०९ उपायविभागाधिकारः

उपाय: स्वप्राप्तेरुपनिषदधीतः स भगवान् प्रसन्यै तस्योक्ते प्रपदननिदिध्यासनगती । तदारोहः पुंसः सुकृतपरिपाकेन महता निदानं तत्रापि स्वयमखिलनिर्माणनिपुणः ॥

6

८२

8 : धीरहस्यत्रयसारे 110

(उपायोपयनिरूपणम्)

एषां कर्तव्य उपायस्तावत् कश्चित् ज्ञानविकास विशेषः । अनेन साध्यः प्राप्तिरूप उपेयश्च तावत् - कश्चित् ज्ञानविकासविशेषः । एतयोरुपायभूतो ज्ञानविकासविशेषः करणसापेक्षः शास्त्रविहितः सत्यत्वादिस्व-रूपनिरूपकधर्मपञ्चकसंवलित-तत्तद्विद्याविशेषप्रति- नियतगुणादिनियतब्रह्मविषयश्च भवति । उपेयभृतो ज्ञानविकास- विशेषः करणनिरपेक्षः स्वभावप्राप्तो गुणविभृत्यादिसर्वपरि- पूर्णब्रह्मविषयो भवति ।

उपासितगुणादेर्या प्राप्तावप्यवहिष्क्रिया ।

सा तत्क्रतुनयग्राह्या नाऽऽकारान्तरवर्जनम् ॥ प्राप्तिरूपस्यानुभवस्य परवाहात्मना कैङ्कर्यमुपेयम् ।

( भगवत उपायत्वोषेयत्वे )

अस्योपायरूपस्य प्राप्तिरूपस्य च ज्ञानस्य विषयभूतस्य सत ईश्वरस्य फलप्रदत्वभोग्यत्वादि वे पेणोपायत्वो पेयत्वे भवतः । इदमीश्वरस्योपायत्वमद्वारकप्रपत्तिनिष्ठविषये उपायान्तरस्थाननि- वेशेन विशिष्टं भवति । अधिकार्यन्तरविषयेऽपि कर्मयोगारम्भ- कालप्रभृतौ उपासनपूर्तिपर्यन्ते काले अन्तरालकर्तव्येष्वत्यन्ताशक्य विषयेषु एतत्प्रपत्तिवशीकृत ईश्वरः प्रविश्य स्थित्वा तैर्दष्कर कर्तव्यैः साध्यां पापनिवृत्ति सच्चोन्मेषादीनि चोत्पाद्य तमुपासनरूपमुपायं फलपर्यन्तं करोति ॥

उपायविभागाधिकारः

( कर्मयोगनिरूपणम् )

૮૨

तत्र कर्मयोगो नाम - शास्त्रेण जीव परमात्मयाथाम्यज्ञाने निष्पन्ने खशक्यैः फलसङ्गादिरहितैः काम्यकर्मभिः नित्यनैमित्ति- चैश्च सह सनियमं परिगृहीतः कर्मविशेषः । तत्रावान्तरभेदाः, -461 दैवमेवापरे यज्ञम्” इत्युपक्रम्य गीता: देवार्चन - तपस्तीर्थ- -दान-यज्ञादयः । अधिकारिभेदेन प्रपत्तिः स्वयं भक्ति द्वारीकृत्य अद्वारीकृत्य च यथा मोक्षहेतुर्भवति, तथाऽयं कर्मयोगो ज्ञानयोग द्वारी कृत्याद्वारीकृत्य च सपरिकरयोगमुखेनाऽऽत्मावलोकनसाधनं भवति ॥ ( ज्ञानयोगनिरूपणम् )

ज्ञानयोगो नाम - कर्मयोगोत्पन्नान्तःकरणजयेन पुंसा प्रकृत्यादि- विलक्षणस्य, ईश्वरं प्रति आधेयत्वविधेयत्वशेषत्वैः शरीरतया प्रकारभूतस्य स्वस्वरूपस्य मिरन्तर चिन्तनकरणम् । आभ्यां योगमुखेनाऽऽत्मावलोकने निष्पन्ने सति वैषयिक सुखवैतृष्ण्यावहे आत्मानुभवसुस्व-रूपे आकर्षके अनिमग्नश्चेत् (अग्नश्चेत् ), तर्हि परम- पुरुषार्थभूतस्य भगवदनुभवस्योपाये भक्तियोगे प्रवृत्तस्य तदा, अन्तरस्थलदर्शनार्थं वस्त्रग्रन्थिदर्शनवत्, अन्तर्यामिदर्शनार्थं तच्छरीर- भूतजीवात्मदर्शनमुपयुक्तं भक्तियोगाधिकारकोटौ निविशते ॥

(भक्तियोगनिरूपणम्)

भक्तियोगो नाम - अनन्यनिष्ठ अनन्याधीन-अनन्यशेष- मृत भगवत्स्वरूपादिविषयको निरतिशयप्रीतिरूपो ध्यान विशेषः । स च तैलधारावन्निरन्तरस्मृतिरूपः साक्षात्कारतुल्यवैशद्यवान्

८४

भीरहस्यत्रयसारे

परमपदप्रयाण दिवस पर्यन्तमहर हरनुष्ठानेन वर्धमानोऽन्तिमप्रत्यया- वधिको ज्ञानसन्ततिविशेषः । अस्य वर्णाश्रमधर्माः ज्ञानविकास- हेतुभृतसच्त्वविवृद्धिप्रतिबन्धक रजस्तमोमूलभूतपापनिबर्हणद्वारा इति- कर्तव्यता भवन्ति । अयं भक्तियोगः, ““प्रत्ययार्थं च मोक्षस्य सिद्धयः संप्रकीर्तिताः” इत्य्-उक्त-रीत्या दुर्बल चित्तानां विश्वासजननार्थ विहितोपाय- नीत्या कामनाभेदेनैश्वर्यादीनां साधनं भवतीत्ययमर्थः, “चतुर्विधाः भजन्ते माम्” इति गीतः । तत्र "" तेषां ज्ञानी नित्ययुक्तः एकभक्ति- विशिष्यते" इत्युपक्रम्य गीतं ज्ञानिनः समुत्कर्षम्, “चतुर्विधा म जना भक्ता एव हि ते स्मृताः । तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः ॥ अहमेव गतिस्तेषां निराशीःकर्मकारिणाम् । ये तु शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः । सर्वे च्यवनधर्माण:: प्रतिबुद्धस्तु मोक्षभाक् ॥” इति स्वयमेव प्रकाशयामास ।

(परभक्तिपरज्ञानपरमभक्तिनिरूपणम् )

इत्थं मोक्षोपायत्वेन विहितो भक्तियोगः परभक्ति- रित्यभ्यधायि । एतद्धेतुभूतः सात्त्विकपरिशीलनादिजनितो भगवद्विषये प्रीतिविशेषः, ‘सर्वेश्वरो विशदं ज्ञातव्यः इत्यभिनिवेशस्य कारणं सन् भक्तिरिति समाख्यायते । अनेन, ““शुद्धभावं गतो भक्तचा शास्त्राद्वेद्मि जनार्दनम् " इत्य्-उक्त-रीत्या शास्त्रजन्यतत्त्वज्ञान- कर्मयोगादिपरम्परया जाता परभक्तिः साक्षात्कर्तव्य इत्यभिनिवेशमुत्पाद्य, ““योगेश्वर ततो मे त्वं

उपायविभागाधिकारः

दर्शयाऽऽत्मानमव्ययम्”, ““दर्शनोपायमनुगृहाण”, “एकस्मिन् दिने दर्शनार्थमागच्छ” इति विलापदशामापाद्य एतदपेक्षामात्र निबन्धनेन भगवत्प्रसादविशेषेण तत्कालनियतं परिपूर्ण साक्षात्कार- मुत्पादयति । एष साक्षात्कारः परज्ञानमित्यभ्यधायि । इत्थं निरतिशयभोग्य भगवत्स्वरूप साक्षात्कार समनन्तरमेव अतिताप- -श्रमार्तस्य जलाशयदर्शनेनेव जातः प्रीत्यतिशयः परमभक्तिः । इयं “मुने चतुर्मुख” इति दशकोक्तरीत्या असंकुचितानुभवमन्तराऽऽत्म- चारणस्याशक्यतामापादयन्तमभिनिवेशमुत्पाद्य अप्रत्याख्येयलक्ष्मीविषयक - शपथपूर्व सनिर्वन्धाह्वानसाधनात् अस्य झटिति स्वप्राप्तिदानार्थं सर्वेश्वरस्य त्वरातिशयमुत्पाद्य एनमभिनिवेशोपशमनेन मोक्ष प्रापयति

( प्रपत्तेः परभक्तिस्थानापन्नत्वम् )

अयं भक्तियोग स्त्रैवर्णिकेतरेषाम्, त्रैवर्णिकेष्वपि ज्ञानतः शक्तित उभयतोऽपि वा न्यूनतावताम् फलविलम्ब सहनानिच्छापादक- तीत्रसंवेगवतां चायोग्य इति खस्थितीः विशदं विज्ञाय अद्वारकतया अपत्ति मोक्षोपायत्वेन परिगृह्णतां विषये सर्वफलसाधनभूतायाः प्रपत्तेः परभक्तिस्थाने चोदितत्वात् उपासकस्य परभक्तेः परस्ताज्जायमाना अवस्था इव, अस्य स्वतन्त्रप्रपत्तिनिष्ठस्य प्रार्थनानुगुणमेतत्पत्त्यनन्तरं जायमाना अनुकूलावस्था अस्याः फलभूताः ॥

काणुमार रुलायू

तिरुवाय् - 8-1-1

ओरु नाल काणवाराय् मुनिये ! नान्मुकने !

6-9-4

10-10-1

99

श्रीरहस्यत्रयसारे

(भक्तिप्रपत्योर्विकल्पभेदादिनिरूपणम्)

इत्थं भक्तिप्रपत्योरधिकारिविशेषं प्रति तुल्यफलत्वात विकल्पो भवति । एतयोः “11 नाना शब्दादिभेदात्” इत्यधिकरणे भेदः सिद्धः ; “12 विकल्पोऽविशिष्टफलत्वात्” इत्यधिकरणे विकल्पः सिद्धः । उपासने विशेषा इव शाखाभेदेषु भगवच्छास्त्रसंहिता भेदेषु क प्रतिपाद्यमानाः न्यासविद्यायां मन्त्रादिविशेषा द्रष्टव्याः ।

-102

नमस्कारे वाचिकमान सकायिकविभागवत् प्रपत्तावपि एकैकं पुरस्कृत्येमे विभागा उक्ताः । एषां त्रयाणां समवाये पूर्णनमस्कार- चत् पूर्णप्रपत्तिर्भवतीति प्रतिपादयतां वाचामपि वाचिककायि- कव्यापारविशेषौ परीवाहयन्त्याः मानसप्रपत्तेः पूर्ती तात्पर्यं ग्राह्यम् । यथाधिकारमेते सर्वेऽपि (विभागाः) फलप्रदा इत्येतमर्थं पूर्वमेवावोचाम ॥

अधिकारार्थसंग्राहिका गाथा )

( गाथा) सिद्धखाधिकारानुरूपतया स्थितं फर्म, सूक्ष्मबुद्धया समीचीनमिति अन्विष्टं ज्ञानम्, सुखमयान्तर्दृष्टि वहद्भिरैदम्पर्य- परिगृहीतां भक्तिम्, अकिञ्चनानां त्वरमाणानां भगवत्कृपया तत्काल एव फलप्रदमुपायं च विजानन्तो ब्राह्मणाः ॥

नित्रनिलैक्कुर निर्कुङ्करुममुं नेर्मतियाल नत्रेन नाडिय ज्ञानमुं नल्हु मुद्रकण्णुडैयार ओत्रिय पत्तियुमोनुमिलाविरैवार्करुलाल अनु पयन् तरुमारुमरिन्दवरन्दणरे ॥

!

उपायविभागाधिकारः

कर्म ज्ञानमुपासनं च शरणव्रज्येति चावस्थितान् सन्मार्गान् अपवर्गसाधनविधौ सद्वारकाद्वारकान् । एकट्या कृतियोगसंभृतपृथग्भावानुभावानिमान् सम्यक् प्रेक्ष्य शरण्यसारथि गिरामन्ते रमन्ते बुधाः ॥

इति कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य

श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्रहस्यत्रयसारे उपायविभागाधिकारो नवमः ॥

श्रीमते निगमान्तमहा देशिकाय नमः

SIPS

रीट

सा

श्रीः