११ परिकरविभागाधिकारः

इयानित्थम्भूतः सकृदयमवश्म्भवनवान् दयादिव्याम्भोधौ जगदखिलमन्तर्यमयति । भवध्वंसोद्युक्ते भगवति भरन्यासवपुषः प्रपत्तेरादिष्टः परिकरविशेषः श्रुतिमुखैः ॥

(न्यासविद्यापरिकरः)

अस्यां विद्यायाः परिकरस्तावत् - आनुकूल्य संकल्प :- प्रातिकूल्यवर्जनं कार्पण्यं महाविश्वासो गोप्तृत्ववरणं च ।

परिकरविभागाधिकारः

९१.

1 आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्ववरण तथा । आत्म निक्षेपकार्पण्ये षड़िधा शरणागतिः " इत्यादिपूच्यमानं पाड्डिव्यमपि अष्टाङ्गयोग- व्यवहारवत् अङ्गाङ्गिसमुच्चयनिबन्धनमित्ययमर्थः, एषु किञ्चिदेक- मेवाङ्गि इतराणि अज्ञानीत्ययमर्थश्च,

निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः । संन्यासस्त्याग इत्य्-उक्तः शरणागतिरित्यपि” श्लोकेन न्यायनिरपेक्षं सिद्धौ ।

अत्र,

(मुमुक्षुभरन्यासे फलंत्यागरूपाङ्गान्तरम्)

इति

" शाश्वती मम संसिद्धिरियं प्रहृीभवामि यत् । पुरुषं परमुद्दिश्य न मे सिद्धिरितोऽन्यथा । इत्यङ्गमुदितं श्रेष्ठ फलेप्सा तद्विरोधिनी ॥" इत्यहिर्बुध्न्योक्तं फलत्यागरूपाङ्गान्तरं मोक्षार्थे आत्मनिक्षेपे नियतम् ॥ फलसङ्गकर्तृत्वादित्यागस्य कर्मयोग- प्रभृतिषु निवृत्तिधर्मेषु सर्वेषु अनुवृत्तेः एतदनुसंधानं मुमुक्षोः साङ्गसमर्पणदशायां कर्तव्यम् ।

(आनुकूल्य संकल्पाद्यङ्गानां निबन्धनं फलञ्च )

अत्र परिकर भूतेष्वानुकूल्यसंकल्पप्रतिकूल्यवर्जन योनि- बन्धनं सर्वशेषिणः श्रियः पत्युर्विषये प्रवृत्तिनिवृत्तिभ्यामभि-

● वर्तनस्य कर्तव्यतायाः प्रयोजकमेतद्गतं पारार्थ्यज्ञानम् । एतेन * आनुकूल्येतराभ्यां तु विनिवृत्तिरपायतः" इत्य्-उक्त-रीत्या अपाय- परिहारः सिद्धः ।

१२

श्रीरहस्यमयसारे ए

15

कार्पण्यं तावत् पूर्वोक्तस्याऽऽकिञ्चन्यादेरनुसन्धानरूपं वा तन्निबन्धन गर्वहानिरूपं वा कृपाजनककृपणवृत्तिरूपं वा भवत् शरण्य- कारुण्योत्तम्भनार्थं च सत् “5 कार्पण्येनाप्युपायानां विनिवृत्तिरि- “हेरिता” इत्य्-उक्त-रीत्या पश्चादप्यनन्योपायताया उपयुक्तं भवति ।

महाविश्वासः, ““रक्षिप्यतीतिविश्वासादमीष्टो पायकल्पनम् " " इत्य्-उक्त-रीत्या सहायान्तरनिरपेक्षानुष्ठानसिद्धयर्थः सन् पश्चात् निर्भरताया

-अपि प्रयोजको भवति ।

स्वरूपानुचित पुरुषार्थवत् स्वरूप प्राप्तोऽपवर्गोऽपि पुरुषार्थ- त्वात् पुरुषेणार्थितत्वे सत्येव दातव्य इत्यतोऽत्र गोप्तृत्ववरणमप्य- पेक्षितम् । समीचीनमपि कञ्चिदर्थं पुरुषेऽर्थयमाने सत्येव ददाती - त्यस्याभावे हि न पुरुषार्थं दत्तवान् स्यात् । अत एव हि “7 अप्रार्थितो -न गोपायेत्” इति, “8 गोप्तृत्ववरणं नाम स्वाभिप्रायनिवेदनम्” इति

चोच्यते ।

18

इत्थमिमानि पश्चापि एतद्विद्यानुष्ठानकाले उपयुक्तानीति इमानि अस्यात्म निक्षेपस्याविनाभूतखभावानि ।

( एषां प्रपत्यविनाभावस्य त्रिजटाविभीषणशरणागत्योः (प्रदर्शनम् ) अयमर्थः श्रीजानकीं शरणत्वेन वरीतुमागच्छतेति सात्त्विक- प्रकृतिकया त्रिजटया राक्षसीः प्रति उच्यमाने वाक्येऽपि सुदर्शः । ““तदलं क्रूरवार्यैः” इति प्रतिकूल्यवर्जनमभ्यधायि । “10 सान्त्व- मेवाभिधीयताम् " इत्य्-उक्तेः, मनःपूर्वकत्वमन्तरा वाक्प्रवृत्तेर संभवात् -आनुकूल्य संकल्पाकर्षण फलितम् । “11 राघवाद्धि भयं घोरं राक्ष-

परिकरविभागाधिकारः

९३

इत्यनन्यगतिकत्वावस्थायाः प्रतिपादनादधिकार

सानामुपस्थितम् " भूतमा किञ्चन्यम्, तदनुसन्धानमुखेन प्राप्तं गर्वहान्यादिरूपमङ्गभूत- “12 अलमेषा परित्रातुं राक्षस्यो महतो कार्पण्यं चाभिहितं भवति । भयात् " इत्य्-उक्तेः, एतद्विवरणतया “18 अलमेषा परित्रातुं रायवाद्राक्ष- सीगणम्” इति श्रीहनूमताऽनुवादाच्च भगवति केचिन्निजिवृक्षत्यपिः तत्क्रोधं प्रशमय्येयं रक्षणे समर्थेति, रक्षिष्यतीति विश्वासोऽभ्यधायि । " “14 अभियाचाम वैदेहीमेतद्धि मम रोचते” “15 भत्सितामपि. याचध्वं राक्षस्यः किं विवक्षया” इत्य्-उक्त-या गोप्तृत्ववरणमभ्यधायि । एषां पञ्चानामप्यङ्गिभृत आत्मनिक्षेपः, “16 प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा " इति प्रसादकारण विशेषप्रतिपादकेन प्रणिपात –

4617 “न्यासः पञ्चाङ्गसंयुतः” इति शब्देन विवक्षितः सिद्धः । अतः, शास्त्रार्थोऽत्र पूर्णः ।

इत्थमुपदिष्टे सति राक्षसीनामनिवारणमेवोपघ्नीकृत्य श्रीजानकी

कीवात्सल्यातिशयेन, “18 भवेयं शरणं हि वः” इत्यनुजग्राह । अस्य वाक्यस्य सहृदयतां फलपर्यन्ततां च " मातमैथिलि राक्षसी स्त्वयि तथैवाऽऽद्रापराधास्त्वया रक्षन्त्या पवनात्मजाल्लघुतरा रामस्य गोष्ठी कृता”. इत्यभियुक्ताः प्रकाशयामासुः । अत्र त्रिजटाया आत्मात्मीयसमर्पणे तस्या औत्पत्तिकसंबन्धात् अस्मदीया इति कटाक्षस्य विषयभूता राक्षस्यो ऽप्यन्तर्भूताः ।

एवमेव श्रीविभीषणेन सहाऽऽगताश्चत्वारो राक्षसा अपि तदीयोपायेऽन्तर्भूताः । तत्रत्ये अभयप्रदानप्रकरणेऽप्ययमङ्गाङ्गिवर्गः

९४

श्रीरहस्यनयसारे

अन्तर्गमयितुं शक्यः । कथमिति चेत् — प्रातिकूल्ये व्यवस्थितस्य रावणस्यापि, “प्रदीयतां दाशरथाय मैथिली”, “21 सीतां च रामाय निवेद्य देवीं वसेम राजन्निह वीतशोका : " इति हितवचनात् आनुकूल्य संकल्पः सिद्धः । इदं हितवचनं पित्तोपहतस्य तिक्ततयाभासमानं क्षीरमिव तस्योद्वेगहेतुः समपद्यत । “वां तुविकू कुलपांसनम्” इति धिक्कारे कृते सति, इतः परमस्मै नोपदेशो युक्तः, एतेनानुबद्धा विभूतयोऽपि नोचिताः, एतदधिष्ठितस्थाने निवासोऽपि न युक्त इति निश्चित्य “23

त्यक्त्वा पुत्रांश्च दारांश्च”,

24 परित्यक्ता मया लङ्का मित्राणि च धनानि च" इति खवाक्योक्तरीत्या तत्र- त्यसंबन्धविच्छेदेनावस्थानात् प्रातिकूल्यवर्जनाभिसन्धिः सिद्धः ।

1

रावणो नाम दुर्वृत्तः" इत्यारभ्य सर्वजितारावणेन सह विरोधात् स्वस्यागतिकतयाऽवस्थितेर्वर्णनेन, पश्चादपि 26 अनुजो रावणस्याहं तेन चास्म्यवमानितः । भवन्तं सर्वभूतानां शरण्यं शरणं गतः ॥" इत्य्-उक्त-या च कार्पण्यं प्रत्यपादि । निर्मयमागत्योपसृत्य, “27 सर्वलोकशरण्याय राघवाय महात्मने ।” इत्येवं प्रार्थनस्य प्रयोजको महाविश्वासः, “28 विभीषणो महाप्राज्ञः" इति कारणमुखेन प्रत्यपादि । प्राज्ञतावि- शेषकेन महच्छब्देन विश्वासातिशय एव विवक्षित इति वा । “२१ राघवं शरणं गतः" इत्य्-उक्त-या उपायवरणान्तनितं गोप्तृत्ववरण- मुक्तं भवति । उपायवरणशब्देन व्यञ्जितत्वमात्रातिरेकेण, “30 निवेद- यत मां क्षिप्रं विभीषणमुपस्थितम्” इत्य्-उक्त-या घटकपुरस्सर आत्म- निक्षेपः प्रतिपादितो भवति । अस्मिन् प्रकरणे निवेदन शब्दो विज्ञापनमात्रपरत्वे निष्प्रयोजनः । क

(29.

परिकरविभागाधिकारः

९५

इत्थमन्यान्येषु प्रपत्तिप्रकरणेषु लौकिकद्रव्यनिक्षेपेषु च संक्षेपविस्तर प्रक्रियया इमेऽर्थाः सुदर्शाः । स्वेन रक्षितुमशक्यस्य कस्य- चिद्वस्तुनः रक्षण समर्थस्य कस्यचित् सन्निधौ समर्पणावसरे स्वयं तद्विषये अनुकूलाभिसन्धिमान् भूत्वा प्रतिकूलाभिसन्धि हित्वा, अयं रक्षण- समर्थः, अपेक्षायां कृतायां रक्षणं कुर्याच्चेति विश्वत्य, स्वस्य रक्षणासामध्ये विनिवेद्य त्वया संरक्षितव्यमिति प्राथ्र्थ्य, रक्ष्यवस्तु तत्सन्निधौ समय स्वयं निर्भर: निर्भयमुरसि हस्तं निधाय शयित्वा खपितीत्येतद्-

यक्षयामः किल ।

(आनुकूल्य संकल्पादेर्द्वयेऽनुसन्धानस्थल प्रदर्शनम् )

एवं नियतमिदं सर्वं क्रियमाणार्थग्रकाशके द्वयाख्यमन्त्रे कथमनु- सन्धेयमिति चेत् — सार्वज्ञय सर्वशक्तियुक्तस्य कर्मानुरूपफलप्रदस्य सर्वोपकारनिरपेक्षस्य क्षुद्रदेवतावत् क्षिप्रकारित्वमन्तरा वर्तमानस्य समाधिकदरिद्रस्य सर्वेश्वरस्य अनन्तापराधवद्भिरभिगन्तव्यत्वम्, प्राप्तिविरोध्यनन्तापराधवद्भद्यो ऽपरिमितफलदातृत्वम्,

अल्पव्या-

पारस्य कृते दानम्, अविलम्बेन दानम्, तारतम्यानादरेण दानं च कथं घटेरन् इति शङ्कानां निवर्तकान् यथासंभवमुपायत्वप्राप्यत्वो- पयुक्ततया स्थितान् पुरुषकारसंबन्धगुणव्यापार प्रयोजन विशेष- रूपान् शेषिण आकारान् गर्भीकुर्वति श्रीमच्छब्दे नारायणशब्दे च आर्थितयाऽनुकूल्य संकल्पः प्रातिकूल्यवर्जनं चानुसन्धेये भवितुमर्हतः । एवं विशिष्टं स्वामिनं प्रकाशयन्तौ शब्दौ औचित्यात् तद्विषये प्राप्तमभिमतानुवर्तन संकल्पम् अनभिमतनिवर्तनं च प्रकाशयतः ॥

९६

श्री रहस्यत्रयसारे

एषां पुरुषकारादीनां पञ्चानां विशेषास्तावत् – अप्रत्याख्येयत्कं नाशयितुमशक्यत्वं निरुपाधिकत्वं सहकारिप्रतीक्षाराहित्यम् अतिनीचानां परेषां पुरुषार्थस्यैव स्वप्ररुषार्थत्वं चेति ( यथासंख्यम् ) ।

(महा विश्वासविरोधिपूर्वोक्तशङ्कापरिहारप्रकारः)

स्वतः-

एभिः पञ्चभिर्विशेषैः शंकापरिहारः कथं जात इति चेत्- सर्वज्ञः सर्वशक्तिश्च सन्नपि अप्रत्याख्येय पुरुषकारविशेषेण मन्तः- पुरपरिजनविषय इव अभिगन्तव्यताविरोध्यनन्तापराधान् क्षमित्या, एषां विषये ‘अविज्ञाता’ इति वर्णनार्हतयाऽवस्थितोऽभिगन्तव्यो भवति । कमीनुरूपफलप्रदः सन्नपि, अनेन प्रपत्तिरूपव्याजेन प्रसन्नः सन् स्वामित्वदासत्व संबन्धोपाधिकतया दायवत् प्राप्तमपरिमितं फलं ददीत । अवाप्त समस्त कामत्वात्सर्वोपकारनिर- पेक्षः सन्नपि, अल्पव्याजवशीकार्य सुजन सार्वभौमवत् स्वकीयन- रुपाधिककारुण्यादिभिः एतत्कृतं क्षुद्रव्यापारमपि स्वस्य परमोपकार- तयाऽऽद्रियमाणः सन् कृतज्ञः कार्य कुर्वीत । क्षुद्रदेवतावत् क्षिप्रकारी अभवन्नपि, इतरेषां शास्त्रार्थानां विलम्बेन फलं ददानोऽपि, अनन्य- शरणस्य प्रपत्तेः, औदार्यादिगुणसहितेन सहकार्यन्तरनिरपेक्षेण स्वसंकल्पमात्रेण काकविभीषणादिभ्य इव एतदुद्दिष्टकाले, अपेक्षित ददीत । समाधिकदरिद्रः सन्नपि यतः स्वातन्त्र्यादिगुणविशिष्टः स्वप्रयोजनतयाऽऽश्रितानामपेक्षितं साधयति अतः, कोसलजनपद स्थित- जन्तुभ्य इव, कुमारेण सह तिरथे शुकाय क्षीरप्रदानन्यायेन तारतम्यमनव- लोकयन् ददीत । इत्थं यथालोकं जातानां शङ्कानां यथालोकं परिहाराणां सत्त्वात् यथाशास्त्रं प्रपत्तेरपेक्षितसाधनत्वे न कापि हानिः ।

FIE

कृतवतः,

परिकरविभागाधिकारः

(महाविश्वा सासंभवतत्संभवोपपादनम् )

31

९७

इदं विशिष्टं पुरुषकारारादिपञ्चकं सदाचार्यकटाक्षविशेषात् प्रबुद्धवन्तं विनाऽन्यस्य महाविश्वासो नोदियात । कथमिति चेत् — ईश्वरस्यानभिमुखत्वात् कर्मयोगाद्यनर्हता पादक महापराधान् 1 घिगशुचिमविनीतम्" इति श्लोकोक्तरीत्या सुदुर्ल- भफलप्रेत्साजनकं चापलमावहतः, एतत्फलार्थमनुष्ठेयतया प्रसक्तं साधनं कायक्लेश-अर्थव्यय- कालदैर्घ्यादिषु यत्किञ्चिदेकमप्यनपेक्ष- माणमेकलं सकृदनुसन्धानं वा समुदायज्ञानपूर्वकसकृदुक्तिमात्रं वेति अनेन लघुतरोपायेन तस्य गुरुतरस्य फलस्य स्वोद्दिष्टकाले प्राप्ति कामयित्वा एतस्य फलस्य “शुनामिव पुरोडाशः " इति रीत्या जन्मवृत्तादिभिः वस्तुतः स्वयम नई इति ज्ञातवतः कस्यचित् " सानुबन्धिकेन स्वेनायं पुरुषार्थः प्राप्स्यते” इति महाविश्वासोत्पत्तौ दौर्लभ्यमभिसन्धाय, “आढकद्वाद- शक तिलभारस्थाने तावत्तैलमासीत् (मापन्नम् )” इति श्रीगोविन्दाचार्योऽ- नुजग्राह किल । अत्र सर्वेश्वरस्य परत्वमात्रं बुध्वा दूरीभवनेन नराधम इति संज्ञां प्राप्तवन्तं जातनष्टमपेक्ष्य गोपिकावत् विवेकाभावेऽपि सौलभ्य ज्ञात्वा तादृशकल्याणगुणकमेकं (भगवन्तं ) यः समाश्रयति, स एव परमास्तिक इति श्रीवाहिंहंसाम्बुदाचार्यानुगृहीता सूक्ति: ।

( महाविश्वासादीनां द्वयमन्त्रेऽनुसन्धानप्रदेशनिरूपणम् )

इत्थ पुरुषकारादिज्ञानेन निष्पन्नं विश्वास महत्त्व विश्वासस्वरूपं कार्पण्यं च “प्रपद्ये” इति क्रियापदोपसर्गे,

7

धीरहस्यत्र सारे

शरणशब्दोपलि घातौ, उत्तमे चानुसन्धेयानि । अत्रोत्तमे विवक्षितमर्थम् “अनन्यशरणः” इति गद्ये व्याचचक्षे । अत्रोपाय- स्वाध्यवसायवाचकशब्दे गोप्तृत्ववरण मन्तर्नीतम् । 633 8 अहमस्म्य-

• पराधानामालयोऽकिञ्चनोऽगतिः " “त्वमेवोपायभूतो मे भवेति प्रार्थना मतिः । शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यताम् ॥” इति, 4684 उपाये गृहरक्षित्रोः शब्दः शरणमित्ययम् । वर्तते सांप्रत त्वेष उपाययैकचाचकः ॥” इति चोक्ता :

रोक्तरीत्या उपायान्तराशक्तस्य

F

יין

सर्वेश्वरः सर्वशास्त्रार्थसाधारणे रक्षकत्वमात्रेऽनवस्थाय, स्वीकृतभरः सन् उपायान्तरस्थानेऽपि निविशते इत्यतोऽपि, न्यस्तभरस्यास्याधिकारिणः पश्चात्कालेऽप्यनन्योपायत्वदाढर्थार्थच उपायत्वाध्यवसायोऽत्र विवक्षितो भवति । उपायशब्दार्थस्य साघन विशेषमात्ररूपत्वेनास्योपायत्वस्य चेतनाचेतन साधारणत्वात्, 635 रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा” इति, 4436 " सर्वज्ञोऽपि च विश्वेशः सदा कारुणिकोऽपि सन् । संसारतन्त्रवाहित्वात् रक्षापेक्ष प्रतीक्षते ॥” इति चोक्तरीत्या चेतनैकान्तस्य गोप्तृत्ववरणस्यानु- सन्धेयत्वात् गोप्तृत्ववरणमंत्र विवक्षितम् । तत्र शरणशब्देन एक- स्मिन् प्रयोगेऽर्थद्वयाभिधानस्याशक्यत्वात् अस्याधिकारिणोऽसाधारण उपायत्वाध्यवसायोऽत्र शाब्दः, सर्वाधिकारिसाधारणं गोप्तृत्ववरणं खार्थमिति भवितुमर्हति !!परिकरविभागाधिकारः

(अधिकारार्थसंग्राहिका गाथा )

(गाथा) बोधयामासुः स्नेहवन्तः सन्देहहेतुभूतोपायाभावरूप- दारिद्र्यदु:खे सहायभूतस्य परस्य वरणप्रकारम्, संबन्धस्वरूपांशेना- - नापि विनाभूतानां सदृशा इति स्थितानां देवानां सविधे अस्माकं जन्मात्मकं दुःखं नाशयतेत्येवं याचनरूपोऽपराधो यथा न भवेत् तथा ॥

प्रख्यातः पञ्चषाङ्गः सकृदिति भगवच्छासनैरेष योगः तत्र द्वाभ्यामपायाद्विरतिरनितरोपायतैकेन बोध्या । एकेन स्वान्तदाढर्थं निजभरविषयेऽन्येन तत्साध्यतेच्छा तत्त्वज्ञानप्रयुक्ता त्विह सपरिकरे तादधीन्यादिबुद्धिः ॥

इति श्री कवितार्किक सिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीवेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्रहस्यत्रयसारे परिकरविभागाधिकार एकादशः

श्रीमते निगमान्तमहा देशिकाय नमः

८-

SIF FIB

परिवित्तनरम्बर ऐयम्परेयुमुपायमिल्लात् तुर वित्तनियिर्टरुणैयाम् परनै वरिषकुम है उरवित्तनैयित्रियोत्तारेन नित्र वुम्बरे नाम् पिरवित्तयर शेकुप्पीरेन्रिरक्कुम् पिडैयरवे.