श्रीः
श्रीमते निगमान्तमहा देशिकाय नमः
॥ प्रधानप्रतितन्त्राधिकारः तृतीयः ॥
(अधिकारार्थसंग्राहकन्लोकः)
आधेयत्वप्रभृतिनियमैरादिकर्तुः शरीरं सत्तास्थेमप्रयतन फलेप्वेतदायत्तमेतत् । विश्वं पश्यन्निति भगवति व्यापकादर्शदृष्टे गम्भीराणामकृतकगिरां गाहते चित्तवृत्तिम् ॥
(प्रतितन्त्र शब्दार्थः)
प्रतितन्त्र शब्दार्थस्तावत् — इतरसिद्धान्तिषु केनाप्यनभ्युपगतः स्वसिद्धान्तस्यैवासाधारणोऽर्थः । इह वेदान्तिनामस्माकं दर्शनस्यैव असाधारणाः प्रधानभृताश्चार्थाः के इति चेत् — चेतनाचेतनाना- मीश्वरस्य च संबन्धरूपशरीरात्मभावादयः ॥
(शरीरशरीरिभावनिरूपणम् )
तत्रेश्वरस्य शरीरित्वं नाम - चेतनाचेतनद्रव्य निरूपितं नियमेन धारकत्वं नियन्तृत्वं शेषित्वं च । चेतनाचेतनानि प्रति धारकत्वं नियन्तृत्वं च नाम - स्वस्य स्वरूपेण संकल्पेन च यथाहं सत्तास्थितिप्रवृत्तीनां प्रयोजकत्वम् । तत् कथमिति चेत् — ईश्वरः स्वकीयानां स्वरूपनिरूपकधर्माणाम्, निरूपित- स्वरूपविशेषणानां गुणानां चेव स्वव्यतिरिक्तसमस्तद्रव्याणामपि
प्रधान प्रतितन्त्राधिकारः (3)
२३
अव्यवधानेन स्वरूपेणाssधारो भवति । तत्तद्रव्याश्रितानां गुणादीनां ततद्द्द्रव्यद्वाराssधारो भवति । ‘जीवैर्धार्यमाणानां शरीराणां जीवद्वाराssधारो भवति’ इति केचिदाहुः । जीव द्वारीकृत्य, स्वरूपेण च आधारो भवतीति केचिदाचार्या आहुः । इत्थं सर्वेषा- मीश्वरस्वरूपं प्रति अपृथकू सिद्धविशेषणत्वात् एषां सत्तादीनि आश्रयसत्ताधीनानि । सर्ववस्तूनां सत्तायाः संकल्पाधीनत्वं -अनित्यानामनित्येच्छयोत्पन्नत्वं नित्यानां नित्येच्छा- सिद्धत्वञ्च । इममर्थम् "" इच्छात एव तव विश्वपदार्थसत्ता" इति श्लोके अभियुक्ता विवेचयामासुः । एतेन सर्वस्यापि सत्तानुवृत्ति- स्थितेरपीश्वरेच्छाधीनत्वात् सर्वमीश्वरसंकल्पाश्रित-
रूपायाः
61
मित्युच्यते । गुरुद्रव्याणि संकल्पेन धृतानीति शास्त्रेषु प्रतिपादनम्, “द्यौः सचन्द्रार्क नक्षत्रं खं दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण “विधृतानि महात्मनः " इत्य्-उक्त-रीत्या तत्तद्देशविशेषेषु पतनप्रसक्तिराहि- त्येनावस्थापनरूपार्थमभिप्रेत्य । इत्थमिच्छाधीन सत्तास्थितिप्रवृत्तीनां चस्तूनां (विषये) परमात्मस्वरूपं किं करोतीति चेत् — परमात्मन इच्छा इमानि वस्तूनि परमात्मस्व-रूपाश्रितत्वेन विविच्य स्थापयति ।
इत्थं सर्व वस्तु ईश्वरस्वरूपाश्रितमीश्वरेच्छाधीनं च भवति ।
सत
लोकेऽपि शरीरं शरीरिणः स्वरूपाश्रितं संकल्पाधीनं च पश्यामः - जीवाधिष्ठानकालेऽवस्थानात् एतत्यक्ततादशायां विनाशाच स्वरूपाश्रितम् । अयमर्थः संकल्परहितसुषुप्त्याद्यवस्थासु विशदः । जागरादिदशासु संकल्पेन पतनप्रतिबन्धार्ह धारणसमये
२४
प्रधान प्रतितन्त्राधिकाराः (3)
संकल्पाश्रितमिति वक्तव्यम् । अत्र स्वरूपाश्रितत्वम् आधेयत्वमिति
संकल्पाश्रितत्वम् नियाम्यत्वमिति च वदति (प्रपाणगणः) ।
(ईश्वरस्य सर्वशेषित्यनिरूपणम् )
सत्तास्थिति–
ईश्वरस्य सर्वशेषित्वं नाम – " 8 उपादत्ते नियमनाद्यैश्चिदचितौ स्वमुद्दिश्य श्रीमानिति वदति वागौपनिषदी । उपायोपेयत्वे तदिह तव तत्त्वं न तु गुणौ अतस्त्वां श्रीरनेशय शरणमव्याजमभजम् ॥” इत्य्-उक्त-रीत्या खप्रयोजनार्थमेव पारायैक- स्वभावानामेषामुपादानपूर्वकमेतज्जन्यातिशयभाक्त्वम् ।
(आधाराधेयभावादिफलितार्थनिरूपणम्)
एभिराधाराधेयभावादिभिरस्य चेतनस्य किं फलतीति
चेत् — आधाराधेयभावेन
नदी ज्ञानशक्तथादीनामिया पृथक्र- सिद्धस्वरूप लाभः, शेषशेषिभावेन आत्माभिमानानुगुण- पुरुषार्थव्यवस्थानुसारेण स्वरूपानुरूपपुरुषार्थरुचिः, शेषशेषि- भावेन नियन्तृनियाभ्यभावेन च स्वरूपानुरूपपुरुषार्थानुरूप- निरपेक्षोपाय विशेषावगमध्च फलति । तदेभिरयं चेतनोऽनन्याधारोऽनन्य- प्रयोजनोऽनन्यशरणश्चेति सिद्धम् ।
(रहस्यत्रयेऽनन्याधारत्वाद्यनुसंधान स्थले प्रदर्शनम्)
अस्यार्थस्य प्रथमहस्ये स्थितत्वं कथमिति चेत्–
नारायणशब्दे
तत्पुरुषबहुव्रीहिसमासद्वय सिद्धधारकत्वव्या-
पकत्वादिभिरनन्याधारत्वादिविशिष्टस्वरूपलाभः । पारार्थ्य- पारतन्त्र्यगर्भ प्राक्तन पदद्वयेन अनन्यप्रयोजनत्वमनन्यशरणत्वं
प्रधानप्रतितन्त्राधिकार : ( 3 )
२५
फलति । प्रपश्यतुष्ठानप्रकाशके मन्त्ररत्ने पूर्वखण्डेनानन्यशरणत्व- मुत्तरखण्डेनानन्यप्रयोजनत्वं भागद्वयेनानन्याधारत्वं च प्रकाश्यते । एवं शाब्दतया आर्थतया च चरमश्लोकेऽप्ययं विभागो द्रष्टव्य. ।
एवं चरमश्लोके साध्योपायविशेषस्य
सिद्धोपाय वशीकरणार्थविहितस्य द्वयेनानुष्ठानसमयेऽनुसन्धेयतयाऽवश्या- पेक्षितान् सर्वान् अर्थान्, अस्थूलदर्पण इब स्थूलपदार्थान् संग्रहेण विशदं प्रकाशयति श्रीमन्त्रः ॥ (श्रीवादिहंसाम्बुदाचार्योक्तं मन्त्रार्थानुसन्धानस्यानुकूलं निदर्शनम् ).
अत्र प्रथमपदोदिता अर्था अर्जुनरथे, "" अग्रतः प्रययौ रामः" इति श्लोके च द्रष्टव्याः । द्वितीयपदे शब्दतोऽर्थस्वभावाच्च प्रतीयमानावर्थौ श्रीभरतस्य शत्रुघ्नस्य वृत्तान्तयोर्ज्ञातुं शक्यौ । “अहं त्वां विना नास्मि पश्य नारायण ! त्वं मां विना नासि" इत्य्-उक्त– नारायणशब्दार्थः कोसलजनपदस्यजन्तून् चक्रवर्तिश्रीकुमारं चोदा- हरणीकृत्य द्रष्टव्यः । पूर्वपदद्वयप्रतिपन्नकाष्ठा प्राप्तपारार्थ्यपारतन्त्र्य- मूलकं तृतीयपदस्थचतुर्थीविवक्षितं प्रार्थनीयं शेष्यभिमतं कैङ्कर्य बालस्वामिन" एतदवतारभूतपादुकायाश्च प्रवृत्तौ निवृत्तौ च विशदं ज्ञातुं शक्यम् । अयं श्रीमन्त्रार्थानुसन्धानस्योदाहरणतया श्रीवादिहं- साम्बुवाहाचार्यैरनुगृहीत उपायः ॥ अनया रीत्या द्वये चरमश्लोके च निहिता अर्था विशदमनुसन्धेयाः ।
1 ‘नान् उन्नै यत्रि इलेन कण्डाय नारणने नी एन्नै यत्रि यिलै’ (नान्मुहन्तिरुवन्तादि - 7 ) । 2 लक्ष्मणस्येत्यर्थः ।
२६
प्राधानप्रतितन्त्राधिकारः (3)
शेषशेषिभावस्य दासस्वामिभावे विश्रमणम्)
अत्रेश्वरे प्रकाशितं शेषित्वं चेतनाचेतनसाधारणधर्मत्वात् चेतनैकान्ते स्वामित्वरूपे विशेषे पर्यवसाय्यानुसन्धातुमुचितम् । एवं स्वगतं शेषत्वमपि सामान्यरूपत्वात् दासत्वरूपे विशेषे विश्रमय्यानुसन्धेयम् । अत्र सामान्यभूतः शेषशेषिभावः प्रथमाक्षरे चतुर्थ्या प्रकाश्यः । एतद्विशेषौ दासत्वस्वामित्वे द्वयोरपि चेतनत्वेन प्रकाशमानत्वादर्थसिद्धौ । एवं नारायणशब्देपि सामान्यविशेषौ द्रष्टव्यौ ।
( दासत्वस्वामित्व फलितार्थनिरूपणम्)
अत्र सामान्यभृतशेषत्वेन चेतनस्य प्राप्तः किञ्चित्कारो दासत्वरूपविशेषेण कैङ्कर्यरूपपुरुषार्थः संपद्यते । एवं शेषित्वप्रयुक्त ईश्वरस्यातिशययोगोऽपि स्वामित्वरूपविशेषेण तस्य पुरुषार्थ- रूपतया फलति । चेतनरक्षणे ईश्वरस्य प्राप्ततया (खतोधिकृततया ) शक्ततया च तदधीनप्रवृत्तिकतां विना चेतनानामनधिकृततया अशक्ततया चावस्थितेर्निबन्धनम्, ऐश्वरं निरुपाधिकशेषित्वं निरुपाधिकनियन्तृत्वश्च, चेतनानां निरुपाधिकशेषत्वं निरुपाधि- कनियाम्यत्वं च । स्वामिना स्वीयवस्तुनो रक्षणं समर्थेनासमर्थस्य रक्षणं च प्राप्तं (उचित) किल । रक्षणसमये कर्मवश्यानामुपाय- विशेषे प्रवर्तनपूर्वकरक्षणमीश्वरस्य स्वसंकल्पनियतम् ॥
प्रधानप्रतितन्त्राधिकारः ( 3 )
२७
(अधिकारार्थसंग्राहकगाथा )
2 (गाथा) स्थितिप्रदः सन् धारकः, नियामक: सन् ईश्वरः, अस्वभूतं न किञ्चिदित्येवं सर्वं स्वकीयमित्यभिमन्ता सन् स्वामी च भवन् निरुपम इत्येवं स्थितो यः, तस्य तुलसीभूषित किरीटस्य (मौले :) शरीर- भूता वयं मूल्यं ( शुल्कं) विनैव दासभूता इति वैदिकाभिमतः तात्त्विकोऽर्थः ॥
(उपसंहारपद्यम्)
1
यद्येतं यतिसार्वभौमकथितं विद्यादविद्यातमः प्रत्यूपं प्रतितन्त्र मन्तिमयुगे कश्चित् विपश्चित्तमः । तत्रैकत्र झटित्युपैति विलयं तत्तन्मतस्थापना- हेवाकप्रथमान हेतु ककथा कल्लोलकोलाहलः ॥
इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद् रहस्यत्रये प्रधान प्रतिन्त्राधिकारः तृतीयः ॥
-0-0-
2 निलै तन्दधारकनाय् नियमिक्कुमिरैवनुमाय इलदोत्रिलावहै येल्लां तनदेनु मेन्देयुमाय तुलैयोत्रिले येन नित्र तुड़ाय मुडियानु- डम्बाय विलैयित्रि नामडियोमेन वेदियर मेय्पोरुळे ।