०८ अधिकारिविभागाधिकारः

FIND REH

1 मित्रपुराणनडियिणैयेन्दु नेम्पयतुम् पोइले निलैयि- ब्रिड पोढगुपवकडलुम् नत्रिदु तीयदिदेविवर्नल रुळाले

-अपवन तरुमारुमरिन्दर अन्दणरे ॥

ou

ferreplic

B

॥ अधिकारिविभागाधिकारः ॥ मुमुक्षुत्वे तुल्ये सति च मधुविद्यादिषु यथा व्यवस्था संसिध्यत्यधिकृतिविशेषेण विदुषाम् । विकल्पयेत न्यासे स्थितिरितरविद्यासु च तथा नियत्या वैयात्यं नियमयितुमेवं प्रभवति ॥

(अधिकारिद्वैविध्यम्)

R

Naga

इत् परमपुरुषार्थोपायेषु निवृत्तिधर्मेषु प्रवृत्तावधिकारिणौ द्वौ,

-अद्वारकप्रपत्तिनिष्ठः सद्वारकप्रपत्तिनिष्ठश्चेति ।

स्वतन्त्राङ्गप्रपत्तिभ्यां प्रपन्नावत्र तावुभौ ।

फलसाधनभक्तिम्यां भक्तावपि च दर्शितौ ॥

(उक्तिनिष्ठाचार्यनिष्ठयोः प्रपत्यन्तर्भावः)

स्नानं सप्तविधं स्मृतम्" इत्य्-उक्त-रीत्या यथाधिकार मान्त्र मानस दिव्यवायव्यादयोऽपि यथा तुल्यफलाः स्नानभेदाः,

• एवमुक्तिराचार्यनिष्ठेति द्वे अपि प्रपत्तेर्मुखभेदो ।

(उक्तिनिष्ठा)

अत्रोक्तिर्नाम - आनुकूल्य संकल्पाद्यङ्गेषु ज्ञानवैशद्य र हितैः तं विनोपायान्तरशून्यतयाऽवस्थितिरूप मधिकारम्, अपेक्षायां कृतायां रखेदिति विश्वासं च महद्भिः शरण्यविदितत्वात् पूर्णप्रपत्तिगर्भेण आचार्योपदिष्टवाक्येन – धात्रयुकं वाक्यमुक्त्वा सार्वभौमं शरणं

७६

श्रीरहस्यत्रयसारे

गच्छद्भिर्मुग्धैः, सामन्तकुमारैरिव ‘मद्रक्षा त्वदेकभरत्वेन स्वीकर्त– व्या’ इति प्रार्थनम् । पदवाक्यादिवृत्तान्तानभिज्ञेन वालेन जातु - “भवति भिक्षां देहि” इत्य्-उक्ते- सति आठ्यानां सतां गृहेषु. तदेवापेक्षितसिद्धिर्यथा भवति तथा, ““ग्रहणेऽपि न्यूनताहीनो ऽपेक्षितं सर्वं ददत् ” इत्य्-उक्त-खभावस्य परिपूर्णपरमोदारस्य विषयेऽस्याः उक्तेरपि फलाविनाभावो भवति । ज्ञानहीनानामिदमुक्तिमाल– मवलम्बमानानां विषये, येन केनापि प्रकारेण द्वयवक्ता त्वम् इत्य्-उक्त-रीत्या इदमुक्तिमात्रमपि न जरयेत् शरण्यस्य कृपा । इममर्थः “4 पापीयसोऽपि शरणागतिशब्दभाजः” इति, ““शरणवरणवागिय योदिता न भवति बत साऽपि घीपूर्विका” इति प्रपत्तिवाचैव निरीक्षितुं वृणे” इति चाभियुक्ता आचचक्षरे । अस्योक्तिमात्र- निष्ठस्य, आचार्यनिष्ठस्य च स्थिती द्वे अपि "” तव भरोऽहमकारिषि धार्मिकैः शरणमित्यपि वाचमुदैरिरम् । इति ससाक्षिकयन्निदमद्य मां कुरु भरं तव रङ्गधुरन्धर ॥” इति समुच्चित्यानुसंदधिरे । अत्राधिवय- द्योतकेन अपिशब्देन एकैकमेव पर्याप्तमिति सूचितं भवति ।

1

(आचार्य निष्ठा)

अनयोराचार्यनिष्ठः, ““पुत्रः प्रेष्यस्तथा शिष्य इत्येवं च निवेद– येत्” इति शाण्डिल्यस्मृत्याद्युक्तरीत्या आचार्यकृते आत्मात्मीय- भरसमर्पणे स्वयमप्यन्तर्भूतः । "” सिद्धिर्भवति वा नेति संशयोऽच्युत – सेविनाम् । न संशयोऽत्र तद्भक्तपरिचर्यारतात्मनाम् " इत्य्-उक्त-न्यायेन

1 कोळ्ळकुकुरैविलन् वेण्डिल्लां तरुम् तिरुवायू-4-9-5

अधिकारिविभागाधिकारः 8

७७

आचार्यनिष्ठस्य कैमुतिकन्यायेन फलसिद्धौ न सन्देहः । " एकस्मात् गिरे- गिर्यन्तरं धावतः सिंहस्य शरीरे जन्तव इव भाष्यकारे संसारं लङ्घयति -सति तत्सहजसंबन्धात् वयमपि उत्तीर्णा भविष्यामः” इति दाशरथिनाम्नः स्वामिनो ( मुदलियाण्डान् ) वाणी ।

“10 अन्धोऽनन्घग्रहणवशगो याति रङ्गेश यद्वत् पङ्गुर्नीका कुहरनिहितो नीयते नाविकेन ।

भुङ्क्ते भोगान् अविदितनृपः सेवकस्यार्मिकादिः - त्वत्संप्राप्तौ प्रभवति तथा देशिको मे दयालुः ॥”

PE

इति न्यासतिलकेऽवोचाम । येन केनापि वा प्रकारेण भवतु :- येन केनापि च पुंसाऽनुष्ठिता भवतु प्रपत्ति विना तु सर्वेश्वरः परमपुरुषार्थदानार्थं न दयेतेति सिद्धम् ॥

(भागवताभिमानादेः साक्षादसाधनत्वम् )

इत्थं “11 पशुर्मुनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् ॥” इति, “12 ते वयं भवता रक्ष्याः भवद्विषयवासिनः । नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वर ॥” इति, “18 समीचीनस्थानेऽयोध्यायां जीवितवन्ति चराचराणि सर्वाणि सत्स्वभावं प्रापितवन्तम् " इति, “14 बलं नाम त्वदालय-

1 नर्षालयोत्तियि बाहुं चराचरं मुर्टवुं नर्पालुक्कुयूत्ततन् तिरुवाय - 7,5.1.

2 वन्मैयावदु निन कोयिलिलं वाहूं वैणवनेतुं वन्मै पेरिया 5.1.6

७८

8 : श्रीरहस्यत्रय सारे

वासी वैष्णव इति बलम् " इत्युच्यमानानां भागवताभिमान- भगवद्विपयवासादीनां स्वकृतेन परकृतेन वा, पूर्वकृतेन पश्चात् करिष्यमाणेन वा केनचिदुपायेन संबन्धो भवति । कथमिति चेत् - इमानि उपासने प्रपत्तौ वा प्रवर्तनेन, उत्पन्नोपासनस्योत्तरोत्तरोपचयाss- पादनेन, स्वतन्त्रप्रपत्यनुष्ठानं कृतवत: ऐहिक कैङ्कर्याभिवृद्धिसंपादनेन भगवत्प्राप्तौ त्वरोत्पादनेन चोपकारकाणि भवन्ति ॥

(अङ्गप्रधान प्रपत्तिफलभेदः)

एतयोरधिकारिणोः व्यासादिवत् उपायान्तरसमर्थत्वादा- किञ्चन्यमन्तरा, विलम्बक्षमत्वादनन्यगतिकत्वं च विना वर्तमानस्य सद्वारकप्रपत्तिनिष्ठस्य प्रारब्धकर्मपर्यवसानमाव्यन्तिमप्रत्ययावधिकस्योपा- सनरूपाङ्गिनो यथावन्निष्पत्तिपूर्वको मोक्षः फलम् । सर्वाधिकारां सर्वा– निष्टनिवर्तनक्षमां सर्वेष्टसाधनभूतां सुकरां सकृत्कर्तव्याम् आशु- कारिणीं प्रतिबन्धानहीं ब्रह्मास्त्रवत् स्वफलविषये उपायान्तरप्रयोग- मसहमानां प्रपत्ति स्वाधिकारानुगुणमद्वारकं स्वीकृतवतः पुंसः परिपूर्णानुभवप्रतिबन्धकस्यान्यस्य कस्याप्यभावात् प्रपत्तिक्षणमारभ्य, “15 अत्र संचरतो मम हीनता का” इति “16 इमं रस विहायाहं गत्वेन्द्र- लोकपालनजं रसं प्राप्यमपि नेच्छेयम् " इति “17 अनुरूपं परिपूर्ण शशं

1 इङ्ग तिरिन्देर्क इडुक्कर्टरेन 8.10.4.

2 इच्चुवै तचिर यान् पोय् इन्द्रलोकामत्ळुमच्चुवै पेरितुम् वेण्डेन तिरुमालै 2

3 एरार मुयल विट्टक्काकैपिन् पोवदे (शिरिथतिरुमटलं )अधिकारिविभागाधिकारः 8

७९

हित्वा काकानुधावनं कुतः” इति “18 स्नेहो मे परमो राजन् त्वयि नित्य: प्रतिष्ठितः । भक्तिश्च नियता वीर भावो नान्यत्र गच्छति ॥” इति चोक्त. रीत्या अनेन शरीरेण सह स्थित्वा कैङ्कर्यानुभवः कर्तव्य इत्यभिसन्धे- हेतुभूतादर्चावतारादिसङ्गादुपनतया स्वानुमत्या स्थापितस्य शरीरस्या- वसानेनैवावधिमान् देशकालस्वरूप परिच्छेदवता ऐहिकेन कैङ्कर्यफलोद्र- मेन प्रथमेन सहितः पतिपूर्ण कैङ्कर्यपर्यन्तमोक्षः फलम् ॥

(प्रपत्तेर्यथाभिमतफलसाधनत्वम् )

  1. " वरं वरय तस्मात् त्वं यथाभिमतमात्मनः । सबै संपत्स्यते पुंसां मयि दृष्टिपथं गते ॥” “20 किं वा सर्वजगत्स्रष्टः प्रसन्ने त्वयि दुर्लभम्”, “21 तस्मिन् प्रसन्ने किमिहास्त्यलभ्यम्” “2 (कं लोके तदिह परत्र चापि पुंसां यत् विष्णुप्रवणधियां न दाल्भ्य ! साध्यम्”, “2 फलमत उपपत्तेः” इत्य्-उक्त-रीत्या सर्वेश्वरस्य सकलफलप्रद - त्वात् तच्चरणयोः प्रपत्तेः

सकलफलसाधनत्वादेवामधिकारिणा…

मुभयेषामियं सकलफलहेतुर्भवति ।

4124

(भक्तेरिव प्रपत्तेश्चतुर्विधफलसाधनत्वम् )

2

" चतुर्विधा भजन्ते माम्" इत्य्-उक्त-तयोपासनं यथा चतुर्विधफलसाधनं भवति, तथा तावदार्तिस्तथा वाञ्च्छा तावन्मोहस्तथाऽसुखम् । यावन्न याति शरणं त्वामशेषाघनाशनम् ॥” इति प्रपत्तिरप्यस्य चतुर्विधफलस्य साधनमिति किल महर्षयः सिद्धान्तयन्ति । अत्र “अशेषाघनाशनम्” इत्य्-उक्ते-, “तावत्” इत्यस्य

प्रत्यधिकारमावर्तनाच्च तदपेक्षितफलं निर्दिष्टकाले यथामनोरथं सिध्येत् (इति प्रतीयते) ॥

आदर प्रत्यायनाय

सर्वमेत-

८०

श्री रहस्यत्रयसारे 18

(स्वतन्त्रप्रपत्तिनिष्ठस्योत्कर्षः)

एवविधं समुत्कर्षमभिसन्धायैव, “26 सत्कर्मनिरताः शुद्धाः सांख्य- - योगविदस्तथा । नार्हन्ति शरणस्थस्य कलां कोटितमीमपि ॥” इत्युच्यते ।

प्रपन्नस्यैहिककै कर्यवैषम्ये हेतुः )

अस्येह जीवनकाले कैङ्कर्ये वैषम्यं स्वाभिप्रायवैषम्यात् प्राप्तम् । तस्य हेतुः प्रारब्धसुकृतविशेषः । अन्तिमशरीरानन्तर प्राप्ये पुरुषार्थे किमपि वैषम्यं नास्ति । पारतन्त्रच मेकरूपम् । - 427 पारतन्त्रयं परे पुंसि प्राप्य निर्गतबन्धनः । स्वातन्त्रयमतुलं प्राप्य तेनैव सह मोदते" इति फलदशायामुच्यमानं स्वातन्त्रयमपि कर्मवश्यत्वापायविशिष्ट सर्वविधकैकययोग्यतारूपमिति फलपादे निर्णीतम् ॥

(अधिकारार्थसंग्राहिका गाथा )

(गाथा) अपेक्षणीयो महापुरुषार्थो मोक्ष इति विज्ञाय विधिभेदात् दीर्घतया हखतया च स्थितयोर्निष्ठयोर्योग्या भक्ताः एकस्यां प्रवृत्त्य, मूलकर्मणां विनिवर्तने मुकुन्दचरणाश्रयणमन्तराऽन्यः कचिदुपायो नास्तीति स्थिताः ॥

1 वेण्डु पेरुं पयन् वीडेनरिन्दु विदिवयाल नीण्डुकुरुहियु निर्फ निले हळुके कुंमन्यर मूण्डोबिल मूलबिनै मार्नु दलिल मुकुन्दनडि ‘पुण्डत्रि मट्रोर हसोत्रिलै येन नित्रनरे ॥

अधिकारिविभागाधिकारः 8

प्रपन्नादन्येषां न दिशति मुकुन्दो निजपदं प्रपन्नश्च द्वेधा सुचरितपरीपाकभिदया । विलम्बेन प्राप्तिर्भजनसुखमेकस्य विपुलं परस्याऽऽशु प्राप्तिः परिमितरसा जीवितदशा ॥

इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्रहस्यत्रयसारे अधिकारिविभागाधिकारोऽष्टमः ॥

श्रीमते निगमान्तमहा देशिकाय नमः

-0-

P

श्रीः