श्रीः
॥ तत्त्ववयाधिकारः पञ्चमः ॥
प्रकृत्यात्मभ्रान्तिर्गलति चिदचिलक्षणधिया तथा जीवेशैक्यप्रभृतिकलहस्तद्विभजनात् । अतो भोक्ता भोग्यं तदुभयनियन्तेति निगमै- विभक्तं नस्तच्चत्रयमुपदिशन्त्यक्षतधियः ॥
(तत्त्वत्रयनिरूपणप्रयोजनम्)
संवन्धोऽथपञ्चकं चेति षट्स्वर्थेषु ज्ञातव्येषु सत्सु एतदक- देशभूतं तत्त्वत्रयम्, मुमुक्षुणा विशिष्य ज्ञातव्यमित्युपदिशता- माचार्याणामस्य संप्रदायस्य किं मूलमिति चेत् — अस्य मूलं. प्रकृत्यात्मभ्रम- स्वतन्त्रात्मभ्रम - तत्रिदानानीश्वरवादरुचिरूपाणां महाविरोधिनां प्रथमतो निरसनस्य प्राप्तत्वमेव । एतदभिप्रेत्यैवः भोक्तृभोग्यनियन्तुरूपेण शास्त्रेषु तच्चविवेकः क्रियते ।
(तत्त्वत्रयस्वभावनिरूपणम्)
एतन्मध्ये “अचेतना परार्था च नित्या सततविक्रिया । त्रिगुणा कर्मिणां क्षेत्रं प्रकृतेः रूपमुच्यते ॥”, “अनादिर्भगवान् कालो नान्तो- ऽस्य द्विज विद्यते”, “8 कलामुहूर्तादिमयश्च कालो न यद्विभूतेः- परिणामहेतुः “, " " ज्ञानानन्दमया लोकाः “, “कालं स पचते तत्र
तत्त्वत्रयाधिकारः (5)
३९
न कालस्तत्र वै प्रभुः ।” इत्यादिषु त्रिगुणकालशुद्धसत्त्वरूपाणां त्रिविधाचेतनानां स्वभावोऽभ्यधायि । "” पुमान्न देवो न नरः " “7 नायं देवो न मर्त्यो वा”, ““क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते”, यद्वै पश्यन्ति सूरयः” इत्यादिभिस्त्रिविधजीवानां प्रकारो व्यवेचि । “10 सर्वज्ञः सर्वदृक् सर्वशक्तिज्ञानबलर्द्धिमान् । क्कुमतन्द्रीभय- क्रोयकामादिभिरसंयुतः ॥” इत्य दिभिरीश्वरखभाव उपदिष्टोऽस्ति ।
(तत्त्वत्रयस्थितिप्रतिपादक पूर्वाचार्यवचनव्याख्या)
11 स्वा-
अस्येशेशितव्यरूपस्य तत्त्वत्रयस्यावस्थितिप्रकारम्, घीनत्रिविधचेतनाचेतनस्व-रूपस्थितिप्रवृत्तिभेदम्" इति संगृह्यानुजगृहु: । त्रिविधचेतनेत्युच्यन्ते बद्धा मुक्ता नित्याश्च । त्रिविधाचेतनेति निर्दिश्यन्ते त्रिगुणद्रव्य -काल- शुद्धसत्त्वद्रव्याणि । स्वरूपं नाम खासाधारणधर्मेण निरूपितं धर्मि । स्थितिर्नाम - एतस्य कालान्तरानुवृत्तिः । इयंवनित्यवस्तूनां नित्या वर्तते ; अनित्यव- स्तूनामीश्वर संकल्पानुसारेणाधिककाला न्यूनकाला च वर्तते । अत्र प्रवृत्तिर्नाम प्रवृत्तिनिवृत्तिरूपो व्यापारः । इदं सर्वं प्रतिवस्तु प्रमाणप्रतिनियतं वर्तते । प्रमाणानि वस्तुप्रदर्शनकाले तत्तद्वस्तूनां श्वरूपं स्वरूपनिरूपकधर्मान् निरूपितस्वरूपविशेषणानि व्यापारांच प्रदर्शयन्ति । तस्य तत्र स्वरूपं स्वरूपनिरूपकधर्मैर्विशिष्टमेव प्रदर्शयन्ति । स्वरूपस्य प्रतिपादनावसरे तत्तद्धर्मापुरस्कारेण प्रतिपादनम- शक्यम् । तान् परिहृत्य दर्शने शशविषाणतुल्यं भवति ।
४०
श्रीरहस्यत्रयसारे (जीवस्वरूपादिनिरूपणम्)
अतो जीवस्वरूपं ज्ञानत्वानन्दत्वामलत्वाणुत्वादिभिर्नि- रूपकधर्मैर्निरूप्य ज्ञानमानन्दोऽमलमणु इत्येवंप्रका : व्यवहर्तव्यं भवति । इदं जीवतत्त्वं सर्वेश्वरस्य शेषभूतमेव वर्तते इति, तस्यैव निरुपाधिकशेषमिति चायोगान्ययोगव्यवच्छेदाभ्यां प्रतिपन्नस्य शेषत्वस्य सम्बन्धरूपत्वात् सम्बनधिस्वरूपनिरूपणमन्तरा ज्ञातुमशक्यत्वात् जीवस्येदं निरूपित स्वरूप विशेषणमिति
सुवचम् । अणुत्वे सति चेतनत्वमिव स्वतः शेषत्वे सति चेतनत्वापि जीवलक्षणं भवितु- मर्हतीति हेतोरिदं शेषत्वं जीवस्य स्वरूपनिरूपकमित्यपि कथनार्हम् । इत्थं विभुत्वे सति चेतनत्वम्, अनन्याधीनत्वनिरुपाधिकशेषि- त्वादीनि चेश्वरलक्षणानि । जीवेश्वररूपस्यात्मवर्गस्य सर्वस्यापि साधारणं लक्षणं चेतनत्वं प्रत्यक्त्वं च । चेतनत्वं नाम – ज्ञानाश्रयत्वम् । प्रत्यकुत्वं नाम—स्वस्मै स्वयंप्रकाशमानत्वम । तदा धर्मभृतज्ञान- नैरपेक्ष्येण “अहम्” इति प्रकाशते । इत्थं चेतनत्वादीनामीश्वरजीव- साधारणत्वादीश्वराद् व्यावृत्ति प्रत्याययितुं जीवलक्षणे स्वत- इशेषत्वादीनि निवेश्यन्ते । प्रथमाक्षरे चतुर्थीप्रतिपन्नस्य तादर्थ्य- स्योपाध्यभावात् सर्वरक्षकस्य श्रियः पत्युर्जीवात्मा निरुपाधिकशेष एव भवतीत्येवं यावत्स्वरूपं संबन्धस्य प्रतिपादनमयोगव्यवच्छेदः । मध्यमाक्षरे अवधारणसामर्थ्येन “तस्यैव निरुपाधिकशेषः ; अन्यस्य कस्यापि निरुपाधिकशेषो न” इति प्रतिपादनमन्ययोगव्य- वच्छेदः । अस्य शेषत्वस्य भागवतशेषत्वपर्यन्ततयाऽभिवृद्धेः प्रकारमग्रे वक्ष्यामः ।
।तत्त्वत्रयाधिकारः (5)
४१
एवंभूतानां चेतनानां प्रवृत्तिर्नाम - पराधीनं परार्थ च कर्तृत्वं भोक्तृत्वं च । ईश्वरेण स्वस्य भोक्तृत्वार्थमेषां कर्तृत्व- भोक्तृत्वयोरुत्पादनादिमे परार्थे ।
(त्रिविधचेतनानां प्रत्येकं स्वरूपस्थितिप्रवृत्तिषु भेदनिरूपणम्)
धर्मभृतज्ञानेन
बद्धचेतनानामितरेभ्यो भेदः अविद्याकर्मवासनारुचिप्रकृति- संबन्धयुक्तत्वम् । एषामन्योन्यं वर्तमानो ज्ञानसुखादिभेदो ब्रह्मादिस्तम्बपर्यन्तेषु विभागेषु द्रष्टव्यः । इमे बद्धचेतनाः स्वस्य- स्वस्य कर्मानुरूपमीश्वरेणार्पितानि शरीराणि धर्मिस्वरूपेण धर्मभृतज्ञानेन च धारयन्ति । धर्मिनिबन्धनं धारणं शरीरसत्तायाः प्रयोजकं भवति । जाग्रदाद्यवस्थायां संपद्यमानं शरीरधारणं पुरुषार्थतदुपायानुष्ठानानाम्, कृतोपायस्य परमैकान्तिनो भगवदनुभवकैङ्कर्याणां चोपयुक्तं भवति । पापकृतामिदं शरीरधारणं विपरीतफलस्य हेतुर्भवति । इमे जीवाः इमानि शरीराणि त्यजेयुश्चेत् — एषां सङ्घातो विशीर्यत एव । शरीरोपादानभूतानि द्रव्याणि ईश्वरशरीररूपेण तिष्ठन्ति ।
बद्धचेतनानामितरेभ्यः स्थितिभेदः संसारबन्धस्य याव- मोक्षमनुवृत्तिः । प्रवृत्तिभेदः पुण्यपापानुभयरूपास्त्रिविधप्रवृत्तयः । मुक्तानामितरेभ्यो मेदः प्रतिबन्धकनिवृत्याऽऽविर्भूतस्व- रूपत्वम् । स्थितिभेदः पूर्वावधिमत आविर्भावस्योत्तरावधि- -राहित्येनावस्थानम् । एषामन्योन्यं स्थितिभेदः आविर्भावे पूर्वभाव- परभावकृते पूर्वावधेराधिक्यन्यूनत्वे । प्रवृत्तिभेदोऽनादिकालप्रहीण- अतिलब्धपरिपूर्णभगवदनुभवजनितमीतिकारित यथाभिमत- कैङ्कर्यविशेषाः ।
४२
श्रीरहस्यत्र सारे
नित्यानामितरेभ्यो मेदोऽनाद्याविर्भूतस्वरूपत्वे सति पारतन्त्र्यम् । एषामितरेभ्यः स्थितिभेदोऽनाद्यनुवृत्तः शेषितच्चानु- भवः । अयं नित्यानां सर्वेषामविशिष्ट इति एषामन्योन्यं स्थितौ न वैषम्यम् । प्रवृत्तिभेदोऽनादिप्रवाह नित्याः कैङ्कर्यविशेषाः ।
(मुक्तानां नित्यानां च सर्वविध कै कार्यसिद्धेरुपपादनम् )
अनन्त गरुडादीनामधिकारविशेषेषु तदुचितकैङ्कर्येषु च व्यवस्थितेषु सत्सु नित्यानां मुक्तानां च सर्वविधकैङ्कर्यसिद्धिर्भ- वतीत्ययमर्थः कथं घटेतेति चेत् — (1) स्वाम्यभिप्रायानुसारेण स्वस्या- भिमतेषु कैङ्कर्येषु दुर्लभस्य कस्याप्यभावात्, ( 2 ) एकैक कार्यत्वेन व्यवस्थितेषु कैङ्कर्येषु स्वानुष्ठेयत्वाभिसन्धेः परेष्वनुदयात्, (8) येन केनाप्यनुष्ठीयमानस्यापि स्वामिप्रियत्वेन तदुचितकैकर्याणां सर्वप्रियत्वेन कैफले प्रीतौ विशेषाभावाच्च सर्वेषां सर्वविधकैङ्कर्यसिद्धिर्भवतीत्यर्थे न कश्चिद्विरोधः ॥
(धर्मभूत ज्ञाननिरूपणम् )
एषामात्मनां सर्वेषां धमिस्वरूपवत् धर्मभूतज्ञानेऽपि द्रव्यात्मके सति तत्स्वरूपस्यात्र पार्थक्येनानुपादानं चेतनशब्दोपात्ते विशिष्टे विशेषण- तयाऽन्तर्भावनिबन्धनम् ।
इदं धर्मभृतज्ञानं विषयप्रकाशनदशायां स्वाश्रयाय स्वयम्प्रकाशं भवति । इदमीश्वरस्य नित्यानां च नित्यविभु; अन्येषां संसारावस्थायां कर्मानुरूपबहुविधसंकोच विकासयुक्तं मुक्तावस्था- यामेकविकासेन परस्तात् यावत्कालं विभु भवति ।
तत्वत्रयाधिकारः
४३
अस्य प्रवृत्तिस्तावत् विषयाणां प्रकाशनम्, प्रयत्नावस्थायां शरीरादीनां प्रेरणम् बद्धदशायां संकोच विकासौ, आनुकूल्यप्राति- कूल्यप्रकाश मुखेन भोगरूपावस्थावत्त्वं च । भोगो नाम- स्वस्यानुकूलतया प्रतिकूलतया वा कस्यचिदर्थस्यानुभवनम् ।
।
ईश्वरविभूतिभूतानां सर्वेषां वस्तूनां आनुकूल्ये स्वाभाविके सति, एवमीश्वरे नित्येषु मुक्तेषु चानुभवत्सु सत्सु, संसारिणां कालभेदेन पुरुषभेदेन देशभेदेन च अल्पानुकूल्यं प्रातिकूल्यमौदीसीन्य- मित्येते विभागाः सर्वेऽप्येषां वस्तूनां न स्वभावसिद्धाः भवन्ति; किंतु एतदीयकर्मानुसारेण सत्यसंकल्पेनेश्वरेण एषां विषये कृताः फलदान प्रकाराः ।
(कर्म फलानुभवौपयिक योग्यतानिरूपणम्)
एतत्कर्मफलानुभवविवपे बद्धानां स्वरूपयोग्यता सहकारि- योग्यता च स्तः । स्वरूपयोग्यता परतन्त्रचेतनत्वम् । सहकारि- योग्यता सापराधत्वम् । नित्यानां मुक्तानां च परतन्त्र चेतनत्वात् स्वरूप योग्यतासत्त्वेऽपि ईश्वरानभिमतविपरीतानुष्ठानाभावात् सहकारियोग्यता नास्ति । ईश्वरस्य सर्वप्रशासितृतयाऽनन्यशासनीय- तया चावस्थानात् परतन्त्रचेतनत्वरूपा स्वरूपयोग्यताऽपि नास्ति ; स्वतन्त्राज्ञातिलङ्घनरूपा सहकारियोग्यता च नास्ति ।
(धर्मधर्मिभूतज्ञानयोरन्तर निरूपणम् )
जीवेश्वररूपाणामात्मनां सर्वेषामपि स्वरूपं स्वस्मै स्वयं- प्रकाशम् । वृद्धानामप्यस्य धर्मिस्वरूपप्रकाशस्य न जात्वपि संकोच विकासौ भवतः । सर्वात्मनामपि धर्मभूतज्ञानं विषय-
४२
श्रीरहस्यत्र सारे
नित्यानामितरेभ्यो भेदोऽनाद्याविर्भूतस्वरूपत्वे सति पारतन्त्र्यम् । एषामितरेभ्यः स्थितिभेदोऽनाद्यनुवृत्तः शेषितत्त्वानु– भवः । अयं नित्यानां सर्वेषामविशिष्ट इति एषामन्योन्यं स्थितौ न वैषम्यम् । प्रवृत्तिभेदोऽनादिप्रवाह नित्याः कैङ्कर्यविशेषाः ।
(मुक्तानां नित्यानां च सर्वविध कै कार्यसिद्धेरुपपादनम् )
अनन्त गरुडादीनामधिकारविशेषेषु तदुचितकैङ्कर्येषु च व्यवस्थितेषु सत्सु नित्यानां मुक्तानां च सर्वविधकैङ्कर्यसिद्धिर्भ- वतीत्ययमर्थः कथं घटेतेति चेत् — (1) स्वाम्यभिप्रायानुसारेण स्वस्या- भिमतेषु कैङ्कर्येषु दुर्लभस्य कस्याप्यभावात्, ( 2 ) एकैककार्यत्वेन व्यवस्थितेषु कैङ्कर्येषु स्वानुष्ठेयत्वाभिसन्धेः परेष्वनुदयात्, (8) येन केनाप्यनुष्ठीयमानस्यापि स्वामिप्रियत्वेन तदुचितकैकर्याणां सर्वप्रियत्वेन कैङ्कर्यफले प्रीतौ विशेषाभावाच्च सर्वेषां सर्वविधकैङ्कर्यसिद्धिर्भवतीत्यर्थे न कश्चिद्विरोधः ॥
(धर्मभूत ज्ञाननिरूपणम्)
एषामात्मनां सर्वेषां धमिस्वरूपवत् धर्मभूतज्ञानेऽपि द्रव्यात्म के सति तत्स्वरूपस्यात्र पार्थक्येनानुपादानं चेतनशब्दोपात्ते विशिष्टे विशेषण- तयाऽन्तर्भावनिबन्धनम् ।
इदं धर्मभृतज्ञानं विषयप्रकाशनदशायां स्वाश्रयाय स्वयम्प्रकाशं भवति । इदमीश्वरस्य नित्यानां च नित्यविभुः अन्येषां संसारावस्थायां कर्मानुरूपबहुविध संकोच विकासयुक्तं मुक्तावस्था- यामेकविकासेन परस्तात् यावत्कालं विभु भवति ।
तत्वत्रयाधिकारः
४३
अस्य प्रवृत्तिस्तावत् विषयाणां प्रकाशनम्, प्रयत्नावस्थायां शरीरादीनां प्रेरणम्, बद्धदशायां संकोचविकासौ, आनुकूल्यप्राति- कूल्य प्रकाश मुखेन भोगरूपावस्थावत्त्वं च । भोगो नाम- स्वस्यानुकूलतया प्रतिकूलतया वा कस्यचिदर्थस्यानुभवनम् ।
ईश्वरविभूतिभूतानां सर्वेषां वस्तूनां आनुकूल्ये स्वाभाविके सति, एवमीश्वरे नित्येषु मुक्तेषु चानुभवत्सु सत्सु, संसारिणां कालभेदेन पुरुपभेदेन देशमेदेन च अल्पानुकूल्यं प्रातिकूल्यमौदीसीन्य- मित्येते विभागाः सर्वेऽप्येषां वस्तूनां न स्वभावसिद्धाः भवन्ति; किंतु एतदीयकर्मानुसारेण सत्यसंकल्पेनेश्वरेण एषां विषये कृताः फलदान प्रकाराः ।
(कर्मफलानुभचौपयिक योग्यतानिरूपणम् )
एतत्कर्मफलानुभवविवषे बद्धानां स्वरूपयोग्यता सहकारि- योग्यता च स्तः । स्वरूपयोग्यता परतन्त्रचेतनत्वम् । सहकारि- योग्यता सापराधत्वम् । नित्यानां मुक्तानां च परतन्त्र चेतनत्वात् स्वरूप योग्यतासत्त्वेऽपि ईश्वरानभिमतविपरीतानुष्ठानाभावात् सहकारियोग्यता नास्ति । ईश्वरस्य सर्वप्रशासितृतयाऽनन्यशासनीय- तया चावस्थानात् परतन्त्र चेतनत्वरूपा स्वरूपयोग्यताऽपि नास्ति ; स्वतन्त्राज्ञातिलङ्घनरूपा सहकारियोग्यता च नास्ति ।
(धर्मधर्मिभूत ज्ञानयोरन्तर निरूपणम् )
जीवेश्वररूपाणामात्मनां सर्वेषामपि स्वरूपं स्वस्मै स्वयं- प्रकाशम् । वद्धानामप्यस्य धर्मिस्वरूप प्रकाशस्य न जात्वपि संकोच विकासौ भवतः । सर्वात्मनामपि धर्मभूतज्ञानं विषय-
-४४
।
श्रीरहस्यत्रयसारे
प्रकाशनवेलायां स्वाश्रयाय स्वयंप्रकाशं भवति । ज्ञानत्वं स्वयंप्रकाशत्वं च धर्मधर्मिणोः साधारणम् । धर्मभृतज्ञानस्य विषयित्वं विशेषः । धर्मिण आत्मस्वरूपस्य प्रत्यक्त्वं विशेषः । ज्ञानत्वं नाम कस्यचित् प्रकाशकत्वम् । तच्च स्वस्य वा परस्य वा यस्य कस्यचिद् व्यवहारानुगुण्य संपादनम् । स्वयंप्रकाशत्वं नाम - खविपयीकारिज्ञानान्तरनैरपेक्ष्येण खयमेव प्रकाशमानत्वम् । धर्मभृतज्ञानस्य विषयित्वं नाम स्वव्यतिरिक्तार्थप्रकाशकत्वम् । आत्मनां प्रत्यक्त्वं नाम – स्वस्मै भासमानत्वम् । तच्च खप्रकाश प्रति स्वयं फलित्वेनावस्थानम् । यस्य कस्यचिद्वस्तुनः प्रकाशस्य फलीति सामान्याकार एव स्वप्रकाशस्य स्वयं फलीति विशेष्यमाणः प्रत्यकूत्यं भवति । एतद्विशेषशून्यस्य वस्तुन इदं सामान्यमेतद्व्याप्तं चेतनत्वं च न स्तः ।
इमौ धर्मधर्मिणौ द्वावपि स्वयंप्रकाशौ सन्तावपि नित्यत्वादि- घर्मविशेषविशिष्टरूपैर्ज्ञानान्तरवेद्यावपि भवतः । स्वकीयधर्मभूतज्ञानस्य स्वं प्रति ज्ञानान्तरवेद्यत्वसमये प्रसरण भेदमात्राद् ज्ञानान्तर- व्यपदेशः ॥
(त्रिविधाचेतननिरूपणम्)
त्रिविधान्यप्यचेतनानि परान् प्रत्येव प्रकाशमानानि भवन्ति । अचेतनत्वं नाम – ज्ञानाश्रयत्वाभावः । परान् प्रत्येव प्रकाशमानत्वं नाम – खप्रकाश प्रति स्वस्य फलित्वाभावः । इदमुभयं धर्मभूत- ज्ञानादीनामपि तुल्यम् । त्रिविधाचेतनत्वेनोपात्तेषु प्रकृतिकालौ जडौ ॥
श्रीरहस्यवयसारे
शुद्धसत्त्वद्रव्यमपि जडमिति केचिदाहुः । जडत्वं नाम- स्वयंप्रकाशत्वाभावः । भगवच्छास्त्रादिपरामर्शिनस्तु ज्ञानात्म- कत्वस्य शास्त्रसिद्धत्वात् शुद्धसत्त्वद्रव्यं स्वयंप्रकाशमित्याहुः ।
(शुद्धसत्त्व स्वयंप्रकाशत्वसमर्थनम् )
इत्थं स्वयंप्रकाशत्वे, संसारिणां शास्त्रवेद्यत्वमन्तरैव स्वयं कुतो न प्रकाशत इति चेत् — सर्वात्मनां स्वरूपस्य धर्मभृतज्ञानस्य च स्वयंप्रकाशत्वेऽपि स्वरूपं स्वस्यैव स्वयंप्रकाशं सत् परेषां ज्ञानान्तरवेद्यं यथा भवति, धर्मभृतज्ञानं स्वाश्रयस्यैव स्वयंप्रकाशं सत् इतरेषां स्वयंप्रकाशं यथा न भवति, तथाऽस्यापि नियतविषयस्वयं- प्रकाशत्वे न विरोधः । “12 यो वेत्ति युगपत् सर्वं प्रत्यक्षेण सदा स्वतः । तं प्रणम्य हरिं शास्त्र न्यायतत्त्वं प्रचक्ष्महे ॥" इत्य्-उक्त-रीत्या धर्मभृतज्ञानेन सर्वं साक्षात्कुर्वन्तमीश्वरं प्रति शुद्धसत्त्वद्रव्यस्य स्वयंप्रकाशता कथमिति चेत् — एतदीये धर्मभृतज्ञाने दिव्यात्म- स्वरूपप्रभृतिकं सर्वं विषयीकुर्वाणे सत्यपि इदं दिव्यात्म- स्वरूपं यथा स्वयंप्रकाशं भवति, तथेदमपि स्वयंप्रकाशं भवितुमर्हति । अयं प्रकारो नित्यविषयेऽपि तुल्ययः । विषयप्रकाशनकाले एव धर्मभृवज्ञानं खाश्रयं प्रत्येव यथा स्वयंप्रकाशं भवति, तथा मुक्तान् प्रति तस्याम- वस्थायामस्यापि स्वयंप्रकाशत्वे न विरोधः । धर्मभृतज्ञानस्य स्वात्म- प्रकाशनशक्तिर्विषयप्रकाशाभावकाले कर्मविशेषैर्यथा प्रतिबद्धा भवति, तथा शुद्धसत्त्वद्रव्यस्यापि खात्मप्रकाशनशनक्तिरपि बद्धदशायां
शुद्धसत्त्वं बद्धान् प्रति न प्रकाशते
प्रतिबद्धेति
शुद्धसत्त्वं
तत्त्वत्रयाधिकारः
धियः स्वयंप्रकाशत्वं मुक्तौ स्वाभाविकं यथा । बद्धे कदाचित्संरुद्धं तथाऽत्रापि नियम्यते ॥ इयती अवस्थान्तरापत्तिर्विकारिद्रव्यस्य न विरुध्यते । अतः प्रमाण- प्रतिपन्नार्थस्य युक्तिविरोधो वक्तुमशक्यः । एवमनङ्गीकृत्योपचारेण निर्वाहे चिन्त्यमाने, आत्मस्वरूपविषयेऽपि ज्ञानादिशब्दानामुपचारेणा- न्यपर्यकरणमापद्येत । स्वयंप्रकाशस्य रूपरसादिगुणाः, तन्निबन्धनः पृथिव्यादिविभागः, परिणामादयश्च कथं घटन्त इति चोद्यमपि, धर्मभृतज्ञानधर्मिज्ञानयोर्विद्यमानं वैषम्यं प्रतिबन्दीकृत्य प्रमाणबलेन परिहृतम् । इत्थं स्वयंप्रकाशस्य शुद्धसत्वद्रव्यस्य ज्ञातृत्वाभावात् त्रिविधाचेतनेति कोडीकारः ॥
(त्रिगुणद्रव्य स्वरूपस्थितिप्रवृतिभेदनिरूपणम् )
एषु त्रिगुणद्रव्यस्य स्वरूपभेदो गुणत्रयाश्रयत्वम् । सततपरिणामशीलरयास्य
द्रव्यस्य सत्वरजस्तमसामन्योन्यं साम्यापत्तौ महाप्रलयः : वैषम्यावस्थायां सृष्टिस्थिती । गुणवैषम्यवति प्रदेशे महदादयो विकाराः । अत्राविकृतं प्रदेशं विकृतं प्रदेश च प्रकृतिमहदहंकारतन्मात्र भूतेन्द्रियाणीति चतुर्विंशतितत्त्वात्मना शास्त्राणि विभज्य प्रतिपादयन्ति । कैश्चिद्विवक्षाविशेषैः कचि त्स्थलेषु तत्त्वानि अधिकतया न्यूनतया च प्रतिपाद्यन्ते । एषु तत्त्वेषु अवान्तरविभागाः, तदभिमानिदेवताश्च तत्तदुपासनाधिकारिभिर्वेदि- तव्याः । आत्मनस्तेभ्यो व्यावृत्ति ज्ञानमत्रास्माकं प्रधानम् ।
एषां सर्वेषां सर्वेश्वरेऽस्त्रभूषणादिरूपेणावस्थितेः प्रकारः -
श्रीरहस्य तयसारे
७
’ (गाथा) पुरुपं मणिवरतया, अविनश्यन्तीं मूलप्रकृति (श्रीवत्स ) लक्ष्मतया, महान्तं गदात्वेन, ज्ञानमज्ञानञ्च खड्गतया कोशतया, (सात्त्विकतामस) अहंकारौ शार्ङ्गशङ्खतया मनः चक्रतया हृषीकपञ्चके द्वे शरतया द्वे भूतमाले वनमाला त्वेन (घारयन् ) गरुडशरीरभूतानां वेदानामर्थभूतः कृष्णः करिगिरेरुपरि स्थित्वा सर्वं रक्षति - -इत्येवंविवेकेन ज्ञातुं युज्यते ।
चतुर्विंशतेस्तत्त्वानामन्योन्यं स्वरूप भेदस्तत्तल्लक्षणैः सिद्धः । तेषु कार्यभूतानां त्रयोविंशतेस्तच्चानां एतदाख्धानां च स्थितावुपनमन्त्यौ आधिक्यन्यूनते पुराणप्रसिद्धरीत्या द्रष्टव्ये ।
“18 स्वसत्ताभासकं सत्त्वं गुणसत्त्वाद्विलक्षणम्",
।
6414 तमसः
परमो घाता", “15 अप्राकृतं सुरैर्वन्द्यम्” इत्यादिभिस्तमस उपरिष्टा- देशविशेषस्य सिद्धे: “16:
‘अनन्तस्य न तस्यान्तः संख्यानं वाऽपि विद्यते । तदनन्तमसंख्यातप्रमाणं चापि वै यतः" इत्यादीनि नित्यविभूत्यन- वच्छिन्न प्रदेशमादाय मूलप्रकृतेरानन्त्यं प्रतिपादयन्ति ।
1 पुरुषो मणिवरोऽस्य भवति, प्रकृतिः श्रीवत्लो भवतीत्येवं गरुडतनुभूत वेदप्रतिपाद्यभूतः कृष्ण इति वाऽनुवदितव्यम् ।
1 पुरुडन् मणिवरमाहप्पोत्रामूल प्रकृतिमरुवाहमान् तण्डाह, ते रुद्रमारुल्वाणमरैवाढ वाङ्गारकूल शार्ङ्ग शाह मनम् तिगिरियाह, इरुडीकङ्गल ईरैन्दुम् शरङ्गलाह इरुभूतमालै वनमालैयाह, गरुडनुरूवामरैयिन् पोरुलोम् कण्णन् करिगिरिमे नित्रनैत्तं काक्कित्राने ।
४८
तत्त्वत्रयाधिकारः
त्रिगुणद्रव्यस्य प्रवृत्ति मेदः - बद्धचेतनानां भोगापवर्गार्थ- मीश्वरस्य लीलारसार्थं च समविषमपरिणामसन्ततिं प्राप्य देहेन्द्रियादिरूपेण तत्तद्व्यापाराणामपि करणम् । इदं रजस्तमोद्वारा बद्धानां तत्त्वयाथात्म्यच्छादनपूर्वं विपरीतज्ञानं जनयति भोगार्थम् । इदमेवापवर्गार्थं सत्त्वविवृद्धया तत्वानि यथावत् प्रकाशयति इदं सर्वमीश्वरस्य लीलारसावहं भवति ।
(शुद्धसत्त्वस्य स्वरूपस्थितिप्रवृत्ति मेदनिरूपणम्)
शुद्धसत्वस्य स्वरूपभेदो रजस्तमोगुणामिश्रसत्त्वगुणाश्रयत्वम् । अस्य स्थितिभेदो नित्येषु मण्टपगोपुरादिषु, ईश्वरस्य नित्यानां च विग्रहविशेषेषु नित्यो वर्तते । नित्यमुक्तेश्वराणामनित्येच्छा- सिद्धेषु विग्रहादिष्वनित्यो वर्तते । अस्य प्रवृत्तिभेदः एषा- मिच्छानुरोधिभिः परिणामादिभिः शेषिणो भोगोपकरणतया शेषभूतानां कैङ्कर्योपकरणतया चावस्थानम् ।
(कालस्य स्वरूपस्थितिप्रवृत्तिभेदनिरूपणम्)
कालस्य स्वरूपभेदो जडत्वे सति विभुत्वम् । अस्य स्थितिः कालावच्छेदाभावान्नित्या भवति । प्रवृत्तिभेदः कला- काष्ठादिविभागेन सृष्ट्यादीनामुपकरण तयाऽवस्थितिप्रकारे द्रष्टव्यः । (द्रव्याणां नित्यत्वानित्यत्वव्यपदेशतात्पर्यम्)
इमानि द्रव्याणि सर्वाण्यपि स्वरूपेण नित्यानि भवन्ति । नामान्तरभजनार्हावस्थाविशेषविशिष्टतां पुरस्कृत्य केषांचिदनित्य- तया व्यवहारः । विनष्टसजातीयानामवस्थान्तराणामग्रेऽपि अविच्छे- देनानुवृत्तेः प्रवाहनित्यत्वव्यवहारः ॥तत्त्वनयाधिकारः
(सर्वेषामीश्वराधीनत्व निरूपणम् )
“S
निरुक्त सर्वपदार्थगतस्वरूप स्थितिप्रवृत्ति मेदानामीश्वराधीनत्वं नाम — ईश्वरसत्तामीश्वरेच्छां च विना एषां सताद्यनर्हत्वम् । अतः समस्त वस्तूनां स्वभावसिद्धानुकूल्यमीश्वरेच्छायत्तम् । अत एव - ईश्वरस्य नित्यानां मुक्तानां च सर्वमनुकूलं भवति; बद्धानां कर्मानुरूपं पुरुषभेदेन कालभेदेन चैतेषु प्रातिकूल्यमल्पानुकूल्यं च प्रवर्तते । एषां बद्धानामप्यात्मस्वरूपस्य सर्वदाऽऽनुकूल्यमीश्वरेच्छासिद्धम् । इत्थमनुकूलेनात्मस्वरूपेण सहैकत्वभ्रमात् कर्मवशाच्च किल हेयं शरीरं ज्ञानहीनानामनुकूलं भाति । एषां कर्मेपाधिकप्रातिकूल्यरूपेण मुमुक्षून् प्रति त्याज्यत्वम् ; स्वाभाविकानुकूल्यरूपेण मुक्तान् प्रति तेषामेवोपादेयत्वम् । अहंकारममकारयुक्तेन सता स्वार्थ स्वीक्रि- यमाणानि सर्वाणि प्रतिकूलानि भवन्ति । स्वरूपज्ञानोत्पत्त्युत्तरं स्वामिशेषमिति दर्शने सर्वमनुकूलं भवति । इममर्थं परिपूर्णमानु-
वाधिकारे विस्तरेण वक्ष्यामः ॥
(ईश्वरतत्त्वनिरूपणम्)
इत्थं स्वाधीन सर्वसत्तादिकस्य सत ईश्वरस्य स्वरूपं सत्य- स्वादिभिः स्वरूपनिरूपकधर्मैः (युक्ततया) सत्यज्ञानानन्तानन्दामल- रूपं भवति । इममर्थम् “17 अनिर्वाप्यदीप ! परिच्छेत्तुमशक्य !”
नन्दा विलक्केयलत्तर्करियाय- पेरियतिरु-3-8-1
‘कृत्स्न
उणर्मुडुनल-
194
तिरुवाय- 1-1-2
५०
ज्ञानानन्दः "
1
श्रीरहस्यमय
सारे
18 अभिव्याप्य
तदधिको (मुक्तादधिको) ज्ज्वल–
ज्ञानानन्द” “२० अमलः” इत्यादिभिर्दिव्यसूरयोऽनुसन्दधिरे । इतरे गुणाः दिव्यमङ्गलविग्रहादीनि चेश्वरस्य निरूपित स्वरूपविशेष- णानि भवन्ति । एषु गुणेषु ज्ञानशक्ति लैश्वर्य वीर्यतेजांसि पड् गुणाः- परत्वोपयुक्ता भवन्ति । सौशील्यवात्सल्यादयः सौलभ्योपयुक्ता भवन्ति । इमे गुणाः सर्वेऽपि सर्वेष्वपि कालेषु स्वरूपाश्रिताः सन्ति । परव्यूहादिविभागेषु गुणनियमप्रतिपादकानि तु सर्वाण्यपि वचनानि ’ तत्तद्रूपानुसन्धानपराणां विषये सर्वेश्वरेणाविष्क्रियमाणास्ते गुणा. इत्येतन्मात्रप्रतिपादनार्थानि । प्रत्योपनिषदविद्याविशेषम् अनुसन्धेया गुणविशेषा यथा नियताः, तथा भगवच्छास्त्रोक्तरूपविशेषानु: संधानस्यापि गुणविशेषा नियताः ॥
तत्र पररूपे ज्ञानादयः षडपि गुणा वेद्याः । व्यूहा- श्वत्वार इति त्रय इति च शास्त्राणि प्रतिपादयन्ति । चतुर्षु व्यूहेषु सत्सु व्यूहवासुदेवरूपे पररूपादनुसन्धेयगुणभेदाभावात् त्रिग्यू- हवादः प्रवर्तते । इमं पक्षं “21 गुणैः षभिस्त्वेतैः प्रथमतरमूर्तिस्तव बभौ ततस्तिस्रस्तेषां त्रियुग युगलैर्हि त्रिभिरभु” इति श्लोके संजगृहु: । एषु परव्यूहेषु गुणक्रियाविभागाः-
“गुण्याद्वासुदेव: पर इति स भवान् मुक्तभोग्यो बलाढ्यात् बोधात् संकर्षणस्त्वं हरसि वितनुषे शास्त्रमैश्वर्यवीर्यात् ।
शून्ददनिर्पेरिय शुडर्ज्ञान विश्वम्
,, 10-10-1
अमले -
अमलनादि - 1
तत्वज्ञयाधिकारः (4)
प्रद्युम्नः सर्गधर्मी नयसि च भगवन् शक्तितेजोऽनिरुद्धो
पर
बिभ्राणः पासि तत्त्वं गमयसि च तथा व्यूह्य रङ्गाधिराज ॥” इति श्लोके समग्राहिषत । जाग्रदादिपदभेदगता विशेषाः सर्वेऽपि
.. 23 जाग्रत्स्वप्नात्यलसतुरीयप्रायध्यातृक्रमवदुपास्यः ।
स्वामिन् तत्तद्गुणपरिबर्हश्चातुर्व्यूह वहसि चतुर्घा ॥ " इति संगृहीता अभवन् । केशवादीनि द्वादश रूपाण्यपि व्यूहान्तराणि । विभवा नाम - पद्मनाभादीनि त्रिंशत्संख्यातः किंचिदधिक- संख्यायुक्तानि रूपाणि । एषु मत्स्य कूर्मादयोऽवताराः प्रयोजनविशेषेण केनापि विशिष्य परिगणिताः । एषु विभवेषु ईश्वरस्ततत्कार्य विशेषानु- गुण्येनापेक्षितानां गुणानां यथाच्छब्दं प्रच्छादनं प्रकाशनं च करोति । एषु अवान्तरभेदाः 24 ‘कृष्णरूपाण्यसंख्यानि” इत्याद्युक्तरीत्याऽनन्ताः । इत्थमेव विभवान्ताराण्यपि द्रष्टव्यानि । कांश्चिज्जीवान् विग्रहविशेषेण शक्तिविशेषेण चाधिष्ठायातिशयितकार्याणां निर्वहणमपि विभवभेदः ।
परव्यूहादिरूपाणामेव आश्रितार्थं तदपेक्षितप्रकारेण “बिम्बा- कृत्यात्मना बिम्बे समागत्यावतिष्ठते” इत्य्-उक्त-रीत्यावस्थितिरचवतारः ।
सर्वेषां हृदयेषु सूक्ष्मभूतरूपविशेषविशिष्टतयाऽवस्थान- मन्तर्याम्यवतारः । इदं सर्वान्तर्यामि दिव्यात्मस्वरूपमनुसन्धि- त्सूनां द्वारमिति “26 अष्टाङ्गयोगसिद्धानां हृद्यागनिरतात्मनाम् । योगिनामधिकारः स्यादेकस्मिन् हृदयेशये ॥" इत्यादिषु प्रतिपादि- तमिति अन्तर्यामिरूपमित्युक्तम् । इत्थमवतरद्रूपविधाः सर्वा अपि
५२
श्री रहस्यत्रयसारे
शुद्धसत्वद्रव्यमय्यः कर्मतत्फलसंबन्धशून्याः प्रवर्तन्ते इत्यतः शुद्धसृष्टित्वेन व्यपदिश्यन्ते ।
(अवतार रहस्यनिरूपणम् )
इमेऽवताराः सर्वेऽपि सत्या इति, एप्वीश्वरस्य ज्ञानादि- संकोचो नास्तीति इमे विग्रहाः शुद्धसत्त्वमया इति एषा- मीश्वरेच्छैव कारणमिति, धर्मरक्षणार्थकाल एव
काल इति, साधुपरित्राणादीन्येव प्रयोजनानीति इमान् अर्थान् विशदं विज्ञायानु- सन्दधानानामेकजन्मन्येव स्वाधिकारानुगुणसमीहितोपायपूर्त्या जन्मान्त- रानुभवमन्तरैव मुक्तीभाव इति च, “27 बहूनि मे व्यतीतानि” इत्यारभ्य पञ्चभिः श्लोकः गीतचार्योऽनुजग्राह । इदं स्वतन्त्र- प्रपत्तिनिष्ठस्य शरण्यगुणविशेषज्ञानमुखेनोपायानुष्ठान क्षणे महा- विश्वासादीनि स्थिरीकुर्वत उपकारकं भवति । एवमेवाचवतारोऽपि अनायास करो मोक्षं ददातीत्येत्तमर्थ “28 सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् । कृत्वाऽऽत्मनः प्रीतिकरीं सुवर्णरजतादिभिः ॥ तामर्चयेत् तां प्रणमेत् तां यजेत् तां विचिन्तयेत् । विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ॥” इति भगवान् श्रीशौनकोऽनुजग्राह । दिव्यसूरयोऽपीदमवतार रहस्यमचवतार वैलक्षण्यं च श्राचुर्येणानु-
सन्धाय एतन्मूलचलत्वेन परं परत्वं पश्यन्तः स्थिताः ।
एवम्भूतेनेश्वरेण स्वानन्दपरीवाहतया क्रियमाणा व्यापाराः सकलजगत्सृष्टिस्थितिसंहारमोक्षप्रदत्वादयः ॥
तस्वनयाधिकारः (4)
५३
(लक्ष्मीतत्त्वनिरूपणम् ।)
1
इति
मयमीश्वरः, “29 नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी " इत्याद्युक्तरीत्या सर्वावस्थासु सपत्नीक एव वर्तत इत्ययमर्थः, “30 तत्त्वेन यः " “३” माता पिता” इति श्लोकयोरुपकारविशेषात् (रातिशयात् ) सादरं विशिष्य संकीर्तितयोः पराशरपराङ्कुशयोः प्रबन्धेषु विशदं ज्ञातव्यः । अत्र दण्डधरत्वं पुरुषकारत्वादयश्च सर्वेश्वरस्य लक्ष्म्याश्च भागतया विभक्ताः व्यापाराः । “उपदिश्यमानधर्मा- धारादतिदिश्यमानधर्माधारस्य विशेषः स्वतः प्राप्तः" मध्यस्थोक्तेरपि एवंभूतविभागनिबन्धनवैषम्ये तात्पर्यम् । इदं “” युवत्वादौ तुल्येऽपि” इति श्लोके निर्णीतम् । “स्वामिनः स्थितिः (तत्त्वं) ज्ञातुमशक्या" इति दिव्यसूरिभिरनुसंहिते विषये कश्चिदपि वृथानिर्वन्धो न युज्यते । “84 कृशान् अर्थंस्ततः केचिदकशांस्तत्र कुर्वते" इत्य्-उक्त-रीत्या तर्कपाण्डित्येनाभिमतं सर्वं साधयितुं शक्ताः सन्तोऽपि हि वयं प्रमाणशरणाः प्रवर्तामहे । अत एतद् ईश्वरतत्त्व- मीशितव्यतत्त्वानि च यथाप्रमाणमेव विशदं बोद्धुं साम्प्रतम् । अत्र सार्वज्ञ्यमपि नापेक्ष्यते । अत्यन्तानुपयुक्तेष्विव स्वल्पोपयुक्तेषु अभिनिवेशोऽपि न कार्यः । अपरिच्छेद्ये समुद्रे नाविकाः मार्गप्रभृतिकमवश्यज्ञेयमथं यथा विशदं जानन्ति, तथाऽत्रै तावद्विवेचनम- बश्यापेक्षितम् ॥ अस्य प्रतिष्ठितत्व सिद्धयर्थमेतद्विस्तरा अभ्यस्यन्ते ।
1 इरैनिलैयुणर्वरिदु
तिरुवाय - 1-3-6
१४
श्रीरहस्यत्रयसारे,
(तत्त्व विभजन वैविध्यप्रयोजनम् )
इत्थं त्रीणि तत्त्वानीति विभज्य चिन्तयतामिव सर्वविशिष्ट- चेषेणेश्वर एकं तत्त्वमित्यनुसंदधताम्, ईशेशितव्ये, आत्मानात्मानौ उपायोपेयौ इत्येवंरीत्याऽर्थद्वयं ज्ञातव्यतया विभजमानानाम्, रक्ष्यो रक्षको हेयमुपादेयं चेत्येवंप्रकारैरर्थचतुष्टयं ज्ञातव्यत्वेन संगृह्णानानाम्, पूर्वोक्तरीत्याऽर्थपञ्चकमिति अर्थषट्कमिति विवेचयताम्, रहस्यशास्त्रोक्त- रीत्या सप्तपदार्थीचिन्तादिकं कुणानां च ततज्ज्ञानानुष्ठानप्रतिष्ठारूपाः प्रयोजनविशेषा द्रष्टव्याः । (185
ॐ शास्त्रज्ञानं बहुक्केशं बुद्धेश्चलनकारणम् । उपदेशात् हरिं बुध्वा विरमेत् सर्वकर्मसु ॥" इत्य्-उक्तिः, उपयुक्ततमं सारांश तूर्णं श्रुत्वा – कृषिमन्तरैव भोक्तुमुपायमुपेयिवान् कृषिचिन्तां तथा — विस्तरेणाभ्यंसनार्हशास्त्राभ्यासादिकर्मभ्य
यथा त्यजति
उपरतेन झटिति मोक्षोपाये प्रवर्तितव्यमित्येतत्परा ।
उपयुक्तेषु वैशद्यं त्रिवर्गनिरपेक्षता । करणत्रयसारूप्यमिति सौख्य रसायनम् ॥
(अधिकारार्थसंग्राहकगाथा )
1 (गाथा) दृढपतिष्ठितं यथा स्यात् तथोपदिदिशुः — चिच्चाचिच
स्वामी चेति विभिन्नानि विस्मयनीयानि तत्त्वानि त्रीणि, कर्ममय देहे
तेरवियम्बिनर चित्तमचित्तमिरैयुमेन वेरुपडम् वियन् तत्तत्वमूत्रम् विनैयुडम्बि कूरुपडम् कोडमोहमुंतानिरैया कुरिप्पुम् मारनिनैन्दरुलाई मरैनूलं तन्दवादिपरे
तत्र्याधिकारः (5)
५५
भवन् क्रूरमोहः, अहं स्वामीति बुद्धिश्च निवर्तेतामिति विचिन्त्य कृपया वेदशास्त्रनंदा आद्याः ॥
आवापोद्वापतः स्युः कतिकति कविधीचित्रवत् तत्तदर्थे- वानन्त्यादस्ति नास्त्योरनवधिकुहनायुक्तिकान्ताः कृतान्ताः । -तत्वालोकस्तु लोतुं प्रभवति सहसा निस्समस्तान् समस्तान् पुंस्त्वे तत्त्वेन दृष्टे पुनरपि न खलु प्राणिता स्थाणुताधीः (दिः) ॥
इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्रहस्यत्रयसारे तत्त्वत्रयाधिकारः चतुर्थः ॥
श्रीमते निगमान्तमहा दे शिकाय नमः
-0-