र साङ्गानुष्ठानतया निष्कृष्ट तावत् - कर्तृत्वत्याग- ममता- त्याग - फलत्याग - फलोपायत्वत्यागपूर्वकं आनुकूल्य संकल्पाद्यर्थानु- सन्धानेन
सह गुरुपरम्परोप सत्तिपूर्वकद्वयवचनमुखेन स्वरूप फलन्यास गर्भात्मरक्षाभरसमर्पण करणम् क
।
२०४
श्रीरहस्यनयसारे
अस्य कर्तृत्वत्यागस्य निबन्धनम् — स्वगतं कर्तुत्वमपि तन्मूलतया प्राप्तमिति स्वस्य यावदात्मभाविनो भगवदेक- पारतन्त्र्यस्य ज्ञानम् | ममतात्यागस्य फलत्यागस्य च निबन्धनम् आत्मात्मीयानां स्वरूपानुबन्धिनो भगवदेकशेषत्वस्य ज्ञानम् । फलो- पायत्वत्यागस्य निबन्धनम् - शरण्यप्रसादन] स्यैतदीयानुष्ठानस्य प्रधानफलं प्रति व्यवहितकारणत्वम्, अचेतनत्वात् फलप्रदान- संकल्पानाश्रयत्वं च ।
ईश्वरस्य फलोपायत्वं तावत् सहज सौहार्दात् करणकलेवर- प्रदानादारभ्य द्वयोच्चारणपर्यन्तं सर्वं प्रति आदिकारणभृतस्य स्वस्य प्रसादपूर्वक संकल्प विशेषविशिष्टरूपेणा व्यवहित कारणत्वात्, उपायान्तरशून्यस्य विषये ततदुपायस्थाननिवेशाच्च । एवंभावस्य मूलं धर्मिग्राहकशास्त्रावगतो वस्तुस्वभाव इति, अयमर्थो युक्तिभि- विचालयितुं न युज्यते ।
अस्य साङ्गानुष्ठानस्य वात्स्यवरदाचार्यानुगृहीतः संग्रहो यथा - “अनादिकालात् भवदनिष्टाचरणात् संसृनवानस्मि, अद्य- षभृति अनुकूलो वर्तेय, प्रतिकूलाचरणं न कुर्याम् भवत्प्रात्प्यथ मद्धस्ते किमपि मूलधनं नास्ति, भवन्तमेवोपायतया निरचैषम्, भवानेवोपायो भवतु, अनिष्टनिवृत्ताविष्टप्राप्तौ वा ममेतः परं किं भरोऽस्ति” इति ।
साङ्गप्रपदनाधिकारः
१०५
(उत्तरकालानुवृत्तानामानुकूल्य तत्संकल्पादीनामनङ्गत्वम् )
अत्रानुकूल्य संकल्पादीनि उपायपरिकरतया सकृत् कर्तव्यानि भवन्ति । पश्चादेतत्प्रार्थितानुकूलवृत्त्यादिसाहित्यमपि उपायफला- त्मकम् । प्रातिकूल्यवर्जनमपि वात्स्यवरदाचार्यानुगृहीतरीत्याऽऽनु- कूल्य संकल्पवत् संकल्परूपत्वे सकृत्कर्तव्यमित्ययमर्थः सुस्पष्टः । “12 अपायेभ्यो निवृत्तोऽस्मि” इत्य्-उक्त-रीत्याऽभिसन्धिविरामरूपत्वेऽपि वा प्रातिकूल्य स्वरूप निवृत्तिरूपत्वेऽपि वा तत्र प्रथमक्षणकालिकमङ्गं भवति ; पाश्चात्यं च फलं भवितुमर्हति । एवं विश्वासेऽपि द्रष्टव्यम् । प्रवृत्तिरनुकूलेषु निवृत्तिश्वान्यतः फलम् । प्रारब्धसुकृताच्च स्यात् संकल्पे च प्रपत्तितः ॥
भतो जीवनकाले निरपराधकैङ्कर्यं प्रारब्धशरीरानन्तरं मोक्ष -च समुच्चित्य फलत्वेनोद्दिश्य प्रपत्त्यनुष्ठायिनस्तावत् निपुणाः ॥
( अधिकारार्थसंग्राहिका गाथा )
वेदमकुटघरा अस्मत्खामिन, निवर्ततां भर इति (मत्वा) अस्मान्
• रक्ष्यवस्तुत्वेन समर्पितवन्तः, तदाऽस्मान् प्राप्तुमभिलष्य महतीं कृपामावहतो महोपकारकस्य चरणयोरधस्तात्, सम्बन्धमात्रादेतदीयात्म स्वरूप रक्षकस्यै– कस्यात्मनो याथात्म्यं त्वं मा विस्मार्षीरिति (उपदिश्य ) ॥
अरवे परमेत्र डेक्कलम् वैत्तनरत्र नम्मै पेरवेकरुदिप पेरुन्दहवुर्टू पिरानडिक्कीड़
उरवे विनुयिर कात्रि वोरुयिरुमैयै नी मरवेलेन नम् मरैमुडिशूडिय मशवरें.
श्रीरहस्यत्रयसारे
युग्यस्यन्दन सारथिक्रमवति तय्यन्तसन्दर्शिते तत्त्वानां त्रितये यथार्हविविधव्यापारसन्तानिनि ॥ हेतुत्वं त्रिषु कर्तृभाव उभयोः स्वाधीनतैकत्र तत् स्वामिस्वीकृतयद्धरोऽयमलसस्तत्र स्वयं निर्भरः ॥
इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्रस्यत्रयसारे अधिकारिविभागाधिकारो द्वादशः ॥ श्रीमते निगमान्तमहा देशिकाय नमः
-0-0-