श्रीः
rely
मुमुक्षुत्वाधिकारः
क
B
कालावर्तान् प्रकृतिविकृती : कामभोगेषु दोषान् ज्वालागर्तप्रतिमदुरितोदकं दुःखानुभूतिम् ।
याथातथ्यं स्वपरनियतं यच्च दिव्यं पदं तत् काराकल्पं वपुरपि विदन् कस्तितिक्षेत बन्धम् ॥
इत्थमिमान् अर्थान् अध्यात्मशास्त्रैर्विशदं ज्ञात्वा स्वयंप्रकाशत्व- ज्ञातृत्वकर्तृत्व भोक्तृत्वशरीरित्वाणुत्वनित्यत्वनिश्वयत्व च्छेद- नदहन क्लेदनशोषणाद्यनर्हत्व - वृद्धिहासरहितस्वरूपत्वादिभिरात्मनो विशेषण भूतदेहेन्द्रियादिवैलक्षण्यं दृष्ट्ा, अस्य परलोकगमन देहा-
मुमुक्षुत्वाधिकारः
७१
तारप्राप्तियोग्यत्वनिश्चयेन सामान्यतो लोकोत्तीर्ण पुरुषार्थयो- ग्यतामापन्नाः नरकपतनादिजन्मान्तर क्ले शभयात् तत्कारणेभ्यः कर्मभ्यो निवृत्ताः -
आधेयत्व विधेयत्वशेषत्वाल्पशक्तित्वाणुत्व - अज्ञानसंशय- विपर्ययदुःखादियोग्यत्व- अशुभाश्रयत्वादितो जातात् विशेष्यभूतेश्वर- - व्यावृत्तिनिचयात् भगवत्कैरूपस्व-रूपप्राप्तवैभवापेक्षणे योग्यतामापन्नाः-
( श्री मन्त्रार्थज्ञानेन नानाविधाहंकारम मकारनिवृत्तिः) सर्वापेक्षितार्थसंग्रह भून श्री मन्त्रमुखेन सारतमार्थेष्वनुसंधीयमानेषु
सत्सु प्रथमपदे
तृतीयाक्षरप्रतिपन्नज्ञानत्वाद्यनुसन्धानेन देहतदनुबन्धिविषयावहंकारममकारौ, प्रथमाक्षरे लुप्तचतुर्थी- प्रतिपन्नेन तादर्थेन देहातिरिक्तात्मस्वरूप तद्गुणेषु “वं मेऽहं मे” इति श्लोकोक्तरीत्या स्वशेषस्वाभिमानरूपावहंकारममकारी, मध्यमा- क्षरेऽवधारणार्थेन " अन्यशेप भूतोऽहम्” इति " ममान्यः शेषी" इति च प्रवर्तमानावहंकारममकारौ, मध्यमपदप्रतिपन्नेन निषेध- विशेषेण स्वरक्षणव्यापारविषये पर्बतमानौ निरपेक्ष स्वातन्त्र्य- निरुपाधिकशेषित्वाभिमानरूपावहंकारममकारौ,
एतन्निषेध-
सामर्थ्येनैव तृतीयपदे चतुर्थ्यभिप्रेते भाविनि कैङ्कर्यपर्यन्तानुभव- रूपे फले विषये इदानीन्तनफलान्तरानुभवन्यायेन प्रवर्तमानौ खाधीन- कर्तृत्वभोक्तृत्व स्वार्थ कर्तृत्वभोक्तृत्वभ्रमरूपौ अहंकारममकारौ च यथाह आर्थविधया शाब्दविधया च समुन्मूल्य इत्थं प्रतिष्ठितज्ञाना:-
७२
भोरहस्यत्रयसारे
(सदोषनिर्दोषफल विवेचनम् )
4
““अल्पसारभूतान् आस्वाद्य दूरेऽभवम्” दृष्ट्वा श्रु स्पृष्ट्वा घ्रात्वा भुक्त्वा संचरद्भिः पञ्चभिरिन्द्रियैर्दृष्टमानन्दम्, ज्ञातुमशक्यं निरवधिकं क्षुद्रानन्दं (च)”, “4 तस्मिन् प्रसन्ने किमिहास्त्यलभ्य घर्मार्थकामैरलमरूपकास्ते” “ ँअन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्”, 16 अनित्यमसुखं लोकमिमं प्राप्य भजख माम्” “7 महाबलान् महावीर्यान् अनन्तधनसंचयान् । गतान् कालेन महता कथाशेषा नराधिपान् । श्रुत्वा न पुत्रदारादौ गृहक्षेत्रादिकेऽपि वा । द्रव्यादौ वा कृतप्रज्ञो ममत्वं कुरुते नरः ॥" ’ 8 सर्वं दुःखमयं जगत् "" “स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ।” “10 राज्ये गृघ्नन्त्यविद्वांसो ममत्वाहृतचेतसः । अहम्मनमाहापानमदमत्ता न मादृशाः ॥” “11 आब्रह्मभवनादेते दोषाः सन्ति महामुने । अत एक हि नेच्छन्ति स्वर्गप्राप्ति मनीषिणः " “12 ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः- परमं पदम् । शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद्विदुः ॥ न तत्र मूढार गच्छन्ति पुरुषाः विषयात्मकाः । दम्भलोभमदक्रोधद्रोहमो हैरभिद्रुताः ॥ निर्ममा निरहंकारा निर्द्वन्द्वाः संयतेन्द्रियाः । ध्यानयोगरताश्चैव तत्रा गच्छन्ति साधवः ॥” “15 रम्याणि कामचाराणि विमानानि सभास्तथा ॥ मुमुक्षुत्वाधिकारः-
अर्पशारङ्गलंवैशुवैत्त हन्त्रोडिन्देन्’ – तिरुवाय् - 3-2-6, कण्डकेट्टु उर्दुमोन्दु उण्ड उडलुमैरुवि
कण्डविम्बम् . तेरिवरिय अळविल्लाच्चिर्द्विन्बम् ” 4-9-10
मुमुक्षुत्वाधिकारः
७३
आक्रीडा विविधा राजन् पद्मिन्यश्चामलोदकाः ॥” “14 एते वै निरयास्तात स्थानस्य परमात्मनः ।” इत्यादिप्रमाणैः अल्पत्वास्थिरत्व- दुःखमूलत्वदुःखमिश्रत्व दुःखोद र्कत्व विपरीताभिमानमूलत्वस्वा- भाविकानन्दविरुद्धत्वरूपाचिद्विषयानुभवदोषसप्तकम्, यथासंभवं घटमानान् चेतन मात्रानुभवदोषांश्च, एतदनुभव- प्रतिकोटिभूतस्य भगवदनुभवस्य वैलक्षण्यं च विशदमनुसन्धाय-
अल
“15 परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि” इत्य्-उक्ता- - मवस्थां प्राप्ताः, “16 प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत् ” इत्य्-उक्ते-भ्यः प्रवृत्तिधर्मेभ्यो निवृत्ताः “ 17 निवृत्तिलक्षणं धर्मम् ऋषिर्नारायणो ऽब्रवीत्” इत्य्-उक्ते-षु निवृत्तिधर्मेषु प्रवृत्ता ये, ते मुमुक्षवोऽधिकारिणः॥.
(केवलं तत्त्वज्ञान स्याफलेत्वम् ।)
19
पूर्वोक्तरीत्या परावरतच्चेषु पुरुषार्थेषु सम्यग्ज्ञातेष्वापि इत्थं वैराग्यपूर्वकं परमपुरुषार्थोपायानुष्ठाने चेदप्रवृत्तः, “18 शीलवृत्त फलं श्रुतम् ”, “18 शमार्थं सर्वशास्त्राणि विहितानि मनीषिभिः । तस्मात् सः सर्वशास्त्रज्ञो यस्य शान्तं मनस्सदा ॥" इत्य्-उक्त-ं श्रुतफलमप्यलब्ध्वा ८. 20 नाच्छादयति कौपीनं न दंशमशकापहम् । शुनः पुच्छमिवानथे । पाण्डित्यं धर्मवर्जितम्" इत्येवं हास्यो भवति ।
भतः,
“ 21 वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ।
वेषवाग्वृत्तिसारूप्यमाचरन् विचरेदिह " इत्य्-उक्त-रीत्या श्रुतानुरूपे. स्वोचिते परमपुरुषर्थोपायानुष्ठाने त्वरमाणा : “ ( सति) स्वं कर्म
6622
७४
श्रीरहस्यत्र सारे
कुर्वाणे परेऽभिनन्दन्ति" इत्य्-उक्त-रीत्या “23 देवा ब्राह्मणं विदुः " *” 24 प्रणमन्ति देवताः” “इत्यादिषु प्रतिपाद्यमानं समुत्कर्षं प्राप्नुयुः ॥
(अधिकारार्थ संग्राहकगाथा )
P
(गाथा) - ( श्रिया ) स्थितपुराण ( पुरुष ) पादद्वन्द्वोत्तंसनरूपं नित्य- फलम्, नाश एव खभाव इति कथनार्हतया जृम्भमाणं भवसमुद्रम्, सदिदे दुष्टमिदमित्युपदिष्टवतां समीचीनकृपया जित्वेन्द्रियाणि मोक्षमेवापेक्षेत महाफलम् ॥
विषमधु वहिष्कुर्वन् धीरो वहिर्विषयात्मकं परिमितरस स्वात्मप्राप्तिप्रयासपराङ्मुखः । निरवधिमहानन्दत्रमानुभूति कुतूहली
जगति भविता दैवात् कविजिहासिवसंसृतिः ॥
इति कवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे सुमुक्षुत्वाधिकारः सप्तमः ॥
श्रीमते निगमान्तमहा दे शिकाय नमः