१० प्रपत्तियोग्याधिकारः

अर्थिवेन समर्थता त्रितनुः संपिण्डिताऽधिक्रिया सा चाष्टाङ्गपडङ्गयोगनियतावस्था व्यवस्थापिता । श्रौती सर्वशरण्यता भगवतः स्मृत्याऽपि सत्यापिता सत्यादिष्विव नैगमेष्वधिकृतिः सर्वास्पदे सत्पथे ॥

इत्थमभिमतफलार्थमुपायान्तरनिस्स्पृहेण न्यासविद्यायां

प्रवर्तमानेन अस्या विद्याया अधिकार विशेषादिकं यथावद्वेदितव्यम् ।

८८

‘श्रीरहस्यत्र सारे

(सामान्यतः अधिकारनिरूपणम् )

अधिकारो नाम तत्फलोपायेषु प्रवर्तमानस्य पुरुषस्य फलेऽर्थित्वम् उपाये सामर्थ्यश्च । अत्र सामथ्यं नाम – शास्त्रार्थस्य ज्ञान

1 यथाज्ञानमनुष्ठाने शक्तिः शास्त्रानुमतजातिगुणादियोग्यता च । अयमधिकारः पूर्वमेव सिद्धो भवति ।

1

एतद्वतः प्रयोजनं सत् साध्यत्वेनानूद्यमानं यत्, तत् फलम् । तदर्थं साध्यत्वेन विधीयमानोऽर्थः उपायः ।

अत्र मुमुक्षुत्वे संपन्ने स्वतन्त्र प्रपत्तिरूपोपायविशेषनिष्ठस्य शास्त्रजन्य सम्बन्धज्ञानादिषु उपासक साधारणेषु सत्सु विशिण्यमाणो- ऽधिकारः स्वस्याऽऽकिञ्चन्यमनन्यगतित्वं च । आकिञ्चन्यं नाम- उपायान्तरसामर्थ्याभावः । अनन्यगतित्वं नाम — प्रयोजनान्तर- वैमुख्यम् । शरण्यान्तरवैमुख्यं वा ; इदं प्रयोजनान्तश्वैमुख्येना- प्यर्थसिद्धम् । अयमर्थः, “1ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः । प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम् ॥" इत्यादिषु द्रष्टव्यः | तीव्रतमं मुमुक्षुत्वमन्तरा देहानुवृत्त्यादिप्रयोजनान्तर- सक्तो मोक्षार्थं प्रपत्ति परिगृहीतवांश्चेत्, तत्तत्प्रयोजनान्तरावध्यनुरोधेन

मोक्षो विलम्बेत ।

( प्रपत्त्यधिकारस्य निबन्धनम् )

मस्याऽऽकिञ्चन्यस्यानन्यगतित्वस्य च निबन्धनमुपाया- न्तरेष्वस्याधिकारिणोऽज्ञानाशक्ती फलविलम्बा सहत्वं च । अत्र शरण्यान्तरवैमुख्यस्य निबन्धनम्, ““यथा वायोस्तृणामाणिप्रपत्तियोग्याधिकारः

८९

चशं यान्ति बलीयसः । धातुरेवं वशं यान्ति सर्वभूतानि भारत” इत्य्-उक्त-रीत्या खपरसाधारणस्य भगवदेकपारतन्त्र्यस्याध्यवसायः प्रयो- जनान्तरवैमुख्यं च ॥

414

शरण्य”

( तत्र प्रमाणम् )

18

अयं प्रपत्यधिकारविशेषः, स पित्रा च परित्यक्तः सुरैध समहर्षिभिः । त्रीन् लोकान् संपरिक्रम्य तमेव शरणं गतः ॥", ‘अहमस्म्यपराधानामालयोऽकिञ्चनोऽगतिः”, “अकिञ्चनोऽनन्यगतिः ““ अनागतानन्तकालसमीक्षयाऽप्यदृष्ट सन्तारोपायः” “7 तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्तेरन्यन्न मे कल्पकोटिसहस्रेणापि साधनमस्तीति "" शरणान्तरशून्यो दासोऽहम्" इत्येवमादिप्रमाण- `मन्वानः”, संप्रदायाभ्यां सिद्धः । एतावत्यधिकारे लब्धे प्रपत्तेर्जात्यादिनियमा- -भावात् सर्वाधिकारत्वं सिद्धम्

18

( अधिकारार्थसंग्राहिका गाथा )

(गाथा) ब्राह्मणान्त्यजावध्यन्तर्गताः ( आब्राह्माणात् आ चान्त्य- नात् स्थिताः) सर्वे लोका शोकाविष्टत्वरूपमुख्याधिकारेण, कृशाः अनन्या भूत्वा एत्य यथा आश्रयेयुः, तथा भक्ताः सुदृढकषां धृत्वा प्रयस्यन्तमस्मदीयमनन्तमादिं विदित्वा उपदिदिशुः ॥

पुहलोत्रिलावडियेन्- तिरुत्राय -6-10-10 अन्दणरन्दिय रेलैथिलं नित्र भने तलहुम् नोन्दवरे मुदलोक नुडङ्गि यनन्नियराय चन्दडैयुम वहै वन्तहवेन्दिवरुन्दिय नम् अन्दमिला दियै यन्बररिन्दरिवित्तनरे ॥

श्रीरहस्य वयसारे

भक्तयादौ शत्तयभावः प्रमितिरहितता शास्त्रतः पर्युदासः कालक्षेपाक्षमत्वं त्विति नियतिवशादापतद्भिश्चतुर्भिः । एकद्वितयादियोगव्यतिभिदुरनिजाधिक्रियाः संचयन्ते सन्तः श्रीशं स्वतन्त्रप्रपदनविधिना मुक्तये निर्विशङ्काः ॥

इति श्रीकवितार्किक सिंहस्य सर्वतन्त्रस्वतन्त्रस्य

श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्रहस्यत्रयसा प्रपत्तियोग्याधिकारो दशमः

FORD

श्रीमते निगमान्तमहा दे शिकाय नमः